ⓘ सिन्धूनदी. सिन्धुः प्राचीनभारतस्य दीर्घतमा नदी । सिन्धुः मानससरोवरस्य समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस ..

                                     

ⓘ सिन्धूनदी

सिन्धुः प्राचीनभारतस्य दीर्घतमा नदी । सिन्धुः मानससरोवरस्य समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः शुतुद्री, इरावती, चन्द्रभागा, विपाशा, वितस्ता, कुभादयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी आसीत् । अस्याः तीरे अनेकानि राज्यानि स्थापितानि आसन् । सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च

                                     

1. जन्तवः

सिन्धुनद्याम् अन्धाः शिशुमाराःPlatanista gangetica minor वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषाः च पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।

                                     

2. पौराणिकता

सिन्धुः इत्येषः संस्कृतशब्दः नदी,प्रवाहः,सागरः इत्यादीन् अर्थान् बोधयति । एतां नदीं विदेशीयाः इण्डस् नदी इति निर्दिशन्ति । किन्तु सिन्धुनदी इत्येव प्रादेशिकाः व्यवहरन्ति । ऋग्वेदे १७६वारं सिन्धुनद्याः उल्लेखः कृतः दृश्यते । तेषु ९५ वारं बहुवचने प्रयोगः कृतः दृश्यते । बहुधा विशिष्टार्थे एतस्य प्रयोगः कृतः दृश्यते। अग्रे प्रयुक्तेषु श्लोकेषु केवलमं नद्यर्थे एतस्य प्रयोगः दृश्यते । उदाहरणार्थं नदीस्तुतिसूक्ते सिन्धुशब्दस्य प्रयोगः पुँल्लिङ्गे कृतः दृश्यते । ऋग्वेदे प्रयुक्ताः इतराः नद्यः सन्ति । सिन्धुः नदः अस्ति । न केवलं व्याकरणरीत्या अपि च नदीदेवता इति उल्लेखं कुर्वन्तः क्षीरदात्रिभिः धेनुभिः अश्वाभिः च तोलनं कृतं दृश्यते । सिन्धुशब्दः पर्शियन् भाषया हिन्दुः इति अभवत् । फलकम्:Lang-grc Indós ल्याटिन् भाषया तस्य उच्चारणम् इन्डस् इति जातम् । मेगास्थनीसस्य इण्डिका पुस्तके इण्डस् शब्दस्य प्रयोगः दृश्यते । अलेक्झाण्डरः एतां नदीं क्रान्तवान् आसीत् इतिThe word Sindhu became Hindu in प्राचीनग्रीकजनाः सिन्धुनद्याः अपरतीरे वसतः जनान् इण्डस् प्रदेशस्य इण्डोयी इति निर्दिष्टवन्तः सन्ति ।