ⓘ उज्जैनमण्डलम् इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उज्जैन इति नगरम् ..

                                     

ⓘ उज्जैनमण्डलम्

उज्जैनमण्डलम् इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उज्जैन इति नगरम् ।

                                     

1. भौगोलिकम्

उज्जैनमण्डलस्य विस्तारः ६,०९१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे इन्दौरमण्डलम् अस्ति । अस्मिन् मण्डले क्षिप्रानदी प्रवहति ।

                                     

2. जनसङ्ख्या

२०११ जनगणनानुगुणम् उज्जैनमण्डलस्य जनसङ्ख्या १९,८६,८६४ अस्ति । अत्र १०,१६,२८९ पुरुषाः, ९,७०,५७५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.१२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ७२.३४% अस्ति ।

                                     

3. कृषिः वाणिज्यं च

अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः विदेशात् च विद्यार्थिनः पठितुम् तत्र गच्छन्ति । इदं मण्डलं प्रगतिशीलम् अस्ति ।

                                     

4. वीक्षणीयस्थलानि

महाकालेश्वर-मन्दिरम्

महाकालेश्वरमन्दिरम् उज्जैननगरे स्थितम् अस्ति । इदं मन्दिरं द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । तत्र शिवलिङ्गस्य जलधारा दक्षिणस्यां दिशि प्रवहति इति विशेषः ।

भर्तृहरि-गुहा

भर्तृहरि-गुहा इत्यत्र एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनःपुन्येन जीर्णोद्धाराः अभवन् ।

                                     

4.1. वीक्षणीयस्थलानि महाकालेश्वर-मन्दिरम्

महाकालेश्वरमन्दिरम् उज्जैननगरे स्थितम् अस्ति । इदं मन्दिरं द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । तत्र शिवलिङ्गस्य जलधारा दक्षिणस्यां दिशि प्रवहति इति विशेषः ।

                                     

4.2. वीक्षणीयस्थलानि श्री बडे-गणेशमन्दिरम्

महाकालेश्वरमन्दिरस्य समीपे हरसिद्धिमार्गे बडे-गणेशस्य भव्यकलापूर्णमूर्तिः प्रतिष्ठिता अस्ति । अस्याः मूर्त्याः निर्माणं पद्मविभूषणस्य पं. सूर्यनारायणव्यासस्य पित्रा विदुषा स्व. पं. नारायणव्यासेन कृतम् आसीत् । सप्तधातुनिर्मिता पञ्चमुखिहनुमत्प्रतिमा, नवग्रहाणां मन्दिरं तथा कृष्णयशोदयोः प्रतिमे अपि विराजितौ स्तः ।



                                     

4.3. वीक्षणीयस्थलानि मङ्गलनाथ-मन्दिरम्

पुराणानामनुसारेण उज्जैन-नगरी मङ्गलग्रहस्य जननी उच्यते । येषां जनानां कुण्डल्यां मङ्गलः अनिष्टः स्यात्, ते सर्वे जनाः अनिष्टदोषात् निवृत्यर्थम् तत्र पूजां कारयन्ति । यद्यपि मङ्गलभगवतः बहूनि मन्दिराणि सन्ति किन्तु उज्जैन-नगरम् अस्य जन्मस्थानं वर्तते इति महत्त्वम् अपि अधिकम् अस्ति । उच्यते यत् इदं मन्दिरम् अतीव पुरातनमस्ति । सिन्धियावंशजैः अस्य पुनर्निर्माणं कारितम् । उज्जैन-नगरं महाकालस्य नगरी इति उच्यते । अतः जनाः तत्र मङ्गलनाथस्य भगवतः शिवरूपात्मिकायाः प्रतिमायाः पूजां कुर्वन्ति । प्रतिमङ्गलवासरे तत्र बहवः भक्तजनाः गच्छन्ति ।

                                     

4.4. वीक्षणीयस्थलानि क्षिप्रातटम्

उज्जैन-नगरस्य धार्मिकस्वरूपे क्षिप्रानद्याः तटानां प्रमुखं स्थानं वर्तते । नद्याः दक्षिणतटे नगरं स्थितमस्ति, तत्र तटानि स्नानार्थिनां कृते सोपानयुक्तानि सन्ति । विभिन्नानां देवतानां नूतनानि पुरातनानि च मन्दिराणि अपि स्थितानि सन्ति । सिंहस्थमहापर्वणि यदा बहवः भक्तजनाः स्नानं कुर्वन्ति तदा एषां गौरवं दृश्यते ।

                                     

4.5. वीक्षणीयस्थलानि गोपाल-मन्दिरम्

गोपालमन्दिरम् उज्जैन-नगरस्य विशालमन्दिराणां क्रमे द्वितीयमस्ति । इदं मन्दिरं नगरस्य मध्येऽधिकजनसम्मर्दे क्षेत्रे स्थितमस्ति । अस्य मन्दिरस्य निर्माणं दौलतराव सिन्धिया इत्यस्य महिष्या बायजाबाई इत्यनया ई. १८३३ तमे वर्षे कारितम् । कृष्णस्य गोपाल मूर्तिः मन्दिरेऽस्मिन् वर्तते । रजतयुतानि द्वाराणि अस्य मन्दिरस्य आकर्षणकेन्द्राणि सन्ति ।

                                     

4.6. वीक्षणीयस्थलानि गढकालिकादेवी

गढकालिकादेवीमन्दिरम् उज्जैन-नगरस्य प्राचीने अवन्तिकाक्षेत्रे स्थितमस्ति । कालिदासः गढकालिकादेव्याः उपासकः आसीत् । राज्ञा हर्षवर्धनेन अस्य मन्दिरस्य जीर्णोद्धारः कारितः इति एतादृक् उल्लेखः प्राप्यते । ग्वालियर-प्रान्तस्य महाराजस्य शासनकाले अस्य मन्दिरस्य पुनर्निर्माणम् अभवत् ।

                                     

4.7. वीक्षणीयस्थलानि भर्तृहरि-गुहा

भर्तृहरि-गुहा इत्यत्र एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनःपुन्येन जीर्णोद्धाराः अभवन् ।

                                     

4.8. वीक्षणीयस्थलानि कालभैरवः

कालभैरवस्य मन्दिरम् इदानीम् अवन्तिकानगर्याम् अस्ति । मन्दिरेऽस्मिन् कालभैरवस्य विशालमूर्तिः अस्ति । उच्यते यत् अस्य मन्दिरस्य निर्माणं प्राचीनकाले राज्ञा भीमसेनेन कारितम् । पुराणेषु वर्णितेषु चतुष्षष्ठिभैरवेषु अन्यतमः अस्ति कालभैरवः ।



                                     
  • पश च मभ ग इद मण डलम अस त अस य मण डलस य प र व र जगढमण डल पश च म उज ज नमण डलम उत तर र जस थ नर ज य दक ष ण द व समण डलम अस त अस म न मण डल
  • उज ज नमण डलम ध रमण डलम द व समण डलम इन द रमण डलम   खरग नमण डलम