ⓘ पृथ्वी कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः प ..

भारतमाता

भारतं मातृदेवीत्वेन चित्रयित्वा "भारतमाता"अथवा "भारतम्बा"इति कथ्यते । केसरी तथा नारंगीसाटीकापरिबेष्टिनी ईयं माता केशरिणा सह करे भगवाध्वजं धृत्वा शोभते । समग्रेस्मिन् भारते भारतमाताया: नैकानि मन्दिरणि विराजन्ते । तेषु काशीस्थ: भारतमातामन्दिरमत्यन्तं प्रसिद्ध्ं वर्तते यस्योद्घाटनं १९३६ तमे वर्षे महत्मागान्धिना कृतं वर्तते । तथैव अपरं हरिद्वारस्थ: भारतमातामन्दिरमपि बहु प्रसिद्धं वर्तते । इतिहास: - अवनीन्द्रनाथ टैगोर् महोदयेन चित्रिता भारतमाता १) वेदघोष:- "माता भूमि: पुत्रोहं पृथिव्या:" पृथ्वी मम माता, तस्या: अहमेव पुत्र: । २) वाल्मीकिरामायणे- "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी" { उभयो: जननीज ...

भूकम्पविभीषिका

भूकम्पविभीषिका. भूकम्पविभीषिका एकोत्तरद्विसहस्त्रीष्टाब्दे 2001 ईस्वीये वर्षे गणतन्त्र दिवस पर्वणि यदा समग्रमपि भारतरभारताष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम् । भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपानमार्गाः। फालद्वयेविभक्ता भूमभूमिःिः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्बार जलधाराभिः म ...

                                     

ⓘ पृथ्वी

पृथ्वी कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः अपि अस्ति, येन श्वसनतन्त्रं चलति । अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते ।

                                     

1. पृथिव्याः उत्पत्तिः

पृथिव्याः उत्पत्तिविषये संशोधनाय बहवः वैज्ञानिकाः कार्यरताः आसन् । इदानीमपि बहवः वैज्ञानिकाः संशोधने कार्यरताः सन्ति । पृथिव्याः उत्पत्तिविषये वैज्ञानिकानां, दार्शिकानां च बहूनि मतानि सन्ति ।

  • १९०० तमे वर्षे चेम्बरलेन्, मोल्टन् च इत्याख्याभ्याम् उक्तम् यत्, किञ्चित् भ्रमणशीलं नक्षत्रं ब्रह्माण्डे भ्रमत् आसीत् । तदा तन्नक्षत्रं सूर्यस्य समीपं गतवत् । नक्षत्रस्य गुरुत्वाकर्षणबलेन सूर्यात् कश्चित् लघुखण्डः पृथगभवत् । यदा नक्षत्रं सूर्यात् दूरं गतवत्, तदा अयं लघुखण्डः सूर्यं परितः एव भ्रमणम् आरभत । समयान्तरे लघुखण्डः ग्रहे रूपान्तरितः जातः ।
  • सूर्यस्य समीपं मित्रनक्षत्रं भ्रमति स्म इति अपि केषाञ्चित् मतम् अस्ति । अयं तर्कः द्वैतारक सिद्धान्त Binaru theories इति नाम्ना प्रसिद्धः अस्ति ।
  • १९५० तमे वर्षे रूस-देशस्य ऑटो शिमिड्, जर्मन्-देशस्य कार्ल वाइजास्कर इत्याख्याभ्यां नीहारिका कल्पनायां संशोधनं कृतम् । तस्मिन् संशोधने किञ्चित् भिन्नम् आसीत् । सूर्यः एकस्यां सौरनीहारिकायाम् आसीत् । सा सौरनीहारिका हाइड्रोजन्, हीलीयम्, रजकणैः च निर्मिता आसीत् । एतेषां रजकणानां घर्षणेन शरावसदृशस्य आकारस्य मेघस्य निर्माणम् अभवत् । कालान्तरे तस्य मेघस्य वृद्धिः अभवत् । तेन ग्रहाणां निर्माणं जातम् ।
  • १९७६ तमे वर्षे लाप्सेस् नामकेन गणितज्ञेन पृथिव्याः उत्पत्तिवषये संशोधनं कृतम् आसीत् । तत् संशोधनं नीहारिका परिकल्पना Nebular hypothesis इति उच्यते । अस्याः परिकल्पनायाः अनुसारं ग्रहाणां निर्माणं कैश्चित् पदार्थैः अभवत् । ते पदार्थाः अन्तरिक्षे मन्दं मन्दं भ्रमन्ति । ततः तेषां पदार्थानां सम्मेलने ग्रहाणां निर्माणं जातम् ।
                                     

2. पृथिव्याः आन्तरिकसंरचना

पृथिव्याः प्रकृतिः विशिष्टा वर्तते । तस्य विषये इदानीम् अपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति । ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति । ज्वालामुखिनः अत्युष्णः द्रवपदार्थः, मृत्तिका, धूम्रः, अग्निः, मैग्मा च बहिरागच्छति । तेन एव वैज्ञानिकाः अनुमानं चिन्तयन्ति । वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति । अतः ते पृथिव्याः, ब्रह्माण्डस्य च संरचनायाः विषये सूक्ष्मतया जानन्ति । वैज्ञानिकैः पृथिव्याः आन्तरिकसंरचनायाः संशोधनं कृतम् अस्ति । पृथिव्याः त्रिज्या ६,३७० कि. मी. अस्ति । किन्तु पृथिव्याः केन्द्रे गमनम् असम्भवम् अस्ति । तत्रत्यानां पदार्थानां प्रतिरूपं प्राप्तुम् अपि अशक्यम् । अस्यां स्थितौ अपि वैज्ञानिकाः संशोधनं कुर्वन्तः सन्ति । संशोधनेन एव ते बहवः विशिष्टं ज्ञानं प्राप्तुं समर्थाः अभवन् ।

                                     

3. संशोधनाय स्रोतांसि

भूगर्भस्य संरचना कथम् अस्ति? तस्मिन् के पदार्थाः प्राप्यन्ते? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति । भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः ।

                                     

3.1. संशोधनाय स्रोतांसि प्रत्यक्षस्रोतांसि

पृथिव्यां धरातलीयाः शिलाः सन्ति । ताः शिलाः खननक्षेत्रेषु प्राप्यन्ते । दक्षिण अफ्रिका-देशे स्वर्णस्य सुरङ्गाः सन्ति । ताः सुरङ्गाः ४ कि. मी. पर्यन्तं गहनाः सन्ति । किन्तु एतावत् अधिकं खननम् अशक्यम् अस्ति । यतः तत्रत्यं तापमानम् अधिकं भवति । तस्मात् अग्रे गमने तापमाने वृद्धिर्भवति । किन्तु वैज्ञानिकाः केवलं खननकार्येण एव संशोधनं न कुर्वन्ति । तस्मात् खननकार्यात् अतिरिक्तः विभिन्नाभिः योजनाभिः पृथिव्याः आन्तरिकीं स्थितिं ज्ञातुं वैज्ञानिकाः गहनं संशोधनं कुर्वन्तः सन्ति ।

विश्वस्य वैज्ञानिकाः द्वाभ्यां मुख्याभ्यां योजनाभ्याम् संशोधनं कुर्वन्तः सन्ति । गहने समुद्रे प्रवेधनस्य परियोजना, समन्वितमहासागरे प्रवेधनस्य परियोजना इति द्वे परियोजने प्रचलतः ।

वर्तमाने आर्कटिक-महासागरे कोला-क्षेत्रे १२ कि. मी. गहनं प्रवेधनम् अस्ति । एतादृशीभ्यः परियोजनाभ्यः संशोधने वैज्ञानिकाः असाधारणज्ञानं प्राप्तवन्तः ।

ज्वालामुखी प्रत्यक्षस्रोतस्सु अन्यतमः स्रोतः वर्तते । यदा ज्वालामुखिनः अत्युष्णः द्रवपदार्थः प्राप्यते, तदा वैज्ञानिकाः तत्पदार्थं संशोधनार्थं प्रयोगशालायां नयन्ति । किन्तु इदानीम् अपि मैग्मा इत्यस्य क्षेत्रं कियत् गहनम् अस्ति? इति निश्चितं नास्ति ।



                                     

3.2. संशोधनाय स्रोतांसि अप्रत्यक्षस्रोतांसि

प्रत्यक्षस्रोतसा यः कोऽपि पदार्थः प्राप्तः, तत्पदार्थस्य गुणधर्मस्य विश्लेषणे वैज्ञानिकाः पृथिव्याः आन्तरिकभागस्य अप्रत्यक्षज्ञानं प्राप्नुवन्ति । खननप्रक्रियया ज्ञायते यत्, पृथिव्याः तलस्य गहने सति तापमानः, प्रबलता च वर्धते । अधिके गहने सति पदार्थस्य घनत्वम् अपि वर्धते । अतः पृथिव्याः परिवर्तनमानस्य अनुमानं भवति ।

पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः द्वितीयस्रोतः अस्ति । ताः उल्काः यदा कदा पृथिव्यां पतन्ति । किन्तु उल्कासु ये पदार्थाः भवन्ति ते पदार्थाः पृथिव्याः आन्तरिकभागेषु न प्राप्यन्ते । उल्काभ्यः प्राप्तपदार्थानां संरचना पृथिव्याः आन्तरिकसंरचनया सह किञ्चित् सम्मिलति । यैः पदार्थैः पृथिवी निर्मिता अस्ति, तैः पदार्थैः एव एताः उल्काः निर्मिताः सन्ति । अतः पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः महत्वपूर्णं स्रोतः अस्ति ।

गुरुत्वाकर्षम्, अयस्कान्तीयक्षेत्रं, भूकम्पः इत्यादयः अप्रत्यक्षाणि स्रोतांसि सन्ति । पृथिव्याः धरातले अपि विभिन्नेषु अक्षांशेषु गुरुत्वाकर्षणबलं समानं नास्ति । इदं गुरुत्वाकर्षणबलं ध्रुवेषु अधिकं भूमध्यरेखायां न्यूनं भवति । गुरुत्वस्य मानं पदार्थस्य तापमानानुसारम् अपि परिवर्तते । यतः भूगर्भस्य आन्तरिकसंरचनायां स्थितेषु पदार्थेषु अपि बहूनि परिवर्तनानि भवन्ति । पृथिव्याः आन्तरिकसंरचनायाः बहवः विभागाः सन्ति । यथा – भूपर्पटी The Crust, आवरणं मैंटल, अन्तर्भागः क्रोड ।

                                     

3.3. संशोधनाय स्रोतांसि भूपर्पटी The Crust

भूपर्पटी पृथिव्याः बहिर्भागः वर्तते । अयं भगुरः भागः अस्ति । इयं भूपर्पटी न्यूनप्रबलातया pressure एव भङ्गः भवति । महासागरेषु भूपर्पट्याः विस्तीर्णता महाद्वीपेभ्यः न्यूना वर्तते । महासागरेषु अस्याः विस्तीर्णता प्रायः ५ कि. मी. अस्ति । किन्तु द्वीपेषु ३० कि. मी. अस्ति । पर्वतीयासु शृङ्खलासु अस्य विस्तीर्णता सर्वाधिका वर्तते । हिमालयपर्वतशृङ्खलायाः भूपर्पट्याः विस्तीर्णता ७० कि. मी. अस्ति ।

भूपर्पटी गहनाभ्यः शिलाभ्यः निर्मिता अस्ति । अस्याः घनत्वं ३ ग्राम् प्रतिघनं से. मी. अस्ति । महासागरेषु स्थिता भूपर्पटी बेसाल्ट् इत्यनेन निर्मिता अस्ति । अतः महासागरेषु अस्याः घनत्वं २.७ ग्राम् प्रतिघनं से. मी. अस्ति ।



                                     

3.4. संशोधनाय स्रोतांसि आवरणम् मैंटल - Mantle

भूपर्पट्याः अधः भागः मैंटल इति कथ्यते । अस्याः गहनता २९०० कि. मी. पर्यन्तम् अस्ति । मैंटल इत्यस्य ऊर्ध्वभागः दुर्बलतामण्डलं Asthenosphere कथ्यते । एस्थेनो Astheno इत्यस्य शब्दस्य अर्थः दुर्बलता इति । अस्य मण्डलस्य विस्तीर्णता प्रायः ४०० कि. मी. पर्यनतम् अस्ति । ज्वालामुखिनः बहिरागतस्य अत्युष्णपदार्थस्य मुख्यं स्रोतः इदं मण्डलम् एव अस्ति । अस्य घनत्वं भूपर्पट्याः शिलाभ्यः अधिकं वर्तते । ३.४ ग्राम् प्रति से. मी. इत्यस्मात् अपि अधिकम् अस्य घनत्वं वर्तते ।

भूपर्पटी मैंटल इत्येतौ द्वौ मिलित्वा स्थलमण्डलं Lithosphere कथ्यते । अस्य मण्डलस्य विस्तीर्णता १० तः २०० कि. मी. पर्यन्तम् अस्ति । अधस्थस्य मैंटल इत्यस्य विस्तीर्णता दुर्बलतामण्डलस्य समाप्तेः परम् अपि अस्ति । अयं भागः कठोरः वर्तते ।

                                     

3.5. संशोधनाय स्रोतांसि अन्तर्भागः क्रोड- The core

भूकम्पीयानां तरङ्गाणां वेगेन पृथिव्याः अन्तर्भागस्य संशोधने साहाय्यम् अभवत् । २९०० कि. मी. इत्यस्मात् परं अन्तर्भागस्य क्रोड- The core आरम्भः भवति । अस्य भागस्य द्वौ भागौ स्तः । बाह्यक्रोडः, आन्तरिकक्रोडः च । बाह्यभागः तरलावस्थायाम् अस्ति । आन्तरिकक्रोडः कठोरावस्थायां वर्तते । मैंटल क्रोड् इत्येतयोः सीमायां स्थितानां शिलानां घनत्वं प्रायः ५ ग्राम् प्रतिघनं से. मी. अस्ति । किन्तु ६३०० कि. मी. पर्यन्तं पृथिव्याः केन्द्रे घनत्वं १३ ग्राम् प्रतिघनं से. मी. अस्ति । तेन ज्ञायते यत् भारवद्भिः पदार्थैः अन्तर्भागः क्रोड- The core निर्मितः अस्ति । तेषु पदार्थेषु मुख्यतः निकल Nickle, लोहः Ferrum इत्यादयः सन्ति । अयं ’निफे’ Nife इति नाम्ना अपि ज्ञायते ।

                                     

4. पृथिव्यां जीवनस्य विकासः

पृथिव्याः उत्पत्तेः अनन्तरम् अन्ते जीवनस्य उत्पत्तिः, विकासश्च अभवत् । प्रारम्भे पृथिव्याः प्रारम्भिकं वायुमण्डलं जीवनाय अनुकूलं नासीत् । सा एका रासायनिका प्रक्रिया आसीत् इति आधुनिकाः वैज्ञानिकाः कथयन्ति । तस्यां प्रक्रियायां पुरा जैव-अणोः निर्माणम् अभवत् । तदनन्तरं तेषां जैव-अणूनां समूहाः अभवन् । ते समूहाः निर्जीवपदार्थानां जीवतत्त्वे परिवर्तनं कृतवन्तः । ३८० कोटिवर्षाणि पुरा पृथिव्यां जीवनविकासस्य आरम्भः अभवत् इति मान्यता ।

                                     

5. पृथिव्याः प्रमुखाणि परिमण्डलानि

ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च ।

भूमण्डलं नामकः प्रथमः घटकः अस्ति । भूमण्डले जीवाः निवसन्ति । वायोः स्तरैः पृथ्वी आवृता अस्ति । तत्स्तराः वायुमण्डलम् इति कथ्यन्ते। ऑक्सीजन, नाइट्रोजन, कार्बन डाइऑक्साइड् इत्यादयः वायवः वायुमण्डले भवन्ति । पृथिव्याः अधिकतमेषु स्थानेषु जलम् अस्ति । तज्जलमण्डलम् इति कथ्यते । हिमः, जलं, जलबाष्पः इत्यादयः अवस्थाः जलमण्डले सम्मिलिताः सन्ति । एतानि मण्डलानि जैवमण्डले सम्मिलन्ति । जैवमण्डले समस्तप्रकारकाणि जीवनानि प्राप्यन्ते ।

                                     

5.1. पृथिव्याः प्रमुखाणि परिमण्डलानि स्थलमण्डलम्

पृथिव्याः कठोरभागः भूमण्डलम् इति कथ्यते । भूपर्पट्याः शिलानां, मृत्तिकायाः च स्तरैः इदं मण्डलं निर्मितम् अस्ति । मण्डलेऽस्मिन् जीवेभ्यः पोषकत्त्वानि प्राप्यन्ते ।

अस्य भूमण्डलस्य भागद्वयं कृतम् अस्ति । महाद्वीपाः, महासागरीयः बेसिन इति । विश्वस्य सर्वे महासागराः परस्परं सम्बद्धाः सन्ति । समुद्रजलस्य तलम् अपि सर्वत्र समानम् एव भवति । समुद्रतलात् स्थलस्य औन्नत्यस्य मानं क्रियते । तत् शून्यम् इति मन्यते ।

माउण्ट एवरेस्ट विश्वस्य उच्चतमं शिखरं वर्तते । अस्य औन्नत्यं ८,८४८ मी. अस्ति । विश्वस्य गहनतमः गर्तः प्रशान्तमहासागरस्य मेरियाना गर्तः अस्ति । तस्य गर्तस्य गहनता ११,०२२ मी. अस्ति । पृथिव्याः उच्चतमात् स्थलात् अपि समुद्रस्य गहनता अधिका वर्तते ।

                                     

5.2. पृथिव्याः प्रमुखाणि परिमण्डलानि महाद्वीपाः

पृथिव्यां सप्त महाद्वीपाः सन्ति । तान् परितः जलम् एव अस्ति । ते – एशिया, यूरोप्, आफ्रिका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्कटिका च ।



                                     

5.3. पृथिव्याः प्रमुखाणि परिमण्डलानि एशिया

एशिया-महाद्वीपः सप्तमहाद्वीपेषु बृहत्तमः वर्तते । अयं महाद्वीपः पूर्वगोलार्धे स्थितः अस्ति । कर्क-रेखायाम् अयं द्वीपः स्थितः अस्ति । एशियामहाद्वीपस्य पश्चिमे एशिया-यूरोपमहाद्वीपयोः मध्ये युराल नामकः पर्वतः अस्ति । सः पर्वतः एशियामहाद्वीपात् यूरोपमहाद्वीपं पृथक्करोति । यूरोप-एशिया इत्येतयोः संयुक्तः भागः यूरेशिया यूरोप+एशिया इति कथ्यते ।

                                     

5.4. पृथिव्याः प्रमुखाणि परिमण्डलानि यूरोप्

आर्कटिक-वृत्ते अयं महाद्वीपः स्थितः अस्ति । यूरोप-महाद्वीपः एशियामहाद्वीपात् लघुः वर्तते । अयं महाद्वीपः एशिया-महाद्वीपस्य पश्चिमे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु जलम् अस्ति ।

                                     

5.5. पृथिव्याः प्रमुखाणि परिमण्डलानि उत्तर अमेरिका

उत्तर अमेरिका-महाद्वीपः विश्वस्य तृतीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः पनामा-स्थलसन्धिना, दक्षिण अमेरिका-महाद्वीपेन च सह संलग्नः अस्ति । अयं महाद्वीपः उत्तरीय-पश्चिमगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु महासागराः सन्ति ।

                                     

5.6. पृथिव्याः प्रमुखाणि परिमण्डलानि दक्षिण अमेरिका

दक्षिण अमेरिका इत्यस्य महाद्वीपस्य अधिकतमः भागः दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य उत्तरतः दक्षिणपर्यन्तं विश्वस्य दीर्घतमा पर्वतशृङ्खला वर्तते । अस्मिन् महाद्वीपे विश्वस्य बृहत्तमा अमेजन-नदी प्रवहति ।

                                     

5.7. पृथिव्याः प्रमुखाणि परिमण्डलानि आस्ट्रेलिया

आस्ट्रेलिया-महाद्वीपः विश्वस्य लघुत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः दाक्षिणात्यगोलार्धे स्थितः अस्ति । इमं महाद्वीपं परितः सागराः, महासागराः च सन्ति । अयं द्वीपीयमहाद्वीपः अपि कथ्यते ।

                                     

5.8. पृथिव्याः प्रमुखाणि परिमण्डलानि अण्टार्कटिका

अण्टार्कटिका-महाद्वीपः बृहत् महाद्वीपः अस्ति । अयं दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य मध्ये दक्षिणध्रुवः अस्ति । अतः अयं महाद्वीपः हिमाच्छादितः भवति । अस्मिन् महाद्वीपे मानवनिवासः असम्भवः । अतः केवलं विभिन्नदेशानां शोधकेन्द्राणि अत्र स्थापितानि सन्ति । भारतदेशस्य अपि मैत्रीशोधसंस्थानं, दक्षिणगङ्गोत्रीशोधसंस्थानम् इत्येते शोधसंस्थाने अत्र स्थिते स्तः ।

                                     

5.9. पृथिव्याः प्रमुखाणि परिमण्डलानि स्थलमण्डलस्य विकासः

सूर्यस्य अत्यधिकप्रकाशेन वयं नक्षत्राणि, चन्द्रमसः इत्यादीनि मध्याह्ने दृष्टुं न शक्नुमः । सूर्यः, चन्द्रमा, रात्रौ आकाशे दृश्यमानानि यानि सन्ति, तानि सर्वाणि खगोलीयपिण्डः इति उच्यन्ते ।

केषाञ्चित् खगोलीयपिण्डानाम् आकृतिः बृहती भवति । ते उष्णाः अपि भवन्ति । ते वायोः निर्मिताः सन्ति । तेषां समीपं प्रकाशः, उष्मा च भवतः । ते खगोलियपिण्डाः नक्षत्राणि कथ्यन्ते । सूर्यः अपि नक्षत्रम् अस्ति ।

ग्रहाणुः, अन्ये खगोलियपिण्डाः च लघुभारपदार्थानां मिश्रणैः निर्मिताः सन्ति । अतः बहूनाम् अणूनां मिश्रणेन ग्रहाः निर्मिताः जाताः । पृथिव्याः रचना अपि अनेन प्रकारेण एव अभवत् । गुरुत्वबलात् पदार्थाः एकत्रिताः अभवन् । तस्मिन् समये पदार्थाः पिण्डेभ्यः प्रभाविताः जाताः । तेन कारणेन तेभ्यः उष्मा उत्पन्ना अभवत् । अत्यधिकतापेन पृथ्वी आंशिकरूपेण द्रवावस्थायां परिवर्तिता जाता । लघुभारयुताः भारयुतेभ्यः पदार्थेभ्यः पृथगभवन् । अनेन कारणेन भारयुताः पदार्थाः पृथ्व्याः केन्द्रं गतवन्तः । यथा – लौहः इत्यादयः । भारहीनाः पदार्थाः पृथ्व्याः उपरि आगतवन्तः । समयान्तरे ते पदार्थाः शीतलाः जाताः । कठोररूपे अपि परिवर्तिताः जाताः । अन्ते ते पदार्थाः भूस्थलत्वेन स्थापिताः अभवन् । सा पृथक्करणप्रक्रिया विभेदनम् Differentiation इत्युच्यते ।

चन्द्रमसः उत्पत्तिसमये भीषणसङ्घट्टेन Giant impact पृथ्व्याः तापमाने पुनः वृद्धिः जाता । पुनः ऊर्जायाः वृद्धिरभवत् । इदं विभेदनस्य द्वितीयचरणम् आसीत् । अनया प्रक्रियया पृथ्व्याः पदार्थाः अनेकेषु भागेषु विभक्ताः अभवन् । तेषु – पर्पटीCrust, प्रावारMantle, बाह्यकोडOuter core, आन्तरिकक्रोडInner core । पृथिव्याः पर्पटी तः आन्तरिकभागपर्यन्तं पदार्थानां घनत्वं वर्धते ।

पृथिवीतलं सर्वत्र समानं नास्ति । पृथिव्याम् अनेकेषां प्रकारकाणां स्थलरूपाणि सन्ति । स्थलमण्डलस्य कश्चित् भागः उच्चः, अधः, समतलः च वर्तते । तेषु पर्वतः, उच्चप्रदेशः पठार, क्षेत्रं च अस्ति ।



                                     

5.10. पृथिव्याः प्रमुखाणि परिमण्डलानि पर्वतः

पर्वतस्य शिखरं लघु, आधारः विस्तृतः च वर्तते । अयं समीपस्थेभ्यः क्षेत्रेभ्यः उन्नतः भवति । केषुचित् पर्वतेषु सदैव हिमनद्यः भवन्ति । ताः हिमानी इति कथ्यन्ते । पृथिव्यां केचित् पर्वताः समुद्रेषु सन्ति । तेन वयं तान् दृष्टुम् असमर्थाः स्मः । ये पर्वताः क्रमबद्धाः भवन्ति, ते पर्वतशृङ्खला इत्यनेन सम्बोध्यते । पर्वतानाम् आकारे अपि भिन्नता भवति । पर्वतस्य त्रयः प्रकाराः सन्ति । वलितपर्वतः, भ्रंशोत्थपर्वतः, ज्वालामुखिपर्वतः च । यस्य पर्वतस्य तलं कर्कशं, शिखरं शङ्क्वाकारं च वर्तते, सः वलितपर्वतः कथ्यते । हिमालयपर्वतः, आल्प्स-पर्वतः च एतौ वलितपर्वतौ स्तः । भारतस्य अरावली-पर्वतशृङ्खला विश्वस्य पुरातनी वलितपर्वतशृङ्खला अस्ति । उत्तर अमेरिका-महाद्वीपे अप्लेशियन् पर्वताः, रूस-देशे यूराल् पर्वताः सन्ति । ते पर्वताः वृत्ताकाराः सन्ति । तेषाम् उच्चता न्यूना वर्तते । यदा पर्वतस्य बृहद्भागः त्रुटितः, ऊर्ध्वाधरः च भवति, तदा सः भ्रंशोत्थपर्वतस्य निर्माणं करोति । पर्वतस्य ऊर्ध्वभागः उत्खण्डभ्रंशः, ध्वस्तः भागः द्रोणिकाभ्रंशः कथ्यते । यूरोप्-महाद्वीपे वॉसजेस्-पर्वतः, राईन घाटी च भ्रंशोत्थपर्वतः अस्ति ।

ज्वालामुखिक्रियया ज्वालामुखिपर्वतस्य निर्माणं भवति । अफ्रीका-महाद्वीपे किलिमञ्जारो, जापान्-देशे फ्यूजियामा एतौ ज्वालामुखिपर्वतौ स्तः ।

पर्वताः लाभदायकाः, जलसङ्ग्राहकाः च भवन्ति । पर्वतेषु स्थिताः हिमान्यः बह्वीनां नदीनां स्रोतांसि भवन्ति । पर्वतानां जलस्य उपयोगः सेचनाय, जलविद्युतः उत्पादनाय भवति । पर्वतेषु विविधाः वनस्पतयः, जीवजन्तवः च प्राप्यन्ते ।



                                     

5.11. पृथिव्याः प्रमुखाणि परिमण्डलानि शैलप्रस्थःपठार

उच्च-समतलभूमिः शैलप्रस्थः उच्यते । समीपस्थानां स्थलानाम् अपेक्षया अयम् उच्चः भवति । अस्य उपरिभागः उत्पीठिका इव दृश्यते । शैलप्रस्थस्य उच्चता प्रायः मीटर् तः किलोमीटर् पर्यन्तं भवति । भारतदेशे स्थितः दक्कन-शैलप्रस्थः पुरातनेषु शैलप्रस्थेषु अन्यतमः वर्तते । चीन-देशस्य तिब्बत-शैलप्रस्थः विश्वस्य उच्चतमः शैलप्रस्थः वर्तते । समुद्रतलात् तस्य उच्चता ४००० मी. तः ६००० मी. पर्यन्तम् अस्ति ।

शैलप्रस्थेषु प्रचुरमात्रायां खानिजाः प्राप्यन्ते । व्यापारिणः शैलप्रस्थे खननं कारयन्ति । अफ्रीका-देशस्य शैलप्रस्थः स्वर्णहीरकयोः खननाय प्रसिद्धः अस्ति । भारतेऽपि छोटानागपुरस्य शैलप्रस्थे लोहः, अङ्गारः, मैङ्गनीज इत्येते प्राप्यन्ते । शैलप्रस्थेषु वीक्षणीयस्थानानि अपि भवन्ति । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति ।

                                     

5.12. पृथिव्याः प्रमुखाणि परिमण्डलानि क्षेत्रम्मैदान

समतलभूमेः बृहद्भागः क्षेत्रम् कथ्यते । क्षेत्रस्य उच्चता समुद्रतलात् २०० मी. इत्यस्मात् अधिकः न भवति । नदीनां ग्रासप्रक्रियया क्षेत्राणां निर्माणं भवति । क्षेत्राणि उर्वराणि अपि भवन्ति । क्षेत्रेषु परिवहनस्य साधनानां निर्माणं सरलम् अस्ति । क्षेत्रेषु जनसङ्ख्या अधिका भवति । मनुष्येभ्यः क्षेत्राणि उपयोगीनि भवन्ति । यतः भवननिर्माणे समतलभूमेः आवश्यकता भवति । क्षेत्रेषु कृषिः अपि क्रियते । विश्वस्य बृहत्तमेषु भागेषु क्षेत्राणि सन्ति ।

                                     

5.13. पृथिव्याः प्रमुखाणि परिमण्डलानि जलमण्डलम्

पृथ्वी नीलग्रहः अपि कथ्यते । पृथिव्याः जलभागः ७१%, स्थलभागः २९% अस्ति । जलमण्डले जलस्य सर्वाणि स्वरूपाणि भवन्ति । तेषु – महासागराः, नद्यः, सरोवराणि, हिमनद्यः, भूमिगतजलं, वायुमण्डलस्य जलबाष्पः च सम्मिलिताः सन्ति ।

पृथिव्यां स्थितस्य जलभागस्य ९७.२% भागः महासागरेषु अस्ति । तज्जलं बहुक्षारयुतं भवति । अतः मनुष्येभ्यः अनुपयोगि वर्तते । २.७७% भागः हिमनदीनां, भूमिगतजलस्य, हिमस्तराणां च स्वरूपे अस्ति । ०.०३% भागे एव लवणहीनं जलं वर्तते । मानवाः तस्य जलस्य उपयोगं कर्तुं शक्नुवन्ति । यद्यपि नीलग्रहः अस्ति, तथापि जलस्य अभावः अस्ति ।

                                     

5.14. पृथिव्याः प्रमुखाणि परिमण्डलानि महासागराः

महासागराः जलमण्डलस्य मुख्यभागाः सन्ति । एते सर्वे परस्परं सम्बद्धाः सन्ति । महासागरीयजलं गतिशीलं भवति । महासागरीयजलस्य मुख्याः तिस्रः गतयः सन्ति । तरङ्गाः, वेलाः ज्वार-भाटा, Tide, महासागरीयधाराः च ।

पृथिव्यां चत्वारः महासागराः सन्ति । तेषु – प्रशान्तमहासागरः, अटलांटिक महासागरः, हिन्दमहासागरः, आर्कटिक महासागरः च ।

                                     

5.15. पृथिव्याः प्रमुखाणि परिमण्डलानि प्रशान्तमहासागरः

प्रशान्तमहासागरः पृथिव्याः बृहत्तमः महासागरःवर्तते । पृथिव्याः ६६% भागे अयं विस्तृतः अस्ति । मेरियाना इति नामकः पृथिव्याः गहनतमः गर्तः अस्मिन् महासागरे एव स्थितः अस्ति । अयं प्रायः वृत्ताकारः वर्तते । अस्य महासागरस्य चतसॄषु र्दिक्षु एशियामहाद्वीपः, आस्ट्रेलियामहाद्वीपः, उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च स्थितः अस्ति ।

                                     

5.16. पृथिव्याः प्रमुखाणि परिमण्डलानि अटलांटिक महासागरः

अटलांटिकमहासागरः विश्वस्य द्वितीयः बृहत्तमः महासागरः अस्ति । अस्य महासागरस्य आकारः आङ्ग्लभाषायाः S इति अक्षरम् इव वर्तते । अस्य महासागरस्य पश्चिमदिशि उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च अस्ति । पूर्वदिशि यूरोप-महाद्वीपः, अफ्रीका-महाद्वीपः च वर्तते । अस्य महासागरस्य माध्यमेन अधिकमात्रायां व्यापारः भवति । अतः सर्वेषु महासागरेषु व्यापारदृष्ट्या व्यस्ततमः महासागरः अस्ति ।



                                     

5.17. पृथिव्याः प्रमुखाणि परिमण्डलानि हिन्दमहासागरः

हिन्दमहासागरस्य नाम भारत-देशस्य नामोपरि अस्ति । अयं महासागरः त्रिभुजाकारः वर्तते । अस्य उत्तरदिशि एशिया-महाद्वीपः, पश्चिमदिशि अफ्रीका-महाद्वीपः, पूर्वदिशि ऑस्ट्रेलिया-महाद्वीपः च अस्ति ।

                                     

5.18. पृथिव्याः प्रमुखाणि परिमण्डलानि आर्कटिक महासागरः

आर्कटिकमहासागरः उत्तरध्रुववृत्ते स्थितः अस्ति । अयम् उत्तरध्रुवं परितः विस्तृतः अस्ति । अयं प्रशान्तमहासागरेण सह सम्बद्धः अस्ति । सा बेरिङ्ग नामिकः जलसन्धिः उच्यते ।

                                     

5.19. पृथिव्याः प्रमुखाणि परिमण्डलानि वायुमण्डलम्

पृथिवी वायूनां स्तरैः आवृता अस्ति । तत् वायुमण्डलम् कथ्यते । वायोः स्तरः अस्य ग्रहस्य महत्वपूर्णः भागः वर्तते । वायुमण्डले बहवः वायवः सन्ति । मानवानां जीवनाय ते वायवः साहाय्यं कुर्वन्ति । इदं वायुमण्डलं सूर्यस्य हानिकारकेभ्यः किरणेभ्यः जीवान् रक्षति ।

वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः कृताः । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलम्, आयनमण्डलं, बहिर्मण्डलं च ।

नाइट्रोजन-ऑक्सीजन इत्येतौ द्वौ वायू वायुमण्डले मुख्यत्वेन स्तः । विस्तारानुसारेण वायुमण्डलस्य ७८% भागे नाइट्रोजन वायुः, २१% भागे ऑक्सीजन वायुः, १% भागे अन्ये वायवःकार्बन डाई ऑक्साइड, ऑर्गन सन्ति । ऑक्सीजन वायुः श्वसनक्रियायाम् आवश्यकः वर्तते । यद्यपि कार्बन डाई ऑक्साइड इत्यस्य वायोः अल्पमात्रा अस्ति । तथापि अयं पृथिव्या निष्कासितायाः उष्मायाः अवशोषणं करोति । अयं वायुः पादपानां वृद्ध्यर्थम् अपि आवश्यकमः अस्ति ।

स्थलमण्डलात् औन्नत्ये वायुमण्डलस्य घनत्वे अपि भिन्नता भवति । समुद्रतले घनत्वस्य मात्रा सर्वाधिका वर्तते । किन्तु यथा यथा वायुमण्डले उर्ध्वं गच्छामः, तथैव घनत्वं न्यूनं भवति ।

                                     

5.20. पृथिव्याः प्रमुखाणि परिमण्डलानि वायुमण्डलस्य जलमण्डलस्य च विकासः

पृथिव्याः वायुमण्डलस्य वर्तमानसंरचनायां नाइट्रोजन, ऑक्सीजन च वायुः प्रमुखः अस्ति । वर्तमानवायुमण्डलस्य अवस्थात्रयम् अस्ति । प्रथमायाम् अवस्थायाम् आदिकालिकानां वायुमण्डलीयानां वायूनां ह्रासः भवति । द्वितीयावस्थायां पृथिव्याः उत्पन्नः जलवाष्पः वायुमण्डस्य विकासे साहाय्यं कृतवान् ।

पृथिव्याः शीतलीकरणे विभेदनकाले पृथिव्याः आन्तरिकभागात् अनेकाः जलवाष्पः, वायवः च निर्गताः । अनेन वायुमण्डलस्य उद्भवः जातः । प्रारम्भे वायुमण्डले जलवाष्पः, नाइट्रोजन, कार्बनडाइ ऑक्साइड, मीथेन, अमोनिया इत्यादयः वायवः अधिकमात्रायां प्राप्ताः अभवन्, किन्तु स्वतन्त्रः ऑक्सीजन-वायुः न्यूनः आसीत् । पृथ्व्याः आन्तरिकभागात् वायवः बहिरागताः, इयं प्रक्रिया वायु-उत्सर्जनम् Degassing इति कथ्यते । ज्वालामुखिनां विस्फोटैः वायुमण्डले जलवाष्पः, वायुः च अवर्धत । कार्बन् डाई ऑक्साइड वायुः वर्षाजले सम्मिश्रितः जातः । तेन कारणेन तापमानं न्यूनम् अभवत् । अतः अत्यधिकवर्षा अभवत् । अधिकवर्षया पृथिव्यां महासागराणां निर्माणम् अभवत् । पृथिव्याः उत्पत्यनन्तरं ५० कोटिवर्षेषु महासागाराणां निर्माणं जातम् । प्रायशः २५०-३०० कोटिः वर्षाणि पुरा प्रकाशसंश्लेषणस्य प्रक्रियायाः विकासः अभवत् । अनया प्रक्रियया महासागरेभ्यः ऑक्सीजन् वायोः वृद्धिः जाता । किञ्चित् कालान्तरे वायुमण्डले ऑक्सीजन् वायोः आवश्यकता पूर्णा अभवत् ।

                                     

5.21. पृथिव्याः प्रमुखाणि परिमण्डलानि जीवमण्डलम्

जीवमण्डलं स्थलमण्डले, जलमण्डले, वायुमण्डले च स्थितः कश्चित् भागः वर्तते । अस्मिन् मण्डले जीवनं शक्यम् । मण्डलेऽस्मिन् बह्वीनां प्रजातीनां जीवाः सन्ति । तेषु सूक्ष्मजीवाः, बैक्टीरिया, स्तनधारिणः इत्यादयः सर्वे जीवाः जीवमण्डले निवसन्ति । मनुष्यैः सह अन्ये प्राणिनः परस्परं जीवमण्डलैः सह सम्बद्धाः सन्ति । जीवमण्डलस्य प्राणिनः द्वयोः भागयोः विभक्ताः सन्ति । जन्तुजगत्, पादपजगत् च ।

                                     

6. पृथिव्यां जीवनम्

पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति । स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च । पृथिव्यां जैवमण्डलम् अपि वर्तते । पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य Biosphere रचना अभवत् । एते सर्वे जीवधारिणः अन्यैः मण्डलैः सह पारस्परिकक्रियां कुर्वन्ति । पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते । तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति । अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते । किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते । केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति ।

जैवमण्डलं, जैवमण्डलानां घटकाः च पर्यावरणस्य महत्वपूर्णानि तत्त्वानि सन्ति । एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति । तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति । जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते ।

                                     

7. बाह्यानुबन्धः

  • "The Gateway to Astronaut Photography of Earth". NASA-Johnson Space Center: Image Science and Analysis Laboratory.
  • "NASA Earth Observatory". NASA Goddard Space Flight Center: EOS Project Science Office.
  • "National Geomagnetism Program". United States Geological Survey.
  • "Global Measured Extremes of Temperature and Precipitation". National Climatic Data Center.
  • Fraser Cain & Dr. Pamela L. Gay 28 August 2007. "Ep. 51: Earth". Astronomy Cast Podcast.
  • "Earth: Overview". Solar System Exploration. NASA. Retrieved 2012-02-05.
  • Green, Tim 7 January 2005. "Most Changes in Earths Shape Are Due to Changes in Climate". Goddard Space Flight Center: NASA.
                                     
  • प र क तम त कथ यत अस म न प र ण स ष ट मन व श द वद वत प र ण प थ व भ ग ल नरक स वर ग म द र त र थम इत यद न न र पणम अस त श वप र वत य
  • ग ल यन र द श ङ कपद धत य त ष त रय ण न र द श ङ क न न र ध रण भवत प थ व प र णर प ण ग ल क र न स त अप त अन यम त क रक वर तत स स म न यत
  • प थ प र णक ल न ष चक रवर त ष आद य व न इत अस य न म न तरम प थ व इत न म प थ क रण द व आगतम प थ व शस य म ल व ष ण आरभ यत व ष ण व रज
  • र मग र य श रम ष - क ल द स प थ व - प रत प द सप तदश क षर ण भवन त लक षणम - जस जसयल वस ग रहयत श च प थ व ग र उद - कर शरद ज म ब जक रमव ल सश क ष ग र
  • पद र थ शर र ण सम प प र प त म व न शक न वन त अत व क त त असम भव एव प थ व - जल - त ज - व य - आक श मह भ त भगव न एत ष क वल चत र ण म एव उल ल खम
  • अष ट वसव एक दश र द र द व दश आद त य इन द र प रज पत एत द वत प थ व - द य - अन तर क ष ष क र यरत सन त एत द वत व ह य व श व स द न ग ण न
  • म क ल अथव सम नम द र भवत अनय म द रय पञ चतत व ण अग न - व य - आक श - प थ व - जल अप सन त ल त न भ त व शर रस य शक त अपर म त भवत एतस य स क ॐ
  • कल प त स य त तर ह क त र अस म क ज वनम ? अत अस म क द हस य ध रणप षण श प थ व अप त जस व य आक श इत य त पञ चभ त न र म त सन त द हस य म लघटक
  • सङ कल प द त एत न यष ट व श वर य ण क यसम पद वक ष यम ण तद धर म नभ घ तश च प थ व म र त य न न र णद ध य ग न श ङ ग र द क र य श ल मप यन प रव शत त न प
  • जस जसयल वस ग रहयत श च प थ व ग र - व त तरत न कर: ऽ ऽ ऽ ऽ ऽऽ ऽ ज स ज स य ल ग यत र प रत य कम अप प द क रम ण एक जगण एक सगण प न