ⓘ जम्मूकाश्मीरराज्यम्. जम्मूकाश्मीरराज्यं भारतदेशे उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च केन्द्रप्रशासितः प्रदेशः । पूर्वदेशस्य ‘वेनिस्’ इति एतत् प्रदेश ..

                                     

ⓘ जम्मूकाश्मीरराज्यम्

जम्मूकाश्मीरराज्यं भारतदेशे उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च केन्द्रप्रशासितः प्रदेशः । पूर्वदेशस्य ‘वेनिस्’ इति एतत् प्रदेशं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । देहलीनगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । जहाङ्गीरः बादशाहः काश्मीरं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।

काश्मीरः तु भारतदेशस्य प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते । भारतस्य वायव्यवलये काश्मीरप्रदेशः भासते । १९तमशतकस्य मध्यकाले, हिमालयस्य तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति । अद्यत्वे तु भारतस्य सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । काश्मीरं, जम्मू तथा लडाख् उपत्यकाः अत्र अन्तर्भवन्ति । पाकिस्तानस्य शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, चीनशासने विद्यमानः अक्साय् चीन तथा ट्रान्स-करकोरम्, ट्राक्ट प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयःतान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत् । गच्छताकालेन बौद्धधर्मस्य केन्द्रं जातम् ।

                                     

1. इतिहासः

नवमे शतके अस्मिन् प्रदेशे काश्मीरस्य शैवधर्मस्य उत्पत्तिरभूत् इति श्रूयते । १३४९ तमे संवत्सरे षाह् मीर् नामकः यवनराजः अस्य प्रदेशस्य शासनमकरोत्। अयमेव सलाटिन्-इ-काश्मीर् रेखाम् उद्घाटितवान् । अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः । तेषु १७५१ तमे संवत्सरे मुगलाः शासितवन्तः। १८२० तमे संवत्सरे अफ्घानिस्तानस्य दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे रणजित् सिंहस्य नायकत्वे सिख्खमतीयाः अमुम् प्रदेशं जितवन्तः । दर्दरस्य मूलं जलात् आगतम् इति नीलमातापुराणे वर्णितम् अस्ति । पुराणोक्तरीत्या का इत्यस्य जलम् अर्थः। श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, काश्मीरः पदस्य अर्थः इति अनेन पुराणोक्तार्थेन ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव काश्मीरः इत्यपरो सिद्धान्तः अस्ति । अयमेव अभिप्रायः जनानाम् आधुनिकानाम् । आदिकाले काश्यपॠषिः सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार । अतः काश्मीरः इति व्यवहारः पूर्वम् आसीदिति । अयं दर्दरः उमायाः साकाररूपमिति परिगणय्य अस्य प्रदेशाय काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति । अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति । काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति औरेल् स्टीन् राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति ।१२तमे शतमाने कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके राजतरङ्गिणी नामके ग्रन्थे काश्मीरः सरोवरः आसीत् इति, अस्य आशयः।

                                     

2. हिन्दूधर्मः बौद्धमतं च

श्रीनगरं नामकं नगरसंस्थापितकीर्तिः मौर्यवंशस्य अशोकस्य भवति। अस्मिन् काले सर्वाष्टिवादनशालायाः प्राबल्यमासीत् । एषा पाठशाला एकस्मिन् काले बौद्धधर्मस्य अध्ययनस्य केन्द्रमासीत् । पूर्वदक्षिणएष्याखण्डयोः बौद्धयतयः काश्मीरराज्याय आगताः इत्यस्मिन् अंशे प्रमाणानि सन्ति । ४ शतमानस्य अन्तिमे काले, भारतीय सत् कुटुम्बे सुप्रसिद्धस्य कुचासन्यासिः कुमारजीवः अजायत । काश्मीरे बन्धुदत्तस्य मार्गदर्शने दीर्घागमं तथा मध्यागमं शास्त्रं अधीतवान् । अयमेव समर्थः भाषानुवादको भूत्वा बौद्धधर्मं चीनदेशम्प्रति नयने साहाय्यम् अकरोत् । अस्य माता जीवा काश्मीरे एव आसीत् इति । विमलाक्षः नामक कश्चित् बौद्धसन्यासिः काश्मीरात् कुचाप्रदेशाय प्रस्थितः । तत्र विनयपीठे कुमारजीवाय बोधितवान् । ८ शतमानस्य अन्ते उत ९ शतमानस्य आरम्भेवा आदिशङ्कराचार्याः शारदापीठाय आगताः आसन् । अस्य देवालयाय चत्वारि द्वाराणि सन्ति । चतुर्भिः दिग्भिः द्वारैः पण्डितेभ्यः आगमनाय व्यवस्था कृता आसीत् । इमम् अंशं माधवीय शङ्करविजयम् इति कृतिः सूचयति । दक्षिणद्वारं पिहितम् आसीत् । अनेन ज्ञायते यत् दाक्षिणात्येषु न कश्चित् प्रविष्टःइति । मीमांसा तथा वेदान्तादि शास्त्रेषु तत्रत्यैः विद्वद्भिः सह वादं कृत्वा, विजयं प्राप्तवान् । दक्षिणद्वारस्य उद्घाटनम् अकरोत् । अस्य देवालयस्य इन्द्रियातीत ज्ञानसिंहासनम् आरोहणं कृतवन्तः। अभिनवगुप्तः भारतीय दार्शनिकेषु प्रसिद्धः। अयम् अनुभाविकेषु तथा सौन्दर्य मीमांसकेषु एकः । एनं कश्चित् प्रमुखः सङ्गीतज्ञः, कविः, नाटककारः, भाष्यकारः, देवताशास्त्रज्ञः तथा तर्कचतुरः इति परिगणितमस्ति । ईदृशस्य भारतस्य संस्कृतेः उपरि प्रभावः आसीत् । काश्मीरस्य दर्दरस्य पण्डितानां तथा अनुभाविकानां कुटुम्बे जातोयम् पञ्चदशादिकगुरुभिः मार्गदर्शनम् स्वीकृतवान् । अस्य कालीन तत्वशास्त्रं तथा कलाः तेन अधीताः। अनेन रचिताः ग्रन्थाः ३५ भवन्ति। एतेषु तन्त्रलोकः सुप्रसिद्धः तथा बृहद्ग्रन्थश्च भवति । भरतमुनेः नाट्यशास्त्रस्य अभिनवभारति व्याक्य़ा सौन्दर्यमीमांसातत्वशास्त्रस्य सुप्रसिद्धा एषा व्याख्या।

                                     

3. यवनशासनम्

काश्मीरस्य यवनहैन्दवयोः जनयोः सौहर्दभावना आसीत्। कुतश्चेत्, काश्मीरस्य यवनाः अनुष्ठीयमानः सूफि-महम्मदीय जीवनमार्गः, तथा काश्मीरस्य पण्डितानां ॠषिसम्प्रदायस्य पूरकम् आसीत् । सर्वान् साधुजनान् हैन्दवाः यावनाश्च श्रद्धया पूजयन्तिस्म । एकस्मिन्नेव पवित्रस्थले हैन्दवाः यवनाः स्वस्व देवान् उद्दिश्य प्रार्थयन्तिस्म । समन्वयभावस्य गन्धः सर्वत्र प्रसरितमासीत् । अस्मिन् समये रिञ्चन् षा कश्चर् लडाख् प्रदेशस्य राजकुमारः आसीत् । एनं महम्मदीयः श्रेष्ठः सूफिसन्तः बुल् बुल् षा महम्मदीय सम्प्रदाये मतान्तरितवान् । बुल् बुल् षा सूफियाना संस्कृतेः संस्थापनाय कारणीभूतः जातः। गच्छताकालेन सूफियाना शासनम् यवनसार्वभौमेभ्यः अनुकूलं जातम् । सुल्तान् झैन्-उल्-अबिदिन् सा.श.१४२३-१४७४वर्षाणि सदृशाः काश्मीरस्य शासकाः अक्बरः इव सर्वधर्मसहिष्णवः आसन् । तथापि, काश्मीरस्य केचन यवनशासकाः परधर्मसहिष्णवः नासन् । एतेषु अन्यतमः भवति काश्मीरस्य सुल्तान् सिकन्दर् बट्षिकान्सा.श.१३८९-१४१३वर्षाणि अत्यन्तः दुष्टः इति परिगणितमस्ति । ऎतिह्यकारैः अस्य दुष्कृत्यानि निरूपितानि सन्ति । अयं हिन्दुजनान् पीडितवान्, एवं कश्मीरराज्यं विहाय अन्यत्र गन्तुम् आदेशं दत्तवान् इति तारीख्-इ-फरिश्ता ग्रन्थे निरूपितं दृश्यते । सुवर्णरजतयोः मूर्तीः भञ्जयन्तु इति आदिश्टवान्, अस्मिन् विषये अपि पूर्वोक्तग्रन्थे एव निरूपितमस्ति। अस्मिन्नेव ग्रन्थे निरूपिताः अंशाः अत्र नीरूप्यन्ते । हैन्दवाः स्वधर्मस्य त्यागः कर्तव्यः, अन्यथा देशान्तरं गन्तव्यम् इति । तदा हैन्दवाः भीताः, केचन विषपानं कृतवन्तः, केचन पलायिताः । यदा हैन्दवरहितं प्रदेशं जातं तदा तत्रत्य देवालयानां नाशाय आदिष्टवान् । काश्मीरे विद्यमानाः मूर्तीः नाशं कृत्वा विग्रहभञ्जकः इति उपादिभाजः जातः। काश्मीरस्य चरित्रलेखाः राजतरङ्गिण्यां दृश्यन्ते । काश्मीरस्य चरित्रस्य चत्वारः विवरणग्रन्थाः सन्ति । अयं राजतरङ्गिणी विद्यमानेषु प्रथमः स्पष्टः ग्रन्थः । पूर्वतन कालीन सम्प्रदायस्य व्याख्यानादारभ्य सङ्ग्रामदेवस्य शासनसमयपर्यन्तम् अस्मिन् ग्रन्थे विवरणानि दृश्यन्ते । जोनराज्ञा रचितः द्वितीयः ग्रन्थः भवति । कल्हणेन यस्मिन् भागे विरमितवान्, ततः अग्रे अयं लिखति । यवनशासनं प्रविश्य, झैन्-उल्-अब्-अद्-दीन् १४१२ वर्षपर्यन्तं शासनविवरणानि उल्लिखितानि । तृतीयः ग्रन्थः पि.श्रीवरेण रचितः। सा.श.१४८६ तमे संवत्सरे फाह्-षाह् अस्य शासनकालस्य विषये ग्रन्थः विशदीकरोति । प्राज्ञियाभट्टेन रचितः राजावळि नामक ग्रन्थः चतुर्थः भवति । सा.श.१५८८ तमवर्षस्य मुगल चक्रवर्तेः अक्बरस्य शासनं तथा काश्मीरप्रदेशः अस्य शासने आगतसमयपर्यन्तं सम्पूर्णम् अस्मिन् ग्रन्थे लिखति।



                                     

4. सिख्खशासनं राजसंस्थानानि च

१९ तमे शतमानारम्भे अफ्घानिस्तानस्य दुरानि चक्राधिपतीनाम्,मुगलानाञ्च ४ शतमानात् यवनशासनात् सिख् सैनिकाः काश्मीरम् आक्रमणं कृतवन्तः। पूर्वं १७८०तमे संवत्सरे जम्मूप्रदेशस्य राज्ञः रणजित् देवस्य मरणानन्तरम्, जम्मूराज्यं लाहोर देशस्य रणजित् सिंहस्य नायकत्वे सिख् जानाः आक्रमणं कृतवन्तः। ततः परं १८४६ तमे वत्सरे अयं भागः अधीनराज्यत्वेन परिगणितम् । अनन्तरं रणजित् देवस्य दौहित्रः गुलाब् सिंहः रणजित् सिंहस्य आस्थाने सेवावकाशं प्राप्तवान् । १८१९ तमे वत्सरे काश्मीरदर्दरस्य आक्रमणावसरे अस्य महत्वं पात्रम् आसीत् । अस्य शौर्यं दृष्ट्वा जम्मू राज्यस्य मण्डलाधिपतित्वेन योजितवन्तः। झोरवर् सिंहस्य सहाय्येन जम्मूराज्यस्य पूर्वईशान्य दिशोः लडाख् तथा बाल्टिस्तान् प्रदेशयोः अल्पे काले आक्रान्तवान्। १८४५ तमे संवत्सरे प्रथमं आङ्ग्लो-सिख् युद्धम् आरब्धम् । १८५७ तमे संवत्सरे गुलाब् सिंहस्य मरणं जातम् । अनन्तरम् अस्य पुत्रेण रणबीर् सिंहेन हञ्झागिल् गिट् तथा नगर् प्रदेशौ अमीरस्य शासनप्रान्तौ आक्रान्तौ ।

                                     

5. काश्मीरदर्दरः

काश्मीरदर्दरः हिमालयस्य पर्वतश्रेणेः तथा पीर् पञ्जाल् श्रेणेश्च मध्ये विद्यमानदर्दरः। अयं प्रायः १३५ कि.मि. दैर्घ्यं तथा ३२ कि.मि वैशाल्यञ्च अस्ति । झेलं नद्या निर्मितम् । भूमौ विद्यमानः स्वर्गः इति राज्ञा जहाङ्गीरेण उक्तमासीत्। सद्यः काले अत्र ४ दशलक्षजनाः वसन्ति। यवनाः अधिकाः सन्ति । भारतसार्वकारस्य शासने जम्मूकाश्मीरौ भवतः। श्रीनगरं प्रमुखं नगरं तथा ग्रीष्मकालीनराज्यधानिः अपि भवति । अनन्तनाग्, बारामुल्ला प्रमखनगरे भवतः। विवादकारणेन १९८९ तः सशस्त्रयुद्धं अत्र दृश्यते । गुल् मार्ग, दाल् सरोवरः, पहल् गाम्, अमरनाथः इत्यादीनि अत्रत्य प्रेक्षणीयस्थलानि भवन्ति ।

                                     

6. संस्कृतिः पाकश्च

दम् आलू, झमान्, रोगन् जोश्, झाम् डोड्,हाक्, याखाय्न्, हाक्, रिस्टा-गुश्टावा इत्यादीनि खाद्यानि प्रसिद्धानि । प्रसिद्धेषु साम्प्रदायिकेषु उत्सवेषु वाज्वान् अन्यतमः उत्सवः भवति ।अस्मिन् उत्सवे विविधशाखान्, मांसानिच उपयुज्य विविधान् पाकान् कुर्वन्ति । प्रायः विशिष्य अजमांसस्य उपयोगं कुर्वन्ति । मद्यपानीयस्य तथा गोमांसस्यच उपयोगं प्रायशः अत्र अधिकतया न कुर्वन्ति । अस्मिन् प्रान्ते चायपेयं द्विधा निर्मान्ति । नन् चाय् अथवा लवण मिश्रितं चायपानीयं सुप्रसिद्धं जनप्रियञ्च भवति । उत्सवादि सन्दर्भेषु केसरं तथा साम्बरपदार्थान् मेलयित्वा काह् वाह् इति चायपानस्य निर्माणं कुर्वन्ति ।



                                     

7. अर्थव्यवस्था

कृषेः उपरि काश्मीरस्य अर्थव्यवस्था अवलम्बिता अस्ति । तण्डुलम् अस्य प्रान्तस्य साम्प्रदायिकः फलचयः । तण्डुलम् अत्रत्यानां मुख्य़म् अहारम् । अनेन सह स्तम्बकरिम्, गोधूमम्, शतपर्विकाम् अत्रत्यफलचयाः भवन्ति । शतावरी, कन्दाः, पुष्पशाकम्, पर्णपुष्पम् इत्यादीनि भवन्ति । अत्रत्य विशेषेभ्यः पलचयेभ्यः समशीतोष्णवातावरणस्य आनुकूल्यता वर्तते । सेबफलम्, पीच् फलम्, चेरिफलम्,अक्रोड् इत्यादीनि फलानि अस्मिन् प्रदेशे विद्यमानानि । देवदारुः,भद्रदारुः, पीतदारुः चेनार् प्लेन्, मेपल्, भूर्ज, काश्मीरफलवृक्षः तथा चेरि इत्यादयाः वृक्षाः अत्र दृश्यन्ते । अन्येभ्यः देशेभ्यः इतः ऊर्णं यदा प्रेशितवन्तः तदा विश्वस्मिन् विश्वे काश्मीरः प्रसिद्धः जातः। वयनम्,पाश्मिना उपवस्त्रकरणम्, कौशेयरत्नकम्बलकरणम्, इत्यादीनि कार्याणि प्रसिद्धानि भवन्ति । २००५ तमे संवत्सरे भूकम्पनं जातम् । अस्मिन् सन्दर्भे नष्टाधिख्यं जातम् । भारतशासनप्रदेशे हैड्रोकार्बन् सहिताः पर्वाताः सन्तीति।

                                     

8. काश्मीरस्य प्रवासोद्यमस्य इतिहासः

१९ तमे शतमानस्य शासनकाले काश्मीरः स्वरम्यवातावरणस्य बलेन सुप्रसिद्धं प्रवासिस्थलत्वेन परिगणितम् । सार्वकारस्य पक्षतः २०० अनुमतिपत्राणि यच्छन्तिस्म । नकेवलं भारतीयाः किन्तु वैदेशिकाः अधिकसंख्यकाः अद्यापि आगच्छन्ति । काश्मीरदर्दराय प्रवेशाय रावल्पिण्डि धूमशकटमार्गः तथा श्रीनगरमर्गश्च सुलभं कुरुतः। तापाधिक्यं यदाऽत्र सञ्जायते तदा गुल् मार्ग प्रदेशाय प्रव्रज्यन्ते । आङ्ग्लजनानां शासनकाले सुन्दरं निसर्गधामम् आसीत् । रावल् कोट् प्रदेशोऽपि सुप्रसिद्धं प्रवासिस्थानकं भवति ।

                                     

9. प्रकृतिरमणीयः

भारतदेशे उत्तरभागे स्थितं जम्मुकाश्मीरं पर्वतप्रदेशेषु स्थितं विशिष्टं राज्यमस्ति । अस्य देशस्य मुकुटमिव विराजते । भारतस्य निराभरणसुन्दरी पूर्वदेशस्य वेनिस् इति विश्वे सर्वत्र कथयन्ति । मोगलवंशीयानां निदाघकालीनविश्रान्तिस्थानमासीत् । देहलीनगरे प्रशासनं कृतवन्तः सर्वे निदाघसमये अत्रागत्य विरमन्ति स्म । जहाङ्गीबादशाहः काश्मीरराज्यं मोददरी Happy Valley इति वदति स्म । सः स्वान्तियसमये अत्रैव स्तितवान् । एते मोगलचक्रवर्तिनः एव अत्र शालिमारः निशात् नर्गीस् इति विलासवाटिकाः निर्मितवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।

                                     

9.1. प्रकृतिरमणीयः श्रीनगरम्

श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते । श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।



                                     

9.2. प्रकृतिरमणीयः विमानमार्गः

चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।

                                     

9.3. प्रकृतिरमणीयः धूमशकटयानसम्पर्कः

देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।



                                     

9.4. प्रकृतिरमणीयः वाहनमार्गः

पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।

                                     

9.5. प्रकृतिरमणीयः जम्मुनगरम्

जम्मू भारतस्य जम्मूकाश्‍मीरस्य द्वितीय राजधानी अस्‍ति । जम्मूकाश्मीरराज्यस्य द्वितीयं महत् पत्तनमेतत् । पर्वतप्रदेशे स्थितम् अतीव सुन्दरं स्थानम् एतत् अस्ति । मार्गे पर्वताः, शिखराणि, प्रपाताः, नद्यः, नालाः च मनमोहकानि सन्ति । हिन्दुजनानां देवालयाः अत्र अधिकसङ्ख्यया सन्ति । श्रेष्ठं प्रवासिस्थानम् एतत् । जम्मूनगरस्य मध्यभागे रघुनाथमन्दिरमस्ति । क्रिस्ताब्दे १८३५ तमे वर्षे निर्मितम् एतत् मन्दिरम् अतीवविशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्ती स्तः । भूमौ लक्षशः सालिग्रामाः सन्ति । राजा रणबीरसिङ्गः एतत् निर्मितवान् । रणवीरेश्वरमन्दिरे षट्पादमितानि ११ बाणलिङ्गानि, ११ स्फटिकलिङ्गानि च सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे १८८३ तमे वर्षे अस्य निर्माणमभवत् । गान्धिभवने डोग्राकलासङ्ग्रहालयः अस्ति । अत्र सुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्या निर्मितम् अमरमहल् राजगृहं नगरात् बहिः अस्ति । अत्र अपि चित्र सङ्ग्रहालयः अस्ति । जम्मूतः ३५ कि.मी दूरे पर्वतप्रदेशे वैष्णोदेवीदेवालयः अतीवसुन्दरः अस्ति । जनाः अत्र समुद्ररुपेण नामस्मरणं कुर्वन्तः पर्वतारोहणाय सोपानमार्गेन गच्छन्तः भवन्ति ।" जय माता की” घोषणा सर्वत्र श्रोतुं शक्या । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः दृश्यवीक्षणम् अतीवानन्दाय भवति । जवाहरसुरङ्गमार्गः जम्मुतः २०० कि.मी श्रीनगरतः ९३ कि.मी दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणात् गमनकालः ह्रस्वः अभवत् । पहलगांव – सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा ४७ कि.मी दूरे अस्ति।



                                     

9.6. प्रकृतिरमणीयः पहलगांव

सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा ४७ कि.मी दूरे अस्ति।

                                     

9.7. प्रकृतिरमणीयः गुलमार्गः

’Meadow of flowers’, स्विट्झर्ल्याण्ड् आफ् इण्डिया’ इति प्रख्यातम् एतत् स्थानं जहाङ्गीरस्य प्रियं स्थानम् आसीत् । पूर्वम् अस्य स्थलस्य गौरीमार्ग इति नाम आसीत् । अत्र हरितकटः प्रसारितः इव तृणावृतप्रदेशः सदा हरिद्वर्णेन भवति । वनपुष्पाणि अत्र सुन्दराणि सन्ति । सागरस्तरतः २७३० मीटर् उन्नतप्रदेशे एतत् स्थलमस्ति । युवानः अत्र पर्वतारोहणं कुर्वन्ति । अल्पथेरसरोवरं, बीड् चीनार वृक्षाः हिमे स्केटिङ्ग्, स्कीयिङ्ग्, ‘पोनी’ उपरि ट्रेकिङ्ग इत्यादीनि अतीवरमणीयानि ।

                                     

9.8. प्रकृतिरमणीयः सोनमार्गः

सोन्मार्गस्थाने अपि अतीवसुन्दरदृश्याणि द्रष्टुं शक्यन्ते । सागरस्तरतः २७४० मीटर् उन्नतः प्रदेशः अयम् ।अत्र वनपुष्पाणि अतीव सुन्दराणि सन्ति । पिर् पैन इत्यादि वृक्षाणां स्थानम् इदम्। वन पुष्पाणि भूमौ विकीर्णानि भवन्ति । पर्वतारोहणम् अत्र अतीवानन्ददायकं भवति । श्रीनगर ८४ कि.मी दूरे श्रीनगर-लडाख् मार्गे एतदस्ति ।

                                     

9.9. प्रकृतिरमणीयः कालः

जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।

                                     

9.10. प्रकृतिरमणीयः ३७० विधेः निरस्तीकरणम्

२०१९ तमे वर्षे आगस्ट् मासस्य ५ दिनाङ्के राज्यसभायां ३७० विधेः निरस्तीकरणार्थं गृहमन्त्रिणा अमितशावर्येण प्रस्तावः कृतः। स च प्रस्तावः अङ्गीकृतः। जम्मुकाश्मीरं पृथक् केन्द्रशासनप्रदेशः, लडाख् इति पृथक् केन्द्रशासितप्रदेशः भवेत् इत्यपि प्रस्तावः कृतः।

                                     
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त अनन तन गमण डलम अस य मण डलस य क न द रम अस त अनन तन गनगरम
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त उधमप रमण डलम अस य मण डलस य क न द रम अस त उधमप रम
  • भ रतस य उत तरभ ग स थ त र ज यम अस त जम म क श म रर ज यम अत रत य मण डलम अस त क स त व रमण डलम अस य मण डलस य क न द रम अस त क स त व रनगरम
  • भ रतस य उत तरभ ग स थ त र ज यम अस त जम म क श म रर ज यम अत रत य मण डलम अस त अनन तन गमण डलम अस य मण डलस य क न द रम अस त अनन तन गनगरम
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त क र ग लमण डलम अस य मण डलस य क न द रम अस त क र ग ल
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त ल हमण डलम अस य मण डलस य क न द रम अस त ल ह
  • भ रतस य उत तरभ ग स थ त र ज यम अस त जम म क श म रर ज यम अत रत य मण डलम अस त उधमप रमण डलम अस य मण डलस य क न द रम अस त उधमप रम नगरम
  • भ रतस य उत तरभ ग स थ त र ज यम अस त जम म क श म रर ज यम अत रत य मण डलम अस त र ज र मण डलम अस य मण डलस य क न द रम अस त र ज र नगरम
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त र मबनमण डलम अस य मण डलस य क न द रम अस त र मबन
  • भ रतस य क ञ चन र ज यम अस त जम म क श म रर ज यम अस म न र ज य क ञ चन मण डलम अस त ब र म ल मण डलम अस य मण डलस य क न द रम अस त ब र म ल