ⓘ बेङ्गळूरु. बेङ्गलूरु ಬೆಂಗಳೂರು नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि । बेङ्गळूरुनगरमण्डल ..

महाराज जयचामराजेन्द्र वडियर्

जयचामरज वडियर् महोदय: १९१९ तमे वरषे जुलै मासस्य अश्टादशतमे दिवसे संजात:। एष: युवराज: कण्टीरव नरसिंहराज वडियर् युवराणि केम्पुचेलुवजम्मण्णि तयो: अपत्य:। अस्य विद्याभ्यासं मैसूरु नगरस्य महारजास् कालेज् मध्ये अभावत्। अस्य पितृव्यस्य नाल्वडि श्रिकृष्णराज वडियर् महोदयस्य मृत्योरनन्तरम् जयचामराज महोदयेन १९४० तमे वर्षे सेप्तेम्बर् मासस्य अष्टमे दिने मैसूरु राजसंस्थनस्य राजसिंहासनम् आरुह्यते। पश्चात् १९४४ तमे वर्षे महोदय: महाराणीं त्रिपुरसुन्दरी अम्मण्णीं विवाहितवान्। यदा १९४७ तमे वर्षे भरतदेश: परतन्त्रात् मुक्तो अभवत् सार्वभौमत्वम् त्यक्त्वा प्रजातन्त्रम् प्रति उपकर्तुम् प्रथम: जयचमराज वडियर् महोद ...

आवरणम् (पुस्तकम्)

आरवरणम् इति २००७ तमे वर्षे प्रकाशितः कश्चन कन्नड-कथाग्रन्थः वर्तते। एस् एल् भैरप्प अस्य ग्रन्थस्य च लेखकः। आवरणमिति पदम् आवृ धातुनिष्पन्नं, यस्य चार्थः अपह्नुतम् आवृत्तं वा। मुघलसम्म्राट् औरङ्गजेब अस्मिन् ग्रन्थे प्रामुख्येन उपख्यातः। आवरण ग्रन्थस्य प्रथमसंस्करणस्य सर्वाः प्रतयः प्रकाशनात् प्रागेव विक्रीताः आसन् पञ्चमासाभ्यन्तरे १० मुद्रण-संस्करणानि जातानि आसन्, अतः भारतीयसाहित्येतिहासे अयं ग्रन्थः निदर्शनरूपेन स्थितः। एस् एल् भैरप्प-महोदयस्य अन्यपुस्तकमिव आवरणमपि प्रसिद्धिं गता। परन्तु बहुवाद-विवाद-चर्चानां केन्द्रमपि जातमिदं पुस्तकं, यथा चान्यानि पुस्तकानि। केचन प्रसिद्धानां बुद्धिजीविना ...

                                     

ⓘ बेङ्गळूरु

"बेङ्गलूरु" ಬೆಂಗಳೂರು नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम् । एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम् । अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति । बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति । बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति ।

                                     

1. शब्दव्युत्पत्तिः

पुराणेषु अस्य नगरस्य नाम कल्याणपुरी अथवा कल्याणनगरी इति उल्लिखितं ह्श्यते । आङ्ग्लेयानाम् आगमनानन्तरम् अनेन नगरेण बेङ्गलूरु’ इति नाम प्राप्तम् । बेङ्गलूरु समीपे प्राप्तेन शिलालेखेन ज्ञायते यत् -१००४ वर्षपर्यन्तम् एतत् बेङ्गलूरुनगरं गङ्ग’राजवंशस्य शासनान्तर्गतम् आसीत् । १०१५ तः १११६ वर्षपर्यन्तं तमिळुनाडुराज्यस्य चोलवंशीयाः अत्र शासनम् अकुर्वन् । अनन्तरम् अत्रत्यं शासनं होयसल’राजवंशीयानां हस्तगतं जातम् । एवं मन्यते यत् आधुनिकबेङ्गलूरुनगरस्य संस्थापनं १५३७ तमे वर्षे विजयनगरसाम्राज्यस्य परिवर्तनकाले सञ्जातम् इति । विजयनगरसाम्राज्यस्य पतनानान्तरं बेङ्गलूरुनगरस्य शासनाधिकारः बहुवारं परिवर्तितः । अन्ते १७९९ तमे वर्षे जाते चतुर्थे आंगलो-मेसूरु-युध्दे टिप्पुसुल्तानस्य मरणानन्तरं बेङ्गलूरुनगरस्य शासनम् आङ्ग्लेयानां हस्तगतम् । ते अत्रत्यं शासननियन्त्रणाधिकारं मैसूरुमहाराजेभ्यः अयच्छन् । ततः तेषां मैसूरुमहाराजानां राजधानी १८३१ तमे वर्षे बेङ्गलूरुनगरं सञ्जातम् । ११ शतके होयसलराजा द्वितीयः वीरबल्लालः कदाचित् मृगयार्थं गतः मर्गभ्रष्टः भवति अरण्ये । तत्र सः कस्याश्चित् वृद्धायाः कुटीरं प्राप्नोति । तदा सा पंक्तांनि धान्यानि भोजयति तम् । अतः कृतज्ञतापूर्वकं तस्य स्थानस्य नाम बेन्द-काळूरु’ इति कृतं तेन राज्ञा । Benda-पक्वानि kaloo-धान्यानि = Benda-kalooru तदेव नगरं कालान्तरे बेङ्गलूरु’ जातम् इत्यपि श्रूयते ।खतं

बेङ्गळूरु बेङ्घो बेङ्खितं

                                     

2. इतिहासः

क्रि.श. १५३७ वर्षे केम्पेगौडमहाराजेन निर्मितम् अस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि देवरायनदुर्गे भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म । अतः "बेङ्गावलूरु" इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गलूरु इति परिवर्तितम् इति प्रतीतिरस्ति ।

                                     

3. भौगोलिकस्तिथिः

बेङ्गलूरुनगरं समुद्रस्तरात् ९००कि.मी. उन्नतस्तरे वर्तते । भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सें तः २५सें पर्यन्तं भवति । सदाशिवनगरे स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहल्ली अत्यवनतं स्थलम् अस्ति । बेङ्गलूरुनगरं कर्णाटकस्य दक्षिणपूर्वभागे वर्तते । १२.९७ डिग्री उत्तर- अक्षांशे तथा ७७.५६ डिग्री पूर्व-रेखांशोपरि स्थितमस्ति एतत् नगरम् । बेङ्गलूरुजनपदस्य उत्तरपूर्वदिशि कोलार-जनपदः, उत्तरपश्चिमदिशि ‘तुमकूरु’-जनपदः, दक्षिणपश्चिमदिशि ‘मण्ड्य’-जनपदः, दक्षिणे ‘चामराजनगर’-जनपदः तथा च दक्षिणपूर्वदिशि तमिळुनाडुराज्यम् अस्ति । बेङ्गलूरुनगरं समुद्रस्तरापेक्षया ९०० मी. परिमितम् उपरि अस्ति । बेङ्गलूरुनगरे सदा शीतलं वातावरणं भवति । षोडशे शतके केम्पेगौडः अस्य नगरस्य जलव्यवस्थार्थं बहुविधानां तडागसरोवारादीनां निर्माणं कारितवान् आसीत् । तेषु केम्पाम्बुधितडागः, मडिवाळसरोवरः, हेब्बाळसरोवरः, अलसूरुसरोवरः, स्यांकिजलागारः इत्यादयः प्रमुखाः । किन्तु अद्य बेङ्गलूरुनगरं प्रति ८०% जलं "कावेरीनदी" व्यवस्थापयति ।



                                     

4. संस्कृतिः शिक्षा च

कलावैविध्यम्, जननीवनवैविध्यं च अस्य नगरस्य वैशिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्ती अस्ति । भारतीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूट् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहोः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति ।

अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं "कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रत्यानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियो बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थपनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यते । एतद्विषये जनाः संस्थाः च जागरिताः अपि सन्ति ।

                                     

5. नगरस्य वैशिष्ट्यानि

बेङ्गलूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातं १९०६ तमे वर्षे । बेङ्गलूरुनगरस्य HAL विमाननिस्थानकं भारतस्य चतुर्थं कार्यव्यग्रं विमानस्थानकम् । २००८ तमवर्षस्य मेमासस्य २४ तमदिनाङ्कात् बेंङ्गलूरुनगरे नूतनतया निर्मितम् अन्ताराष्ट्रियं विमाननिस्थानकमपि कार्यारम्भमकरोत् । बेङ्गलूरुनगरे प्रमुखं रेल् स्थानकद्वयम् अस्ति । सिटि-केन्द्रीयं, यशवन्तपुरं च । इतः भारतस्य अत्यधिकनगराणां प्रति रेलव्यवस्था वर्तते । बेङ्गलूरु भारतीयरेलव्यवस्थायाः दक्षिणपश्चिमरेलव्यवस्थान्तर्गतं भवति । अत्र बेङ्गलूरुनगरे लोकयानानि BUS अत्यधिकसंख्यया कार्यं निर्वहन्ति । BMTC नगरान्तर्गतयानानां व्यवस्थां, KSRTC अन्यनगराणां प्रति अन्यराज्याणां प्रति च यानव्यवस्थां च निर्वहतः । लोकयानानि विहाय त्रिचक्रिकाः Auto Rickshas भाटक’कार्’ यानानि City Taxis अपि लभ्यन्ते । बेङ्गलूरुनगरं विशेषरुपेण वाणिज्यसमुच्चयनिमित्तं प्रसिद्धम् अस्ति । अत्रत्यां कमर्शियल्वीथी सर्वदा जनसम्मर्दयुक्ता वाणिज्यवीथी अस्ति । तथैव महात्मागान्धिमार्गः M.G. Road ब्रिगेडमार्गः च वाणिज्यार्थं प्रसिद्धौ स्तः। बेङ्गलूरुनगरं Silicon Valley of India इत्युच्यते । अत्र तन्त्रज्ञानजगतः गुरवः इत्युच्यमानानां संस्थानाम् इन्फोसिस्, विप्रो, ऐ-गेट, टाटा-कन्सल़्टेन्सी, गूगल्, ऐ.बि.एम्., याहू, ओराकल्, सिस्को, इत्यादीनां केन्द्राणि अपि सन्ति । बेङ्गलूरुनगरम् उद्याननगरम्’ Garden city इत्यपि उच्यते, यतः अत्र असंख्यानि उद्यानानि सन्ति । प्रतिनगरम् अपि एकम् उद्यानम् अस्ति एव । लालबाग, कब्बन् पार्क सध्शानि महा -उद्यानानि अपि सन्ति अत्र । बेङ्गलूरुनारस्य प्रसिद्धं पर्व अस्ति "करगशक्त्योत्सवः" । एषः उत्सवः बेङ्गलूरुकरग इति नाम्ना एव निर्दिश्यते । दीपानां पर्व दीपावालिः’ अपि अत्यन्तं वैभवेन आचर्यते अत्र । अन्यानि सांस्कृतिकपर्वाणि - गणेशचतुर्थिः, युगादिः, मकरसङ्क्रमणम्, ईद् -उल् फिथ, क्रिसमस् अपि आचर्यन्ते बेङ्गलूरुनगरे । भारतीयसङ्गीतनृत्ययोः महाकेन्द्रम् अस्ति बेङ्गलूरु । बेङ्गलूरुगायनसमाजः सर्वदा तादृशान् कार्मक्रमान् आयोजायति । गणेशचतुर्थि-रामनवमि-पर्वणाम् अवसरे सार्वजनिकसथानेषु सङ्गीतनृत्यकार्यकमाः आयोजिताः भवन्ति । कर्णाटकस्य प्रसिद्धं नवरसयुक्तं यक्षगानम्’ अपि आयोज्यते तदा तदा अत्र । बेङ्गलूरुनगरे भारतस्य सर्वविधानि प्रसिद्धानि खाद्यवस्तूनि अपि प्राप्यन्ते । दक्षिणभारतीयम्, उत्तरभारतीयं, चैनीयं, पाश्चिमात्यं वा उपहारमन्दिराणि असंख्यानि सन्ति । जगत्प्रसिद्धानि उडुपि-उपहारमन्दिरम्’ इत्यारव्यानि अत्रापि विराजन्ते एव ।

सर्वविधाः कीडाः अत्र बेङ्गलूरुनगरे क्रीड्यन्ते । कन्दुकताडनक्रीडा Cricket अत्रापि प्रसिद्धा एव । राहुल् द्राविडः, अनिलकुम्बले, गुण्ड्प्प विश्वनाथः, वेङ्कटेशप्रसादः, B.S. चन्द्रशेखरः जावगलश्रीनाथः इत्यादयः अत्रत्याः एव । प्रमुखं क्रिकेटक्रीडाङ्गणं चिन्नस्वामीक्रीडाङ्गणम्’ अपि बेङ्गलूरुनगरे एव अस्ति । बेङ्गलूरुनगरं शिक्षणक्षेत्रे अपि अग्रे अस्ति । पाश्च्यात्यशिक्षणपद्धतिम् अत्र परिचायितवान् मुम्मडि कृष्णराज वोडेयरः । भारतीयविज्ञानसंस्था Indian Institute of Science 1909 तमे वर्षे अत्र आरब्धा, राष्ट्रियचित्रसंस्था National Institute of Design, राष्ट्रिय-न्यायशाला, IIMB, IIT-B, NIMHANS, BMCRI, SJMC इन्याडिनि बेङ्गलूरुनगरे सन्ति । प्राथमिक-माध्यमिकविद्यालयाः तु असंख्याः सन्ति एव ।

                                     

6. उपमण्डलानि

उत्तरबेङ्गळूरु, दक्षिणबेङ्ग्ळूरु, आनेकल् च । भारतदेशस्य तृतीयं बृहन्नगरम् इति विख्यातम् । प्रायः अत्र ९०लक्षजनाः सन्ति । उद्याननगरम् इति प्रसिद्धस्य एतस्य ऐटिसिटि इति नाम प्राप्तमस्ति । सङ्गणकोद्यमे विद्युन्मानक्षेत्रे तु नगरस्य अस्य योगदानं महत् अस्ति । इन्फोसिस्, स्याप्, विप्रो, ओरेकल् इत्यादिभिः सङ्गणकसंस्थाभिः एतस्य "सिलिकान् व्याली” इति ख्यातिः आगता अस्ति । देशस्य स्वातन्त्र्योत्तरकाले बेङ्गलूरुमहानगरं बृहद्यन्त्रागाराणाम् आश्रयस्थानम् अभवत् । अत्रत्यं प्रशान्तं वातावरणं, सुन्दरं परिसरं च जनाकर्षणस्य कारणमभवत् । एच् ए एल्, बि.इ.एल्., इसरो इत्यादीनां यन्त्रोद्यमानां स्थापनायतनं च सञ्जातम् ।



                                     

7. दर्शनयोग्यानि स्थलानि

बेङ्गलूरुनगरं दर्शनीयस्थानानां विषये अपि अत्यन्तं प्रसिद्धम् अस्ति । १५३७ तमे वर्षे केम्पेगोडेन निर्मितं मृण्ययं दुर्गं, तेनैव निर्मितः बसवनगुडिप्रदेशे विद्यमानः नन्दिदेवालयः, पद्मासने उपविष्टस्य शिवस्य ६५ मीटरमिता उन्नता शिवप्रतिमा, बसवनगुडिप्रदेशसमीपे स्थितं प्राकृतिक-गुहासहितं गविगङ्गाधरेश्वरमन्दिरं, मुगलवास्तुकलायुक्तः टिप्पुप्रासादः, ६०० अधिकचित्रयुक्तं वेङ्कटप्प-आर्ट्र्-ग्यालरी, १८८७ तमे वर्षे ८०० एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या निर्मितः बेङ्गलूरुप्रासादः’, १९५४ तमे वर्षे नियो-द्रविडशैल्या निर्मितं विधानसौधाभवनम्, हैदरालि-टिप्पुसुल्तानाभ्यां निर्मितं काचगृहयुक्तं Glass House महाकारकं लालबाग’उद्यानम्, कतिपय-एकरेमिते क्षेत्रे वीस्तीर्णं सहस्रवर्षातीत-वृक्षयुक्तं लान्, कमलकासार-पाटालोद्यानसहितं कब्बन् पार्क-उद्यानम्, महात्मागान्धेः बाल्यारभ्य अन्तपर्यन्तं जीवनं चित्रद्वारा दर्शितं गान्धीभवनम्’, विश्वे एव प्रथमं वायलिन्’ आकारेण निर्मितं "चौडय्य-मेमोरियल् सभाङ्गणम्, इस्कान्-मन्दिरम् इत्यादीनि बहूनि दर्शनीयस्थानानि सन्ति अत्र । एतानि विहाय बन्नेरुघट्टप्रदेशे विद्यमानः, बन्नेरुघट्ट-नेशनल् पार्क, आर्ट-आफ-लिविंग्-इत्यस्य केन्द्रे स्थितं विशालाक्षीमन्दिरं, रागिगुड्डदेवालयः, रामाञ्जनेयमन्दिरम्, महालक्ष्मीदेवालयः पुत्तिगेमठस्य कृष्णदेवालयः, रामकृष्णाश्रमः नेहरु-तारालयः इत्यादीनि अपि दर्शनयोग्यानि ।

अद्य विश्वव्यापि-जातस्य ‘संस्कृतभारती’नामक्स्य संस्कृतान्दोलनस्य जन्म अभवत् अस्मिन्नेव बेङ्गलूरुनगरे १९८१ तमे वर्षे । संस्कृतजगाति अत्यधिक-प्रसारयुता मासयात्रिका सम्भाषणसन्देशः’ अपि इतः एव प्रकाश्यते । संस्क्रृतभारत्याः अन्ताराष्ट्रियं केन्द्रम् ‘अक्षरम्’ बेङ्गलूरुनगरस्थिते गिरिनगरे एव अस्ति । यत्र सम्पूर्णः दैनिकः व्यवहारः संस्कृतेनैव प्रचलति । आबालवृद्धाः संस्कृतेनैव व्यवहरन्ति । संस्कृतमातृभाषिबालाः अत्र द्र्ष्टुं शक्याः । संस्कृतेऽतिहासे प्रथमवारं प्रवृत्ता विश्वसंस्कृत-पुस्तकमेला’ World Samskrit Book Fair अपि बेङ्गलूरुनगरे एव प्रवृत्ता २०११ तमवर्षस्य जनवरीमासस्य ६ तः१० दिनाङ्कपर्यन्तम् । यत्र चतुर्लक्षाधिकाः जनाः द्रष्टारः समागताः आसन् । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति ।



                                     

8. प्रेक्षणीयस्थानानि

लालबाग-उद्यानवनं, विधानसौधः, उच्चन्यायालयः, कब्बनपार्क, नेहरुतारालयः विश्वेश्वरय्या वस्तुसंग्रहालयः टिप्पुसुल्तान्दुर्गम्, अलसूरुसरोवरं, तिप्पगोण्डहळ्ळिजलाशयः शङ्करमठः, रामकृष्णाश्रमः इत्यादयः।

                                     

8.1. प्रेक्षणीयस्थानानि प्रमुखदेवालयाः

दोड्डुगणपति देवालयः कारञ्जि- आञ्जनेयः, गविगङ्गाधरेश्वरः बनशङ्करी, कोटे वेङ्कटरमणस्वामी, दोड्डबाणसवाडि, इस्कान्, शिवालयः, काडुमल्लेश्वरः, सोमेश्वरः, चम्पकधामस्वामी, रागीगुड्डप्रसन्न-आञ्जनेयः, गाळी आञ्जनेयः,महालक्ष्मीपुरस्य महालक्ष्मीः, वीराञ्जनेयः च, धर्मरायस्वामी नगर्त्तपेटे, दोड्डबसवनगुडि, इत्यादीनि । दोड्डबसवण्ण बसवनगुडि नन्दी नन्दीश्वर इति नाम्ना प्रसिद्धः अस्ति । अत्र नवमशतकीयः बृहन्नन्दी विग्रहः १४.५७ पाटपरिमित्तोन्नतः, २० पादपरिमितः विस्तारवान् एकशिलानिर्मितः, पल्लववंशीयानां काले निर्मितः च अस्ति । समीपे एव दोड्ड्गणपतिदेवालयः अस्ति । धर्मरायस्वामी मन्दिरे पाण्डवानां द्रौपद्याः च पूजा प्रचलति । श्रीकृष्णाराधनं च प्रचलति । चैत्रमासे पूर्णिमायाम् अत्र करग नामकः उत्सवः वैभवेन प्रचलति । नवदिनानि यावत् रथोत्सवः भवति । विश्वेश्वरस्वामी देवालयः चिक्कपेटे इत्यत्र, अस्ति । मैसूरुमार्गे गाळीआञ्जनेयदेवालयः, महालक्ष्मीपुरे प्रसन्नाञ्जनेयदेवालयः, कोटेप्रदेशे आञ्जनेयदेवालयः च प्रसिद्धाः सन्ति । प्रसन्नाञ्जनेयस्य मन्दिरगोपुरं स्वर्णमयम् । गविगङ्गाधरेश्वरदेवालय गुहान्तर्गतः देवालयः अस्ति । रागिगुड्डुस्थले अनेके देवालयाः सन्ति । आञ्जनेयः अत्र प्रमुखः आराध्यः । बृहाच्छिलायाः उपरि देवालयाः सन्ति । राजराजेश्वरी नगरे सुन्दरः श्रीराजराजेश्वरीदेवालयः अस्ति ।

                                     

9. भौगोलिकता

बेङ्गळूरुनगरं समुद्रतटात् ९००कि.मी. उन्नतस्तरॆ वर्ततॆ । भूगोलकस्य १२° २९ उ - १३° उ अक्षांशॆ प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सॆं तः २५सॆं पर्यन्तं भवति । सदाशिवनगरॆ स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहळ्ळी अत्युन्नतं स्थलम् अस्ति । बेङ्गळूरुग्रामीणम् बेङ्गळूरुनगरम् मेलयित्वा बेङ्गळूरुविभागः इति सर्वकारेण निर्दिष्टम् । ग्रामीणबेङ्गळूरुतः किञ्चित्प्रदेशं पृथाक् कृत्वा रामनगरमण्डलम् इति नूतनं मण्डलं निर्मितं अनेन सर्वाकारेण । महानगरनिर्माणेण नद्यः तु न सन्ति एव । पूर्वं तु अर्कावती वृषभावती च नद्यौ प्रवहतः स्म । इदानीं क्रि.श.१९९२तमवर्षात् एते महानगरत्यक्तस्य मलिनजलस्य वाहिन्यौ सञ्जातौ । पूर्वं नगरे बहुत्र शुद्धजलस्य सरांसि आसन् । तेषु कानिचन, हेब्बाळसरः, मदिवाळसरः, हलसूरुसरः, सेङ्कीसरः इत्यादीनि । समिपवर्तिनिषु गिरिषु महाशिलाः लभ्यन्ते । नगरे सर्वत्र मध्ये मध्ये नारिकेलवृक्षाः सन्ति । नगरात् बहिर्भागे तत्र तत्र कृषकाः शाकानि प्ररोपयन्ति । बेङ्गळूरु सेस्मिक् झोन् इति निर्दिष्टम् अपि अत्र पूर्वं कदाचित् ४.५प्रमाणेन भूकम्पनम् अभवत् ।



                                     

10. वातावरणम्

बेङ्गळूरुमहानगरम् वातानुकूलितं नगरम् इत्येव प्रथितम् असीत् । सामान्यतः अतिशीतलकालः जनवरि मासः कदाचित् १५.१°से. पर्यन्तमपि क्षीयते । किन्तु महानगरस्य उद्योगिका औद्यमिका च अभिवृद्धेः कारणात् वातावरणस्य व्यत्यासः अभवत् । वर्षस्य यस्मिन् कस्निन् अपि ऋतौ यत्किमपि वातावारणं दृष्टुं शक्यते । वातावरणस्य सामान्योष्णता ३३° से. तः ३५°से. भवति । अतिगरिष्ठः तापः बेङ्गळूरुनगरे दृष्टं तु ३८.९°से. अस्ति १९३१तमे वर्षे मार्चमासे परिगणितम् तथा अतिक्षीणः तापः तु ७.८°से. १८८४ तमे वर्षे जनेवरिमासे परिगणितम् इदानीं तु शरत्कालस्य वातावरणं १२° से. पर्यन्तम् अपि क्षीयते । ईशान्यमान्सून् मारुतेन नैरुत्यमान्सून् मारुतेन च अत्र वृष्टिपातः भवति । अतिवृष्ठिः १९९७ तमस्य वर्षस्य ओक्टोबर् मासे १७९मिलिमीटर्स् लक्षिता ।

                                     

11. इतिहासः

क्रि.श. १५३७तमे वर्षॆ केम्पेगौडमहाराजेन निर्मितमस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तीदेवरायनदुर्गॆ भूयमानस्य महाराज्स्य सुरक्षादलम् अत्र भवति स्म । अतः बेङ्गावल ऊरु इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गळूरु इति परिवर्तितम् इति वदन्ति । अस्य बेङ्ग्लोर् इति नाम कन्नडभाषायाः बेङ्गलूरु इति पदस्य आङ्ग्लीकृतं रूपम् अस्ति। एतत् पदं नवमे शतके प्राप्ते पश्चिमगङ्गवंशस्य वीरगल्लु योधशिलास्मारकम् शिलाशासने उल्लिखितम् । एतत् बेङ्गावल ऊरु इति कन्नाडपदस्य पाठान्तरम् अस्ति । कन्नडे बेङ्गावल ऊरु इत्युक्ते संरक्षणस्य प्रदेशः इति । एतत् स्थानं गङ्गवंशीयराजानां सेनालयः आसीत् इति श्रूयते ।



                                     

12. प्रशासनम्

बृहत् बेङ्गळूरु महानगरपालिके इति प्रकल्पः सम्पूर्णस्य महानगरस्य प्रशासनव्यवस्थां निर्वहति । एषः क्रि.श. २००७ तमे वर्षे रूपितः । अत्र १०० प्रभागाः wards सन्ति । ११० ग्रामाः अस्मिन् अन्तर्गच्छन्ति । एतत् बि.बि.एम्.पि. तु संसत्सदस्येन, स्थलीयप्रशासकेन च सह २५० निर्वाचितप्रतिनिधिभिः प्रशास्यते । प्रतिवर्षं प्रयोजकसदस्यानां चयनार्थं निर्वाचनं प्रचलति । निर्वाचने जितेषु सदस्येषु पुनः निर्वाचनक्रमेण एव महापौरः उपमहापौरः च चीयेते ।

                                     

13. सौकर्यं सुरक्षा च

बेङ्गळूरुनगस्य आरक्षण व्यवस्था समीचीना अस्ति । बेङ्गळूरुनगरारक्षकाणां ६ वलयाः सन्ति । तत्र वाहनसञ्चारव्यवस्थपनाय सञ्चारारक्षणम् ट्राफिक् पोलिस् विशेषसुरक्षार्थं सशस्त्रसुरक्षादलम् आर्मड् रिसर्व् फ़ोर्स् अपराधसंशोधनार्थं केन्द्रीय अपराधनियन्त्रणविभागः सेण्ट्रल् क्रैम् ब्राञ्च् अपि सन्ति । एतत् राज्यस्य राजधानी इति कारणेन अत्र जनजीवनाय सर्वविधसौकर्याणि प्रकल्पितानि । तथा प्रशासनसौकर्यार्थं विधानसौधः कर्णाटकसर्वकारस्य केन्द्रस्थानम् उच्चन्यायालयः, राजभवनम् राज्यपालस्य कार्यधाम कर्णाटकस्य २८ लोकस्भास्थानेषु बेङ्गलूरुमहानगरतः ३ सांसदाः चिताः सन्ति । महानगरस्य अस्य विद्युद्वितरणजालः तु बेस्काम् इति सर्वकारीयस्वाम्यस्य कम्पनी एव निर्वहति । पानजल्स्य वितरणं अशुद्धजलस्य निर्वहणस्य कार्यं कर्तुं सर्वकारीये याजमान्ये बि.डब्ल्यू.एस्.एस्.बि. इति संस्था अस्ति ।

                                     

14. संस्कृतिः शिक्षा च

कलावैविध्य, जननीवनवैविध्यं च अस्य नगरस्य वैषिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्तीअस्ति।भाररीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूत् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहॊः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति । बेङ्गळुरुमहानगरे नवरात्रम्, गणेशोत्सवः, दीपावलिः इत्यादीनि भारतीयानि सर्वाणि सांस्कृतिकानि पर्वाणि अत्र वैभवेन आचरन्ति । अपि च क्रिस्मस्, नवर्षम्, रमजान् इत्यादीन् उत्सवान् अपि समानप्रीत्या अचरन्ति । करग, अणण्म्म उत्सवः इत्यादयः स्थलीयाः जानपदीयाः उत्सवाः काले आचर्यन्ते । अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं "कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रस्स्थानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियॊ बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थापनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यतॆ । एतद्विषयॆ जनाः संस्थाः च जागरिताः अपि सन्ति ।

                                     

15. अर्थव्यवस्था

भारतदेशस्य प्रधानार्थिककेन्द्रेषु बेङ्गळूरुनगरस्य गणनीय स्थनम् अस्ति । प्रतिवर्षं ६०सहस्रकोटिरूप्यकाणां व्यवहारः सम्भवति । महानगरस्य अस्य अर्थक्षेत्रे तु भारत् एलेक्रानिक्स लिमिटेड्, हिन्दुस्तान् एरोनटिक्स लिमिटेड् न्याशनल् एरोस्पेस् ल्याबोरेटरीस्, भरत् हेव्वी एलेक्ट्रानिक्स लिमिटेड् भारत् अर्थ मूवर्स् लिमिटेड्, इण्डियन् स्फेस् रिसर्च् टूल्स् इत्यादीनां महोद्यमसंस्थानां योगदानं महत् वर्तते । इन्फार्मेशन् टेक्नोलजि उद्यमे तु भारते एव अस्य महानगरस्य प्राथम्यं वर्तते । भारतदेशस्य ऎटि निर्यातस्य ३३% योगदानं बेङ्गळूरुनगरस्य ऎटिसंस्थायाः एव सन्ति । भारतस्य इन्फोसिस्, विप्रो,सिमेन्स्, टाटा कन्सल्टेन्सी, इत्याद्यानां बृहत्ऎटिउद्यमसंस्थानां प्रधानकेन्द्रं बेङ्गळूरुनगरे एव अस्ति । बयोटेक्नालजि अपि अत्र प्रसिद्धा अस्ति । भारतस्य बृहत्तमः उद्यमः बयोकान् अपि अत्र एव अस्ति । कन्नड चलच्चित्रोद्यमः अपि बृहत्प्रमाणेन कार्यव्यापृतः अस्ति । सहस्रशः जनाः अस्मिन् क्षेत्रे व्यस्ताः सन्ति । एते उद्यमिनः प्रजाभ्यः सदभिरुचिदं मनोरञ्जनं यच्छन्ति । कोटिशः धनव्यवहारः अपि राज्यस्य आर्थिकसमृद्धये लाभाय भवति ।

                                     

16. वायुमर्गसञ्चारः

बेङ्गळुरुमहानगरात् बहिर्भागे बेङ्गळूरु अन्ताराष्ट्रिय विमाननिस्थानकम् क्रि.श.२००८ तमे वर्षे आरब्धम् अस्ति । इतः विश्वस्य सर्वे देशाः गम्याः भवति । वायुसञ्चारस्य जनसङ्ख्यां, निस्थानकस्य वैशाल्यं, सञ्चाद्विमानसङ्ख्यां च परिगणय्य एतत् भारतस्य चतुर्थं बृहत् निस्थानम् इति उद्घुष्टम् । महानगरस्य केन्द्रात् विमाननिस्थानपर्यन्तं गमनागमनं कर्तुं सुगमा राजमार्गव्यवस्था कल्पिता अस्ति ।

                                     

17. रेल् यानम्

बेङ्गळूरु महानगरे वाहनसञ्चारस्य समस्याः निवारयितुं प्रयत्नरूपेण सध्यः एव नम्म मेट्रो इति अतिवेगस्य धूमशकटयानं रेल् तु नूतनतया आरप्स्यते । एतत् प्रतिदिनं बहुवारं ४२.३कि.मी. दूरं सञ्चरिष्यति । मध्यमार्गं ४१ स्थगनकेन्द्राणि भावन्ति । समग्रदेशस्य अन्यराज्यानां नगराणि गन्तुं राष्ट्रीय रेल्वे जालः तु अस्ति एव । भारतसर्वकारस्य रेल्विभागस्य नैरुत्यरेल्वे वलयः बेङ्गळूरुनगरे कार्यं निर्वहति । बेङ्गळूरु नगररेल्वे, यशवन्तपुर जङ्कक्षन् च इति प्रधाननिस्थानद्वयम् अस्ति । इतः सामन्ययानात् आरभ्य वातानुकूलितसुखतमयान पर्यन्तं सर्वविधानि रेल् यानानि चलन्ति ।

                                     

18. भूमार्गसञ्चारः

बेङ्गळूरुमहानगरे भूमार्गेषु चलनार्थं त्रिचक्रिकाः यथेष्टं सन्ति । त्रिचक्रिकया जनत्रयं भाटकं दत्त्वा गन्तु शक्यते । त्रायाधिकाः जनाः प्रवासं कर्तुम् इच्छन्ति चेत् कार् यानस्य टेक्सि सर्विस् अपि निश्चयेन लभते । वैयक्तिकप्रवासर्थं सार्वत्रिका सर्वकारीयस्वाम्यस्य सञ्चारव्यवस्था बि.एम्.टि.सि तु अस्ति एव । बेङ्गळूरु मेट्रोपालिटिन् ट्रान्स्फोर्ट् कार्पोरेशन् इति अस्य नाम । अत्र सुन्दराणि, सुगमानि, सुरक्षितानि, सर्वभागसञ्चराणि, यथेष्टं वाहनानि सन्ति । अस्मिन् दैनिकं मासिकं वार्षिकं, विद्यार्थीनां च पास् लभ्यते । सञ्चारशुल्कानुगुणं चतुर्णां स्तराणां बस् व्यवस्था अस्ति । राज्यसञ्चारस्य लोकयानस्य अपि याननिस्थानकम् अस्ति । बि.एम्.टि.सि. सर्वकारीयसञ्चारसंस्थायाः सुखप्रयाणसौकर्यस्य वोल्वो बस् यानम् अस्ति ।

                                     

19. दर्शनीयानि स्थानानि

विधानसौधः, कब्बन्नोद्यानम्, लालबग् सस्यवाटिका, इस्कान् राधाकृष्णमन्दिरम्, बन्नेरघट्टा राष्र्टीयोद्यानम्, विश्वेश्वरय्यवसुसङ्ग्रहालयः, वेङ्कटप्पकलालयः, एच्.ए.एल्. शिवालयः, मत्स्यालयः, जवाहरतारालयः, महात्मागान्धीमार्गः, महालक्ष्मीपुरस्य आञ्जनेयमन्दिरम्, देवनहळ्ळिएर्पोर्ट्, स्वातन्त्र्योद्यानम्, इत्यादीनि प्रेक्षणीयानि स्थानानि भवन्ति ।

                                     
  • सन त कर ण टक - र ज य पञ चमह नगर ण सन त त न ब ङ गळ र ह बल म ङ गल र, म स र, ह सन च ब ङ गळ र - मह नगर कर ण टक - र ज यस य र जध न अस त इद मह नगर
  • मण डलम त मक र नगर त म क र मण डलस य क न द रम अस त र ज यस य र जध न ब ङ गळ र त म क र नगर त उत तर अस त त मक र मण डल दक ष णकर ण टकप रद श अन यतम
  • त न त र कमह व द य लय क आर व त तम ब ङ गळ र सर एम व श व श वरय य त न त र कमह व द य लय क ष णद वर यनगरम ब ङ गळ र भद र वत नगर व श व श वरय य
  • अस य नगरस य त व रतम स धन वर तत म म बई - र लस थ नकम इन द र - नगर ण, ब ङ गळ र - नगर ण, द हल - नगर ण, क लक त - नगर ण, प ण - नगर ण, भ प ल - नगर ण इत य द भ
  • क ल व दनत स यङ क ल व दनम र यल प य क ज ट र व यवस थ अस त ब ङ गळ र त क म च न न त क म त र पत त क म व जयव ड त
  • उपनद य भ म घटप रभ मलप रभ त ङ गभद र नद य अत र वहन त अस म न ब ङ गळ र - ब ङ गळ र ग र म न तर - च मर जनगर - ह सन - क ल र - मण ड य - म स र - त मक र मण डल न
  • अग रम न य ष अभ न त ष अन यतम अस त रजन क न त तस य प र थम कश क षण ब ङ गळ र नगर सम प तव न एतस य म ल न म श व ज र व ग यकव ड इत यद यप कन नडचलनच त र ष
  • अस त अस म त व म नस थ नक त द हल - नगर य, म म बई - नगर य, क लक त - नगर य, ब ङ गळ र - नगर य, च न न - नगर य, ह दर ब द - नगर य, अहमद ब द - नगर य इत य द भ य नगर भ य
  • ब ङ गळ र नगरत च न न म र ग धर म वरन स थ नत प टपर त नगर गन त शक यत ब ङ गळ र च न न ह न द प र ह दर ब द इत य द नगर भ य व हनसम पर क अस त ब ङ गळ र त
  • प र प यन त द हल - नगर य, म म बई - नगर य, क लक त - नगर य, च न न - नगर य, ब ङ गळ र - नगर य, ह दर ब द - नगर य, व श ख पत तनम - नगर य इत य द भ य भ रतस य प रम खनगर भ य
  • ब ळग व न म न मर ठ भ ष ण ब ळग व न म न च एतत नगर सम ब धयन त कर ण टक ब ङ गळ र ह ब बळ ळ म स र नगर ण म अनन तर चत र थ मह नगरम एतत सम द रस तरत