ⓘ सरदार वल्लभभाई पटेल भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, ..

                                     

ⓘ सरदार वल्लभभाई पटेल

सरदार वल्लभभाई पटेल भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति ।

                                     

1. कुटुम्बेतिहासः

किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः कृषियोग्यं पट्ट इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां पट्ट इति उच्यते । ते पट्ट इत्यस्य क्रयणं कृतवन्तः । अतः पाटीदार इति प्रसिद्धाः अभूवन् ।

अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः लेउआ, करड-नामकात् ग्रामात् आगताः कडवा इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् ।

गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं समर्थः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे २५ वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा १८५७ तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल ।

                                     

2. जन्म

लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत् । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्," शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः १८७५ तमस्य वर्षस्य अक्तूबर्-मासस्य एकत्रिंशत् ३१ दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं ३१/१० दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः ।

                                     

3. बाल्यम्

लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, "मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्" इति । धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत् । तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म । पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम् । प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म । पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म

                                     

4. शिक्षणम्

करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः" માંય-માંય ભણો.मांय-मांय भणो” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म । शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्," मया तु अधिकाधिकं धनार्जनं करणीयम्” इति । अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत् । बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत् ।

द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत् । किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम् । तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः कस्याश्चित् आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत् । सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म । परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत् । तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता । पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत् । सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत् । प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः । कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः ।



                                     

5. पठनकाले आन्दोलनानि

  • बालदण्डविरोधः

षष्ठमकक्षायाम् कश्चित् पारसीशिक्षकः विद्यार्थिनः कठोरदण्डेन प्रताडयति स्म । एकदा सः कस्मैचित् विद्यार्थिने धनदण्डनं दत्तवान् । सः विद्यार्थी द्वितीये दिने धनं विना विद्यालयं गतः । तेन कुपितः शिक्षकः विद्यार्थिनं कक्षायाः बहिः प्रेषितवान् । एतादृशम् अन्यायं दृष्ट्वा बालवल्लभः तस्य विरोधमकरोत् । सः सर्वेभ्यः विद्यार्थिभ्यः "विद्यालयं मा गच्छन्तु" इति न्यवेदयत् । कोऽपि भयेन विद्यालयं न गच्छेदतः सः विद्यालयमार्गेषु लघुमण्डपानां स्थापनाञ्चकार । विद्यार्थिभ्यः जलादीनां व्यवस्थामप्यकरेत् । तत् विरोधप्रदर्शनं त्रीणि दिनानि यावत् अभूत् । चतुर्थे दिने प्राचार्यः बालवल्लभम् आहूय समाधानमकरोत् ।

  • शिक्षकस्य विलम्बः

एकदा अगरवाला-नामकः कश्चन शिक्षकः बहु विलम्बे सत्यपि कक्षां न प्राप्तवान् । सः शिक्षकः कार्यालये अन्यैः शिक्षकैः सह जल्पने व्यस्तः आसीत् । तेन असन्तुष्टः बालवल्लभः निर्णयमकरोत् यत्, ये शिक्षकाः वर्गं विलम्बेन प्राप्नुवन्ति, डाह्याभाई-द्वारा लिखितस्य गीतस्य गायनं कृत्वा तेषां विराधं कुर्मः इति । तदनुसारं सः गीतगायनं प्रारभत । तेन सह सर्वे विद्यार्थिनः उच्चस्वरेण गीतं गीतवन्तः । कार्यालये जल्पने मग्नः शिक्षकः तं गीतध्वनिम् अशृणोत् । धावन्-धावन् सः कक्षां प्रविष्टवान् । कश्चित् विद्यार्थी गीतगायने कुशलः आसीत्, तेनैव गीतं प्रारब्धमिति विचिन्त्य शिक्षकः तस्मै विद्यार्थिने अकुप्यत् । मध्ये बालवल्लभः अवदत्," भोः! यद्यपि भवान् विलम्बेन कक्षां प्राप्तवान्, तथापि एतस्मै किमर्थं कुप्यति? भवतां विलम्बेन वयं किमर्थं रुदिमः? वयं तु गीतमेव गायामः खलु? अहमेव गीतस्याम्भमकरवम्” इति । सः शिक्षकः बालवल्लभं वर्गात् बहिः निर्गमनाय आदिष्टवान् । बालवल्लभः वर्गात् बहिः निर्गमनाय सर्वान् विद्यार्थिनः अक्षिणा सङ्केतमकरोत् । अकस्मात् सर्वे विद्यार्थिनः" हूहूहूहू” नादेन सह वर्गात् बहिः निर्गतवन्तः । द्वितीये दिनेऽपि कोऽपि वर्गं न प्रविष्टवान् । सर्वे विद्यार्थिनः एकस्वरेण उक्तवन्तः यत्, वल्लभस्य वर्गप्रवेशे सत्येव वयं वर्गं प्रवेशयिष्यामः । शिक्षकः प्राचार्यम् आहूतवान् । प्राचार्यः उक्तवान्," वल्लभ! शिक्षकात् क्षमां याचस्व” इति । बालवल्लभः प्रत्यवदत्," भोः आचार्य! भवतां न्यायस्तु यथा चौरः आरक्षकं दण्डयेत् तथास्ति । अहं किमर्थं क्षमां याचे? शिक्षकः कार्यालये स्थित्वा जल्पनमग्नो भवेत् तस्मिन् अस्माकं कः दोषः?” बहु प्रश्न-प्रतिप्रश्नपश्चात् प्राचार्यः सर्वान् वर्गं प्रवेशाय आदिष्टवान् ।

  • वैश्यमानसः शिक्षकः

विद्यालये कश्चित् शिक्षकः वैश्यमानसः आसीत् । सः विद्यार्थिनः बलेन कथयति स्म यत्, मत्सकाशात् पुस्तक-अङ्किनी-लेखन्यादीनां क्रयणं कुर्वन्तु इति । प्रप्रथमं तु बालवल्लभः नम्रतया शिक्षकाय एवं मा करोतु इति न्यवेदयत् । परन्तु शिक्षकस्य हठाग्रहेण बालवल्लभः विद्यालये विरोधप्रदर्शनमकरोत् । तत् प्रदर्शनं षड्दिनं यावत् आसीत् ।

पेटलाद-ग्रामे अभ्यासं समाप्य ‘मेट्रिक’-पठनं युववल्लभः वडोदरा-महानगरे अकरोत् । ‘मेट्रिक’-पश्चात् युववल्लभस्य इच्छा तु विदेशं गत्वा उच्चशिक्षणप्राप्तेः आसीत् । परन्तु आर्थिकरीत्या अक्षमता तत्र बाधाऽऽसीत् । अतः सः धनार्जनस्य निर्णयमकरोत् । वाक्कीलस्य कार्ये बहु धनमासीदतः युववल्लभः न्यायशास्त्राभ्यासं चितवान् । वाक्कीलो भूत्वा धनार्जनं कृत्वा विदेशं गमिष्यामीति निर्णयमकरोच्च । न्यायशास्त्रस्य अभ्यासः यदा चलन् आसीत्, तदा युववल्लभं नेत्रविद्रधिः Boil on eye अभूत् । नेत्रविद्रधेः एकैव उपचारः भवति स्म यत्, नापितः स्वस्य दग्धलोहदण्डेन तं विद्रधिं निष्कासयति स्म । युववल्लभशरीरे दग्धलोहदण्डस्पर्शकरणे यदा नापितः सङ्कोचम् अनुभूतवान्, तदा युववल्लभः स्वयमेव दग्धलोहदण्डं हस्ते नीत्वा नेत्रविद्रधिं निष्कासितवान् ।

                                     

6. सफलवाक्कीलः

१९०० तमे वर्षे लोहपुरुषः डिस्ट्रिक्ट् प्लीडर-परीक्षायाम् उत्तीर्णः अभूत् । तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । १९०२ तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत् । कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत् । समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान् । सः तत्रापि स्वतन्त्रेण कार्यमकरोत् । अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत् । परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म । स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत् ।



                                     

7. ज्येष्ठभ्रात्रे त्यागः

बोरसद-ग्रामे त्रीणि वर्षाणि वाक्कीलस्य कार्येण युववल्लभः प्रतिष्ठया सह धनार्जनमपि कृतवानासीत् । परन्तु अमुकवारं तेन अन्य बेरिस्टर् इत्येतैः सह कार्यं करणीयं भवति स्म । अतः युववल्लभस्य मनसि बेरिस्टर् भवितुम् इप्साऽऽसीत् । बेरिस्टर्–पदस्य मानं, धनार्जनञ्च अधिकमासीत् । अतः सः इङ्ग्लैण्ड-देशे बेरिस्टर् पठनाय निर्णयमकरोत् । थोमस् कुक एण्ड सन्स् संस्थया सह पत्रव्यवहारं प्रारभत युववल्लभः । सः तस्य लघुनाम वी.जे.पटेल इति लिखति स्म, तस्य भ्राता विठ्ठलोऽपि वी.जे.पटेल इति लिखति स्म । एवं पत्रव्यवहारस्य अन्तिमपत्रं विठ्ठलः प्राप्तवान् । सः युववल्लभम् उक्तवान्, अहं तु ज्येष्ठः अतः अहं प्रथमं विदेशं गच्छामीति । ज्येष्ठस्य आज्ञानुसारं सः विदेशगमनाय प्रतीक्षामकरोत् । विठ्ठलः यदा विदेशमगच्छत्, तदा तस्य परिवारस्य दायित्वमपि युववल्लभः अवहत् ।

                                     

8. पत्न्याः मृत्युः, मानसिकदृढता च

१८९३ तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत् । तयोः एका पुत्री, एकः पुत्रश्चासीत् । पुत्र्याः जन्म १९०३ तमे वर्षस्य एप्रिल-मासे अभूत् । पुत्रस्य जन्म १९०५ तमस्य वर्षस्य नवम्बर्-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत् । पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत् ।

लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः Tumor आसीत् । ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत् । वैद्यः चिकित्सासमये उक्तावान् यत्, "अहं पञ्चदशदिनपश्चात् शल्यक्रियां Operation करिष्ये" इति । अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत् । परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत् । शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत् । परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत् । पत्न्याः मृत्युः अभूत् इति दूरलेखः telegram युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः । दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत् । अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च," अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत्" । अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति । १९०९ तमस्य वर्षस्य जनवरी-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत् । कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः । परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान् ।



                                     

9. इङ्ग्लेण्ड-देशेऽध्ययनम्

१९१० तमस्य वर्षस्य अगस्त-मासे युववल्लभः इङ्गलेण्ड-देशाय समुद्रमार्गेण यात्रां प्रारभत । प्रवासे एव सः सम्पूर्णं रोमन-न्यायशास्त्रम् Roman Law अपठत् । इङ्गलेण्ड-देशे यत्र युववल्लभस्य निवासः आसीत्, ततः मिडल-टैम्पल-ग्रन्थालयः विंशतिः २० कि.मी. दूरे आसीत् । धनाभावात् न्यायपुस्तकक्रयणेऽसमर्थः युववल्लभः प्रतिदिनं प्रातः नववादने ग्रन्थालयं गच्छति स्म, सायङ्काले षड्वादने गृहं प्रतिगच्छति स्म । अमुकवारं तु युववल्लभः दिने अष्टादशघण्टाः यावदध्ययनरतः भवति स्म ।

                                     

10. कुशलः बेरिस्टर्

महता परिश्रमेण १९१३ तमस्य वर्षस्य फरवरी-मासस्य त्रयोदशे दिनाङ्के युववल्लभः बेरिस्टर् पदवीं प्राप्तवान् । इङ्ग्लेण्ड-देशात् मुम्बई-महानगरं प्राप्य ततः सः अहमदाबाद-महानगरं प्राप्तवान् । तदा स्वतन्त्रान्दोलनस्य कालः आसीत् । स्वतन्त्रान्दोलनस्य काले वाक्कीलाः सार्वजनिकक्षेत्रेषु परम्परानुगतं स्वयोगदानं यच्छन्ति स्म । अतः विठ्ठल-वल्लभौ देशसेवायाः यदा निर्णयमकुरुताम्, तदा झटिति विठ्ठलः वल्लभम् अवदत्," अहं देशसेवां करिष्ये, त्वञ्च कुटुम्बसेवां कुरु” इति । एवं युवल्लभस्योपरि कुटुम्बस्य दायित्वम् आपतितम् । लोहपुरुषः कथयति," ज्येष्ठस्य निर्णेयेन मया तु पापकर्म एव करणीयमभवत् । परन्तु भ्रातुः पुण्येऽपि मम योगदानमस्तीति चिन्तयन् अहं स्वमनसे सान्त्वनां यच्छामि स्म” इति ।

                                     

11. लोकसेवायै सार्वजनिकक्षेत्रे प्रवेशः

१९१३ तमे वर्षे विठ्ठलः मुम्बई-विधानसभायाः सदस्यः अभूत् । १९१५ तमे वर्षे गुजरातसभाद्वारा सञ्चालितायां मुम्बई-प्रेसिडन्सी-राजनैतिकसभायां लोहपुरुषः भागम् अवहत् । १९१३ तमे वर्षे अफ्रीका-देशात् पुनरागत्य महात्मना कोचरब-आश्रमस्य स्थापना कृताऽऽसीत् । महात्मा गुजरातक्लब गत्वा गुजरातक्लब-सदस्यानां सम्मुखं स्वविचारान् प्रकटयितुम् उद्युक्तः आसीत् । लोहपुरुषस्य मित्रं ठाकोर स्वजीवन्यां Autobiography उल्लिखत्, लोहपुरुषः तस्मिन् समये गान्धिविचारैः सम्मतः नासीत् । अतः सः ब्रिज इति क्रीडायां सल्लग्नः आसीत् । अहमपि तेन सह स्थितः आसम् । सभां महात्मा यदा प्रविष्टवान्, तदाहं तं दृष्टुं उद्यतः अभवम् । सरदार ममोपरि व्यङ्ग्यमकरोत्," अत्रैव तिष्ठ । एवं शौचालये स्वच्छे कृते, वस्त्रत्यागेन च स्वतन्त्रतां न प्राप्स्यामः वयम्" । तस्मिन् समये स्वयं तस्य मनसि अपि चिन्तनं नासीत् यत् सः स्वयं भविष्ये महात्मनः विचाराणां परमपथिकः भविष्यतीति । तावत् पर्यन्तं लोहपुरुषस्य मनसि राजनीतिप्रवेशस्य विचारः नासीत् । ज्येष्ठस्य राजनैतिकसफलतया राजनैतिकक्षेत्रे लोहपुरुषः अपि आकर्षितः । अतः लोहपुरुषः स्थानीयजनसेवार्थं अहमदाबाद-महानगरस्य म्युनिसिपल्-कार्यालयसदस्यत्वनिर्वाचने स्वनामाङ्कनम् अकरोत् । १९१७ तमे वर्षे लोहपुरुषः निर्विरोधम् unopposed अहमदाबाद-महानगरस्य दरियापुर-म्युनिसिपल्-बोर्ड् इत्यस्य सदस्यः अभूत् । १९१७ तमे वर्षे एव लोहपुरुषः गुजरातसभायाः अध्यक्षः अभूत् । १९२४ तमे वर्षे यदा पुनः म्युनिसिपल्-बोर्ड इत्यस्य निर्वाचनम् अभूत्, तदा लोहपुरुषः म्युनिसिपल्-बोर्ड इत्यस्य अध्यक्षत्वेन पुनः चितः । लोहपुरुषस्य अध्यक्षतायां गुजरातसभायाः प्रथमसम्मेलनं गोधरा-नगरे अभूत् । तस्यां सभायां महात्मा अपि उपस्थितः आसीत् । तत्र महात्मा-लोहपुरुषौ स्वविचाराणाम् आदान-प्रदानम् अकुरुताम् । सभायाः सम्मुखं द्वे समस्ये आस्ताम् । प्रथमा बेगार-Forced Labor without payment प्रथायाः उन्मूलनं कथं भवेत् । द्वितीया तु खेडामण्डलस्य कृषकाणां पीडायाः निवारणं कथं भवेत् ।

तस्मिन् समये कोऽपि सर्वकारस्याधिकारी यदि कमपि ग्रामं गच्छति स्म, तर्हि बेगार-इति धनं बलात् स्वीकरोति स्म । अतः गुजरातसभाध्यक्षः लोहपुरुषः तस्याः प्रथायाः विरोधमकरोत् । सः कमिश्नर् पैट् इत्येनं पत्रत्रयेण न्यवेदयत् यत्" एषा प्रथा निरस्ता भवेदि”ति । परन्तु पैट् तस्य निवेदनं नाङ्गीकृतवान् । चतुर्थे पत्रे लोहपुरुषः अलिखत्, "भवान् स्वयमेव एतां प्रथां निरस्तां न करिष्यति चेत् जनाः एव परिपत्रेण त्वं सूचयिष्यन्ति" ।



                                     

12. खेडा-सत्याग्रहः

खेडामण्डलस्य कृषकाणां शोषणमासीत् । अतः सत्याग्रहस्य विचारः लोहपुरुषेण कृतः । दशवर्षाणि यावत् अतिवृष्टिकारणेन, आनावृष्टिकारणेन च यद्यपि सस्योत्पादनं न जातमसीत्, तथापि सर्वकारेण करः Tax बलात् स्वीक्रियते स्म । अस्य विरोधे सरदार आन्दोलनमकरोत् । १९१८ तमस्य वर्षस्य अप्रैल-मासस्य द्वादशे दिनाङ्के कमिश्नर् पैट् कृषकेभ्यः प्रत्यादेशं warning अयच्छत्," कोऽपि गान्धि-वल्लभयोः अनुसरणं करिष्यति चेत् तस्य जीवने महान्तः दुःखाः एव भविष्यन्ति” इति । एतस्योत्तरं दातुं सरदार १९१८ तमस्य वर्षस्य अप्रैल-मासस्य अष्टादशे दिनाङ्के कृषकान् सम्बोद्ध्य भाषणं कृतवान् । लोहपुरुषः उक्तवान्," अस्माकं विरोधस्य मुख्योद्देशः जनेषु व्याप्तस्य सर्वकारं प्रति भयस्य उन्मूलनमस्ति । अस्माकं विरोधे धर्मस्यांशाः अधिकाः सन्ति । खेडामण्डलस्य नाम भारतीयस्वतन्त्रतायाः इतिहासे प्रप्रथमक्रमाङ्के भविष्यति । आभारतं सद्यः अस्माकं चर्चां करोति । अस्माकम् आन्दोलनं भारतस्वतन्त्रतायाः शिलान्यासवदस्ती”ति ।

अप्रैल-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वकारेण अधिकारिणः आदिष्टाः," ये कृषकाः करं दातुम् असमर्थाः सन्ति, तेभ्यः करं मा स्वीकुर्वन्तु” इति । एतादृशसफलतायाः पश्चात् महात्मा-वल्लभौ गुर्जरसमाचारपत्रेषु स्वनिवेदनं दन्तवन्तौ । तौ उक्तवन्तौ," खेडामण्डलस्य जनानां दृढमनोबलेन समग्रस्य भारतस्य ध्यानाकर्षणं कृतमस्ति । जनप्रयासेनैव आन्दोलनं सफलमभूत्" ।

लोहपुरुषस्य प्रशंसायां महात्मा अवदत्," सरदार प्रप्रथमं मम सम्मुखं यदा आगतः, तदाऽहम् अचिन्तयं कीदृशः एषः व्यक्तिः इति । परन्तु तस्य नैकट्येन मम ज्ञानम् अभूत् यत्, अस्य तु महती आवश्यकता अस्ति देशाय इति । अहं चिन्तयन् आसं कः अस्माकम् उपसेनापतिः भवितुमर्हति इति । तदा मम मनसि लोहपुरुषस्यैव नाम स्फुरितम् । सरदार यदि मया सह नाभविष्यत्, तर्हि यानि कार्याणि साधितानि, तानि अशक्यानि एवाभविष्यन्” इति ।



                                     

13. रोलट-नियमविरोधः, असहयोगान्दोलनञ्च

सरदार रोलट-नियमविषये अभाषत्," एषः नियमः व्यक्तिस्वतन्त्रतायाः विरोधी अस्ति" । सरदार १९१९ तमस्य वर्षस्य अप्रैल-मासस्य षष्ठे दिनाङ्के अहमदाबाद-महानगरे रोलट-नियमविरोधियात्रां प्रारभत । ततः आङ्ग्लाः रोलट-विरोधिसभायां पञ्जाबराज्ये नरसंहारम् अकुर्वन् यत्, जलियावाला-बाग-हत्याकाण्ड इति कुख्यातः । अतः १९२० तमस्य वर्षस्य ‘मई’-मासस्य पञ्चदशदिनाङ्के महात्मना निर्धारितं यत् असहयोगान्दोलनं भारतस्वतन्त्रायाः एक एव मार्गः अस्ति इति । असहयोगान्दोलनस्य निर्णयः जनाः एव कुर्वन्तु इति उद्देश्येन गुजरातराजनैतिकसभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तत्र सरदार अवदत्," पञ्जाबराज्ये यः नरसंहारः अभूत्, तेन देशस्य स्थितिः गभीरा अस्ति । अतः असहयोगान्दोलनस्य विषये जनाः एव निर्णयं कुर्वन्तु । साम्प्रतं ये युवानः सन्ति, ते एव एतादृशम् अपमानं सोढुम् न इच्छन्ति चेत् भविष्यस्य युवानः तु एतादृशम् अपमानं कथं सोढुं शक्ष्यन्ति? तेषामपि अस्मत्सु अधिकारोऽस्ति । वयं तेषां न्यासिनः Trusties स्मः । वयं तेभ्यः एतादृशस्य अपमानस्य जीवनमेव परम्परया दद्मः चेत् अस्माकं जीवनस्य को वा लाभः”? एवं बहुषु स्थलेषु अनेकानि भाषणानि दत्तानि लोहपुरुषेण । १९२० तमस्य वर्षस्य अगस्त-मासस्य प्रथमे दिनाङ्के असहयोगान्दोलनस्य घोषणा कृता । १९२१ तमस्य वर्षस्य फरवरी-मासस्य पञ्चमे दिनाङ्के चोराचौरी-काण्डे जाते सति द्वादशे दिनाङ्के महात्मा आन्दोलनम् अस्थगयत् । ततः महात्मनः कारावासोऽपि अभूत् । आन्दोलनस्य स्थगनेन, महात्मनः कारावासेन च जनेषु महन्निराशायाः भावः उद्भूतः । जननिराशां दृष्ट्वा सरदार अवदत्," भवन्तः महात्मनः अहिंसा-प्रेम-सत्यादीनां यदि समर्थनं कुर्वन्ति, तर्हि तस्य एतान् विचारान् हृदि निधाय अहिंसामार्गेण असहयोगान्दोलनाय निरन्तरं कार्यं कुर्वन्तु" ।

                                     

14. नागपुर-महानगरस्य ध्वजसत्याग्रहः

१९२३ तमे वर्षे सरदार महात्मना उद्बोधितस्य असहयोगान्दोलनमहत्वस्य हार्दं ध्वजसत्याग्रहमाध्यमेन भारतीयजनानां सम्मुखम् अस्थापयत् । १९२३ तमस्य वर्षस्य मार्च-मासस्य अष्टादशे दिनाङ्के महात्मनः कारावासस्य एकवर्षं जातमासीत् । तस्मिन् दिने नागपुर-महानगरे सुन्दरलाल-महाभागस्य नेतृत्वे राष्ट्रियध्वजेन सह पदयात्रायाः आयोजनमासीत् । पदयात्राकाले एव सुन्दरलाल-महाभागं बन्दिमकरोत् सर्वकारः । तस्य षण्मासस्य कारावासः अभूत् । ‘मई’-मासस्य प्रथमे दिनाङ्के नागपुर-महानगरे आङ्ग्लाः १४४ नियमस्य घोषणां कृतवन्तः । इत एव प्रारम्भः जातः नागपुर-महानगरस्य ध्वजसत्याग्रहस्य । सरदार ध्वजसत्याग्रहस्य भागो भविष्यतीति निर्णयः कोङ्ग्रेसकार्यसमित्या कृतः ।

सरदार अपि नागपुरे पदयात्रादिकम् अकरोत् । सः जनान् उद्दिश्य अवदत्," मित्राणि! अस्माकम् एतत् आन्दोलनं भविष्ये गौरवपूर्णेतिहासरूपेण जनमनसि भविष्यति । शत्रुद्वारा ध्वजभावनाविषये मिथ्याः वार्ताः प्रसार्यन्ते । परन्तु तेषां मिथ्यावचनस्य विश्वासं मा कुर्वन्तु । महात्मनः कथनानुसारं सत्य-अहिंसा-पराक्रमादयः एव अस्माकं भारतीयसंस्कृतेः मूलाधाराः सन्ति । भारतस्वतन्त्रतायै एतेषाम् एवावश्यकतास्ति । एषः ध्वजः तेषां मूलाधाराणां प्रतीकः अस्ति” ।

सार्धत्रिवर्षं यावत् तत् आन्दोलनं अभूत् । ततः आन्दोलनस्य सफलतायाः घोषणा कृता कोङ्ग्रेस-पक्षेण । अस्मिन् आन्दोलने डा. राजेन्द्र प्रसाद अपि भागम् अवहत् । डा. राजेन्द्र प्रसादः एवं सरदार अनेन आन्दोलनमाध्यमेन परममित्रे अभवताम् । डा. राजेन्द्र प्रसादः स्वस्य जीवन्याम् Autobiography अलिखत्," १९२३ तमे वर्षे नागपुर-महानगर-ध्वजसत्याग्रहे अहं लोहपुरुषस्य नैकट्यं प्राप्तवान् । एषः गौरवपूर्णः विषयोऽस्ति तथा मम विशेषाधिकारस्य परिचयः अस्ति । वल्लभस्योपरि ज्येष्ठभ्रातृत्वेन मम विशेषाधिकारः आसीत् । आजीवनम् अहं लघुभ्रातरं विहाय अन्यरूपेण तं न दृष्टवान्” ।

                                     

15. बोरसद-सत्याग्रहः

परतन्त्रे भारते गुजरातराज्ये खेडामण्डलस्य दक्षिणे बोरसदमण्डलम् आसीत् । तस्मिन् मण्डले द्वौ लुण्ठकौ आस्ताम् । बाबर-अली-नामकौ लुण्ठकौ जनान् बहु पीडयन्तौ आस्ताम् । सूर्यास्ते जाते सति कोऽपि गृहात् बर्हिर्निगन्तुं साहसं न करोति स्म । तयोः रक्षणं भवतु इति आवेदनम् आरक्षककेन्द्राय अप्रेषयन् जनाः । परन्तु जनरक्षणाय ये आरक्षकाः नियुक्ताः आसन्, तेषां वेतनादीनां भारः स्थानिकजननामुपरि आपतितः । जनानाम् एतादृशीं स्थितिं दृष्ट्वा सरदार सर्वकारनीतेः विरोधमकरोत् । सः उक्तवान्," लुण्ठकाः तु मार्गात् भवतां धनं लुण्ठयित्वा नयन्तः आसन् । परन्तु आरक्षकरूपिणः एते लुण्ठकाः भवतां गृहात् धनं लुण्ठयित्वा गच्छन्तः सन्ति । अतः भवन्तः एव निर्णयं कुर्वन्तु, लघुकष्टनिवारणाय महतः कष्टस्याह्वानं कियत् उचितमस्ति? अहं तु कथयामि आरक्षकेभ्यः करं मा यच्छन्तु । अनेन केवलं धनलाभः भविष्यति अपि तु स्वमानस्य लाभोऽपि भविष्यति” ।

बोरसद-सत्याग्रहः सार्धत्रिमासं यावत् अभूत् । लोहपुरुषस्य नेतृत्वे स्थानिकजनानां साहसेन आरक्षकनियुक्त्यर्थं स्वीक्रियमाणः दण्डात्मकः करः १९२४ तमस्य वर्षस्य जनवरी-मासस्य सप्तमे दिनाङ्के स्थगितः । लुण्ठकेभ्यः जनरक्षणाय अधिकाः आरक्षकाः प्रेषिताश्च । एवं बोरसद-सत्याग्रहस्य समाप्तिः अभूत् ।

                                     

16. बारडोली-सत्यग्रहः

विनोबा भावे-महापुरुषस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहुनि कारणानि सन्ति । परन्तु तेषु मुख्ये द्वे कारणे स्तः । एकं तु बारडोली-सत्याग्रहः १९२८, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । सरदार इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

बारडोलीमण्डलस्य जनानां स्वभावं, चारित्र्यञ्च दृष्टवैव महात्मा १९२२ तमे वर्षे असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । परन्तु गोरखपुर-महानगरे चौरीचोरा-काण्डे जाते सति महात्मा तस्यान्दोलनस्य स्थगनम् अघोषयत् । पूर्वं महात्मना या असहयोगान्दोलन-नामक-जनक्रान्तिः स्थगिता आसीत्, १९२८ तमे वर्षे लोहपुरुषेण सा पुनरारब्धा ।

                                     

16.1. बारडोली-सत्यग्रहः पृष्ठभूमिः

बारडोलीमण्डले १८६५ तमे वर्षे आङ्ग्लैः प्रप्रथमं करः निर्धारितः आसीत् । १८९५-९६ वर्षे तस्य करस्य राशिं वर्धयित्वा नवीनः करः १०.५ प्रतिशतं १०.५ % निर्धारितः । प्रति त्रिंशत् वर्षे करराश्यां वृद्धिः भवति स्म । १९२७-२८ वर्षे करवर्धनस्य योजना आसीत् । बारडोलीमण्डले १९२७ तमस्य वर्षस्य जुलाई-मासस्य नवदशे दिनाङ्के १३.९७ प्रतिशतं करवृद्धिः अभूत् । १९२७ तमस्य वर्षस्य आयव्ययवृतं Budget यदा मुम्बई-धारासभायां प्रस्थापितं सर्वकारेण, तदा तस्य विरोधः कृतः सर्वैः । परन्तु न कोऽपि जनानुकूलः निर्णयः अभूत् । अतः बारडोली-सत्याग्रहस्य आरम्भोऽभूत् ।

                                     

16.2. बारडोली-सत्यग्रहः आन्दोलनस्य प्रारम्भः

आरम्भे तु मण्डलवासिनः आङ्ग्लेभ्यः न्यायसम्बद्धनिवेदनानि दत्तवन्तः । परन्तु आङ्ग्लैः सह वार्तालापे विफले सति सर्वे लोहपुरुषाय नेतृत्वं प्रदानाय आमन्त्रणं दत्तवन्तः । नेतृत्वग्रहणात् पूर्वं सरदार कोङ्ग्रेस-पक्षस्य विश्वस्तजनान् बारडोलीमण्डलम् अप्रेषयत् । ते आदिष्टाः यत्," बारडोलीमण्डलं गत्वा पश्यन्तु यत् तत्रस्थाः कृषकाः सत्याग्रहस्य पीडां सोढुं समर्थाः सन्ति न वा”? ततः सरदार सत्याग्रहनेतृत्वस्य दायित्वम् अवहत् ।

सत्याग्रहस्य सम्पूर्णदायित्वं लोहपुरुषस्यासीदतः सः १९२८ तमस्य वर्षस्य फरवरी-मासस्य चतुर्थे दिनाङ्के बारडोलीमण्डलस्य कृषकप्रतिनिधीनां सम्मेलनमकरोत् । सम्मेलने नवसप्ततिः प्रतिनिधयः भागम् अवहन् । लोहपुरुषः दृष्टवान् यत्, केचन कृषकाः किङ्कर्तव्यमूढाः आसन् । अतः स्पष्टवक्ता सरदार उक्तवान्," भवन्तः यत् किमपि कर्तुम् इच्छन्ति, तदर्थं पूर्वं शान्तमनसा चिन्तयन्तु । अहं तादृशं कार्यं न करोमि, यत्र सारल्यं भवति । मम सर्वाणि कार्याणि सङ्कटैः परिपूर्णानि, सङ्कटसम्पन्नानि वा भवन्ति । अतः ये सङ्कटान् स्वगृहम् आह्वयितुं तत्पराः सन्ति, तैः सह एवाहं भविष्यामि” इति ।

सर्वेषां तत्परतायां सत्याम् आन्दोलनस्य कार्यं सरदार प्रारभत । सः प्रप्रथमं तु न्यायरीत्या समस्यायाः निवारणं कर्तुं दृष्टवान् । अतः १९२८ तमस्य वर्षस्य फरवरी-मासस्य षष्ठे दिनाङ्के सः मुम्बई-गवर्नर् जनरल् सर लेस्ली विल्सन इत्येनं पत्रम् अलिखत् । पत्रे सः न्यायान्याययोः भेदं प्रास्थापयत् । सः लिखितवान्," सर्वकारस्य करनिर्धारणस्य पद्धतिः एव दोषपूर्णाऽस्ति” । सर्वकारात् सन्तोषप्रदोत्तरस्याभावात् सर्वकाराय करं मा ददातु इति सरदार कृषकेभ्यः न्यवेदयत् । सः उक्तवान्," स्मरन्तु सर्वे, कदाचित् अस्यान्दोलनस्य प्रारम्भानन्तरम् अस्माकं पराजयः जातश्चेत्, देशस्य महती मानहानिः भविष्यति । सर्वकारस्य पार्श्वे युद्धसाधनानि सन्ति । अस्माकं पार्श्वे सत्य-अहिंसा-साहसादयः सन्ति । मम विश्वासोऽस्ति यत्, धर्मपथेन अन्यायस्य विरोधं प्रजा कुर्यात् चेत् प्रजायाः विरोधस्य सम्मुखं महासत्ता अपि निश्चयेन नशिष्यति” ।

सरदार जानाति स्म यत्, सत्याग्रहस्य साफल्याय दृढसङ्घटनस्य आवश्यकता अस्ति । अतः सः मण्डलं पञ्चविभागेषु व्यभजत् । एकैकस्य विभागस्य एकैकः विभागपतिः आसीत् । मण्डले सत्याग्रहमण्डपाः स्थापिताः । सर्वेषां मण्डपानां द्वौ प्रमुखकार्यकर्तारौ आस्ताम् । बारडोली-मण्डले सत्याग्रहस्य घोषणासमनन्तरम् कस्यचित् प्रकाशनविभागस्य स्थापना कृता । सत्याग्रहसम्बद्धानां येषां वृत्तान्तानाम् आवश्यकता भवति स्म, तेषाम् अस्य प्रकाशनस्य सत्याग्रह खबर पत्र, सत्याग्रह पत्रिका इत्यनयोः वर्तमानपत्रयोः उल्लेखः भवति स्म । तयोः वर्तमानपत्रयोः विनामूल्यं वितरणं भवति स्म ।

सरदार शनैः शनैः बारडोली-सत्याग्रहं राष्ट्रियस्तरीयम् अकरोत् । ‘मई’-मासस्य द्वाविंशतितमे दिनाङ्के मुम्बई-धारासभायां बारडोली-सत्याग्रहसमर्थने अष्ट सदस्याः त्यागपत्रम् अयच्छन् । ततः सर्वकारस्य लक्ष्यम् आसीत् यत्, बारडोली-सत्यग्रहसङ्घटनस्य विभाजनं भवेदिति । अतः सर्वकारेण साप्रदायिक-विभाजनस्य विचारः कृतः । सर्वकारेण निर्दिष्टं, सामूहिकानाम् आक्षेपाणां निर्मूलनमसम्भवमस्ति । अतः एकैकः कृषकः स्वाक्षेपं कुर्यात् । परन्तु सरदार तत् निरस्तमकरोत् । १९२८ तमस्य वर्षस्य जून-मासस्य द्वादशे दिनाङ्के समग्रे भारते" बारडोली-दिवस”स्य आचरणं भवतु इति घोषणा कृता । तस्मिन् दिने सर्वे स्वस्य आपण-वृत्ति-कार्याणि त्यक्त्वा विरोधप्रदर्शनम् अकुर्वन् ।

‘दिसम्बर-मासस्य टाइम्स् आफ इण्डिया’ इत्यस्य ऐयर-नामकः सम्पादकः बारडोलीमण्डले न्यवसत् । सः स्वकर्मचारिणं सन्देशम् अप्रेषयत्," बारडोलीमण्डले बोलसेलिज़म् इत्यस्य प्रयोगः प्रचलति । पटेल अत्रस्थः लेनिन अस्ति । सत्याग्रहिणः सर्वकारं पूर्णतया पङ्गुं कृतवन्तः सन्ति । जुलाई-मासस्य अन्तिमे सप्ताहे तु विस्फोटकस्थितिः आसीत्” । अनेन आन्दोलनस्य गाम्भीर्यं ज्ञायते ।

सर्वकारेण सह सुरत-महानगरे मन्त्रणा असफला अभूत् । जुलाई-मासस्य त्रयोविंशतितमे वर्षे दिनाङ्के गवर्नर उक्तवान्," बारडोली-सत्याग्रहिणां पार्श्वे चतुर्दशदिनानाम् एव समयः अस्ति । मण्डलजनाः सर्वकारेण निर्धारितनियमैः सह यदि सम्मताः न भविष्यन्ति, तर्हि सर्वकारः बलप्रयोगं करिष्यति” ।

सरदार अवदत्," गवर्नर इत्यस्य शब्दाडम्बरस्य विश्वासं मा कुर्वन्तु भवन्तः! गवर्नर अनुसारं करनियमः सामान्यः अस्ति । परन्तु जनानां, सत्याग्रहिणाञ्च दृष्ट्यां करनियमः न्याययुक्तः, अन्याययुक्तः वा? इति प्रश्नोऽस्ति” ।

                                     

16.3. बारडोली-सत्यग्रहः समाधानम्

गवर्नर जनरल् लेस्ली विल्सन इत्यस्य मिथ्याजल्पनेन कोऽपि सत्याग्रही प्रभावितः । एवं सम्पूर्णदेशस्य समर्थनं सत्याग्रहिभिः सह आसीत् । सर्वकारस्य स्वमानं नष्टम् अभूत् । सरदार बारडोली-सत्याग्रहस्य करसम्बद्धनियमानां निरस्तीकरणे सफलः जातः । अगस्त-मासस्य एकादशे दिनाङ्के बारडोली-सत्याग्रहस्य सफलतानन्तरं सरदार अवदत्," ईश्वरकृपया अस्माकं प्रतिज्ञा सफला अभूत् । एषः विजयः बारडोलीमण्डलस्य जनानां, मम सहकर्तॄणाञ्चास्ति” ।

बारडोली-सत्याग्रहविजयानन्तरं यङ्ग इण्डिया पत्रे महादेव देसाई अलिखत्," बारडोली-सत्याग्रहः सत्याहिंसयोः विजयः अस्ति । एषः सत्याग्रहः लोहपुरुषस्य तृतीयः विरामः अस्ति । नागपुरस्य विजयः सैद्धान्तिकाधिकारस्य विजयः आसीत् । बोरसदमण्डलस्य विजयः स्थानिकविजयः आसीत् । बारडोली-सत्याग्रहः तु अद्वितीयः विजयः अस्ति, कारणं तेन सर्वकारस्यैव न अपि तु सम्पूर्णदेशस्य ध्यानाकर्षणं कृतमस्ति” ।

                                     

17. कारागारवर्षम् - १९३०

एतस्मिन् वर्षे लोहपुरुषस्य बहुवारं कारावासयात्रा अभूत् । १९३० तमस्य वर्षस्य जुलाई-मासस्य एकत्रिंशत्तमे दिनाङ्के बाळ गङ्गाधर टिळक-महाभागस्य जयन्त्यवसरे पदयात्रायाः आयोजनम् आसीत् । परन्तु सर्वकारेण पदयात्रायै अनुमतिः न दत्ता । अतः सर्वे बोरीबन्दर-रेलस्थानके स्थित्वा विरोधमकुर्वन् । ततः सर्वकारेण सरदार-मालवीय-दौलतरामादयः बन्दिनः कृताः । सर्वेषां मासत्रयस्य कारावासः अभूत् ।

नवम्बर-मासस्य पञ्चमे दिनाङ्के सर्वकारेण सरदार मुक्तः कृतः । परन्तु पुनः सरदार सर्वकारविरोधिभाषणं कृत्वा दिसम्बर-मासे कारावासं प्रत्यगच्छत् । तस्मिन् उत्तेजके भाषणे सरदार अवदत्," मम वाण्याः उपरि कस्यापि शासनं नास्ति । अहं यद्यपि कारागारे बन्दी भवामि, तथापि मम सन्देशान् सर्वे देशवासिनः प्राप्स्यन्ति, अनुसरिष्यन्ति च” । आङ्ग्लशासकेषु अस्य भाषणस्य भयः एतादृशः आसीत् यत्, ते अन्यान् काल्पनिकारोपान् लोहपुरुषस्योपरि आरोपयन् । आहत्य नव-मासस्य कारावासः अभूत् । एवं बहुवारं लोहपुरुषस्य कारावासयात्रा अभवत् ।

                                     

18. कोङ्ग्रेस-पक्षाध्यक्षः

१९३१ तमस्य वर्षस्य मार्च-मासस्य एकत्रिंशत्तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य अखिलभारतीयाधिवेशनमभूत् । तत्र सरदार वल्लभभाई पटेल कोङ्ग्रेस-पक्षस्य अध्यक्षत्वेन चितः । बारडोली-सत्याग्रहस्य सरदार भारतस्य सरदार अभूत् ।

प्रथमं गोमल-सम्मेलनं १९३० तमस्य द्वादशे दिनाङ्के अभूत् । तत्र यद् समाधानं प्राप्तमासीत्, तत् गान्धि-इर्बिन्-समाधाननाम्ना प्रख्यातमस्ति । परन्तु द्वितीयं गोमल-सम्मेलनं लोहपुरुषस्य आध्यक्षे अभूत् । १९३१ तमस्य वर्षस्य अगस्त-मासस्य पञ्चविंशतितमे दिनाङ्के शिमला-नगरे सम्मेलनमभूत् । सम्मेलनपश्चात् महात्मा लण्डन-नगरं गतवान् । महात्मनः अनुपस्थितौ सर्वकारेण गान्धि-इर्बिन्-समाधानस्य उल्लङ्घनं प्रारब्धम् । तस्य विरोधेन सरदार-नेहरू इत्यादीनां नेतॄणां कारावासोऽभूत् । ततः महात्मा भारतं पुनरागतः । तस्यापि कारावासोऽभूत् । एवं भारतस्य प्रतिष्ठितनेतारः येरवडा-कारावासे बन्दिनः आसन् ।

                                     

19. येरवडा-कारावासे महात्मना सह सरदार

सरदार षोडशमासं यावत् १९३२ जनवरी-तः १९३३ ‘मई’-पर्यन्तं महात्मना सह येरवडा-कारावासे आसीत् । सः कालः मम जीवनस्य महत्वपूर्णः कालः इति लोहपुरुषः वदति स्म । पुरा साबरमती-कारावासे लोहपुरुषेण धुम्रपानं त्यक्तमासीत्, येरवडा-कारावासे चाय-पेयस्य त्यागः कृतः ।

१९३२ तमस्य वर्षस्य ‘मई’-मासे सर्वकारेण महात्मा मुक्तः कृतः । कारावासात् बहिः आगत्य सः सरदारसम्बद्धलेखम् अलिखत्," कारावासे लोहपुरुषेण सह समययापनस्य यम् अवसरम् अहं प्राप्तवान्, सः मम सौभाग्यमेवास्ति । तस्य अद्वितीयशूरवीरतायाः, ज्वलन्तदेशभक्त्याः विषये तु मम ज्ञानमासीत् । परन्तु तस्य पार्श्वे यत् मातृहृदयमस्ति, तस्यानुभवम् अहं तस्योपवासेन ज्ञातवान् । सः मह्यं यत् मातृप्रेम अयच्छत्, तेन मम मातुः स्मरणम् अभूत् । बारडोली-खेडादिसत्याग्रहेषु यथा कृषकाणां सः चिन्तां कुर्वन् आसीत्, तथा ममापि अकरोत् । तं कालम् अहं न विस्मरिष्ये” ।

१९३४ तमस्य वर्षस्य जुलाई-मासस्य चतुर्दशे दिनाङ्के सरदार मुक्तोऽभूत् । सरदार कारावासे यदा आसीत्, तदा तस्य मातुः, ज्येष्ठभ्रतुः च देहान्तः अभूत् । १९३२ तमस्य वर्षस्य नवम्बर-मासस्य प्रथमे दिनाङ्के मातुः, १९३३ तमस्य वर्षस्य अक्तूबर-मासस्य विंशतितमे दिनाङ्के ज्येष्ठभ्रातुः वीरविठ्ठलस्य देहान्तः अभूत् ।

                                     

20. देशीयराज्येभ्यः सङ्घर्षः

प्रारम्भिके काले कोङ्ग्रेस-पक्षस्य नीतिः आसीत् यत्," देशीयराज्यानां प्रजार्थं किमपि न कर्तव्यम् । कारणं देशीयराज्यजनेषु देशभावनायाः उदयः यदा भविष्यति, तदा वयं तेभ्यः कार्यं करिष्यामः” इति । परन्तु १९३४ तमस्य वर्षस्य भारतीयशासनाधिनियमेन परिस्थितिः परिवर्तिता । तस्मिन् अधिनियमे ब्रिटिश-प्रान्तेषु यानि राज्यानि आसन्, तानि एव स्वराज्यस्य अधिकारयोग्यानि उद्घोषितानि । अनेन देशीयराज्यानि वञ्चितानि अभुवन् । अतः देशीयराज्यजनैः कोङ्ग्रेस-पक्षः प्रेरितः । ब्रिटिशराज्यवत् देशीयराज्येभ्यः अपि स्वराज्यस्थापनायै चिन्तनीयम् इति । ततः कोङ्ग्रेस-पक्षेण स्वनियमेषु परिवर्तनं कृतं तथा स्वोद्देश्येषु देशीयराज्यानामपि स्वराज्यस्य आन्दोलनं प्रारब्धम् । तस्मिन् आन्दोलने मैसूरु-राजकोट-भावनगरादीनां समस्यानां निवारणमभूत् ।

                                     

21. भारतविभाजनस्थितिः

१९४१ तमस्य वर्षस्य दिसम्बर-मासस्य सप्तमे दिनाङ्के विश्वयुद्धे जपानदेशोऽपि अयुद्धत् । युद्धसमये जपान-देशः एशियाखण्डस्य देशेषु आक्रमणमकरोत्। शनैः शनैः जपान-देशस्य सेना भारतस्य समीपस्थबर्मादेशस्योपरि आधिपत्यमकरोत् । एवं भारत-देशे अपि युद्धस्थितिः उद्भूता । १९४० तमे वर्षे युद्धसम्बद्धप्रस्तावस्य विरोधं कृत्वा महात्मा कोङ्ग्रेस-पक्षात् भिन्नः जातः आसीत् । परन्तु ततः सः उक्तावान्," तत्र मम विरोधः मम महान् दोषः आसीत्” ।

बारडोली-सत्यग्रहस्यानुभवेन सरदार तु ज्ञातवान् आसीत् यत्, देशाय कृत्रिमशान्त्याः आवश्यकता नास्ति । अतः सः अवदत्," हिंसाऽहिंसयोः कथनं तु सद्यः विस्मरणीयमेव । सद्यः भारतं युद्धस्थितेः समीपमस्ति । गतपञ्चाशत् वर्षेषु देशः काल्पनिकशान्त्यां स्वजीवनं यापयन् अस्ति । अतः देशजनैः अशान्त्याः भयः न कर्तव्यः । युद्धं न केवलं देशद्वयोः मध्ये अपि तु अन्येषां समीपस्थानां देशानामुपरि अपि आपतति" ।

ततः सरदार करमसद-ग्रामे अवदत्," अहं जातिवादं विस्मृतवान् अस्मि । आभारतं मम ग्रामोऽस्ति । अष्टादशवर्णजनाः मम बन्धवाः सन्ति । निम्नकुलः-उच्चकुलः, निम्नजातिः-उच्चजातिः सर्वं विस्मरन्तु” ।

पूर्वं बहुवारं स्वराज्यस्य घोषणा कृता आसीत् । परन्तु आङ्ग्लाः भारतं त्यक्त्वा गच्छन्तु इति न कोऽपि उक्तवान् आसीत् । लोहपुरुषादयः कोङ्ग्रेस-पक्षस्य नेतारः भारतस्वतन्त्रतायाः स्वप्नं पश्यन्तः आसन् । युद्धपरिस्थित्यां महात्मनः विचराः अपि परिवर्तिताः । १९४२ तमस्य वर्षस्य अप्रैल-मासस्य षड्विंशतितमे दिनाङ्के हरिजन पत्रिकायां महात्मा अलिखत्," भारतवर्षे विद्यमानानां ब्रिटिशजनानां कारणात् जपान-देशः भारतस्योपरि अपि आक्रमणं कर्तुं उद्युक्तः अस्ति । अतः भारतस्य वास्तविकसुरक्षाम् उद्दिश्य आवश्यकता अस्ति यत्, आङ्ग्लाः तत्कालमेव भारतं त्यक्त्वा गच्छेयुः” । लोहपुरुषस्य मतम् आसीत्," एतत् युद्धम् अधिककालं यावत् न भविष्यति । अस्य पूर्णाहुतिः शीघ्रातिशीघ्रं भविष्यति । अतः जपानसैनिकानां भारतप्राप्तिपूर्वमेव आङ्ग्लाः भारतं त्यक्त्वा गच्छेयुः तथा अस्माभिः चिन्तनीयम्” । ततः १९४२ तमस्य वर्षस्य अगस्त-मासस्य ७-८ दिनाङ्कयोः मुम्बई-महानगरे अखिलभारतीयकोङ्ग्रेसमहासमित्याः सम्मेलनमासीत् । तत्र भारत छोडो प्रस्तावः अङ्गीकृतः ।

बहवः कोङ्ग्रेस-पक्षस्य विरोधमकुर्वन् । अतः १९४२ तमस्य वर्षस्य जुलाई-मासस्य षोडशे दिनाङ्के सरदार अवदत्," विदेशेषु सर्वकारेण प्रचारः कृतः अस्ति यत्, कोङ्ग्रेस-पक्षेण सह कोऽपि नास्ति । नवकोटिः यवनाः, सप्तकोटिः हरिजनाः, सप्तकोटिः राजशासिताः जनाः, रेडीकल-डेमोक्रेटिक-कम्युनिष्ट-जनाः कोङ्ग्रेस-पक्षेण सह न सन्ति । सर्वे तस्य विरोधं कुर्वन्तः सन्ति । सर्वे यदि कोङ्ग्रेस-पक्षस्य विरोधं कुर्वन्ति, तर्हि सर्वकारः भयभीतः किमर्थं दृश्यते? तेन तु शान्त्या कोङ्ग्रेसपक्षस्य विरोधः द्रष्टव्यः खलु? सत्यता तु इदम् अस्ति यत्, यावत्पर्यन्तं कोङ्ग्रेस-पक्षः सर्वेषां भारतीयानां मनसि स्वतन्त्रताबीजस्य वपनं न करिष्यति, तावत्पर्यन्तं आङ्ग्लाः एवमेव मिथ्यां प्रसारयिष्यन्ति” ।

१९४२ तमस्य वर्षस्य अगस्त-मासस्य नवमे दिनाङ्के आङ्ग्लाः महात्मा-सरदार इत्यादीन् नायकान् कारावासं प्रेषितवन्तः । ततः देशे निर्वाचनस्य Election समयः आगतः । निर्वाचिने कोङ्ग्रेस-पक्षेण एसेम्बली-स्थानेषु सप्तपञ्चाशत् ५७ स्थानानि, प्रान्तस्थानेषु त्रयोविंशत्यधिकनवशतं ९२३ स्थानानि प्राप्तानि । परन्तु मुस्लिमलीग-पक्षस्य एसेम्बली-स्थानेषु त्रिंशत्, प्रान्तस्थानेषु पञ्चविंशत्यधिकचतुःशतम् ४२५ स्थानेषु विजये जाते सति भारतस्य एकतायाः उपरि प्रश्नार्थचिह्नः अभूत् । अनेन इदं स्पष्टमभवत् यत् भारतस्य विभजनं कृत्वा पृथग्तया पाकिस्थानदेशनिर्माणपक्षे बहवः यवनाः सन्ति इति ।

                                     

21.1. भारतविभाजनस्थितिः केबिनेट मिशन

आङ्ग्लाः देशत्यागं कुर्वन्ति एव । तस्मात् पूर्वं तेषां सर्वकारः अन्तिमवारं भवतु इति सरदार-मतमासीत् । तस्य योजना आसीत् यत्, भारतीयसंविधानस्य निर्माणेन सह अन्तिमराजनैतिकसर्वकारः अपि भवेत्, येन संविधाननिर्माणे सर्वेषां योगदानं भवितुमर्हति । अतः १९४६ तमस्य वर्षस्य जून-मासस्य षोडशे दिनाङ्के अन्तिमसर्वकारस्य उद्घोषं गवर्नर कृतवान् । अन्तिमसर्वकारस्य सूचना-प्रसारण-गृहविभाध्यक्षः सरदार आसीत् । यस्मिन् दिने एतेषां विभागानां मन्त्रित्वेन लोहपुरुषस्य घोषणा अभूत्, तस्मिन् दिने मुस्लिमलीग-पक्षेण शोकदिनम् आचरितमासीत् । सः पक्षः सरदार-विरोधी आसीत् । काले व्यतीतेऽपि तेषां विरोधः न स्थगितः । तस्य पक्षस्य नेतारः लोहपुरुषस्योपरि आरोपं कुर्वन्ति स्म यत्, आकाशवाण्याः ये कार्यक्रमाः भवन्ति, तेषु हिन्दीभाषायाः प्रयोगः अधिकः भवति इति । मुस्लिमलीग-पक्षसम्बद्धाः ये समाचाराः भवन्ति, तेषां प्रसारणम् अल्पकालाय एव भवति इति अपरं दोषारोपणमासीत् । अस्य खण्डनं कृत्वा सरदार अवदत्," गुप्तरूपेण अवैधillegalरीत्या च चालितानाम् आकाशवाण्याः कार्यक्रमाणां प्रसारणम् अहम् अस्थगयं कारणं तेषां कार्यक्रमाणां प्रारम्भे, अन्ते च ‘पाकिस्थान जिन्दाबाद’ इत्यस्य घोषणा भवति स्म” ।

                                     

21.2. भारतविभाजनस्थितिः भारतविभाजनम्

१९४७ तमस्य वर्षस्य फरवरी-मासस्य विंशतितमे दिनाङ्के ब्रिटिशसभाद्वारा ऐतिहासिकघोषणा कृता । भारतीयेभ्यः भारतशासनदानस्य, आङ्ग्लानां देशत्यागस्य च घोषणा कृता । १९४८ तमस्य वर्षस्य जून-मासे शासनहस्तान्तरणं भविष्यति इति घोषणा कृता । तया सह अन्या घोषणा अभूत् यत्, वर्तमान-वायसराय लोर्ड वैवल-स्थाने लोर्ड माउण्टबैटन वायसराय-पदारूढो भविष्यति । १९४७ तमस्य वर्षस्य मार्च-मासस्य चतुर्वंशतितमे दिनाङ्के लोर्ड माउण्टबैटन वायसराय-पदारूढो अभूत् । भारतीयराजनेतॄणां विषये माउण्टबैटन इत्यस्य भिन्नानि मतानि आसन् । सरदार-विषये तस्य मतमासीत् यत्," सरदार पटेल दृढः, धीरः, स्पष्टवादी, व्यावहारिकः, वास्तविकतावादी चास्ति” ।

विभाजनस्य विचारगोष्ठी यदा यदा भवति स्म, तदा तदा सरदार शीघ्रतया जिन्ना इत्यस्योपरि क्रोधं करोति स्म । तस्य मनसि शनैः शनैः आगतं यत्, विभाजनमेवोचितं भविष्यति । एतावत्पर्यन्तं विभाजनविरोधी सरदार आकस्मिकं विभाजनस्य पक्षधरः अभूत् । अनेन बहूनाम् आश्चर्यम् अभूत् । तेषु अन्यतमः आसीत् के.एस.मुन्शी । मुन्शी जनमान्यतया, किंवदन्त्या वा लोहपुरुषस्य मूल्याङ्कनं न कृतवान् । जिन्ना इत्यनेन सह सरदार कार्यं कर्तुं नेच्छति । अतः विभाजनाय तेन सम्मतिः दत्ता इति कारणं तु व्यर्थमेवास्ति इति मुन्शी जानाति स्म । मुन्शी-लोहपुरुषौ प्रतिवेशिनौ neighbor आस्ताम् । तौ प्रतिदिनं सायङ्काले भ्रमणाय यदा गच्छतः स्म, तदा सरदार स्वमनसः चर्चां करोति स्म । सरदार-कथनमासीत्," भारतविभाजनसम्मत्यां मम पक्षद्वयमस्ति । प्रथमं तु वयम् अहिंसायाः पक्षधराः स्मः । अतः वयं हिंसया कार्यं कर्तुं न इच्छामः । वयम् अहिंसासम्बद्धान् अस्माकम् आदर्शान् विस्मरामश्चेदपि मुस्लिमलीग-पक्षेण सह दीर्घकालस्य कलहो भविष्यति । ब्रिटिश-सर्वकारः यथा स्वारक्षकैः, सैनिकैश्च साहाय्येन शासनं कुर्वन्नस्ति, तथा वयं न करिष्यामः । द्वितीयमस्ति हिन्दु-मुस्लिम-हिंसा । विभाजनस्य प्रस्तावं यदि न स्वीकुर्मः, तर्हि नगर-ग्रामेषु हिन्दु-मुस्लिम-हिंसाः भविष्यन्ति । सैनिकाः, आरक्षकाः अपि हिन्दु-मुस्लिम-आधारेण विभक्ताः भूत्वा अन्तःकलहं करिष्यन्ति । सङ्घटनस्याभावात् हिन्दूनामेव अधिका क्षतिः भविष्यति । हिन्दवः स्वभावेनैव उदारवादिनः सन्ति । अतः हिन्दवः आक्रमकाः भवन्ति चेदपि तेषां निग्रहं सर्वकारः सरलतया करिष्यति । विभाजनप्रस्तावेन सह सम्मताः वयं देशद्वयस्य रचनां कुर्मः । अनेन हिन्दु-मुस्लिम-हिंसायाः विषये अस्माभिः अन्यदेशेन सहैव चर्चा कर्तव्या भवति, न तु ग्राम-नगरजनैः सह” ।

लोहपुरुषस्य अन्यदपि मतम् आसीत् यत्," पाकिस्थानदेशः स्वतन्त्रततया अधिककालं यावत् न तिष्ठति । सः अराजकतायाः कारणेन पुनः भारते विलीनं भविष्यत्येव” । विश्लेषकाणां मतमस्ति यत्," लोहपुरुषस्य एषः विचारः तु उचितः एव आसीत् । परन्तु पाकिस्थानस्य भारते विलीनता यथा न भवेत् तथा बहवः प्रयासाः कृताः अन्यदेशैः” ।

एतावत्पर्यन्तं महात्मा विभाजनाय सम्मतः नासीत् । परन्तु सरदार महात्मानम् अबोधयत्," भ्रात्रोः कलहे जाते सति यथा तौ पृथक् गच्छतः, तथा इदानीं देशस्य भागः भवन्नस्ति” । ततः महात्मा अपि सम्मतः अभूत् ।



                                     

21.3. भारतविभाजनस्थितिः विभाजनप्रक्रियायां सरदार

विभाजनप्रक्रियायै विभाजनसमित्याः रचना अभूत् । ततः तस्याः समित्याः विभाजनपरिषद् इति नामकरणम् अभूत् । माउण्टबैटन परिषदः अध्यक्षः आसीत् । परिषदः चत्वारः सदस्याः आसन् । द्वौ कोङ्ग्रेस-पक्षतः, द्वौ मुस्लिमलीग-पक्षतः । कोङ्ग्रेसपक्षतः सरदार वल्लभभाई पटेल, डा. राजेन्द्र प्रसाद च आसीत् । मुस्लिमलीग-पक्षतः जिन्ना, लियाकत च आसीत् । भारतसम्बद्धाः विषयाः लोहपुरुषेण उपस्थापनीयाः अभवन् । परिषदः अन्तिमे सत्रे सरदार उक्तवान्," भारतस्य इच्छास्ति विभाजनानन्तरं पाकिस्थानं भारतस्य सखराष्ट्रं भवेत् । अहं विभाजनवार्तायामेव स्पष्टं कृतवान् अस्मि यत्, पाकिस्थानस्य विषये भारतस्य मतं सद्भावनायाः एव अस्ति, भविष्यति च” ।

                                     

21.4. भारतविभाजनस्थितिः नवभारतशिल्पी सरदार

भारतेन स्वतन्त्रताप्राप्तिसमनन्तरं भारत-पाकिस्थानयोः विभाजनमभवत् । परन्तु माउण्टबैटन इत्यनेन स्वतन्त्रतायाः नियमेषु कश्चित् मुख्यनियमः लघुशासकेभ्यः उद्घोषितः आसीत् । तस्य नियमस्य भागत्रयमासीत् ।

अनेन नियमने अखण्डभारतस्य स्वप्नं कठिनं अभवत् । लघुशासकेषु अन्तःकलहस्य सम्भावना आसीत् । मुख्यतः भोपाल-ट्रावनकोर-हैदराबाद-आदिराज्यानि स्वतन्त्रताम् इच्छन्तः आसन् । तेषामनुकरणेन अन्ये शासकाः अपि स्वतन्त्रतायै विचारमकुर्वन् । तस्मिन् समये भारते पञ्चषष्ठ्युत्तरपञ्चशतं ५६५ लघुराज्यानि आसन् । ते सर्वे स्वतन्त्रतामिच्छन्तः आसन् । तस्य परिणामस्वरूपं भारतस्य मानचित्रं कदाचित् एतादृशं भवेत् -

१९४७ तमस्य वर्षस्य जून-मासस्य सप्तविंशतितमे दिनाङ्के भारत-पाकिस्थानयोः राज्यविभागयोः स्थापना कृता । भारतीयराज्यविभागस्य अध्यक्षः सरदार वल्लभभाई पटेल आसीत् । एवं भारतीयराज्यानां भारतविलयस्य दायित्वं लोहपुरुषस्योपरि आगतम् ।

१९४७ तमस्य वर्षस्य जुलाई-मासस्य पञ्चमे दिनाङ्के लोहपुरुषेण ऐतिहासिकं भाषणं कृतम् आसीत् । सरदार उक्तवान्," वयं लघुराज्यैः सह स्मः । तेषां मनःस्थितिः सद्यः किदृशी अस्ति इति वयं जानीमः । परन्तु राज्यानि केवलं सुरक्षा-वैदेशिकसम्बन्ध-परिवहनेभ्यः केन्द्रसरकारान्तर्गतम् आगच्छन्तु । इतिहासः साक्षी अस्ति भारतस्य खण्डितावस्थायाः । अस्माकं अनेकतायाः च परिणामः आसीत् यत्, आक्रामकेभ्यः लघुसैन्येभ्यः अपि अस्माकं पराजयः भवति स्म । अस्माकं परस्परकलह-द्वेष-ईष्यादीनाम् कारणेनैव वयं वैदेशिकैः आक्रान्ताः । भौगोलिकसामीप्यदृष्ट्या, सांस्कृतिकदृष्ट्या, राजनैतिकदृष्ट्या च लघुराज्यानां दायित्वमस्ति यत्, तानि वर्तमानभारतस्य अखण्डतायै योगदानं दद्युः ।

भारतीयपरम्परयाः विषये येषाम् आदरः, प्रेमः, सद्भावना च अस्ति तादृशाः नागरिकाः अपि अत्र वसन्तः सन्ति । तेषामपि गौरवपूर्णा परम्परा अस्ति । एषः संयोगः एवास्ति यत्, केचन नागरिकाः ब्रिटिश-राज्येषु, लघुराज्येषु च वसन्तः सन्ति । परन्तु भारतीयोच्चपरम्परायाः, भारतीयसंस्कृतेः सिञ्चने सर्वेषां समदायित्वमस्ति । वयं तु रक्त-भावना-हितानां सम्बन्धेन बद्धाः स्मः । अस्मान् खण्डेषु विभक्तुं न कोऽपि शक्ष्यति । अस्मासु तादृशीनां समस्यानां स्थानं न भवेत्, यासां निवारणम् अशक्यं भवेत् । अतः मम परामर्शः अस्ति यत्, वयं मैत्रीभावेन सन्धिं कुर्मः इति ।

अराजकता, अव्यवस्था च बाल-वृद्धान्, धनिक-निर्धनान् सर्वान् समानरूपेण विनाशं प्रति नेष्यति । भविष्यस्य सन्तानाः अस्मभ्यः अभिशापं दद्युः तथा अस्माभिः न किमपि कार्यं करणीयम्” ।

षड्दिनस्य परिश्रमपश्चात् Instrument of Accession पत्रस्य निर्माणमभूत् । अस्मिन् सन्धिपत्रे राज्यैः सह सर्वकारस्य सन्धिनियमाः लिखिताः आसन् । तानि राज्यानि भारते विलीनानि सन्ति इत्यस्य प्रमाणमपि एतत् पत्रमासीत् । राज्यानां राजानः अस्योपरि स्वहस्ताक्षरं कृत्वा भारते विलयस्य घोषणां कुर्वन्ति स्म । एतत् पत्रं भारतीयसंविधानस्य भागः अस्ति ।

भारतीयसंविधानसभायां सर्वप्रथमं पटियाला-बीकानेर-राज्ययोः राजानौ प्रवेशपत्रस्योपरि Instrument of Accession हस्ताक्षरम् अकुरुताम् । ततः धौलीपुर-भरतपुर-विलासपुर-नाभा-ग्वालियरादीनि राज्यानि भारते विलीनानि अभूवन् । तथापि बहूनि राज्यानि भारतविलये सम्मतानि नासन् । तेषु ट्रावनकोर-जोधपुर-भोपाल - इन्दौरादीनि राज्यानि आसन् ।

१९४७ तमस्य वर्षस्य अगस्त-मासस्य एकादशे दिनाङ्के देहली-महानगरस्य रामलीला-क्षेत्रे सरदार भाषणं कृतवान्," चत्वारि दिनानि अवशिष्टानि सन्ति । पश्चात् वैदेशिकाः गमिष्यन्ति । अतः लघुराज्यानां पार्श्वे अगस्त-मासस्य पञ्चदशदिनाङ्कपर्यन्तं समयः अस्ति भारते विलयकरणाय । ततः लघुराज्यैः सह कठोरव्यवहारः भविष्यति । सद्यःपरिस्थित्याम् एकाकीभवनं क्लिष्टकरमस्ति । प्रचण्डवायोः आगमनेन एकाकीनां वृक्षाणां पतनं भवत्येव । परन्तु अन्यवृक्षाणां सङ्घटने ये भवन्ति, ते निश्चयेन रक्षिताः भवन्ति । भवन्तः तु श्रीरामचन्द्रस्य, अशोकस्य च वंशजाः सन्ति । परन्तु सद्यः भवन्तः आङ्ग्लानां निम्नाधिकारिणम् अपि प्रणमन्ति । भवताम् अधुनापर्यन्तं विश्वासः एव नास्ति यत्, अगस्त-मासस्य पञ्चदशे दिनाङ्के आङ्ग्लाः गमिष्यन्ति । ते यदा गमिष्यन्ति, तदैव भवतां ज्ञानं भविष्यति” ।

१९४७ तमस्य वर्षस्य अगस्त-मासस्य चतुर्दशदिनाङ्के हैदराबाद-जुनागढ-काठियावाड-भोपाल-ट्रावनकोरादीनि राज्यानि भारते विलीनानि जातानि । काश्मीरराज्यं विहाय सर्वाणि राज्यानि भारते विलीनानि अभवन् । कालान्तरे काश्मीरराज्यमपि भारते विलीनमभूत् । भारते राज्यानां विलीनीकरणे वी.पी.मेनन कुशलतया लोहपुरुषस्य सहकारम् अकरोत् । सः स्वजीवन्याम् अलिखत्," विलयनीत्याः सफलतायाः कारणं लोहपुरुषः अस्ति । राज्ञैः सह तस्य कुशलतापूर्णव्यवहारः विलयनीतिसाफल्यस्य मुख्यकारणमस्ति । शासकेभ्यः सः दृढशक्तिस्वरूपः, न्यायस्वरूपश्च आसीत् । शासकान् प्रति विश्वसनीयता-विनम्रता एव लोहपुरुषस्य शक्तिः आसीत् । इत एव तस्मिन् लोहपुरुषत्वम् दृष्टं सर्वैः । अर्थात् सर्वे तं लोहपुरुषत्वेन अङ्गीकृतवन्तः” ।

                                     

22. संविधानसभायै योगदानम्

संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत् । ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः । अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत् । यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः ३७० प्रावधानः, भाषानीतिः ।

                                     

23. सरदार मुस्लिमविरोधी?

स्वस्य ‘इण्डिया विंस फ्रीडम’ पुस्तके मौलाना अबुल् कलाम् आजाद् लोहपुरुषः मुस्लिमविरोधी इति लिखितवान् आसीत् । अतः अद्यापि मुस्लिमसङ्घटनेषु सरदार मुस्लिमविरोधी, हिन्दुसम्प्रदायवादी चासीत् इति भावना प्रचलिता दृश्यते । परन्तु लोहपुरुषेण लिखितानां पत्राणां गहनाध्ययनेन सत्यज्ञानं भवति ।

लोहपुरुषः हिन्दुः आसीत् । अतः हिन्दुत्वे सः गर्वान्वितः आसीत् । हिन्दुत्वे प्रेमः, आदरः, विश्वासः कोऽपि राष्ट्रियापराधः नास्ति । हिन्दुत्वसमर्थनेन, आचरणेन च मुस्लिमविरोधः कदापि न भवति इति तस्य मतमासीत् । स्वभाषणेषु लोहपुरुषेण स्पष्टम् उक्तमस्ति," राष्ट्रभक्तस्य मुस्लिमजनस्य भारतसङ्घे तत्पदमेवास्ति यत् राष्ट्रभक्तस्य हिन्दुजनस्यास्ति । तेभ्यः मुस्लिमजनेभ्यः अहं कठोरः अस्मि ये भारतविभाजनात् पूर्वं मुस्लिमलीग-पक्षस्य समर्थनम् अकुर्वन्, स्वतन्त्रतानन्तरमपि पाकिस्थानगमनस्य चिन्तनं कुर्वन्तः आसन्” ।

मुस्लिमजनैः सह यद्यपि स्वस्य मृदुता आसीत्, तथापि सः देशहितं ध्यात्वा उक्तवान्," अहम् अद्यापि बहु विनम्रभावेन वदन् अस्मि यत्, अहं मुस्लिमजनानां मित्रमस्मि, मित्रस्य कर्तव्यमस्ति सत्यवचनं तथा अकृतघ्नता । अहं स्पष्टतया वक्तुमिच्छामि यत् अधुना हिन्दुस्थानाय पूर्णप्रेम येषां हृदि अस्ति, ते एव हिन्दुस्थाने वासाय अधिकारिणः सन्ति । ते सर्वदा स्मरेयुः यत्, यस्यां नावि ते स्थिताः सन्ति, तस्याः नावः हितमेव चिन्तयेरन् कारणं तया नावा एव तेषां जीवनमस्ति” ।

                                     

24. स्टेच्यू ओफ यूनिटि

स्टेच्यू ओफ यूनिटि अर्थात् एकतामूर्तिः गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः project अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः १९२८, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । सरदार इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

एकतामूर्तिप्रकल्पे लोहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणस्य योजना planning अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके Sadhu island of Narmada River द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति ।

एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः a bridge connecting the statue on Sadhu island to the bank, सरदार-स्मारकः, अभ्यागतभवनानि buildings for visitors, स्मारकोद्यानम्, अतिथिभवनं a five star hotel, सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् ।

एकतामूर्तिप्रकल्पाय गुजरातसर्वकारेण स रदार व ल्लभभाई प टेल रा ष्ट्रियैकता सं स्थायाः – सवपरास Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET स्थापना कृता अस्ति ।

                                     

25. मृत्युः

लोहपुरुषस्य जीवनस्य अन्तिमानि दिनानि अतिकष्टकराणि आसन् । यतो हि एकत्र देशस्य चिन्ता आसीत्, अपरत्र अस्वस्थता पीडयति स्म । तथापि सः देशाय अविरतं कार्यं करोति स्म । १९४९ तमस्य वर्षस्य मार्च-मासस्य एकोनविंशतितमे १९/०३/१९४९ दिनाङ्के लोहपुरुषः तस्य पुत्री मणिबेन च विमानयानेन यात्रां कुरुतः आस्ताम् । विमानस्य यन्त्रे समस्या समुद्भूता अतः विमानचालकेन राजस्थानस्य रणे आकस्मिकम् अवतरणं कृतम् । एवं लोहपुरुषस्य जीवनस्य रक्षणम् अभूत् । सः पद्भ्यां समीपस्थं ग्रामम् अगच्छत्, ततश्च देहली-महानगरं प्रापत् । यदा सः देहली-महानगरं प्रापत्, तदा सहस्राधिकाः जनाः तस्य स्वागतार्थं, तस्य कृते प्रार्थनां च कर्तुम् उपस्थिताः आसन् । ततः संसदि अपि यदा सः प्रविष्टः, तदा संसत्सभ्यैः करध्वनिना सः अभिवादितः । तस्य अभिवादनस्य कालः एतावान् लम्बमानः आसीत् यत्, संसदि लोकसभाध्यक्षेण अर्धघण्टां यावत् अवकाशस्य घोषणा कृता । १९५० तमे वर्षे ग्रीष्मकाले प्रप्रथमं लोहपुरुषस्य अस्वस्थतायाः चक्रम् आरब्धम् । ततः जीवनान्तं सः रुग्णः एव आसीत् । कासस्य आधिक्येन तस्य अस्वस्थतायाः आरम्भः अभवत् । ततः कासे रक्तस्रावः, मूर्छा इत्यादयः रोगाः समुद्भूताः । पश्चिमवङ्गप्रदेशस्य राज्यपालस्य उपस्थितौ यदा लोहपुरुषः वैद्येन बिधान रोय सह चर्चां कुर्वन् आसीत्, तदा सः अवदत्, "अहम् अधिकं न जीविष्यामि" इति । नवम्बर-मासादारभ्यः तु मूर्छायाः आघाताः अपि तस्य भवन्ति स्म । अतः लोहपुरुषस्य जीवनं पर्यङ्के सीमितम् अभवत् । दिसम्बर-मासस्य द्वादशे दिनाङ्के यदा लोहपुरुषः विमानयानेन स्वपुत्रस्य डाह्याभाई गृहम् अगच्छत्, तदा सः अस्वस्थः आसीत् । अतः पण्डित नेहरू, राज गोपोलाचारी च विमानस्थानके उपस्थितौ आस्ताम् । १९५० तमस्य वर्षस्य दिसम्बर-मासस्य पञ्चदशे १५/१२/१९५० दिनाङ्के हृदयाघातेन लोहपुरुषस्य मृत्युः अभवत् । सः द्वितीयः हृदयाघातः आसीत् । सः आघातः एतावान् तीव्रः आसीत् यत्, लोहपुरुषस्य मृत्युः अभवत् ।

भारतस्य महान् देशभक्तः, स्वतन्त्रतासेनानी, अखण्डभारतस्य सूत्रधारः लोहपुरुषः अमरः अभवत् । लोहपुरुषस्य अन्तिमसंस्कारः मुम्बई-महानगरस्य सोनपुरे अभवत् । तस्य अन्तिमयात्रायां लक्षशः जनाः सम्मिलाताः । नेहरू, राज गोपालाचारी, डॉ. राजेन्द्र प्रसाद इत्यादयः राष्ट्रियनेतारः अपि तत्र उपस्थिताः आसन् ।

                                     

26. मरणोत्तरं लोहपुरुषस्य सम्मानं जातम्?

मुस्लिमनेतॄभिः सर्वदा लोहपुरुषस्य विरोधः क्रियते स्म । यतो हि तेषां मतम् आसीत् यत्, लोहपुरुषः हिन्दुनेता अस्ति इति । जयप्रकाश नारायण, अशोक महेता सदृशाः नेतारः वदन्ति स्म यत्, लोहपुरुषः बिरला-कुटुम्बस्य, साराभाई-कुटुम्बस्य च समीपवर्ती जनः अस्ति । किञ्च यदा अखण्डभारतस्य कार्ये लोहपुरुषः यान् निर्णयान् स्व्यकरोत्, ते निर्णयाः अयोग्याः आसन् इत्यपि विरोधिनः वदन्ति स्म । सर्वेषां विरोधे सत्यपि लोहपुरुषस्य अखण्डभारतस्य एकसूत्रतायाः कार्यं सर्वैः अङ्गीकृतम् । अतः राष्ट्रियपर्वसु लोहपुरुषस्य स्मरणम् "अखण्डभारतस्य रचयिता" इति भवति । लोहपुरुषस्य विरोधिनः यथा आर्किबाल्ड् वॅवेल्, क्रिप्स्, पॅथीक् लॉरेन्स्, माउण्ड बेटन् इत्यादयः अपि देशभक्त्याः मूर्तित्वेन लोहपुरुषस्य प्रशंसाम् अकुर्वन् । तेषां सर्वेषां कथनम् आसीत् यत्, "लोहपुरुषः व्यावहारिकः, निष्पक्षः नेता आसीत्" इति ।

अद्यापि अनेके जनाः आमनन्ति यत्, लोहपुरुषस्य मरणोत्तरम् अनेकानि वर्षाणि भारतसर्वकारः लोहपुरुषाय सम्माननं दातुम् उदासीनः आसीत् । केषाञ्चन राष्ट्रवादिनां मनसि तस्मिन् काले अद्यापि च भवति यत्, नेहरू काश्मिरराज्यस्य विषये संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः चर्चां कृत्वा दोषम् आचरितवान् इति । तथा च गोवाराज्यस्य स्वतन्त्रतायै सैन्यबलस्य उपयोगसम्बद्धानि लोहपुरुषस्य निवेदनानि स्वीकरणे नेहरु इत्येषः अतिविलम्बं कृतवान् इत्यस्य कृते अपि नेहरू इत्यस्य बहुटीकाः भवन्ति ।

                                     
  • न म अप पर गण यत यत ह अस य जलबन धस य न म ल हप र षस य न म न सरद र वल लभभ ई पट ल - जलबन ध इत स थ प तम अस त ल हप र षस य जलबन धन मत व त न हर इत यस य
  • स च र सञ च लन न, स फल य न च वल लभभ ई पट ल नव न सरद र इत म म उप ध प र प तव न सरद र वल लभभ ई पट ल इत अद य प तस य न म सगर व ग ह यत सरद र इत यस य
  • क ग द व न द स व म द व नन दस व म न न ल ल न ष क ळ न द स व म मह द वभ ई द स ई म क त न द स व म म र रज द स ई म हनद स करमचन द ग न ध सरद र वल लभभ ई पट ल
  • र ष ट रभक त व भ न न क र न त म र ग आङ ग लव र द ध य द धम अक र वन सरद र वल लभभ ई पट ल भगत स ह, मदनल ल ध ङ ग र चन द रश खर आज द, मह त म ग न ध म ल र
  • इत यप प रस द ध स मह त मन चर च यद भवत तद मह द व द स ई, सरद र वल लभभ ई पट ल इत यनय उल ल ख न श चय न भवत मह त मन ज वन ल खन तन त करणयन त रस य
  • स रतप र स द स रत क य सल म गलस र ई, एण ड र य स - ग रन थ लय सरद र वल लभभ ई पट ल - सङ ग रह लय त र लय य रप यन ट म ब स च स रत इत यस म न मह नगर
  • प र च नब द धग ह सन त ग न ध स म त तख त श वरमन द र ग र शङ करतड ग सरद र वल लभभ ई पट ल - उद य न प ल - उद य न प र तनदरब रगढ च अस य मण डलस य अन य न व क षण यस थल न
  •  स क ष त अध गच छत मण ब न वल लभभ ई पट ल श ण ˈmənɪbɛn pətɛlə ग जर त મણ બ ન પટ લ, ह न द मण ब न पट ल आङ ग ल: Maniben Patel भ रतस य स वतन त र य
  • अकर त भगवत अप तद व व च र त पञ च शस य वर षस य प र रम भ एव सरद र वल लभभ ई पट ल इत यय ग जर तर ज य प रत य गच छत इत तम अस चयत स व त त त यक त व
  • द व दशज य त र ल ङ ग ष अन यतम स मन थश च अत र र र जत भ रतस य श ल प सरद र वल लभभ ई पट ल भ रतस वतन त रत न द लनन त म हनद स करमचन द ग न ध भ रत य न तर क षक र यक रमस य
  • अन मन य त अप ग न ध मह दयस य न यकत व व श वस य त ष ण स थ तवन त सरद र वल लभभ ई पट ल ड र ज न द रप रस द च एत न र णय बह रङ ग एव सम लम ब तवन त क न त