ⓘ व्याकरणग्रन्थाः. व्याक्रियन्ते = व्युत्पाद्यन्ते, संस्क्रियन्ते, प्रतिपाद्यन्ते, निरुच्यन्ते वा शब्दाः, वर्णाः, अक्षराणि, अथ च शुद्धीक्रियन्ते वागिन्द्रियाणि चा ..

                                     

ⓘ व्याकरणग्रन्थाः

व्याक्रियन्ते = व्युत्पाद्यन्ते, संस्क्रियन्ते, प्रतिपाद्यन्ते, निरुच्यन्ते वा शब्दाः, वर्णाः, अक्षराणि, अथ च शुद्धीक्रियन्ते वागिन्द्रियाणि चानेनेति व्याकरणम् । सर्वशास्त्राणां, सर्वविद्यानां, सर्वभाषाणां च मुखं व्याकरणं प्रोक्तम् । विशेषेण "आ"क्रियतेऽनेनेति व्याकरणम् । "आ" इत्युक्ते आस्योद्घाटनव्यापारविशेषः । आस्योद्घाटनेन भाषा प्रयुज्यते । अर्थात् स भाषाप्रयोगः विशेषेण समन्ताच्च समीक्रियतेऽनेनेति व्याकरणशब्दार्थः । विना व्याकरणं कापि भाषा न शस्यते यथा योषा पतिं विना । संस्कृतम् संस्कृता भाषा भवितुम् अस्य श्रेष्ठतमं व्याकरणमेव प्रमुखं कारणम् । भाषां भाषाः च शास्ति व्याकरण्म् । अत एव व्याकरणं शास्त्रम् इत्युच्यते । अस्मिन् शास्त्रे अनेके ग्रन्थाः विद्यन्ते, ये च वेदभाषां प्राकृतभाषां संस्कृतभाषां अनेकाः अर्वाचीनाः भारतीयभाषाः चैकस्मिन् भाषाकुटुम्बे सूत्रयन्ति । संस्कृतव्याकरणशास्त्रं प्राचीनतमम् ।

                                     

1. पुरातनाः व्याकरणग्रन्थाः

यथा च श्रूयन्तेऽत्र प्राचीनानि व्याकरणानि- "ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम् । सारस्वतं चापिशलं शाकलं पाणिनीयकम् ॥" -तत्वनिधिः । ऐन्द्रव्याकरणविचारे "तामिन्द्रो न्मव्यतोपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुच्यते ।" इति श्रुतिवाक्यमेव प्रमाणम् । तथैव "चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः" इति प्रतीतवचनात् चान्द्रव्याकरणमपि ऊहितुं शक्यते । महाभाष्ये "शताच्च ठन्यतावशते" इति सूत्रभाष्ये नामतः निर्देशात् काशकृत्स्नमपि आसीदिति ज्ञायते । कौमारं व्याकरणम् आग्नेयपुराणे समुपन्यस्तम् । ऋक्तन्त्रमित्यपरनामकं सारस्वतं व्याकरणं, शाकटायनं च वर्तमानकालेऽपि मुद्रापितं लभ्यते । आपिशलं शाकलं च पाणिनीयेऽष्टाध्यायिनि तत्र तत्रोदाहृते दृश्येते । तथा च प्राचीनानीति प्रतीतानि जैनेन्द्र-आशुबोध-मुग्धबोध-कातन्त्राभिधानानि अधुनातनकालेऽपि लभ्यन्ते । किन्तु नैतेषां वेदाङ्गत्वं विद्यते । सर्वप्र्काराणां लौकिकालौकिकानां शब्दानां नव्यया युक्त्या व्युत्पादकतया पाणिनीयं व्याकरणमेकमेव वेदाङ्गत्वं अर्हति । व्याकरणशास्त्रग्रन्थानां कर्तारः वैय्याकरणा प्राचीना अपि स्वकीयैः श्रेष्ठतमैः ग्रन्थरत्नैः अधुनापि जीवन्ति । अनेकेषु व्याकरणेषु "पाणिनीयं व्याकरणं" श्रेष्ठतमम् इत्यत्र न कापि विप्रतिपत्तिः । महर्षिणा पाणिनिना विरचितायामष्टाध्याय्यां ग्रथितानां सूत्राणाम् अर्थान् विशदयितुमेव भाष्यादिग्रन्थाः विरचिताः सन्ति । महर्षिः पतञ्जलिः "व्याकरणमहाभाष्यम्" नाम ग्रन्थं व्यरचयत् यच्च सोदाहरणं संस्कृतभाषायाः गरिमाणं विशालतां विश्वजनीनतां भाषितभाषात्वं च प्रतिपादयत् भाषाशास्त्रस्य दर्पण इव विराजते । एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति । इति महाभाष्ये पतञ्जलिवचनम् । एतेन व्याकरणशास्त्रम् वेदान्तादिसदृशम् सत् शब्दब्रह्मणः साक्षात्कारेण आत्मोद्धारस्य साध्नमपि भवतीति सूचितम् पतञ्जलिमहर्षिणा । महर्षिः वररुचिः कात्यायन एव वररुचिः इति केचन, कात्यायनादन्यः वररुचिः इति केचन वदन्ति पाणिनीयसूत्राणां व्याख्यारूपेण वाक्यग्रन्थं, महावैय्याकरणः कात्यायनः वार्तिकम्, जयादित्यवामननामानौ काशिकावृत्तिम्, हरदत्तः पदमञ्जरीम्, वर्धमाननामा गणरत्नमहोदधिम्, जिनेन्द्रबुद्धिः काशिकाव्याख्यानं न्यासमञ्जरीतिग्रन्थम्, धर्मकीर्तिः नामा पण्डितः प्रक्रियानुसारं पाणिनीयं व्याकरणम् अध्येतुम् उपकारकं "रूपावतारः" इति ग्रन्थं च रचयामासुः । एवमेव महाभाष्ये परिभाषात्मकानि वचनानि सङ्गृह्य सीरदेवः परिभाषावृत्तिः नामकं ग्रन्थं, नागेशनामाऽन्यः परिभाषेन्दुशेखरम् इति ग्रन्थं निरमात् । तथैव अपरः नागेश भट्टनामा वैय्याकरणः "ज्ञापकसङ्ग्रहः इति ग्रन्थं निरबध्नादिति श्रूयते । एतेषु अन्यतमः कश्चन प्राक्तनः वैय्याकरणः "पाणिनीया शिक्षा" नामानम् लघूत्तमम् आबालवृद्धोपयोज्यं ग्रन्थं ग्रथितवान्, योऽयं ग्रन्थः प्राथमिकशिक्षास्तरे छात्रैः कण्ठस्थीकर्तुम् उपयुक्तो भवति । यत इदं सरलैः लघुश्लोकैः निबद्धम् । अतः पाणिनीयव्याकरणस्य शिशिक्षूणां छात्राणां कृते प्रथमतया अध्येतुं योग्यमिदं प्रतिभाति । वैय्याकरणेषु केचन अर्वाचीना अपि भवन्ति, ये च प्राचीनग्रन्थान् अनुसृत्य स्वग्रन्थान् समपादयन्, ये च ग्रन्थाः संस्कृतच्छात्राणाम् अक्लेशेन व्याकरणमध्येतुं समुपकुर्वन्ति । तेषु महामहोपाध्यायः भट्टोजीदीक्षितः विशदां वैय्याकरणसिद्धान्तकौमुदीं वरदराजनामा पण्डितः लघुसिद्धान्तकौमुदीं च विरचितवन्तौ प्रसिद्धौ । एतान् प्राचीनग्रन्थाननूद्य वर्तमानकालेऽपि भारते विविधविश्वविद्यालयेषु अन्यान्यभाषामाध्यमेन संस्कृतभाषाशिक्षायै सहकारीणि सरलानि च बहूनि पुस्तकानि व्यरचयन् निष्णाताः विद्वांसः । अपि च अर्वाचीनानां भारतेयभाषाणां व्याकरणान्यपि संस्कृतव्याकरणशास्त्रम् अनुकृत्य एव प्रवर्तन्ते ।

  • पाणिनीया शिक्षा
  • गणरत्नमहोदधिः
  • पदमञ्जरी
  • रूपावतारः
  • महाभाष्यम्
  • अष्टाध्यायी
  • शब्दानुशासनम्
  • न्यासमञ्जरी
  • काशिका
  • सिद्धान्तकौमुदी
  • पदमञ्जरीव्याख्या
                                     
  • इव व य करणप टवमप सम च नर त य द रष ट शक न म त न व रच त त रय व य करणग रन थ तस य व य करणप ण ड त यप रत प दक भवन त न र यणभट टप दस य क त ष प रध नस थ न
  • अष ट ध य य प ण न रचन वर तत व य करणस त र ग रथ तस य स य ग रन थस य अष ट अध य य सन त अत ग रन थस य स य अष ट ध य य इत न म अष टभ अध य य समन व त
  • मह भ ष य पतञ जल न रच त: व य करणस य ग रन थ: अस त प ण न म न व य करणस य अभ तप र व ग रन थम अष ट ध य य रच तव न यश च ग रन थ स त रर प ण अस त
  • म नवजगत भ ष द व र व सर व व यवह र प रवर तन त स द ध यन त च व श व ऽस म न सर व जन भ ष मन तर ण स व ऽऽशय न अन य ष सव ध न व दय त म न खल कल पन त
  • प ण न अष ट ध य य ग रन थस य क त अध कव त तय सन त परन त त ष ग रन थ ष अत वप रस द ध क श क क श नगर ल ख त ग रन थ इत क रण त अस य क श क
  • क रळप ण न र त स व ज ञ त आ र र जर जवर म A.R.Rajarajaverma तम क लम बवर ष क म भम स नवम द न क र श. - - प र व भ द रपदनक षत र क रळ ष
  • भ जद व न शब द न श सनम इत ग रन थ ल ख त एतस य व षय अद य व वरण न पलभ यत भ रतम स स क तम भ रतस य इत ह स व ज ञ नम
  • प ण न अष ट ध य य य उपर क श क इत व त त ल ख त क श क य उपर प न ज न न द रब द ध न य समञ जर इत ग रन थ ल ख तव न प ण न सम प रद य य ब द ध न
  • प ण न अष ट ध य य य उपर क श क इत व त त ल ख त क श क य उपर प न हरदत त पदमञ जर इत ग रन थ ल ख तव न
  • धर मक र त न र प वत र इत ग रन थ ल ख त प र व त अष ट ध य य क रम ण सर वत र अध ययन प रचलत स म तत र र पस द ध प रक र य भ ग च क ञ च त कष टम