ⓘ बदरीनाथः. भारतस्य तीर्थस्थानेषु अन्यतमं बदरीनाथक्षेत्रम् । हिमालयपर्वते नरनारायणौ अस्मिन् एव आश्रमे अवसताम् । अत्र पाण्डवाः आगताः आसन् । अत्र नरनारायणयोः देवालय ..

                                     

ⓘ बदरीनाथः

भारतस्य तीर्थस्थानेषु अन्यतमं बदरीनाथक्षेत्रम् । हिमालयपर्वते नरनारायणौ अस्मिन् एव आश्रमे अवसताम् । अत्र पाण्डवाः आगताः आसन् । अत्र नरनारायणयोः देवालयं विष्णुगङ्गानद्याः तीरे निर्मितवन्तः सन्ति । इदं पूर्वं वेदव्यासस्य आश्रमः आसीत् । बदरीनाथक्षेत्रं भारतस्य उत्तराखण्डराज्यस्य चमोलीमण्डलस्य नगरपञ्चायतप्रदेशः । हिन्दूनां पवित्रं क्षेत्रम् अपि । भारतस्य चतुर्धामतीर्थयात्रायाः चतुर्षुक्षेत्रेषु प्रामुख्यं प्राप्तं क्षेत्रम् इदम् ।

                                     

1. भूगोलशास्त्रम्

भौगोलिकरूपेण बदरीनाथः ३०.७३तथा ७९.४८ अक्षांशरेखांशयोः स्थाने अस्ति । औन्नत्यं सामान्यतया मीटर् ११,२०४ पादमितम्यावत् अस्ति । अलकनन्दानद्याः तटे विद्यमाने गढ़वालपर्वतप्रदेशे अस्ति । नरनारायणपर्वतश्रेण्याः मध्ये विद्यमानस्य नीलकण्ठपर्वतस्य ६,५६०मी पृष्टभागे अस्ति । बदरीनाथक्षेत्रं हृषिकेशस्य उत्तरदिशि ३०१ कि.मी दूरे अस्ति । केदारनाथस्य समीपे गौरीकुण्डमार्गद्वारा बदरीनाथक्शेत्रम् २३३कि.मी.दूरे अस्ति ।

                                     

2. महत्त्वम्

नवमे शतके बदरीनाथक्षेत्रम् आदिशङ्कराचार्यः प्रमुखतीर्थक्षेत्ररूपेण संस्थापितवान् । एषु दिनेषु एतस्य प्रसिद्धिः अधिका जाता इति कारणतः १९६१ तमे वर्षे तीर्थयात्रिणां संख्या ९०,६७६ आसीत् । २००६ तमे वर्षे ६००००० स्यात् इति ऊहा । एतत् क्षेत्रं वैष्णवानां कृते पवित्रक्षेत्रम् । सनातनग्रन्थेषु तथा पुराण-पुण्य-कथासु सहस्रवर्षतः बदरीक्षेत्रं पवित्रक्षेत्रम् इति एव प्रस्तुतम् अस्ति । भागवतपुराणानुगुणं बदरीकाश्रमस्य प्रमुखः देवः विष्णुः,नरस्य तथा नारायणरूपेण सकलजीविनाम् उद्धरणस्य लक्ष्यं साकारीकर्तुं महातपः आचरन्तौ आस्ताम् ” इति भागवतपुराणम् ३.४.२२ उल्लेखः अस्ति ।‘बदरी’ इत्युक्ते तस्मिन् प्रदेशे समृद्धप्रमणेन वर्धमानं बीजरहितं फलम् । तथा नाथः’ इत्युक्ते एतस्य "देवः” । बदरीनाम्ना अपरं किञ्चन फलम् अस्ति । केषुचित् धर्मग्रन्थेषु अत्र बदरीवृक्षाः यथेष्टं वर्धन्ते स्म इति उल्लेखितवन्तः सन्ति ।

                                     

3. बदरीदेवालयः

पत्तनस्य प्रमुखम् आकर्षणम् अस्ति बदरीनाथदेवालयः । दन्तकथानुगुणं शङकरः अलकनन्दानद्यां बदरीनारायणदेवस्य सालिग्रामेण निर्मितां कृष्णशिलाप्रतिमां दृष्टवान् । सः आरम्भे तप्तकुण्डम् इति प्रसिद्धस्य उष्णजलस्य उत्ससमीपे गुहादेवालये प्रतिष्ठापितवान् । १३ शतके गढ़वालराजः प्रतिमायाः प्रस्तुतदेवालयं प्रति स्थानान्तरणं कृतवान् । प्राचीनः देवालयः इति कारणतः अपि च हिमपातकारणतः तदा तदा हानिः अभवत् । तदा अनेके प्रमुखाः एतस्य पुनरुज्जीवनकार्यानि कृतवन्तः। १७ शतके देवालयस्य अस्य गढ़वालराजाः विस्तरणं कृतवन्तः । १८०३ तमे वर्षे हिमालये जातस्य प्रमुखभूकम्पस्य कारणतः अधिकप्रमाणेन हानिः जाता । तदा जयपुरस्य राजा अस्य पुनर्निर्माणं कारितवान् । उपरितनभागे अर्धगोलाकारकस्वर्णलेपितछदयुक्तः देवालयः ५० ft १५मी उन्नतः अस्ति । देवालयस्य अग्रभागः शिलाद्वारा निर्मितः । उपरितनभागे अर्धवर्तुलाकारकाणि वातायनानि सन्ति । विशालसोपानानां पङक्तिः अर्धवर्तुलाकारयुक्तस्य प्रमुखद्वारस्य दिशि अस्मान् प्रापयति। अत्रत्य वास्तुकला बौद्धविहारेषु यः चित्रालङ्कृतः अग्रभागः भवति तेन सह साम्यं भजते । अन्तः स्थम्भयुक्तः विशालप्रकोष्ठसदृशः मण्डपः अस्ति । ततः प्रमुखपूजास्थलं गर्भगृहं प्रति मार्गः अस्ति । मण्डपस्य भित्तयः स्थम्भाः च सङ्कीर्ण शिल्पयुक्ताः सन्ति ।



                                     

4. इतिहासः कल्पितकथाश्च

बदरीनाथप्रदेशं बदरी अथवा बदरीकाश्रमः इति हिन्दूधर्मग्रन्थेषु प्रस्तुतिः कृता अस्ति । एतत् स्थलं विष्णोः सानिध्येन पवित्रं जातम् अस्ति । विशिष्य विष्णोः नरनारायणयोः यत् द्विरूपम् अस्ति तत् अत्र द्रष्टुं शक्यम् । अतः महाभारते,शिवः अर्जुनम् उद्दिश्य वदति "भवान् पूर्वतनजन्मनि नररूपेण आसीत् । अतः अहं नारायणरूपेण भवता सह नारायणः सन् असंख्याकवर्षाणि यावत् बदरीप्रदेशे घोरं तपः आचरितवान् अस्मि ” इति। कल्पितकथानुसारं देवताः गङ्गां मनुकुलस्य उद्धरणार्थं भूमिं प्रति अवतरतु इति उक्तवन्तः । किन्तु तस्याः अवतरणस्य भारं सोढुं भूमेः सामर्थ्यं न आसीत् । अतः बृहत् गङगा द्वादशधा विभक्ता सती भूमिम् आगतवती । तासु अलकनन्दा अन्यतमा।

बदरीक्षेत्रं पर्वतैः आवृतम् अस्तीति महाभारते उल्लेखः अस्ति। पाण्डवाः पश्चिमगढ़वालसमीपे स्वर्गारोहणकरणम् इत्यर्थयुक्तस्य स्वर्गारोहिणीशिखरस्य आरोहणसमये प्रपाते जीवनं समापितवन्तः इति एकस्मिन् भागे प्रस्तापः कृतः अस्ति । स्थलीयकल्पितकथानुसारं पाण्डवाः स्वर्गं प्रति गमनसमये मार्गे बदरीनाथमार्गेण तथा ततः चत्वारिकिलोमीटर-उन्नतात् मना’ पत्तनद्वारा गतवन्तः इति । कल्पितकथानुसारं व्यासः यत्र महाभारतं लिखितवान् सा गुहा मनापत्तने अस्ति । पद्मपुराणे बदरीनाथक्षेत्रं परितः विद्यमानः प्रदेशः सम्रुद्धः पारमार्थिकः निक्षेपयुक्तः इति प्रशंसितवन्तः सन्ति।

                                     

5. तीर्थयात्रा

भारत –चीना-टिबेट्देशानां सीमारेखातः कतिचन किलोमीटर्दूरे स्थितं बदरीनाथं प्रति चारधामयात्रायाः पूर्वतनक्षेत्रात् केदारनाथात् दिनद्वयस्य प्रयाणं भवति । सिक्खजनानां प्रमुखतीर्थयात्राक्षेत्रं ‘ हेमकुण्डसाहिब्’ बदरीनाथगमनमार्गे अस्ति । विषेशतया ग्रीष्मकाले तीर्थायात्रायाः मार्गे महान् जनसम्मर्दः भवति । बदरीनाथं प्रति प्रवासार्थं सूक्तः समयः अस्ति जून् तः सेप्टम्बर् मासस्य अवधिः । आवर्षम् ऊर्णस्य वस्त्राणि धरणीयानि भवन्ति। आदिशङकराचार्येण उत्तरभागे स्थापितः ज्योतिर्मठः पार्श्वे अस्ति । अस्मिन् प्रदेशे द्रष्टुं योग्यनि इतरक्षेत्राणि नाम हरिद्वारम् ऋषिकेशम् /हृषिकेशम् /रिशिकेशम् ।

समुद्रतलात् इदं क्षेत्रं १०,२८४ पादमिते औन्नत्ये वर्तते । अत्रत्यं देवमन्दिरं मेमासस्य द्वितीयसप्ताहतः नवम्बर्-मासस्य द्वितीयसप्ताहपर्यन्तम् उद्घाटितं भवति । अवशिष्टान् षण्मासान् यावत् इदं क्षेत्रं हिमराशिभिः पिहितं भवति । पिधानावसरे ज्वालितः दीपः षण्मासानाम् अनन्तरम् उद्घाटनावसरे अपि ज्वलन् भवति इति वदन्ति अनेके प्रत्यक्षदर्शिनः यात्रिकाः । अस्य दीपस्य दर्शनमेव ज्योतिर्दर्शनम् इत्युच्यते । अपि च षण्मासेभ्यः पूर्वं देवाय अर्पितानि पुष्पाणि अपि प्रत्यग्राणि तिष्ठन्ति ।

                                     

6. पुराणकथा

पूर्वं धर्मप्रजापतिना परिणीता दक्षपुत्री मूर्तिदेवी पुत्रार्थिनी सती वसुधारातीर्थे अनेकानि वर्षाणि यावत् तपः आचरितवती । तदा नारायणः प्रत्यक्षः सन् वरं वृणीष्व इति अवदत् । तदा मूर्तिदेवी - भवदृशं पुत्रद्वयम् अनुगृह्यताम् इति प्रार्थितवती । तथास्तु इति उक्त्वा अन्तर्निहितः जातः नारायणः । अग्रे तस्य अनुग्रहेण मूर्तिदेव्यां नरनारायणौ जातौ । सहस्रकवचः नाम कश्चन राक्षसः ब्रह्मणः वरमेकं प्राप्तवान् आसीत् । तदीयं कवचं सः एव पुण्यपुरुषः च्छेत्तुम् अर्हति येन १०,००० वर्षाणि तपः आचरितानि भवन्ति । नारायणः स्वस्य तपश्शक्त्या तस्य ४९९ कवचानि कर्तितवान् । तदा राक्षसः सहस्रकवचः धावन् सूर्यम् आश्रितवान् । द्वापरयुगे सः एव कर्णरूपेण अजायत । नरनारायणौ कृष्णार्जुनरूपेण आगत्य तम् अमारयताम् । नरनारायणयोः तपसः आचरणावसरे लक्ष्मीः बदरीवृक्षरूपेण तयोः कृते फलछायादिकं दत्तवती इत्यतः इदं क्षेत्रं बदरीक्षेत्रम् इति प्रसिद्धं जातम् ।



                                     

7. यानसौकर्यम्

  • नवदेहली-हरिद्वार-हृषीकेशतः नियतरूपेण यानव्यवस्था अस्ति ।
  • समीपस्थं रैलनिस्थानकं हरिद्वारम् ३१०.कि.मी, हृषीकेशं२९७.कि.मी., कोटद्वार३२७ कि.मी.
  • अत्यन्तं समीपस्थं विमाननिस्थानकं नाम डेह्राडून्समीपस्थं जालि ग्राण्ट् विमाननिस्थानकम्३१७ कि.मी. ।

मार्गाः अत्यन्तं ह्रस्वाः इति कारणतः सर्वप्रदेशेषु चलितुं समर्थानि वाहनानि सन्ति चेत् उत्तमम् । एतावत्पर्यन्तं यात्रिभिः स्वयं वाहनं चालयितुं शक्यं नासीत् । किन्तु इदानीं देवालयस्य पुरतः अपि वाहनानि नेतुं शक्यानि ।

                                     

8. जनसान्द्रता

इदानीन्तनस्य भारतस्य जनगणनानुसारं बदरीनाथक्षेत्रे ८४१ जनाः सन्ति । तेषु ६५% पुरुषाः, ३५% महिलाः सन्ति । साक्षरताप्रमाणं ८५% अस्ति। एतत् प्रमाणं राष्ट्रियसाक्षरताप्रामाणापेक्षया ५९.५% अधिकम् अस्ति । तेषु ९२% पुरुषाः,७२% महिलाः साक्षराः सन्ति । जनसङ्ख्यायाः ९% जनाः ऊनषड्वर्षीयाः ।

                                     
  • अरण यप रद श अस त उत तर खण डस य म ख य पर वत नन द द व m बदर न थ m च खम ब m तथ त र श ल m सन त प र च नह न द ग रन थ ष
  • मन द र ण प रत ष ठन त त न प ण यध म न र म श वर द व रक जगन न थप र बदर न थ च अष टमशतक भगवप र द श र शङ कर च र य एत न एकस त र ण ग रथ तव न इत
  • श त य भवत ह ष क श अल म र र ण ख त मस र यम न त र क द रन थ बदर न थ च अत र व सम प व द यम न न क ष त र ण प रत क ष त र ष सहस र ध क जन
  • कर णप रय ग थर ल ग रस ण भ रतस य प रस द ध ष चत र ध मस अन यतम बदर न थ चम ल मण डल र र जत नर - न रयणय सङ गमस थलम तत प रत वर ष लक षश भक त न
  • हर द व र, लक सर, क नप र, नर सन, र र क भगव नप र गङ ग त र यम न त र बदर न थ क द रन थ एतच चत र ध म न द व रत व त अस य नगरस य न म हर द व र हरद व र
  • हरद ई - मण डल न तर गत भगवन तनगर ख र ष ट ब द प रकटय म बभ व पण ड तवर य बदर न थ क न त च स य प तर व स त म मथ र प रस द छ त रज वनत एव आत म भ व यक त
  • भ प रद श अत व श तल व त वरणम अस त क न त अध उष णजलन र झर ण सन त बदर न थ क द रन थ इत य द प रद श ष अप एत द श न न र झर ण सन त ह म लयपर वतश र ण य
  • प र व भ म ख श र न र यणव ग रह अस त य गम द र स थ त क र टध र पद म सनस थ बदर न थ अस त अस म न स थ न स थ त श वक ष त र ब रह मकप लन म न न र द श यत
  • वर तत हर द व रम - अत र गङ ग नद ह म लय त न स त य समतलभ म प र प न त बदर न थ - अत र व ष ण मन द रम क वर तत क द रन थ - द व द श ज य त र ल ङ ग ष अन यतमम