ⓘ भारतस्य सूर्यमन्दिराणि भारतीयमन्दरिप्रथायां विशिष्टं स्थानम् आवहन्ति । उन्नावस्य सूर्यदेवालयस्य नाम बह्यन्यदेवमन्दिरम् इति । एतत् भारतस्य मध्यप्रदेशराज्यस्य उन् ..

                                     

ⓘ भारतस्य सूर्यमन्दिराणि

भारतस्य सूर्यमन्दिराणि भारतीयमन्दरिप्रथायां विशिष्टं स्थानम् आवहन्ति । उन्नावस्य सूर्यदेवालयस्य नाम बह्यन्यदेवमन्दिरम् इति । एतत् भारतस्य मध्यप्रदेशराज्यस्य उन्नाव इति ग्रामे अस्ति । अस्मिन् मन्दिरे भगवतः सूर्यस्य शिलामूर्तिः इष्टिकापीठे विराजते । २१कलानां प्रातिनिधिकरूपेण २१त्रिकोणाकारस्य सूर्यस्य मन्दिरं निर्मितम् अस्ति ।

                                     

1. उलार्कसूर्यमदिर

उलार्कस्य सूर्यमन्दिरम् इदानीम् उलार इति नाम्ना प्रसिद्धम् अस्ति । भगवतः कृष्णस्य वंशजः साम्बः कुष्टरोगेण पीडितः मुक्तिप्राप्तये भारतदेशस्य १२ स्थानेषु भव्यानि सूर्यमन्दिराणि निर्मीय सूर्याराधनं कृतवान् । अनेन साम्बस्य कुष्ठव्याधिः निवृत्तः इति लोकाः वदन्ति । तादृशेषु १२सूर्यमन्दिरेषु उलारसूर्यमन्दिरम् अन्यतमम् । देवार्कः, लोलार्कः, पूण्यार्कः, औंगार्कः, कोणार्कः, चाणार्कः च अन्यमन्दिराणि । पालकालीना अत्रत्या मूर्तिः कृष्णशिलया निर्मिता । पूर्वम् आक्रमणशीलाः मोघल् सुल्तानाः यथा देशे मन्दिरभञ्जनं कृतवन्तः तथैव एतन्मन्दिरमपि आक्रम्य क्षतिं कृतवन्तः । कालन्तरेण भरतपुरस्य नृपस्य वंशजाः पौराणिकमन्द्रिराणां जीर्णोद्धारावसरे अस्य विषये अपि वार्तालापं कृतवन्तः इति लोकवादः । स्वामी अलबेला बाबा इति कश्चित् सन्न्यासी क्रि.श. १८५२तः १८५४कालांशे उलार्कनगरम् आगत्य जनसहयोगेन मन्दिरस्य जीर्णोद्धारं कारितवान् । अत्र उत्खननकाले शिवस्य पार्वत्यः गणेशस्य चेत्यादीनां देवतानां दशाधिकाः भग्नमूर्तयः पालकालीनाः अतिविरलशिल्पाकृतयः च प्राप्ताः । अस्मिन् उलारसूर्यमन्दिरे नेटुवा इति जातीयानां नर्तनस्य प्रथा इदानीमपि प्रचलति इति अस्य मन्दिरस्य वैशिष्ट्यम् । महिलाः स्वावगुण्ठनं भूमौ विस्तारयन्ति तेषु नेटुवाजनाः वाद्यं वादयन्तः नर्तनं कुर्वन्ति । अनेन सूर्यदेवः प्रसन्नः भवति इति स्थलीयभक्तानां विश्वासः । अत्र स्थलीयभक्तान् अतिरिच्य दूरदूरादपि नैके श्रद्धायुतमहिलाः आगत्य विशेषरूपेण पूजां कुर्वन्ति । वर्षे एकवारं महामेला अपि सम्भवति ।

                                     

2. मोडेरा सूर्यमन्दिरम्

मोदेरासूर्यमन्दिरम् भारतस्य गुजरातराज्यस्य पाटण इति प्रदेशतः ३०कि.मी. दूरे दक्षिणदिशि मोडेरा इति ग्रामः अस्ति । तत्र अयं मोडेरासूर्यदेवालयः अस्ति । एतत् सूर्यमन्दिरं स्थापत्यकलायः शिल्पकलायाः च विशिष्टं संयोजनम् । क्रि.शा. १०२३तमवर्षे सोलङ्कीवंशस्य राजा प्रथमः भीमदेवः एतन्मन्दिरस्य निर्माणं कृतवान् । वर्तमाने काले अस्मिन् मन्दिरे पूजा निषिद्धा अस्ति ।

                                     

3. रणकपुरस्य सूर्यमदिरम्

रणकपुरस्य सूर्यमन्दिरं भारतस्य राजस्थानराज्यस्य रणकपुरम् इति स्थाने शोभते । नागशैल्या श्वेतामृतशिलया निर्मितम् अस्ति । भारतीयवास्तुकलायाः अनुपमः दृष्टान्तः अयं सूर्यदेवालयः । जैनमतीयैः निर्मितम् एतन्मन्दिरम् उअदयपुरतः ९८कि.मी. दूरे अस्ति ।

                                     

4. सूर्यपहरमन्दिरम्

सूर्यपहरमन्दिरं भारतस्य असमराज्यस्य गुवाहटीसमीपस्य गोलपाडा इति स्थाने सूर्यपहरः इति पर्वते एतत् सूयमन्दिरम् अस्ति । भगवन्तं सूर्यम् अतिरिच्य अत्र नवशिवलिङ्गानि अपि सन्ति ।

                                     

5. दक्षिणार्कसूर्यमन्दिरम्

दक्षिणार्कः अथवा दक्षिणारका सूर्यमन्दिरं भारतस्य, बिहारराज्यस्य गयामण्डले अस्ति । सावित्रीदेव्यै समर्पिते एतन्मन्दिरे अनेकदेवीनां प्रतिमाः अपि सन्ति । अस्य मन्दिरस्य निर्माणं मौर्याणां राज्ञः चन्द्रगुप्तमौर्यस्य जन्मनः पूर्वमेव अभवत् ।

                                     

6. देवसूर्यमन्दिरम्

देवसूर्यमन्दिरं भारतस्य, बिहारराज्यस्य औरङ्गाबादमण्डले स्थितम् । अन्यसूर्यमन्दिराणि पूर्वाभिमुखानि सन्ति किन्तु एतन्मन्दिरं पश्चिमाभिमुखमस्तीति विशेषः । अयं देवालयः अनुपमशिल्पकलया प्रसिद्धः अस्ति । शिलाः उत्कीर्य निर्मितस्य मन्दिरस्य सूक्ष्मशिल्पविन्यासाः आदर्शाः सन्ति । अत्र षष्ट्युत्सवकाले अत्र महान् भक्तसम्मर्दः भवति ।



                                     

6.1. देवसूर्यमन्दिरम् मन्दिरस्य निर्माणम्

प्रचलितविश्वासानुगुणम् अस्य मन्दिरस्य निर्माणं विश्वकर्मा कृतवान् । अस्य मन्दिरस्य बहिर्भागे लिखितसंस्कृतश्लोकानुणं १२-१६लक्षवर्षेभ्यः पूर्वं त्रेतायुगस्य समाप्तेः पश्चात् राजा इलापुत्रः पुरूरवः अस्य मन्दिरस्य निर्माणम् आरब्धवान् इति ज्ञायते । शिलाभिलेखेन ज्ञायते यत् क्रि.पू. २००७तमे वर्षे अस्य मन्दिरस्य निर्माणं पञ्चाषदुत्तरद्विलक्षवर्षेभ्यः पूर्वमेव अभवत् इति । पुरातत्त्वविभागः अस्य मन्दिरस्य निर्माणम् अष्टमनवमशतकस्य मध्यभागे अभवत् इति विश्वसिति ।

                                     

6.2. देवसूर्यमन्दिरम् स्थापत्यम्

अस्य सूर्यमन्दिरस्य शिलासु कलशानां विजयचिह्नानि सन्ति । अस्य निर्माता शिल्पकावित् एतत् सूर्यमन्दिरं निर्मीय एव शिल्पकलायां विजयं प्राप्तवान् इति अनेन ज्ञायते । देवसूर्यमन्दिरस्य स्थापत्येन एतत् प्रतीयते यत् मन्दिरस्य निर्माणे ओडिसानागरशैल्याः समायोजनम् अस्ति इति । सूक्ष्मशिल्पकलाविन्यस्तशिलाः दृष्ट्वा पुरातत्त्वविभागस्य जनाः अस्य मन्दिरस्य निर्माणे नागरस्य द्रविडस्य च सम्मिश्रशैली अस्ति इति वदन्ति ।

                                     

6.3. देवसूर्यमन्दिरम् प्रतिमाः

मन्दिरस्य प्राङ्गणे सप्ताश्वैः सहित्यस्य सूर्यरथस्य प्रस्तरोत्कीर्णाः सूर्यस्य उदयाचलस्य मध्याचलस्य अस्ताचलस्य च मूर्तयः शोभन्ते । अनेन सह अद्भुतशिल्पकलाविन्यस्ताः दशाधिकाः मूर्तयः सन्ति । मन्दिरे शिवस्य ऊरौ उपविष्टाः पार्वत्याः प्रतिमा राजते । सामान्यतः अन्येषु सर्वमन्द्रिरेषु शिवलिङ्गानां पूजा भवति । किन्तु अत्र शिवपार्वत्योः मूर्तिरूपदर्शनं शक्यते । एतदेव यात्रिकानां विशेषाकर्णम् ।

                                     

6.4. देवसूर्यमन्दिरम् मन्दिरस्य स्वरूपम्

मन्दिरस्य अस्य शिल्पशैली ओडिशायाः कोणार्कदेवालयस्य शिलीसदृशी अस्ति । देवसूर्यमन्दिरम् उद्याने निर्मितम् अस्ति । गर्भगृहस्य उपरि कमलाकारेण सुवर्णकलशान्तं शिखरं निर्मितम् । अन्यस्मिन् भागे मुखमण्डपे शङ्क्वाकारेण चालः निर्मितः। चालस्य आधारभूताः सुन्दरशिल्पविन्यस्ताः स्तम्भाः। सर्वसनातनधर्मस्य मन्दिराणां विरुद्धं पूर्वाभिमुखं देवसूर्यमन्दिर अस्ति । अतः अत्र भक्तानां मनोकामनाः पूर्णाः भवन्ति इति भावेन अधिकाः श्रद्धालवः अत्र आगच्छन्ति ।

                                     

7. औङ्गारीसूर्यमन्दिरम्

औङ्गारीसूर्यमन्दिरस्य निर्माणं क्रिस्तपूर्वे तृतीयशतके अभवत् । भारतस्य, बिहारराज्यस्य नालन्दामण्डले औङ्गारीनामके स्थाने एतत् मन्दिरं शोभते । सुन्दरस्य सरसः तटे स्थितः अयं सूर्यदेवालयः बिहारस्य कलासंस्कृतेः परिचयात्मकः अस्ति । अत्र भक्ताः स्वमनोकामनायाः पूर्णार्थे विशेषमुद्रायां सूर्यभगवते अर्घ्यं समर्पयन्ति ।

                                     

8. बेलार्कसूर्यमन्दिरम्

बेलार्कसूर्यमन्दिरं राजा सूबा निर्मितवान् । पश्चात् बेलावूरग्रामे ५२ सरांसि निर्मितवान् राजा द्विपञ्चाशत् सरसः राजा इत्येव सम्बोधयन्ति स्म । भारतस्य, बिहारराज्यस्य भोजपुरमण्डले बेलावूरग्रामे वायव्यदिशि एतत् मन्दिरं शोभते । षष्ठीमहपर्वणि अत्र प्रतिवर्षं लक्षाधिकाः भक्ताः आगत्य सूर्यमाराधयन्ति । एतेषु उत्तरप्रदेशराज्यस्य, मध्यप्रदेशराज्यस्य च श्रद्धालवः अधिकाः भवन्ति । अत्र शुद्धमनसा षष्ठिव्रतं ये आचारन्ति तेषां मनोकामनाः पूर्णिताः भवन्ति इति साधकानां दृढविश्वासः अस्ति । अपि च अत्र सूर्योपसनेन नैके रोगाः निवृत्ताः भवन्ति इति भक्तभावः ।



                                     

9. हण्डियासूर्यमन्दिरम्

भारतस्य, बिहारराज्यस्य नवादामण्डले नारदीगञ्जोपमण्डलस्य हण्डियाग्रामे सूर्यनारायणधाम इति प्राचीनसूर्यमन्दिरम् अस्ति । प्राचीनलोकानाम् आस्थायाः प्रतीकत्वेन एतत् मन्दिरम् अस्ति । मन्दिरस्य परिसरे उत्खननेन शिलासु रथचलनचिह्नानि प्राप्तानि । अत्र एषः विश्वासः यत् एतत् मन्दिरं द्वापरयुगेन सह सम्बद्धम् इति । मन्दिरस्य समीपं किञ्चित् सुन्दरं सरः अस्ति । अस्मिन् जले स्नानेन कुष्टरोतात् मुक्तिः प्राप्यते इति विश्वासः अस्ति । अनेकसङ्ख्याकाः भक्ताः प्रत्येकं रविवासरे अत्रागत्य पुण्यस्नानं कृत्वा सूर्योपासनां कुर्वन्ति ।

                                     

10. गयासूर्यमन्दिरम्

भारतस्य, बिहारराज्यस्य गयानगरस्य प्रसिद्धविष्णुपदमन्दिरात् २०कि.मी. दूरे उत्तरभागे रेल्वेनिस्थानस्य ३कि.मी. दूरे गयासूर्यमन्दिरम् अस्ति । दीपावल्याः षड्दिनानां पश्चात् बिहारस्य षष्ठ्युत्सवावसरे अत्र तीर्थयात्रार्थीनां महासम्मर्दः भवति । अस्मिन् काले अत्र मेला अपि प्रचलति ।

                                     

11. रहलीसूर्यमन्दिरम्

रहलीसागरमण्डलस्य आग्नेयदिशायां ४५कि.मी.दूरे सुनारनद्याः देहारनद्याः च सङ्गमस्थाने अयं सूर्यदेवालयः अस्ति । बुन्देलखण्डे प्राचीनमन्दिराणि सामूकरूपेण भवन्ति । रहली अपि अपवादः न अत्रापि देवालयसमूहः अस्ति । सूर्यमन्दिरं परितः सुन्दराणि मन्दिराणि सन्ति । एतस्मात् २कि.मी. दूरे पण्डलपुरे २५०वर्षपुरातनं पण्डरीनाथस्य मन्दिरम् । इतः ५कि.मी.दूरे गोपालपुरे टिकीटोरिया मन्दिरम् अस्ति । वास्तुकलायाः दृष्टौ रहलीसूर्यमन्दिरम् एकमात्रं महत्वपूर्णं भवति ।

                                     

12. झालावाडस्य सूर्यमन्दिरम्

झालवाडस्य यमलनगरं झालरापाटन इति नगरस्य घट्टानां नगरम् इति कथयन्ति । नगरस्य मध्ये स्थितं सूर्यमन्दिरं झलरापाटन नगरस्य दर्शनीयं स्थानम् । बास्तुकलायाः दृष्टौ एतत् मन्दिरं विशिष्टम् अस्ति । अस्य निर्माणं दशमशतके मालवानां परमारवंशीयाः राजानः कारितवन्तः । मन्दिरस्य गृर्भगृहे भगवतः विष्णोः प्रतिमा विराजमाना अस्ति । एतस्य पद्मनाभमन्दिरम् इति नाम ।

                                     

13. राञ्चीसूर्यमन्दिरम्

रञ्चीतः ३९कि.मी. दूरे राञ्चीटाटायोः मध्यमार्गं बुण्डूसमीपे सूर्यमन्दिरम् अस्ति । अमृतशिलारचितस्य अस्य मन्दिरस्य निर्माणं १८सोपानानां ७अश्वानां रथे विद्यमानः भगवातः सूर्यस्य प्रतिमा शोभते । जनवरी मासस्य २५दिनाङ्के टुसू मेलायाः अवसरे अत्र विशेषमेला आयोजिता भवति । श्रद्धालूनां विश्रान्तिनिमित्तं काचित् धर्मशालायाः निर्माणम् अभवत् ।

                                     

14. जम्मूसूर्यमन्दिरम्

दक्षिणकाश्मीरस्य मार्तण्डस्य प्रसिद्धसूर्यमन्दिरस्य प्रतिरूपं सूर्यमन्दिरं जम्मू नगरे अपि निर्मितम् । वसन्तनगरस्य पालौरा इति स्थाने स्थितस्य मन्दिरस्य परिसरे अधिकसङ्ख्याकाः यात्रिकाः सम्मिलनन्ति । मार्ताण्डविश्वस्थमण्डल्याः अध्यक्षः कुमारः सिद्धानुसारं मन्दिरं प्रधानतया भागत्रये निर्मितमस्ति । प्रथमभागे भगवान् सूर्यः रथारूढः रथं सप्ताश्वाः कर्षन्तः सन्ति । द्वितीये भागे दुर्गायाः, गणेशस्य कार्तिकेयस्य पार्वत्याः शिवस्य च प्रतिमाः सन्ति । अपि च तृतीये भागे यज्ञशाला व्यवस्थिता । सनातनधर्मस्य विश्वासानुगुणं मार्तण्डमहर्षेः तृतीयपुत्रस्य जन्मस्थानमेतत् ।

                                     

15. कश्मीरस्य मार्तण्डमन्दिरम्

मार्तण्डमन्दिरं भारतस्य, जम्मुकाश्मीरस्य दक्षिणभागे अनन्तनाग इति स्थानस्य पहलगाम इति ग्रामे मार्तण्डनामकं स्थाने अस्ति । अस्य मन्दिरस्य पार्श्वे एकं महत् सरः अस्ति यस्मिन् असङ्ख्याः मीनाः सन्ति । अस्य निर्माणं सामान्यतः क्रि.श. ४९०-५५५वर्षमध्ये अभवत् ।

                                     

16.1. कोणार्कमन्दिरम् मन्दिरस्य आकृतिः

ओरिस्साराज्ये जगन्नाथपुर्यां विद्यमानम् इदं मन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः ।.सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते."



                                     

17. कालः

अबुलफजलः षोडशशताब्द्याः उत्तरार्धे विवरणम् इदं लिपिबद्धम् अकरोत् । यदि वयं तन्निरूपितं नरसिंहदेवस्य कालं स्वीकुर्मः तर्हि अभ्युपगन्तव्यं यत् कोणार्कनिर्माणं नवमशताब्द्यां समाप्तम् । किन्तु ऐतिहासिकाः अन्यथा चिन्तयन्ति । तेषु बहवः विश्वसन्ति यत् मन्दिरमिदं त्रयोदशशताब्द्यां निर्मितम् ।

                                     

18. विनाशस्य कथा

कोणार्कस्य मुख्यमन्दिरं भारतवर्षे उच्चतमम् आसीत् । अस्ति एका प्रचलिता कथा-मन्दिरस्य चूडायां विशालः चुम्बकखण्डः आसीत् यः पोतान् तटं प्रति आकर्षति स्म । केचित् क्रूराः, विदेशीयाः वणिजः तम् अपहृतवन्तः येन विशालं मन्दिरं विध्वस्तम् अभवत् । अपरे कथयन्ति--हिन्दुस्मृतिशिलानां विध्वंसकेन कलापाहाडेन तन्मन्दिरं विध्वंसितम् । अन्ये चिन्तयन्ति तद् भूमिकम्पेन विध्वस्तम् इति ।

                                     

19. विस्मयस्य कारणानि

आधुनिकाः वास्तुविद्याविशेषज्ञाः स्थपतयश्च विस्मयं यान्ति यत् कथम् इयन्तः विशालप्रस्तरखण्डाः दूरस्थपर्वतात् आनीय द्विशतपादोच्चतायां स्थापिताः, यतो हि तेषु केचित् द्विसहस्रटनमिताः सन्ति । अस्याः शताब्द्याः प्रथमदशके विध्वस्तमन्दिरस्य केचित् विक्षिप्तप्रस्तराः यदा स्थानान्तरं नेतव्याः अभवन् तदा तान् खण्डशः कर्तुम् आग्नेयचूर्णं प्रयुक्तम् आसीत् । कश्चिद् ऐतिहासिकः परिहासेन उक्तवान्, "यदा प्रस्तराः मन्दिरे स्थापिताः तदा ते अल्पभाराः आसन् । सप्तश्तवर्षेभ्यः नितरां वर्षाजलक्लिन्नाः ते अधुना भारिणः सञ्जाताः!"

                                     

20. मन्दिरनिर्माणविषयिणी कथा

परःशतवर्षेभ्यः पुर्वम् एकदा प्राचीनकलिङ्गसाम्राज्यस्य कस्यचित् लघुग्रामस्य उपान्ते कश्चित् स्फूर्तिमान् बालकः स्वमातरम् आपृच्छय प्रस्थानम् अकरोत् । साश्रुकपोला माता वप्रस्य पार्श्वतः वङ्किलमार्गेण तिरोभवन्तं स्वपुत्रं निर्निमेषम् अपश्यत् । बालकः अविरतम् अचलत् । कतिपय-होरानन्तरं तस्मै स्वग्रामः, तस्य मन्दिरचूडा उतुङ्गतरुशिखरावलिश्च क्षितिजे तिमिररेखा इव अदृश्यन्त । सः कदापि एकाकि तावद् दूरं न अगच्छत् । तथापि तेन दीर्घमार्गः अतिक्रमणीयः आसीत् ।

बहून् ग्रामान् पृष्ठतः परित्यज्य सः कस्याश्चित् पान्थशालायाः अलिन्दे रात्रिम् अयापयत् प्रातश्च पुनः यात्राम् आरभत । अन्ते, सम्मुखस्थ-हरिद्वनस्य सीमायां सः कस्यचित् विशालभवनस्य सूर्यदीप्तं शिखरम् अपश्यत् । हर्षेण उल्लसितं तस्य मुखमण्डलम् । अग्रे सरतः तस्य दृष्टिपथम् आगताः कार्यरताः शतशः मनुष्याः । दूरत्वात् ते पिपीलिका इव क्षुद्राः दृश्यन्ते स्म । ते एकं मन्दिरं निर्मान्ति स्म यत् देशस्य सर्वाणि मन्दिराणि आकारेण उत्कर्षेण च अतिक्रमितुं शक्नुयात् । निर्मातृषु एकतमस्य दर्शनं बालकस्य यात्रायाः उद्देश्यम् ।

अचिरं तेन स्वाभीष्टजनः लब्धः यतो हि स एव निर्मातॄणां नायकः तस्य अनुपमसौधस्य स्थपतिश्च आसीत् । विख्यातशिल्पिनः सम्मुखे तिष्ठन् रुद्धवाक्, गद्गदहृदयः बालः अश्रुधारां रोद्धुं न अशक्नोत् । किन्तु सः कथमपि स्वमात्रा प्रेषितं वस्तु शिल्पिने अददात् । स एव बालकस्य शिल्पिनश्च परमानन्दमुहूर्तः आसीत् । आश्चर्याभिभूताः शतशः जनाः बालकं चुम्बन्तम् आलिङ्गन्तं च स्वनायकम् अपश्यन् । अचिरमेव बालकः सर्वपरिचितः सञ्जातः । सर्वेऽपि कर्मिण: स्वबालातिथिम्, प्रधानस्थपते: विशुमहारणा-महोदयस्य अनन्यसुतं धर्मपदम् अभ्यनन्दन् । यदा विशुमहोदयः गृहात् प्रस्थितः तदा धर्मपदः दुग्धपोष्यः शिशुः आसीत् । द्वादश वर्षाणि व्यतीतानि । इदानीं किशोरः सः पितरं विस्मापयितुम् आगतः ।

धर्मपदः प्रफुल्लमनसा तत् सुन्दरं स्थानं न्यरूपयत् यत्र विशालमन्दिरं निर्मीयते स्म । समुद्रस्य उत्तालतरङ्गाः मन्दिरप्राचीरं परितः सततं क्रीडन्ति स्म । उद्गतायां वेलायां मन्दिरं समुद्रेण परिवेष्ट्यते स्म । तस्य पश्चिमदिशिकलकलनादिनी, पुण्यसलिला चन्द्रभागा प्रवहति स्म । तीर्थभूतं तत् स्थानं स्मरणातीतकालात् सूर्यदेवस्य अधिष्ठानम् आसीत् । तत्त्वविदः मुनयः श्रीकृष्णस्य कालात् इमां भूमिम् अजानन् । भगवतः श्रीकृष्णस्य पुत्रः साम्बः असाध्यचर्मरोगग्रस्तः तत्र सूर्योपासनाय उपदिष्टः आसीत् । तथा कृत्वा सः रोगमुक्तः अजायत । तेन तत् स्थानं सुविख्यातम् अभवत् । तत्र निर्मीयमाणं भव्यमन्दिरं सूर्यदेवाय निवेदनीयम् आसीत् । प्रतापशाली, दूरदर्शी कलिङ्गाधिपतिः नरसिंहदेवः स्वराज्यस्य सर्वभागेभ्यः द्विशताधिकं सहस्रं सुदक्षान् स्थपतीन्, शिल्पिनः तक्षकान् च आहूय मन्दिरस्य निर्माणे न्ययोजयत् । सः स्वस्य निपुणं मन्त्रिणं शिवेई-सामन्तरायम् अस्य कार्यस्य पर्यवेक्षकम् अकरोत् । किशोरस्य धर्मपदस्य सम्मुखे स्वपितुः तस्य समर्थसहायकानां च भव्यकृतिः विराजते स्म । केवलं मन्दिरस्य चूडा प्रतिष्ठापनीया आसीत् ।

बालवयसि धर्मपदः विद्याभ्यासम् अकरोत् । गृहे पित्रा त्यक्तान् तालपत्रग्रन्थान् सः सुगभीरम् अपठत् । ते ग्रन्थाः सौधनिर्माणकलाविज्ञानस्य आधारभूता आसन् । धर्मपदः बहून् सिद्धान्तान् अजानात् । सः विशालमन्दिरे अनेक-जटिल-सिद्धान्तान् कार्यान्वितान् दृष्ट्वा पुलकितः अभवत् । दर्शनेन उत्फुल्लोऽपि सः तत्र वर्तमानां कामपि विषादच्छायाम् अन्वभवत् । द्वादशवर्षमिते अविश्रान्तपरिश्रमे समाप्तप्राये यैः स्थपतिभिः प्रफुल्लितैः भाव्यं ते विषण्णाः अदृश्यन्त । तेषां विषादस्य कारणं सः स्वपितरम् अपृच्छत् । विशुमहारणा प्रथमम् अस्मिन् विषये किमपि वदितुम् अनिच्छन् अपि आत्मानम् अधिककालं नियन्त्रयितुं न अशक्नोत् । सः भग्नहृदयेन अवदत्, "वत्स, विकटं सङ्कटमेकम् अस्मासु आपतितम् । मन्दिरस्य चूडाप्रतिष्ठायाः समस्या सा । तां समाधातुम् अनेकदिवसेभ्यः प्रयतमानाः अपि वयम् असफलाः । तेन विमूढा वयम् आत्मानं कुशलशिल्पिनं कीर्तयन्तः लज्जामहे । "किञ्च, क्षते क्षारमिव, राज्ञा वयम् आज्ञप्ताः आगामि-सूर्योदयात् पूर्वम् इदं कार्यं सम्पादयितुम् अशक्तानां युष्माकं वधः सुनिश्चितः इति ।"

तदा प्रदोषः पदं करोति स्म । तथापि मन्दिरम् अस्तमितसूर्यस्य सुखद-मरीचि-मालया सुशोभितम् आसीत् । अचिरात् उदधिगर्मात् निर्गतेन पूर्णचन्द्रेण निखिलं जगत् आह्लादितम् अभवत् । समस्यासमाधानाय सभासदने समवेतानां स्थपतीनाम् अलक्षितः धर्मपदः मन्दिरम् आरोहत् । शिखरस्य स्थितिं निरूप्य सः समस्यां पर्यालोचयत् । सहसा स्फुरितं किमपि समाधानम् । तदानीं तस्य मनसि सकलसिद्धान्ताः प्रत्यग्राः आसन् । बहुवर्षव्यापि-कठिनश्रमकारणात् मन्ये तस्य पितुः अन्येषां च परिश्रान्त-मनःसु तत् समाधानं न स्फुरितम् ।

धर्मपदः आगत्य सभाकक्षं प्राविशत् । सः सविनयं स्वमतं गुरुजनेभ्यः न्यवेदयत् । तस्य समाधानं समीचीनम् इति ते सपदि अवाबोधन् । आनन्दोल्लासभरितेषु तेषु केचन मन्दिरम् आरुह्य धर्मपदस्य निर्देशानुसारेण शिखरकिरीटं यथास्थानम् अस्थापयन् । अनेन धर्मपदः नायकः सञ्जातः । मन्दिरात् अवतीर्णं तम् सर्वे आनन्दातिशयेन अभ्यनन्दन् भूरि भूरि प्राशंसन् च ।

किन्तु प्रत्येकयुगे परेषां साफल्ये ईर्षापरायणाः भवन्ति केचन । अचिरं धर्मपदः कांश्चित् जनान् एवं वदतः अशृणोत्, "द्वादशशतं कुशलस्थपतयः यत् कर्तुम् अशक्ताः तत् कोऽपि बालकः अकरोत् इति श्रुत्वा राजा किं कथयेत्? एषः धर्मपदः अस्माकं कीर्तिं कलङ्कयिष्यति!" धर्मपदः मर्माहतः अभवत् । निर्जनस्थानं गत्वा सः अचिन्तयत्, "अहम् एषां प्रख्यातकर्मिणां कीर्तौ अन्तरायः भवितुं न इच्छामि । यदा सर्वे सुप्ताः चन्द्रश्च पूर्णप्रभया शोभते स्म तदा सः किरीटशोभितं मन्दिरशिखरं पुनः आरोहत् । उद्वेलसमुद्रस्य स्वर्णभतरङ्गाः मन्दिरं परितः उन्मत्तवत् नृत्यन्ति स्म । धर्मपदः अधः स्वपतः जनान् पश्यन् प्रार्थयत भवतां कीर्तिः चिरभास्वरा तिष्ठेत् इति । ततः सः ऊनसप्ततिमानोच्चतायाः आत्मानम् अधः समुद्रे न्यक्षिपत् ।

परेद्युः प्रभाते राजा शिखरकिरीटं दृष्ट्वा प्रसन्नः अभवत् । सः सर्वान् स्थपतीन् अभ्यनन्दत् । विशुमहारणा हृदये वेदनां नियम्य मौनम् अधारयत् । सेयं शर्मपदस्य कथा । कोणार्कमन्दिरस्य उद्यापनकर्मणि धर्मपदस्य उदारा दुःखदा च भूमिका अचिरं प्रकाशम् आगता अधुनावधि च न विस्मृता ।

विगतानि शरदां शतानि । उत्कलप्रदेशस्य निर्जनसमुद्रप्रान्ते कोणार्कस्य भग्नावशेषः साम्प्रतम् अपि विश्वस्य आश्चर्यजनकवस्तुषु परिगण्यते । सूर्यमूर्तिः विलुप्ता अधुना । मुख्यं मन्दिरम् अपि सम्पूर्णतया विध्वस्तम् । केवलम् अवर्णनीय-सुषमामण्डिता मुखशाला अवशिष्टा । इतः पूर्वं प्रस्तराः शिल्पिनां भावम् इत्थं सुभव्यं कदापि न प्राकाशयन् । कोणार्कस्थः सूर्यदेवालयः ओरिस्साराज्यस्य सुप्रसिद्धः कोणार्कदेवालयः १३ शतके निर्मितः । अयं अद्वितीयः सूर्यदेवालयः । अस्माकं देशे विद्यमानेषु उन्नतेषु देवालयेषु कोणार्क देवालयोऽपि अन्यतमः । एतस्य प्रवेशद्वारे स्थितानि सोपानानि उभयतः अश्वानां शिल्पानि निर्मितानि सन्ति । अयं देवालयः रथस्य आकारेण निर्मितः अस्ति । सूर्यनारायणः सप्ताश्चान् संयोज्य रथेन आकाशमार्गेण सञ्चररि इति अस्माकं पुराणानि वदन्ति । गङ्गवंशस्य राजा नरसिंगदेवराजः एतं देवालयं निर्मपितवान् । १२०० सिल्पिनः १६ वर्षाणि यावत् निरन्तरं कार्यं कृत्वा एतां देवालयं निर्मितवन्तः इति श्रूयते । अस्य् निर्माणार्थं ४० कोटिरुप्यकाणि व्ययितानि सन्ति । कोणार्कदेवालयस्य शिल्पानि अद्यापि द्रष्ट्टुणां ह्रुदयानि अपह्रन्ति । रमणीयैः ओडिस्सिनाट्यभङ्गिभिः, कलाविदां पदविन्यासैः च् अयुक्तानि सूर्यदेवालये विद्यमानानि शोल्पानि सहृदयानां प्रेक्षकाणां नेत्रयोः पुरतः अद्यापि नृत्यन्ति ।



                                     
  • ह न द - मन द रम धर म - स श धनम भ रतस य प रध नमन त र ण भ रतस य र ष ट रपतय भ रतस य नद य भ र त यक र ड भ रतस य स र यमन द र ण भ रतस य मण डल न सप तचत व र शदध कनवदशशततम
  • भ वन श वरत क म प र त क म प प पल त क म भ रतस य स र यमन द र ण स र यमन द रस य च त र ण Konark स श. छ य च त र ण व य वह र कज लस थ नम