ⓘ कस्तूर भाई. कस्तूरभाई इत्ययं लालभाई इत्यस्य पुत्रः आसीत् । अहमदाबाद-नगरे लालभाई दलपतभाई नाम्ना बह्व्यः शैक्षणिकसंस्थाः वर्तन्ते । यन्त्रागारस्वामिकर्मचरयोः सम्ब ..

                                     

ⓘ कस्तूर भाई

कस्तूरभाई इत्ययं लालभाई इत्यस्य पुत्रः आसीत् । अहमदाबाद-नगरे लालभाई दलपतभाई नाम्ना बह्व्यः शैक्षणिकसंस्थाः वर्तन्ते । यन्त्रागारस्वामिकर्मचरयोः सम्बन्धः कथं भाव्यः इत्यस्य आदर्शम् उदाहरणं लालभाई इत्ययम् आसीत् । महात्मनः ट्रस्ट्शिप् इति विचारः तेन स्वीकृतः । देशस्य स्वतन्त्रतायाम् अपि तस्य महत्वपूर्णं योगदानम् आसीत् ।

                                     

1. जन्म, परिवारश्च

१८९४ तमस्य वर्षस्य दिसम्बर मासस्य नवदशे १९ दिनाङ्के लालभाई मोहिनीबेन इत्येतयोः गृहे कस्तूरभाई नामाख्यस्य जन्म अभवत् । ते सप्तभ्रातरभगिन्यश्च आसन् । तेषु नरोत्तमभाई इत्ययं कस्तूरभाई इत्यनेन सह मित्रमिव व्यवहारं करोति स्म ।

                                     

2. बाल्यं, शिक्षणञ्च

कस्तूरभाई इत्येतेन त्रण दरवाजा इत्यस्य समीपवर्तिनि प्राथमिकशालायां प्राथमिकम् अध्ययनं प्राप्तम् । सः शालायां प्रतिवर्षं प्रथमे वा द्वितीये क्रमे एव उत्तीर्णः भवति स्म । तत्र पञ्चमकक्षायाः अभ्यासं समाप्य सः आर्.सी. हाई स्कूल् इत्यस्मिन् विद्यालये प्रविष्टः । तत्र कस्तूरभाई इत्यस्य आङ्ग्लसंस्कृतभाषयोः शिक्षकः केशव ध्रुव इत्याख्यः आसीत् । कस्तूरभाई इत्ययं १९११ तमे वर्षे अधिकैः अङ्कैः मेट्रिक् इत्यस्यां परीक्षायां समुत्तीर्णः । इतोऽप्यधिकम् अध्येतुम् इच्छावशात् गुजरातमहाविद्यालयं प्रविष्टः ।

                                     

3. पैतृक सम्पत्तेः विभाजनं, पितुःमृत्य च

यदा कस्तूरभाई इत्ययं मेट्रिक् इत्यस्यां परीक्षायां समुत्तीर्णः अभवत्, तदा पितृव्यः पैतृकीं सम्पत्तिं विभाजयितुम् स्वभ्रातरं लालभाई इत्येतम् अवदत् । सम्पत्तेस्तु विभाजनम् अभवत् किन्तु परिवारस्य प्राणतुल्यस्य हर्म्यस्य अपि विभाजनम् अभवत् । इदं लालभाई इत्यस्य कृते असह्यम् आसीत् । अतः लालभाई इत्ययं विभाजनस्य अनन्तरम् अल्पीयसि काले एव मृतः ।

                                     

4. कस्तूरभाई इत्यस्य कार्यरम्भ

पितुः मृत्युकाले कस्तूरभाई इत्यस्य महाविद्यालयं प्रविश्य षण्मासाः एव समाप्ताः आसन् । रायपुर-यन्त्रोपलस्य व्यवस्थायां तस्य आवश्यकता आसीत् । अतः मातुः कथनात् सः अभ्यासम् अत्यजत् । तदानीं तस्य वयः १८ एव आसीत् । अल्पीयसि वयसि कार्यभारः शिरसि आपतितः किन्तु माता मोहिनीबेन व्यवहारकुशलिनी आसीत् । सा पत्युः सम्पत्तिं योग्यरीत्या उपयुज्य व्यवहारम् अकरोत् । तस्याः मार्गदर्शनं कस्तूरभाई इत्यस्मै अतीव उपयोगी अभवत् । पितृव्यः कस्तूरभाई इत्यस्य प्रतिभया अज्ञः आसीत् । अतः तस्मै समयगणकस्य time keeper कार्यम् अयच्छत् । इदं तु सेवककार्यम् आसीत् । यन्त्रोपलस्वामिनः पुत्रः इदं कार्यं कुर्यात् किम्? ततः परं तस्मै यन्त्रसामग्रीणां क्रयणस्य कार्यं प्रदत्तम् । किन्तु इदं कार्यं प्रतिदिनं न भवति ।

                                     

5. कस्तूरभाई इत्यस्य वैशिष्ट्यम्

पितृव्येण कस्तूरभाई इत्यस्मै कार्पासक्रयणस्य कार्यं प्रदत्तम् । तत्र तेन स्वप्रतिभा दर्शिता । वस्त्रस्य कठोरता मृदुता च कार्पासेन आधारिता एव भवति । सामान्यतया कार्पासपरीक्षणं यन्त्रोपले mill एव भवति । किन्तु कस्तूरभाई इत्ययं तस्मादेकम् अधिकं सोपानमारुह्य ग्रामेषु यद् कार्पासोत्पादनं भवति, तत्सर्वं ज्ञात्वा एव कार्पासं यन्त्रोपलम् आनयति स्म । तत्र तस्य अकल्पनीया गतिः आसीत् । अङ्गुलीनां स्पर्शमात्रेण सः कार्पासपरीक्षणं करोति स्म । तदानीं प्रायशः सर्वेऽपि यन्त्रोपलस्वामिनः कार्यारम्भात् प्राक् निष्णातानां सुज्ञानां जनानां सहायतां स्वीकुर्वन्ति स्म । किन्तु कस्तूरभाई स्वस्य आत्मज्ञानेन निर्णयं करोति स्म । वस्त्रस्य कः प्रकारः कुत्र अधिकाधिकं प्रचलति इत्येतत्सर्वं ज्ञातुं सर्वत्र सः भ्रमणमपि अकरोत् ।

                                     

6. विवाहः

१९१५ तमे वर्षे चीमनलाल वाडीलाल इत्यस्य शारदाबेन इत्याख्यया पुत्र्या सह कस्तूरभाई इत्यस्य विवाहः अभवत् । एतस्याः नाम्नः आधारेणैव अहमदाबाद-नगरस्य सरसपुर इत्यत्र एकः चिकित्सालयः अस्ति ।



                                     

7. महात्मना सह मेलनम्, सेवकानां वेतनवर्धनम्

तदानीमेव महात्मना अहमदाबाद-नगरस्य कोचरण इत्यत्र सत्याग्रह-आश्रमः स्थापितः । कस्तूरभाई इत्ययं महात्मानं मिलितवान् । वर्षद्वयान्ते अहमदाबाद-नगरे प्लेग-नामकः रोगः प्रसृतः । तदानीं महात्मा आश्रमं साबरमतीतटम् अनयत् । किन्तु दरिद्रजनाः कुत्र गच्छेयुः? तेषां सङ्ख्या अपि बह्वी आसीत् । अतः बहुभिः स्वदेशगमनं कृतम्, अन्यैश्च यन्त्रोपलबहिष्कारः कृतः । तेभ्यः महात्मना एव मार्गः दर्शितः । तेषां समर्थने महात्माऽपि उपवासान् अकरोत् । अन्ते आनन्दशङ्करध्रुवं मध्यस्थिनं कृत्वा ३५% वेतनवर्धनम् अकरोत् ।

                                     

8. कार्याध्यक्ष मजूर महाजन सङ्घ’ इत्यस्य स्थापना च

यन्त्रोपलस्वामिनां प्रतिनिधित्वेन कस्तूरभाई इत्ययं यावत्प्रेमम् अदर्शयत् तेन प्रभाविताः यन्त्रोपलस्वामिनः कार्याध्यक्षत्वेन तम् अयोजयन् । १९२० तमे वर्षे ‘मजूर महाजन सङ्घ’ इत्यस्य स्थापनामकरोत् । सेवकाः प्रसन्नाश्चेदेव यन्त्रागारस्य उत्पादनम् अधिकं भवष्यति इति कस्तूरभाई इत्ययं सदा सर्वदा विचिन्तयति स्म । अतः तेषां कल्याणप्रवृत्तौ सः अधिकरसम् अधारयत् । रायपुर-यन्त्रोपले पञ्चाशत्सहस्ररूप्यकधनेन बालगृहम् अरचयत् । तस्योद्घाटनमपि महात्मनैव कृतम् ।

                                     

9. यन्त्रोपलानां मण्डलस्य प्रतिनिधिः

१९२२ तमे वर्षे सरदार पटेल इत्यस्य आग्रहेण कस्तूरभाई केन्द्रीय असेम्ब्लि इत्यस्मिन् यन्त्रोपलानां मण्डलस्य प्रतिनिधित्वेन चितः । ब्रिटिश-सर्वकारः लेङ्कशैर् इत्यस्य वस्त्रोद्योगाय लाभः भवेत् इति भारतस्य यन्त्रोपलेषु यानि वस्त्राणि सज्जीभवन्ति, तेषाम् उपरि प्रतिशतं ३.५०% सर्वकाराय दातव्यमिति निर्णयम् अकरोत् । कस्तूरभाई इत्ययं तस्य विरोधं कुर्वन् केन्द्रीय असेम्ब्लि इत्यस्य सभ्यानां समर्थनं प्राप्य तत् निरस्त्यकरोत् । यद्यपि सर्वकारेण करः न स्वीकृतः तथापि वस्त्रोद्योगानां कठिनतायाः निवारणं न अभवत् ।

                                     

10. हिन्द व्यापारोद्योगस्य प्रमुखः

इङ्ग्लेण्ड-देशस्य जापान-देशस्य च वस्त्राणाम् अपेक्षया भारतस्य वस्त्राणि अयोग्यानि आसन् । तदभ्यस्तुं कस्तूरभाई इत्ययं टेरिक् कमिशन् इत्यस्य रचनाम् अकरोत् । अतः यन्त्रोपलानां प्रतिनिधित्वेन कस्तूरभाई इत्ययं समाविष्टः । किन्तु अस्य आयोगस्य कथनं सर्वकारः न श्रुतवान् । तथापि कस्तूरभाई इत्यस्य सूचनाः सर्वैः स्वीकृताः । तस्य अभ्यासपूर्णेन कथनेन प्रभाविताः सन्तः यन्त्रोपलस्वामिनः ‘हिन्द’ इत्यस्य व्यापारोद्योगस्य प्रमुखपदे तस्य नियुक्तिम् अकुर्वन् । अहमदाबाद-नगरस्य यन्त्रोपलप्रमुखत्वेनापि सः चितः । जिनीवा इत्यस्मिन् भारतस्य उद्योगपतीनां प्रतिनिधित्वेनापि उपस्थितः आसीत् ।

                                     

11. अरविन्द मिल् इत्यस्य स्थापना

१९३१ तमे वर्षे कस्तूरभाई इत्यनेन अरविन्द मिल् इत्यस्य स्थापना कृता । तदानीं यन्त्राणां विक्रये मन्दता आसीत् । तस्मात् तेन न्यूनधनेन यन्त्राणि लब्धानि । तस्य प्रेमपूर्णः व्यवहारः आसीत् इत्यतः अरविन्द मिल् देशस्य मुख्ययन्त्रोपलेषु स्थानम् अयात्, यत् अद्यापि मुख्ययन्त्रोपलत्वेनैव प्रचाल्यमानम् अस्ति । १९३५ तमे वर्षे एजुकेशन् सोसैटि इत्यस्य रचना जाता । कस्तूरभाई तस्य प्रमूखः अभवत् ।

                                     

12. चिन्तामणि देशमुख रिजर्व बेङ्क् इत्यस्य प्रथमः भारतीयप्रशासकः

१९३७ तमे वर्षे कस्तूरभाई रिजर्व बेङ्क् इत्यस्य अध्यक्षपदे नियुक्तः । तस्य द्वितीये वर्षे रिजर्व बेङ्क् इत्यस्य प्रशासकस्य अवसानम् अभवत् । पदेऽस्मिन् प्रायशः ब्रिटिश-जनस्यैव नियुक्तिः भवति स्म । किन्तु कस्तूरभाई वित्ताध्यक्षं प्रबोध्य चिन्तामणि देशमुख इत्यस्य प्रशासकपदे नियुक्तिम् अकरोत् । इत्थं चिन्तामणि देशमुख इत्ययं रिजर्व बेङ्क् इत्यस्य प्रथमः भारतीयप्रशासकः अभवत् । १९४२ तमे वर्षे महात्मना हिन्द छोडो आन्दोलनमारब्धम् । यन्त्रोपलानां कार्यकर्तारः अपि तस्मिन् सम्मिलिताः भवेयुः इति महात्मा ऐच्छत् । कस्तूरभाई तदानीं मुम्बई-नगरे आसीत् । मजूर महाजन सङ्घ इत्यस्य मन्त्रिणा खण्डुभाई देसाई इत्यनेन सह दूरभाषयन्त्रेण चर्चां कृत्वा कर्मकरान् स्वस्थानं प्रेषयितुम् अकथयत् ।



                                     

13. विक्रम साराभाई इत्यस्य सहायकः

विक्रम साराभाई इत्यनेन १९४७ तमे वर्षे अटिरा, १९४८ तमे वर्षे फिजिकल् रिसर्च् लेबोरेटरी इत्यस्य स्थापना कृता । तयोः निर्माणे कस्तूरभाई इत्ययं तस्य साहाय्यम् अकरोत् । विक्रम साराभाई इत्यस्य अवसाने सति अणुसंस्थायाः भारः तस्य उपरि आगतः । अतः १९७६ यावत् तस्य अध्यक्षपदम् आलङ्करोत् । ततः परं स्वतन्त्रभारते नौकाश्रयचयनसमितेः अध्यक्षपदे तस्य नियुक्तिः अभवत् । यन्त्रोपलवस्त्राणां रज्जनकार्ये वर्णस्य आवश्यकता भवति

                                     

14. अतुल प्रोडक्ट्स् स्थापना

विदेशात् वर्णानाम् आनयनम् अधिकं व्ययकरम् आसीत् । अतः रसायनोद्योगे कार्यं कृत्वा १९५० तमे वर्षे वलसाड-तः ७ कि.मी. दूरे पारनेरा इत्यस्य पर्वते ८०० एकर भूमौ अतुल प्रोडक्ट्स् इत्यस्य स्थापनाम् अकरोत् । तत्र रसायनौषधयोः उत्पादनम् आरभत । कार्येऽस्मिन् बी.एच्.यू. इत्यस्य अर्थशास्त्रज्ञस्य बी. के. मजुमदार इत्यस्य सहायता प्राप्ता येन अतुल प्रोडक्ट्स् इति इयं संस्था अन्ताराष्ट्रियसिद्धिम् अयात् ।

                                     

15. पत्न्याः मृत्युः

अतुल प्रोडक्ट्स् इत्यस्याः संस्थायाः स्थापनायाः वर्षे तस्य पत्नी मृता । अस्य दुःखदस्य प्रसङ्गस्य कतिचिद्दिवसानन्तरं ‘साईनेमाईड्’ इत्यस्याः संस्थायाः प्रतिनिधीनां सम्मानने भोजनसमारम्भः आसीत् । कस्तूरभाई तत्र उपस्थितः न भवेत् चेत् अविवेकः स्यात् । अतः खिन्नहृदयः सन् तत्र उपस्थितः अभवत् । तथापि दुःखाधिक्यात् सः अरोदत् । पत्न्याः स्मरणमात्रेण तस्य अक्षिणी क्लिन्दे अभवताम् ।

                                     

16. कार्पण्यसमितेः अध्यक्षः

सरलता, कार्पण्यता इत्येतौ तस्य मुख्यगुणौ आस्ताम् । पाश्चात्यसंस्कृतेः प्रभावात् उद्योगपतयः वैदेशिकवस्त्राणि धरन्ति स्म । किन्तु कस्तूरभाई श्वेतधौतवस्त्रं, ‘जब्भा’-वस्त्रं, मस्तके शिरस्त्राणं च धरति स्म । तस्य एतादृशं व्यवहारं दृष्ट्वा एव सर्वकारः तं कार्पण्यसमितेः अध्यक्षपदम् अयच्छत् ।

                                     

17. मृत्युः

१९८० तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के तस्य मृत्युः अभवत् । तस्य इच्छानुसारं तस्मिन् दिने एकः अपि यन्त्रोपलः न पिहितः । सर्वैः कर्मकरैः स्वस्य तद्दिनस्य वेतनं कर्मकरकल्याणाय दत्त्वा विशिष्टोदाहरणं स्थापितम् ।