ⓘ अरविन्द केजरीवाल. अरविन्दकेजरीवालः भारतस्य समाजसेवक: अस्ति। सामाजिक-राजनीतिकान्दोलनेषु सहभागित्वात् पूर्वं सः भारतीयराजस्वसेवायाम् अधिकारी आसीत्। २००६ तमे क्रिष ..

                                     

ⓘ अरविन्द केजरीवाल

अरविन्दकेजरीवालः भारतस्य समाजसेवक: अस्ति। सामाजिक-राजनीतिकान्दोलनेषु सहभागित्वात् पूर्वं सः भारतीयराजस्वसेवायाम् अधिकारी आसीत्। २००६ तमे क्रिष्टाब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः।

                                     

1. प्रारम्भिकजीवनम्

अरविन्दः १९६८तमे संवत्सरे हरियाणाराज्यस्य हिस्सारनगरे जन्म प्राप्तवान् । तस्य पितरौ गोबिन्दश्च गीता । तस्यैका भगिनी एकश्च भ्राता अस्ति सः च ज्येष्ठः वर्तते। तस्य पिता अभियन्ता अस्ति, यः मेसरास्थात् बिरलाप्रौद्योगिकीसंस्थानात् स्नातकपदवीं प्राप्तवान् । केजरीवालस्य बाल्यं सोनीपत-मथुरा-हिसारसदृशेषु उत्तरभारतीयलघुनगरेषु व्यतीतम् । तस्य विद्यालयशिक्षा कैम्पस्-स्कूल्-हिसारम् इत्यत्र अभवत्। एषः १९८९तमे वर्षे खरगपुरस्य भारतीय प्रौद्यौगिकी संस्थाने IITतान्त्रिकपदवीं प्राप्तवान् ।

                                     

2. सामाजिककार्याणि

पूर्वारभ्य अरविन्दवर्यः भ्रष्टाचारस्य तस्य विषये जनानां निष्क्रियतायाः विषये बहु कुपितः आसीत् । तदर्थम् सः टाटा संस्थायां कार्यं त्यक्त्वा मिशनरीस् आफ़् चारिटि रामकृष्णाश्रमसदृशां संस्थायां सेवां कर्तुं इष्टवान् । कालान्तरे सः देहलीनगरे भारतीयराजस्वसेवायाम् अधिकारीरूपेण कार्यमारब्धवान् । तत्र सः सर्वकारे प्रचलितस्य भ्रष्टाचारस्य मूलकारणं तु अपारदर्शिका शासनव्यवस्था इति अवगतवान् । तस्याः समस्यायाः परिहारार्थं अरविन्दवर्यः स्वकार्यालय-व्यवस्थायां अनेक परिवर्तनानि आनीतवान् ।

२०००तमे वर्षे अरविन्दवर्यः देहलीनगरे परिवर्तनम् नामकं नागरीकान्दोलनं आरब्धवान् । २००६तमे संवत्सरे सर्वकारकार्याय त्यागपत्रं दत्त्वा परिवर्तनस्य कृते पूर्णसमयम् अर्पितवान् । तस्मिन् समये एव अरुणा राय् महोदयया साहाय्येन Right to Information Act एतस्य अनुष्ठानाय अभियानमेकम् आरब्धवान् । एतस्य मौन-सामाजिकान्दोलनस्य फलरूपेण सर्वकारपरतया एतस्य स्वीकरणं अनुष्ठानञ्च जातम् । तदनन्तरम् २००६तमे वर्षारभ्य एतस्य विषये जनजागृतिकार्यक्रमः आरब्धः ।

२००६ तमे ख्रिस्ताब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः। तत् सम्मानं तस्मै सूचनाऽधिकारं तृणमूलस्तरे क्रियान्वितम् अकरोत् इति कृत्वा, तथा च सर्वकारः जनेभ्यः उत्तरदायी वर्तेत इति द्वारा भ्रष्टाचारविरुद्धयुद्धे दरिद्रजनानां शक्तीकरणार्थं तस्य सामाजिकक्रियाकलापान् आलक्ष्य प्रदत्तम्। २००६ ख्रिस्ताब्दे अरविन्दवर्यः एकम् असर्वकारीयसङ्घटनं संस्थापितवान् पब्लिक्-कौस्-रिसर्च्-फौन्डेशन् इत्येतत्। तत्र सः कौर्पस्-निधित्वेन स्वकीयं मैग्सायसाय्-पुरस्कारधनं दत्तवान्। २०१२ ख्रिस्ताब्दे नवम्बरमासे एषःआमआदमी-पक्षः इति राजनैतिकदलमेकं स्थापितवान्, तस्य च लक्ष्यम् स्वराज्यम् स्वावलम्बन-जीवनम् इति घोषितवान्।

                                     

3. पुरस्काराः

  • 2005: सत्येन्द्र-के-दुबे-स्मारकपुरस्कारः, भारतीय प्रौद्यौगिकी संस्थानम्, कानपुर, सर्वकारे पारदर्शित्वं आनयने तस्यान्दोलनार्थम्
  • 2006: श्रेष्ठनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारः
  • 2006: सी-एन्-एन्, आयि-बी-एन्- द्वारा, इन्डियन्-औफ्-द-इयर् इत्येतत् लोकसेवार्थे
  • 2009: विशिष्टपूर्वछात्रः Distinguished Alumnus Award, भारतीय प्रौद्यौगिकी संस्थानम्, खरगपुर
  • 2010: Policy Change Agent of the Year, The Economic Times Awards for Corporate Excellence along with Aruna Roy
  • 2011: NDTV Indian of the Year along with Anna Hazare
  • 2004: अशोक-फैलो, सिविक्-एङ्गेज्मेन्ट्
                                     

4. बाह्यानुबन्धाः

  • Valmik Thapar Interviews Arvind Kejriwal
  • Follow Jan Lokpal Bill Movement
  • The Insurgent by MEHBOOB JEELANI, The Caravan
  • Jaago Re! "Usse kuchh farak padega kya?": Arvind Kejriwal on fighting corruption in India
  • SwarajEnglish/Hindi:Arvind Kejriwal Swaraj
  • अरविन्दकेजरीवालस्य साक्षात्कारः बीबीसीहिन्दी इत्यस्मिन् – ध्वनिः
  • Arvind Kejriwal Interview BBC Hindi
  • पब्लिक्-कौस्-रिसर्च्-फौन्डेशन् इत्यस्य आधिकारिकजालस्थलम्
  • Lokraj Andolan
  • अरविन्दकेजरीवालस्य ट्विटर-पूरणम्
  • An Interview with Arvind Kejriwal
  • परिवर्तन इत्यस्य आधिकारिकजालस्थलम्

"

                                     
  • आम आदम प र ट भ रतस य एक र जक य पक ष अस त पक षस य म ख यस थ अरव न द क जर व ल India s Left - Leaning, Anti - Graft Party Made A Stunning Debut The
  • Incorporated 1857 र जध न न र म णम Government Chief Minister अरव न द क जर व ल AAP Lt. Governor अन ल ब ज ल Area क न द रश स तमण डलम फलकम Infobox