ⓘ जम्बुद्वीपः. जम्बुद्वीपम् एक: महाद्वीपः अस्ति। जम्बुद्वीपम् विश्वस्य महिसतम् महाद्वीपः अस्ति। एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक ..

                                     

ⓘ जम्बुद्वीपः

जम्बुद्वीपम् एक: महाद्वीपः अस्ति। जम्बुद्वीपम् विश्वस्य महिसतम् महाद्वीपः अस्ति। एषः महाद्वीपम् अनेकाणि देशानि अस्ति| भारतवर्ष: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त। ४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १० ० तः उत्तरस्य ८० ० अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५ ० - १९० ० रेखांशयोः मध्ये अयं खण्डः विद्यते ।

जम्बुद्वीपस्य देशाः-

  • नेपाल
  • बंगलादेश
  • जापान
  • इस्रेल
  • अफगानिस्तान
  • जार्डन
  • चीन
  • भारत
  • तुर्की
  • ईरान
  • पाकिस्तान
  • कोरिया
  • सऊदी अरब
  • इन्दोनेशिया
  • मलयेशिया
  • वियतनाम

आदयः ।

                                     

1.1. परिसरः वृष्टिः

ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासाभ्यान्तरं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते । ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते ।

                                     

1.2. परिसरः उष्णता आर्द्रता च

जुलैमासस्य मध्यभागः अस्य खण्डस्य उष्णाधिक्यसमयः इति वक्तुं शक्यम् । कर्कवृत्तप्रदेशस्य परिसरे तु औष्ण्यं भवति अत्यधिकम् । भारतस्य दक्षिणभागः, श्रीलङ्का, मलेशिया, इण्डोनेशिया, इण्डोचीना, अरेबिया, इरान्, मध्यचीना, पूर्वचीना, कझखिस्थानम्, मङ्गोलिया इत्यादिषु उष्णता भवति २८ ० - २९ ० डिग्रिसेल्शियस्मितम् । अरेबियादेशस्य पूर्वभागे, अफघानिस्थाने, पाकिस्थाने, उत्तरभारते, चीनादेशस्य पूर्वभागे च औष्णस्य प्रमाणं भवति ३३ ० - ३४ ० डिग्रिसेल्शियस्मितम् । कदाचित् इदं ४० ० - ४२ ० डिग्रिसेल्शियस्मितं भवति । सैबीरियादेशे उष्णता भवति - ५ ० - १० ० डिग्रिसेल्शियस्मितम् । टिबेट्-देशे उष्णता ० डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनं भवति । जनवरिमासे सूर्यः मकरवृत्तरेखायां चलति इत्यतः तदवधौ अस्मिन् खण्डे शैत्यकालः भवति । तदा सैबीरियादेशे उष्णता भवति ० डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनम् । पश्चिमे इरान्-देशात् चीनादेशस्य पूर्वभागपर्यन्तं २८ ० - २९ ० डिग्रिसेल्शियस्मितम् उष्णता भवति । इतः दक्षिणदिशि तन्नाम अरेबिया-अफघानिस्थान-इरान्-पाकिस्थान-भारत-इण्डोचीना-बाङ्ग्लादेश-मयान्मार्-श्रीलङ्का-फिलिपीन्स्देशेषु उष्णता क्रमशः वर्धते ० - १५ ० कदाचित् १० ० - २० ० डिग्रिसेल्शियस्मितं भवति ।

                                     

2. नद्यः पर्वताश्च

भारतस्य उत्तरभागे स्थितात् काश्मीरात् असमप्रदेशं यावत् हिमालयपर्वतश्रेण्यः सन्ति । जगति एव अत्युन्नतं गौरीशङ्करशिखरम् एवरेस्टशिखरम् - ८८४८मीटरुन्नतम् अत्र विद्यते । धवलगिरिः, काञ्चनगङ्गा, नन्दादेवी, के २ इत्यादयः उन्नतशिखराणि विद्यन्ते । अफघानिस्थान-पाकिस्थानयोः हिन्दूकुश्-पामिर्-श्रेण्यौ स्तः । टिबेट्देशे विद्यमानः विशालः प्रदेशः जगति एव उन्नतः समतलप्रदेशः विद्यते । तत्र कुन्लुन्-श्रेण्यः सन्ति । ततः उत्तरस्यां दिशि तियेन्शान्-श्रेणी तदग्रे अल्टायिश्रेण्यः सन्ति । रशियादेशस्य पश्चिमभागे उरल्-श्रेण्यः सन्ति । अस्मिन् खण्डे अनेकाः महत्यः नद्यः सन्ति । भारते गङ्गानदी २४२७ कि मी, ब्रह्मपुत्रः २७०३ कि मी, पाकिस्थाने सिन्धुनदी २७३५ कि मी, चीनादेशे हुवाङ्ग्-होनदी ४१८ कि मी, चाङ्ग्-जियाङ्ग्-नदी ५१९९ कि मी, रशियादेशे ओब्-नदी ३८६२ कि मी, येन्नेसिनदी, रशियादेशे बैकल्-नदी, उज्बेकिस्थाने अराल्-नदी, कझकिस्थाने बल्काष्-सरोवरः च अस्ति ।

                                     

3. सस्यसम्पत्तिः

भारते १४% भागः अरण्यप्रदेशः अस्ति । अरेबियादेशः मरुभूमिः अस्ति । मङ्गोलियादेशः यद्यपि मरुभूमिः तथापि तृणक्षेत्राणि विद्यन्ते । मध्य-एशिया-भागे अरण्यानि सन्ति । इण्डोचीनाप्रदेशे ५७% अरण्यं १६% तृणक्षेत्राणि सन्ति । इण्डोचीना, इण्डोनेशिया, मलेशिया, फिलिपीन्सदेशेषु नित्यहरिद्वर्णयुक्तानि, आर्द्रपर्णपातयुक्तानि, शुष्कपर्णपातयुक्तानि च अरण्यानि विद्यन्ते । वेणुः-क्रकचपत्रteak-रब्बर्-वृक्षाः च आधिक्येन दृश्यते । भारते गन्धद्रव्याणि, काफी-चायम्-इक्षुदण्डः-व्रीहिः-गोधूमः-दालधान्यादीनि अधिकतया उत्पद्यन्ते । बाङ्ग्लादेशे व्रीहिः महता प्रमाणेन वर्धते । मङ्गोलियादेशे गोधूमः, चीनादेशे बार्लि-चायम्-आलूकम्-व्रीहिः च, तुर्कमेनिस्थाने कझकिस्थाने च मेक्केजोळ, रशियादेशे गोधूमः, बार्लि, ओट्स्,आलूकानि च अधिकतया वर्धन्ते ।

                                     

4. प्राणिपक्षिणः

वृक-कृष्णमृग-मुङ्गुसि - एते मान्सून्-वृष्टियुक्तेषु अरण्येषु दृश्यन्ते । भारतम्, मलेशीया, इण्डोनेशिया, इण्डोचीना, श्रीलङ्का इत्यादिषु देशेषु विद्यमानेषु अरण्येषु गजः, व्याघ्रः, मकरः, नागसर्पः, विषसर्पाः, विविधाः वानराः च आधिक्येन वसन्ति । टिबेट्-देशे याक्-प्राणिनः, रशियादेशस्य उत्तरभागीयेषु ध्रुवप्रदेशेषु भल्लूकाः, सौदि-अरेबियादेशे उष्ट्रादयः विशिष्टप्राणिनः सन्ति । नेपालदेशे गजः व्याघ्रः भल्लूकश्च विद्यते । भूताने याक्-प्राणी विद्यते । बाङ्ग्लादेशस्थे सुन्दर्बन्स्-अरण्ये श्वेतव्याघ्राः जीवन्ति । सैबीरियादेशस्य विलोवार्बलर्-पक्षी अरेबियाद्वारा आफ्रिकदेशं प्रति गच्छति । नार्वेदेशस्य समुद्रात् आर्कटिक्-वृत्तस्य वार्बलर्-पक्षी भारतद्वारा इण्डोचीनां प्रति गच्छति । श्वेतबलाकः युरोपदेशतः भारतं प्रति आगच्छति ।

                                     

5. उद्यमाः

चीनादेशस्य मृन्मयवस्तूनि, भारतस्य रजत-सुवर्णाभरणानि, शिला-लोहनिर्मितमूर्तयः, कौशेयोत्पन्नम् तस्य निर्यातः इत्यादयः बहुप्रकारकाः उद्यमाः अस्मिन् खण्डे विद्यन्ते । मृत्पात्रनिर्माणम्, वयनम्, काष्ठतक्षणकार्याणि च चीनादेशे बहु कालतः प्रवर्तते । टोम्स्क्-ओम्स्क्-इर्कुटुस्क्-एते रशियादेशे विद्यमानाः उद्यमाः । कृषिमेव अवलभितेषु इण्डोचीना,भारतम्, बाङ्ग्ला, पाकिस्थानम् इत्यादिषु देशेषु कृष्यर्थम् आवश्याकानि उपकरणानि, रसगोभराः इत्यादीनां सम्बद्धाः उद्यमाः बहुधा वर्धिताः सन्ति । नेपालदेशे गवादिपालनम्, दारुकर्म-उद्योगश्च विद्यते । बाङ्ग्लादेशः बहोः कालतः ज्यूट्-वर्धनमे, वस्त्रोद्यमे च अग्रे विद्यते । पाकिस्थाने वस्त्रोद्यमः, मयन्मारे तमाखु-रब्बर्-उद्यमाः, जपानदेशे नौका-वाहन-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, इण्डोचीनाप्रदेशे दारुकर्म-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, छायाचित्रसम्बद्धाः उद्यमाः च विशेषतया विद्यन्ते । भारते अहमदाबाद्, मुम्बै, देहली, लाहोर्, चीनादेशे चोङ्ग्किङ्ग्, ह्याङ्ग्झे, शाङ्घै, जपानदेशे टोकियो, रशियादेशे पेट्रोपवलोस्क्, कुज्वास्, इर्कुटुस्क्, मास्को, डान्बास्, उज्बेकिस्तान्, ताष्केण्टनगराणि च केन्द्रभूतानि सन्ति ।



                                     

6. वैशिष्ट्यानि

जगतः द्वे अति विशाले देशे भारतम्, चीना च अस्मिन् खण्डे विद्यन्ते । नेपाले विद्यमानः जगति एव अत्युन्नतः ८८४८ कि मी एवरेस्ट्-पर्वतः, जगतः विशालसरोवरेषु तृतीयः ६५,००० चतरस्र कि मी अराल्-सरोवरः अत्र विद्यते । अस्मिन् खण्डे तिस्रः अति दीर्घाः नद्यः अत्र सन्ति । जगति विद्यमाने द्वौ हिन्दुराष्ट्रौ भारतम्, नेपालः अत्र स्तः । व्रीहिः, मृत्पात्राणि, चायम् इत्येतेषां मूलस्थानं विद्यते चीनादेशः । चीनादेशात् एव कौशेयम् अरब्-युरोपदेशं प्रति गतम् । बैद्धमतं भारते जन्म प्राप्य पूर्व-अग्नेय-ईशान्यदिशि प्रसृत्य तत्र स्थिरं जातम् । जम्बूद्वीपः इति कथ्यमाने भारते एशियाखण्डस्य बहवः देशाः अन्तर्भूताः आसन् । भारते जाति-वर्ण-कला-साहित्य-भाषा-देवता-धर्म-आचार-आहारादीषु विषयेषु दृश्यमाना विविधता न कुत्रापि अन्यत्र द्रष्टुं शक्या ।

                                     

7. प्रमुखस्थानानि

धार्मिक-ऐतिहासिकस्थानानि

पशुपतिनाथ, गोरखनाथ, मृगस्थली, उज्जैन, जेरुसलेम्, कीव्, इस्तान्बुल्, तेहरान्, बागदाद्, कन्दहार्, पीकिङ्ग्, रङ्गून्, देहली, वाराणसिः, ल्हासा, मदीना, मक्का इत्यादीनि

सांस्कृतिक-औद्यमिकस्थानानि

कराचि, मुम्बै, अबु धाबि, ओसाका, शाङ्घै, जकार्ता, डमास्कस्, पेषावर, अहमदाबाद्, मनिला इत्यादीनि

प्रवासकेन्द्राणि

मुम्बै, काट्मण्डु, बेङ्काक्, हाङ्ग् काङ्ग्, हरप्पा, टोकियो, मोहेञ्जोदारो च ।

                                     

8. बाह्यानुबन्धः

  • "Asia". Norman B. Leventhal Map Center at the Boston Public Library. Retrieved 26 July 2011.
  • "Display Maps". The Soil Maps of Asia. European Digital Archive of Soil Maps – EuDASM. Retrieved 26 July 2011.
  • Bowring, Philp 12 February 1987. "What is Asia?". Eastern Economic Review Columbia University Asia For Educators 135 7.
  • "Asia Maps". Perry-Castañeda Library Map Collection. University of Texas Libraries. Archived from the original on 18 July 2011. Retrieved 20 July 2011.
                                     
  • त प - ग स - पर य जन अन तर र ष ट र य पर य जन वर तत त प - शब द त र कम न स थ नस य, अफग न स थ नस य, प क स थ नस य, इ ड य भ रतस य च आद अक षर ण सम ह र