ⓘ सुरत महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर ..

                                     

ⓘ सुरत

सुरत महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर्वदस्ति । सद्यः सुरतमहानगरस्य ७०% जनसङ्ख्या नगरेतरवासिनामस्ति । अतः अत्र गुजराती, हिन्दी, आङ्ग्लभाषानां विद्यालयाः सन्ति । अत्र मराठी-बङ्गाली-तमिळ-तेलुगु-उडिया-मलयालमभाषानामपि विद्यालयाः दरिदृश्यन्ते । सुरतमण्डलस्य मुख्यकेन्द्रमस्ति एतन्महानगरम् । भारतस्य स्वच्छतमनगरेषु सुरतमहानगरं सर्वोच्चस्थानेऽस्ति । सिल्क सिटी, वज्रनगरम्, हरितनगरम् इति प्रख्यातमेतन्महानगरम् । अस्य सूर्यपुरम् इति नामान्तरम् अस्ति । महानगरस्यास्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । आङ्ग्लानां प्रप्रथमशासनम् एतन्महानगरे आरब्धम्, आभारते विस्तृतञ्च । ‘डच्’-‘पुर्तगाली’-जनानाम् एतत् मुख्यव्यापारस्थानमासीत् ।

                                     

1. इतिहासः

क्रिस्ताब्दस्य ३०० वर्षपूर्वमपि सुरतमहानगरस्येतिहासः अतीव तेजस्वी आसीत् । मूलतः एतन्महानगरं हिन्दुपरम्पराम् अनुसरतां नगरमासीत् । १५०० तः १५२० पर्यन्तम् अस्य नाम सूर्यपुरम् इति आसीत् । अत्र भृगु-सौवीरा-नामकराजानौ क्रमेण शासनं चक्रतुः । १२ शताब्दे पारसीजनाः अत्र स्थायिरूपेण निवसितवन्तः । १७५९ तमे वर्षे मुघलशासकेभ्यः एतन्महानगरम् आङ्ग्लाः बलेन नीतवन्तः । सुरतमहानगरं तापीनद्याः तीरे, अरबीसागरतटे च विकसितम् अस्ति । अस्य समुद्रतटविस्तारः ६ कि.मी. लम्बमानः अस्ति । अतः प्रचीनकालात् एतन्महानगरं व्यापारस्य मुख्यस्थानम् अस्ति । १६, १७, १८ शताब्देषु अस्य समुद्रतटः भारतस्य प्रमुखं व्यापारकेन्द्रमासीत् । एतन्महानगरं पोतShipनिर्माणस्यापि मुख्यं केन्द्रमासीत् ।

                                     

1.1. इतिहासः समुद्रतटेतिहासः

१६ तमे शताब्दे निर्मितस्य अत्रत्यस्य राजदुर्गस्य प्राचीनस्मारकेषु गणना भवति । पुरा एषः दुर्गः सुरतमहानगरम् आक्रमणकारैः रक्षति स्म । कर्णावतीमहानगरस्य राजा ‘महमूद्-III’ १५३८-१५५४ आदिष्टवान् आसीत् "यथा दुर्गः दुर्जेयः भवेत् तथास्य निर्माणं भवतु" इति । आदेशानुसारं ‘साफि-आघा’नामकः तुर्कीसैनिकः दुर्गनिर्माणस्य दायित्वं स्व्यकरोत् । दुर्गनिर्माणस्य कार्यं १७४६ तमे वर्षे समाप्तं जातम् । राजा यथा इष्टवान् आसीत्, तथैव दुर्गस्य निर्माणं जातम् आसीत् । अतः राजा तं ‘खुदावन्द् खान्’ इति नामकरणं कृतवान् । ततः ‘अक्बर्’-राजा सुरतस्य अधिपतिः जातः । यदा सः दिल्लीमहानगरं गतवान्, तदा स्वस्य विश्वस्तं ‘सिधि’ इत्येनम् उपराजत्वेन नियुक्तवान् । परन्तु १८५९ तमे वर्षे ‘सिधि’ इत्यस्मात् आङ्ग्लाः एनं दुर्गं बलात् नीतवन्तः ।

                                     

2. वीक्षणीयस्थानानि

प्राचीनकालात् सुरतमहानगरं बाह्यप्रदेशात् आगतानां निवासस्थानम् अस्ति । अतः भिन्नसंस्कृतीनां, भिन्नसम्प्रदायपथां मुख्यस्थानमपि एतन्महानगरम् अभूत् । अत्र यानि वीक्षणीयस्थलानि सन्ति, तानि भिन्नसंस्कृतीनां स्मारकाणि सन्ति । यथा – सुरतमहानगरस्य कोटःFort, पारसी अगियारी, चिन्तामणिजैनमन्दिरं, सरदार् वल्लभभाई पटेलस्मारकं, दाण्डीसमुद्रतटः, तीथलसमुद्रतटः, गोपीतडागः, ‘नवसईद् मस्जिद्’, वीरनर्मदसरस्वतीमन्दिरम् इति ।

                                     

2.1. वीक्षणीयस्थानानि सुरतमहानगरस्य कोटः

१५४० तमे वर्षे ‘सुल्तान् महमुद्-III’ सुरतमहानगरकोटस्य સુરતનો કોટ निर्माणं कारितवान् । सद्यः अत्र सर्वकारकार्यालयाः सन्ति । परन्तु प्रवासिनः दुर्गस्य सर्वोच्चाट्टं गत्वा तापीनद्याः, सुरतमहानगरस्य च हृदयाह्लादकं दृश्यं द्रष्टुं शक्नुवन्ति ।

                                     

2.2. वीक्षणीयस्थानानि चिन्तामणिजैनमन्दिरम्

१७ तमे शताब्दे ‘बादशाह् औरङ्गजेब्’ इत्यस्य शासनकाले चिन्तामणिजैनमन्दिरं निर्मितमासीत् । यवनाः मन्दिरधनलुण्ठकाः आसन्, अतः अस्य बाह्यरूपम् अत्यन्तं साधारणं दृश्यते । परन्तु अन्तः अद्भुतशिल्पकलायाः दर्शनं भवति । अन्तः काष्ठस्य ये स्तम्भाः सन्ति, ते प्राकृतिकरङ्गेन रञ्जिताः सन्ति ।

                                     

2.3. वीक्षणीयस्थानानि सरदार् वल्लभभाई पटेलस्मारकम्

१९८९ तमे वर्षे सरदार् वल्लभभाई पटेलस्मारकस्य स्थापना कृता । अत्र सुरतमहानगरस्य इतिहासस्य वस्तूनि, अन्यानि पुरातनवस्तूनि च प्रदर्शन्यां स्थापितानि सन्ति । एतत् स्मारकं सर्वकारावकाशेषु, रविवासरे च पिहितं भवति । परन्तु अन्यदिनेषु ९-११:३०, २:४५-५:४५ समयपर्यन्तम् आगन्तुकानां कृते उद्घाटितं भवति । अत्र तारालयः planetarium अस्ति । अत्र अन्तरिक्षप्रदर्शनं भवति ।

अन्यान्यपि वीक्षणीयस्थलानि सन्ति एतस्मिन् महानगरे, यत्र प्रवासिनः अधिकसङ्ख्यायां गच्छन्ति । तेषु एकस्य चित्रं दत्तमस्ति अत्र ।



                                     

3. मार्गाः

विमानमार्गः

सुरतविमानस्थानकं मुख्यनगरात् १६ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च सुरतमहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गः

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय बस्यानानि अपि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-जयपुरादिनगरेभ्यः बस्यानानि सन्ति ।

                                     
  • ग जर तर ज यस य क ञ चन प रम ख जनपदम अस त अस य मण डलस य क न द रम अस त स रत इत मह नगरम स रतमण डलस य व स त र चत रस रक ल म टर म त अस त ग जर तर ज यस य
  • पश च म स थ त क ञ चन र ज यम ग न ध नगरम अस य र ज यस य क न दम कर ण वत - स रत - वड दर - र जक ट - मह नगर ण र ज यस म न प रम खनगर ण सन त अस य र ज यस य ब हत तम
  • व म नस थ नक स रत - मह नगर अस त तत र लय न न व बस य न न एकत म र त स थल प र प त शक यत ग जर तर ज यस य अहमद ब द - र जक ट - मह नगर भ य व म नय न न स रत - मह नगर य
  • लक ष यम आस त तस य प र थम क श क षण स रत - नगरस य स र वजन क गर ल स ह इ स क ल इत यत र अभवत तत पर स स रत - नगरस य एम ट ब मह व द य लय त स न तकस य
  • द व चत व र शत द श भ गम अवहन म ख यतय ग जर तर ज यस य अहमद ब द, स रत वड दर र जक ट, नड य द - आद ष नगर - मह नगर ष व त ट त सवस य आय जन भवत त ष
  • बजरङ गद स ग र आज ञ श रस य ध य आश रम त न र गच छन प रथमम अवतरण स रत - नगर अकर त तत र ब गमपर क ष त रस य लक ष म न र ण मन द रम अत ष ठत जन न
  • आस त स न दर क षर न यततय ग हक र य क त व व स प ठश ल गच छत स म स रत - मह नगर स वर णनगरम इत प रख य तम आस त उद य ग - भवनन र म ण - यन त र ग र
  • व स फ टकस थ त आस त अन न आन द लनस य ग म भ र य ज ञ यत सर वक र ण सह स रत - मह नगर मन त रण असफल अभ त ज ल ई - म सस य त रय व शत तम वर ष द न ङ क
  • प ल त ण ग ण डल डभ ई वल लभ प र खम भ त भ वनगर भ ज म ण डव स रत कण डल वड दर ख ड व घई र जक ट मह स ण ड ङ ग प टण भर च
  • प ल त ण ग ण डल डभ ई वल लभ प र खम भ त भ वनगर भ ज म ण डव स रत कण डल वड दर ख ड व घई र जक ट मह स ण ड ङ ग प टण भर च
  • बङ गभङ ग इत आन द लन चलत स म द द स ह ब इत ययमप तत र सम म ल त अपर वर ष स रत - नगर क ङ ग र स इत यस य अध व शनम आस त तत र व द श कवस त न बह ष क रस य