ⓘ आजाद हिन्द फौज् इत्यस्य नेतृत्वं यदा सुभाषचन्द्र बोस् इत्यस्य हस्ते आसीत्, तदा भारते हिन्दछोडो इति आन्दोलनं चलति स्म । तदानीन्तने काले सुभाषचन्द्र बोस् इत्यनेन ..

                                     

ⓘ आजाद हिन्द फौज्

आजाद हिन्द फौज् इत्यस्य नेतृत्वं यदा सुभाषचन्द्र बोस् इत्यस्य हस्ते आसीत्, तदा भारते हिन्दछोडो इति आन्दोलनं चलति स्म । तदानीन्तने काले सुभाषचन्द्र बोस् इत्यनेन भारतस्य स्वतन्त्रतायैै जापान-देशस्य सेनायाः सहाय्येन ब्रिटिश्-शासकैस्सह युद्धस्य सज्जता कृता । १९४३ तमे वर्षे जुलाई-मासे आजाद हिन्द फौज् इत्यस्य नेतृत्वं सुभाषचन्द्र बोस् इत्यनेन स्वीकृतम् । तस्मात् दिनात् आजाद हिन्द फौज् इत्यस्य रचना, भारतस्य स्वातन्त्र्यप्रयासः दृढः अभवत् ।

                                     

1. भारत-देशे आङ्लशासनस्य प्रभावः

ब्रिटिश्-देशात् पाश्चात्याः वाणिज्यार्थं भारतमागताः । तैः स्वव्यापाराय ईस्य इन्डिया इत्यस्याः संस्थायाः स्थापना कृता । अस्याः समित्याः वा संस्थायाः माध्यमेन आङ्ग्लजनाः भारत-देशे आधिपत्यं स्थापयामासुः । अपि च इस्ट इन्डिया इत्यस्याः संस्थायाः अधिकारिणः भूमिकरं गृह्णन्ति स्म । सर्वप्रथमं तैः बंङ्गालप्रान्ते भूसत्त्वप्राप्त्यर्थम् अधिकारः प्राप्तः । ते च तत्रस्थैः अधिकारिजनैः सह मिलित्वा भूसत्त्वंं स्वीकुर्वन्ति स्म, तत्रस्थाः नवाब प्रजाः च पालयन्ति स्म । अनेन प्रकारेण तत्र द्वीमुखिशासनपद्धत्याः प्रारम्भः अभवत् । द्विमुखिशासनपद्धत्यनुसारेण समितिसेवकाः कृषकेभ्यः बलात् करं गृह्णन्ति स्म । अतः कृषकाः अपि त्रस्ताः भवन्ति स्म । पुनरियं संस्था करद्रव्येन वाणिज्यं कृत्वा धनम् एकत्रितं करोति स्म, अल्पमूल्यानां वस्तूनाम् उच्चमूल्यैः विक्रयं च करोति स्म । अस्मात् कारणात् देशस्य वस्त्रव्यापारः ध्वस्तः अभवत् । निर्धनकर्मकराः स्वोदरपूर्त्यर्थं महानगराणि च अगच्छन्, अन्ये कर्मकराः अकर्मण्याः च अभवन् । अनेन प्रकारेण अस्माकं भारत-देशस्य वाणिज्यं वैदेशिकानां हस्ते पातितम् ।

                                     

2. सामाजिकधार्मिकक्षेत्रे परिवर्तनम्

आङ्ग्लशासकानां वाणिज्यशासननीतिभिः भूस्वामिनः, व्यापारिवर्गाः, शिक्षितजनाः, मध्यमवर्गीयाः, सर्वकारकर्मचारिवर्गीयाः च जनाः उत्पन्नाः जाताः । तदानीन्तने काले भारतीयप्रजासु स्वतन्त्रतायाः वाणिविकास वर्तमानपत्राणि प्रचलितानि ।

समाजे प्राचीप्रथायाः स्थाने नवीनप्रथायाः उदयः जातः । अस्याः प्रथायाः प्रवर्तकः राजा राम मोहनराय इत्ययम् आसीत् । तेन महाभागेन सह लोर्ड विलियम् बेन्टिक् इतीयमपि समाजे नवीनप्रथायाः प्रसारे सहयोगम् अकरोत् । राजा राममोहनः सतीप्रथायाः विरोधं कृतवान् । पुनर्विवाहप्रथायाः, कन्याभ्रूणहत्यायाः च प्रतिबन्धम् अकरोत् तदर्थं नियमान् च अरचयत् ।

भारतदेशे आङ्ग्लसर्वकारस्य शासनव्यवस्था आङ्ग्लभाषायां प्रचतति स्म । अतः आङ्ग्लभाषायाः आवश्यकता जाता । तस्मात् कारणात् भारते आङ्ग्लशिक्षाप्रारम्भः अभवत् । प्रारम्भे मद्रास चेन्नई मुम्बई-कोलकातादि महानगरेषु विश्वविद्यालयानां स्थापना अभवत् ।

भारते धर्मोत्थान इति आन्दोलनाय यवनसमाजः, ब्रह्मसमाजः, प्रार्थनासमाजः, आर्यसमाजः, रामकृष्णमिशन्-थियोसोफिकल् सोसैटि इति एतादृशीनां संस्थानां प्रादुर्भावः जातः ।