ⓘ भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधि ..

                                     

ⓘ भारतस्य राष्ट्रध्वजः

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् । भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य जुलाई-मासस्य द्वाविंशतितमे दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।

राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः spokes सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपि रेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।

                                     

1. इतिहासः

भारतस्वतन्त्रताविप्लवे भारतीयक्रान्तिकारिणः ध्वजस्य अवलम्बनं कृत्वा सभाः, आन्दोलनानि, विरोधप्रदर्शनानि च अकुर्वन् । अधुना यः ध्वजः अस्ति, तथैव पुरा अपि अन्ये ध्वजाः आसन् । कालक्रमे भारतीयजनानां मान्यतानुगुणं ध्वजानां रङ्ग-आकार-चिह्नादिषु परिवर्तनम् अभवत् । अतः भिन्नजनाः स्वपरिकल्पनानुगुणं ध्वजनिर्माणम् अकुर्वन् । परन्तु सर्वेषाम् एकमेव लक्ष्यमासीत् यत्," राष्ट्रध्वजः राष्ट्रस्य भावनायाः, दर्शनस्य प्रतीकः भवेदेव” इति ।

                                     

1.1. इतिहासः प्रथमध्वजः

भारतस्य आधिपत्यम् उपभोक्तारः आङ्गाधिकारिणः यदा भारतीयध्वजनिर्माणस्य प्रस्तावम् अकुर्वन्, तदा बाल गङ्गाधर तिळक-काली-अरविन्द घोष-बङ्किम चन्द्र चट्टोपाध्याय-आदिदेशभक्तैः गोः ध्वजचिह्नत्वेन परिकल्पना सूचिता आसीत् । यतो हि भारतस्वतन्त्रतायाः क्रान्तिः गोः रक्षणं कर्तुं प्रारब्धा आसीत् । बाल गङ्गाधर तिळक गणेशस्य चित्रमपि भवतु इति प्रस्तावम् अकरोत् । परन्तु मुस्लिमजनाः विरोधं कुर्वन्तः सन्ति इति कारणं दत्त्वा विभाजनकारिणः आङ्ग्लाः तस्य ध्वजस्य प्रस्तावं निराकुर्वन् ।

                                     

1.2. इतिहासः द्वितीयध्वजः

१९०५ तमे वर्षे यदा आङ्गसर्वकारेण बङ्गालप्रदेशस्य विभाजनं कृतं, तदा विभाजनस्य विरोधार्थं स्वदेशी-आन्दोलनस्य आरम्भः अभवत् । स्वदेशी-आन्दोलनस्य भागस्वरूपम् एकस्य ध्वजस्य रचना अभवत् । तस्य ध्वजस्य नाम" वन्दे मातरम्” इति आसीत् ।" वन्दे मातरम्” इत्यस्मिन् ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया पट्टिका च आसीत् । हरितपट्टिकायाम् अष्टानि कमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे" वन्दे मातरम्” इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणभागे सूर्यस्य, वामभागे चन्द्रस्य च चिह्नमासीत् । स्वदेशी-आन्दोलने उपयुक्ते" वन्दे मातरम्” इत्यस्मिन् मूलध्वजे तु चिह्नानि नासन् । परन्तु ततः १९०७ तमे वर्षे मेडम भीखाजी कामा-द्वारा चिह्नानि स्थापयित्वा नवस्वरूपदानस्य प्रयासः अभवत् । १९०६ तमे वर्षे स्वामी विवेकानन्दस्य शिष्यया निवेदिताभगिन्या एकस्य ध्वजस्य परिकल्पना कृता आसीत् । सः अपि" वन्दे मातरम्” ध्वजः आसीत् । तस्मिन् ध्वजे अष्टाधिकशतं १०८ दीपकाः आसन् ।

                                     

1.3. इतिहासः तृतीयध्वजः

१९१६ तमे वर्षे कोङ्ग्रेस-पक्षस्य समित्याः सम्मुखं पिङ्गलि वेङ्कय्य त्रिंशत् भिन्नानां ध्वजपरिकल्पनानाम् आवलिम् उपास्थापयत् । तस्मिन् एव वर्षे होम रूल-आन्दोलनस्य भागरूपस्य एकस्य ध्वजस्य निर्माणं बाल गङ्गाधर तिळक, एनी बेसेण्ट् अकुरुताम् ।

                                     

1.4. इतिहासः चतुर्थध्वजः

१९२१ तमे वर्षे लाला हंसराज-महात्मनोः प्रयोसेन नवीनध्वजस्य परिकल्पना देशस्य सम्मुखम् आगता । तस्मिन् ध्वजे रङ्गत्रयम् आसीत् । मध्ये तन्तुकरणयन्त्रस्य चित्रम् आसीत् । त्रिरङ्गाः क्रमेण श्वेतः, हरितः, रक्तश्च ।

                                     

1.5. इतिहासः पञ्चमध्वजः

१९२३ तमस्य वर्षस्य अप्रैल-मासस्य त्रयोदशे १३/४/१९२३ दिनाङ्के पिङ्गलि वेङ्कय्य स्वराजध्वजस्य परिक्लपनाम् अकरोत् । नागपुर-नगरे जलियावाला-हत्याकाण्डस्य विरोधार्थं सभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तस्यां सभायां स्वराजध्वजं नीत्वा क्रान्तिकारिणः विरोधप्रदर्शनं कुर्वन्तः आसन् । परन्तु ध्वजस्य विषये आङ्ग्ल-आरक्षकैः सह विरोधकर्तॄणां विवादः अभवत् । आङ्ग्लाः षड्जनान् कारागारम् प्रैषयन् । अतः ‘मई’-मासस्य प्रथमे दिनाङ्के जमनालाल बजाज ध्वजसत्याग्रहस्य घोषणाम् अकरोत् । ‘मई’-मासस्य प्रथमे दिनाङ्के यदा ध्वजसत्याग्रहाय जनाः गच्छन्तः आसन्, तदा जमनालाल बजाज-सहितं सार्धसहस्रं जनान् आङ्ग्लसर्वकारः कारागारं प्रैषयत् । ततः लोहपुरुषेण आन्दोलनस्य नेतृत्वं कृतम् । सः अपि ध्वजं नीत्वा आङ्ग्लविरोधीं पदयात्राम् अकरोत् । बहु सङ्घर्षपश्चात् आङ्ग्लसर्वकारेण कारागारात् स्वतन्त्रताक्रान्तिकारिणः विमुक्ताः ।

स्वराजध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च आसीत् । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे तन्तुकरणयन्त्रम् आसीत् ।

ततः १९३१ तमे वर्षे इण्डियन् नेशनल् कोङ्ग्रेस्-द्वारा स्वराजध्वजः औपचारिकतया स्वीकृतः । मुस्लिम-नेतारः अपि अस्य ध्वजस्य समर्थनम् अकुर्वन् । समये सति स्वराजध्वजः भारतस्वतन्त्रतायाः प्रतीकः अभवत् । ततः स्वराजध्वजस्य उपयोग-मापन-निर्माणादिविषये इङ्ग्लैण्ड-देशस्य संसदि चर्चा आरब्धा । चर्चानन्तरम् इङ्ग्लैण्ड-देशात् आदेशप्राप्त्यनन्तरं भारतीयाङ्ग्लाः ध्वजस्य स्वीकारम् अकूर्वन् ।



                                     

1.6. इतिहासः षष्ठध्वजः

१९४७ तमस्य वर्षस्य जून-मासस्य त्रयोविंशतितमे २३/६/१९४७ दिनाङ्के राष्ट्रध्वजस्य निर्णयार्थम् एकस्याः समित्याः रचना अभवत् । डॉ. राजेन्द्र प्रसादप्रप्रथम-राष्ट्रपतिः तस्याः समित्याः अध्यक्षः आसीत् । मोलाना आजाद, सरोजिनी नायडू, राजगोपालाचार्य, के एम् मुन्शी, भीम राव् आम्बेडकर, डॉ. सर्वपल्ले राधाकृष्णन्द्वितीय-राष्ट्रपतिः च तस्याः समित्याः सदस्याः आसन् । तस्यां समित्यां निर्णयः अभवत् यत्," कानिचन परिवर्तनानि कृत्वा नेशनल् कोङ्ग्रेस्-पक्षस्य ध्वजः स्वतन्त्रभारतस्य राष्ट्रध्वजत्वेन स्वीकर्तुं शक्यते” इति । ततः अशोकस्तम्भस्य सिंहचतुमुखात् अशोकचक्रं तन्तुकरणयन्त्रस्य स्थाने स्वीकृतम् । डॉ. सर्वपल्ले राधाकृष्णन् इत्यस्य महानुभागस्य कथनम् आसीत् यत्, "अशोकचक्रं धर्मस्य, न्यायस्य प्रतीकत्वात् तस्य स्वीकारः कृतः" इति । महात्मा अनेन परिवर्तनेन सह सन्तुष्टः नासीत् । परन्तु सर्वैः राष्ट्रध्वजः स्वीकृतः चेत्, अहमपि स्वीकरोमि इति तस्य मनसि आसीत् ।

ध्वजस्य नियमाः संसदि चर्चिताः संसदसदस्यैः । ततः भारतगणराज्यस्य राष्ट्रध्वजः भारतीयलोकतन्त्रस्य प्रतीकः अभवत् ।



                                     

2. परिकल्पना, मापनं च

१९५० तमे वर्षे यदा भारतगणतन्त्रस्य घोषणा अभवत्, तदा भारतीयमानकविभागेन Flag code of India ध्वजसम्बद्धानि कानिचन मार्गदर्शनानि जनहिताय उद्घोषितानि आसन् । ततः क्रमेण १९६४, १९६८, २००८ तमे वर्षे तस्यां मार्गदर्शिकायां संशोधनानि अभवन् । भारतीयमानकविभागः|भारतीयमानकविभागेन" ध्वजसम्बद्धानि यानि मार्गदर्शनानि जनहिताय उद्घोषितानि, तानि सङ्क्षेपेण अत्रोल्लिख्यन्ते ।

"IS1: Manufacturing standards for the Indian Flag" द्वारा नवधा ध्वजस्य आकारः भवेत् इति उद्घोषितम् अस्ति । ये प्रकाराः उद्घोषिताः, तेषां प्रकारानुगुणं ध्वजस्य दीर्घतायाः, विस्तारस्य च निर्णयः अभवत् । तत् सर्वं सारणीमाध्यमेन अधः उल्लिखितम् अस्ति ।

                                     

3. राष्ट्रध्वजस्य रङ्गः

राष्ट्रध्वजस्य आकारादिविषये मार्गदर्शने पूर्णे सति रङ्गस्य चयनं कथं कर्तव्यम् इत्यस्यापि मार्गदर्शनं मार्गदर्शिकायां प्राप्यते । मुद्रणसमये आवश्यकाः केचन रङ्गसम्बद्धाः अङ्काः अत्र C.Y.M.K इत्यत्र प्रदत्ताः । सङ्गणक-जगति अधुना मुद्रणादि-प्रक्रिया सरला अभवत् । अतः कोऽपि साक्षात् सङ्गणकात् राष्ट्रध्वजस्य मुद्रणं कारयेत् चेत्, HTML इत्यस्य कः अङ्कः योग्यं रङ्गं प्रदर्शयति इत्यस्यापि उल्लेखः कृतः प्राप्यते ।

                                     

4. प्रतीकार्थः

भारतीयराष्ट्रध्वजस्य रङ्गचयनस्य, चिह्नचयनस्य च पृष्ठे राष्ट्रभावना विद्यते । सा भावना भिन्नजनानां मनसि भिन्नशब्दैः गुम्फिता स्यात्, परन्तु अन्ततो गत्वा राष्ट्रस्य एकतायाः, सिद्धान्तस्य, दर्शनस्य च बोधः भवेत् इत्येव सर्वेषां भावनानां सारः भवति । १९२१ तमे वर्षे मछलीपट्टम्-नगरवासिना पिङ्गलि वेङ्कय्य-महानुभावेन परिकल्पितः ध्वजः महात्मना देशस्य सम्मुखम् उपस्थापितः । ध्वजस्य इतिहासे षष्ठः ध्वजः सः ।

भारतस्य राष्ट्रध्वजे तन्तुकरणयन्त्रं विहाय सर्वं षष्ठध्वजवदेव अस्ति । परन्तु ध्वजनिर्माणकाले रङ्गचयनस्य भावना भिन्ना आसीत्, कालान्तरे रङ्गस्य भावनायां परिवर्तिनम् अभवत् । श्वेतरङ्गः सर्वधर्मस्य, हरितरङ्गः मुस्लिमधर्मस्य, केसररङ्गः हिन्दुधर्मस्य च प्रतीकः इति महात्मना पुरा कल्पितम् आसीत् । परन्तु १९२९ तमे वर्षे महात्मनः विचाराः ‘सेक्यूलर्’ अभवन् । अतः तेन ध्वजरङ्गस्य भावना परिवर्तिता । ततः श्वेतरङ्गः स्वच्छतायाः, हरितरङ्गः आशायाः hope, केसरीरङ्गः त्यागस्य, वीरतायाः च प्रतीकः अभवत् । अशोकचक्रस्य परिकल्पना तु महात्मना न कृता आसीत् । अतः ध्वजनिर्धारणसमित्याः सदस्यः डॉ. सर्वपल्ले राधाकृष्णन् द्वितीयः-राष्ट्रपतिः अशोकच्रकं धर्मस्य, न्यायस्य प्रतीकत्वेन अकल्पयत् ।

डॉ. सर्वपल्ले राधाकृष्णन्-महानुभावेन सम्पूर्णध्वजस्यापि भावना देशस्य सम्मुखम् उपस्थापिता । यथा –



                                     

5. ध्वजस्य आचारसंहिता

भारतीयध्वजसंहितानुसारं राष्ट्रध्वजारोहणं सर्वेषां नागरिकाणाम् अधिकारः अस्ति । परन्तु राष्ट्रध्वजस्य आरोहणं भारतीयसंविधानस्य ५१-ए अनुच्छेदानुसारं भवेत् चेदेव, राष्ट्रध्वजारोहणस्य अनुमतिः अस्ति । कोऽपि नियमानाम् उल्लङ्घनं कृत्वा यदि राष्ट्रध्वजस्य अपमानं करोति, तर्हि सः अपानकर्त्रे भारतीयसंविधाने दण्डस्य प्रावधानम् अस्ति ।

२००२ तमस्य वर्षस्य जनवरी-मासस्य षड्विंशतितमे २६/१/२००२ दिनाङ्के भारतीयध्वजसंहितायां संशोधनम् अभवत् । भारतस्य सामान्याः नागरिकाः अपि स्वस्य गृह-कार्यालय-यन्त्रशाला-विद्यालयादिषु ध्वजारोहणं कर्तुं शक्नुवन्ति इति तस्य संशोधनस्य फलम् अस्ति । तस्मिन् संशोधने जनसामान्येभ्यः मार्गदर्शनम्, आचारसंहिता च अस्ति । संशोधनने लिखितानां नियमानां दृढतया पालनं कर्तव्यमेव, अन्यथा धनदण्डस्य, कारावासस्य, उभयोः च दण्डत्वेव प्रावधानं भारतीयसंविधाने उल्लिखितम् ।

केचन सामान्यनियमाः.

                                     

6.1. राष्ट्रध्वजस्य उपयोगविधिः राष्ट्रध्वजस्य सम्मानम्

राष्ट्रध्वजः सर्वदा निष्ठा-सम्मान-पूज्यभावैः द्रष्टव्यः इति भारतीयसंविधानम् । आचारसंहितानुगुणं राष्ट्रध्वजस्य उपयोगः भवेत् । कोऽपि जनः ज्ञात्वा-अज्ञात्वा वा राष्ट्रध्वजस्य अपमानं करोति चेत्, सः जनः दण्डार्हः एव । अतः स्वयं राष्ट्रध्वजस्य सम्मानं तु कर्तव्यं, परन्तु अन्ये राष्ट्रध्वजस्य सम्मानं कुर्युः तथा प्रयासाः करणीयाः । अधीकं न भवेत् चेत्, अन्यः राष्ट्रध्वजस्य अपमानं तु न कुर्यात् इत्यस्य ध्यानं सर्वेषां नागरिकाणां कर्तव्यम्/अधिकारः । कोऽपि जनः राष्ट्रध्वजस्य अपमानं कुर्वन् अस्ति इति ज्ञानं भवति चेत्, प्रमाणैः सह आरक्षकाय सूचना दातव्या ।



                                     

6.2. राष्ट्रध्वजस्य उपयोगविधिः राष्ट्रध्वजस्य मानरक्षणम्

ध्वजस्य आरोहणाय, संरक्षणाय च अनेकाः पारम्परिकनियमाः सन्ति । राष्ट्रध्वजारोहणं यदि क्षेत्रेषु Ground भवति, तर्हि सूर्योदयकाले एव ध्वजारोहणं करणीयं, सूर्यास्तकाले च सम्मानेन सह राष्ट्रध्वजस्य अवतरणं करणीयम् । एतत् सर्वं कर्तुं वातावरणस्य विषये चिन्ता न कर्तव्या । अर्थात् ग्रीष्मकाले, वर्षाकाले, शीतकाले च समानतया नियमस्य आचरणं करणीयम् । काश्चन परिस्थितयः भारतीयसंविधाने उल्लिखितानि, तेषु परिस्थितिषु रात्रौ अपि आरोहितः ध्वजः स्थापितुं शक्नोति । परन्तु तासु परिस्थितिषु केवलं सर्वकारसम्बद्धेषु भवनेषु एव रात्रौ आरोहितः ध्वजः भवितुं शक्नोति । एनं ध्वजं विपरिततया आरोहितुं न शक्यते । यथा एतस्मिन् चित्रे दृश्यते । उपरिस्तनभागः अधः, अधस्तनभागः उपरि च कर्तुं न शक्यते । ९० अंशे राष्ट्रध्वजं स्थापयितुं न शक्यते । मलिनध्वजस्य उपयोगः अपि वर्ज्यः ।

                                     

6.3. राष्ट्रध्वजस्य उपयोगविधिः भित्तिषु राष्ट्रध्वजस्य उपयोगः

भित्तौ यदि राष्ट्रध्वजस्य उपयोगः भवेत् चेत् राष्ट्रध्वजस्य केसर-रङ्गः उपरि एव भवेत् । राष्ट्रध्वजः यथाकथञ्चित् स्थापयितुं न शक्यते । योग्यं, शुद्धं स्थानं दृष्ट्वैव ध्वजस्य प्रयोगः भवेत् ।

राष्ट्रध्वजस्य उपयोगाय केषाञ्चन नियमानां पालनम् अनिवार्यं भवति । सभाखण्डस्य भित्तौ अन्यस्य ध्वजस्य समीपं राष्ट्रध्वजः उपस्थाप्यते चेत्, चित्रे यथा प्रदर्शितं, तथा द्वयोः ध्वजयोः स्थापना कर्तव्या । अन्यध्वजेन सह राष्ट्रध्वजः भवेत्, परन्तु विपरितदिशायां भवेत् । यथा एतस्मिन् चित्रे प्रदर्शितम् ।

                                     

6.4. राष्ट्रध्वजस्य उपयोगविधिः अन्यदेशानां ध्वजैः सह उपयोगः

अन्यदेशानां राष्ट्रध्वजेन सह यदा भारतस्य राष्ट्रध्वजः स्थाप्यते, तदा निम्ननियमाः ध्यातव्याः ।

                                     

6.5. राष्ट्रध्वजस्य उपयोगविधिः अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगः

यदि अन्यध्वजेन सह अर्थात् संस्थायाः, विज्ञापनस्य, दलस्य च ध्वजेन सह राष्ट्रध्वजस्य उपयोगः करणीयश्चेत् निम्ननियमानुसारं ध्वजारोहणं भवेत् ।

१ भारतीयराष्ट्रध्वजस्य स्थानं सर्वेषु ध्वजेषु मध्ये दक्षिणहस्ते वा भवेत् ।

२ सर्वेषां ध्वजानां मानं समानं भवेत् । राष्ट्रध्वजात् कोऽपि ध्वजः बृहत् न भवेत् ।

३ प्रदर्शनेषु, पदयात्रासु च राष्ट्रध्वजस्य उपयोगः अन्यध्वजैः सह कर्तव्यश्चेत्, राष्ट्रध्वजः अग्रे एव भवेत् । तस्य पृष्ठे एव अन्ये ध्वजाः भवेयुः ।

                                     

6.6. राष्ट्रध्वजस्य उपयोगविधिः सैन्ययात्रायां राष्ट्रध्वजः

सैन्ययात्रायां राष्ट्रध्वजः अन्यध्वजैः सह भवेत् इति सामान्यम् । अतः अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगं कर्तुं ये नियमाः सन्ति, ते प्रयोक्तव्याः एव । परन्तु अत्र राष्ट्रगीतस्य गानयम् अपि भवति । राष्ट्रगीतस्य गायनसमये राष्ट्रध्वजाय नमस्कारः अनिवार्यः एव ।

                                     

6.7. राष्ट्रध्वजस्य उपयोगविधिः यानेषु राष्ट्रध्वजस्य उपयोगः

यानेषु राष्ट्रध्वजस्य उपयोगं कर्तुं विशेषाधिकारः आवश्यकः । येषां जनानां पार्श्वे विशेषाधिकारः अस्ति, तेषाम् आवलिः भारतीयसंविधाने वर्तते । सा आवलिः अधः अस्ति –

राष्ट्रध्वजस्य उपयोगः यदि कार-याने भवति, तर्हि यानस्य अग्रभागस्य मध्यभागे दक्षिणहस्ते वा ध्वजस्य स्थानं भवेत् । यदि याने कोऽपि विदेशिजनः भारतगणराज्यस्य अतिथिः स्थितः चेत्, भारतस्य राष्ट्रध्वजः वामहस्ते, तस्य विदेशिजनस्य राष्ट्रध्वजः दक्षिणहस्ते च भवेत् ।

भारतगणराज्यस्य राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च विदेशयात्रायै विमानयानेन गच्छिति चेत्, विमानयाने अपि भारतस्य राष्ट्रध्वजः अनिवार्यत्वेन भवेदेव । विमानयानस्य दक्षिणहस्ते भारतस्य राष्ट्रध्वजः भवेत्, यं देशं गच्छति, तस्य देशस्य राष्ट्रध्वजः वामहस्ते भवेच्च । एकस्य देशस्य यात्रायां मार्गे अन्यदेशे विश्रान्त्यर्थे अवतरणीयं भवेत् चेत्, तस्य देशस्य ध्वजमपि वामहस्ते स्थापयितुं शक्यते । येन तस्य देशस्य सम्मानस्य रक्षणं भवेत् । एतत् सद्भावनायाः, शिष्टाचारस्य प्रतीकत्वेन परिगण्यते ।

भारतगणराज्यस्य राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च विदेशे रेलयानेन यदि यात्रां करोति, तर्हि रेलयानस्य चालकस्य bogie इत्यत्र राष्ट्रध्वजः भवेत् । परन्तु रेलयानं यदा स्थिरमस्ति, तदैव राष्ट्रध्वजः स्थापनीयः । रेलयानं यदा यात्रां प्रारभेत, तदा राष्ट्रध्वजः सम्मानेन सह अवरोहणीयः ।



                                     

7. अर्धप्रवाहितः राष्ट्रध्वजः

शोकस्य समये राष्ट्रपतेः निर्देशानुसारं राष्ट्रध्वजः अर्धप्रवाहितः कर्तव्यः । यदा अर्धध्वजारोहणस्य आदेशः भवति, तदा पूर्णध्वजारोहणानन्तरम् दण्डस्य मध्ये ध्वजः स्थापनीयः । ततः सूर्यास्तकाले ध्वजम् उपरि आरुह्य ध्वजावरोहणं करणीयम् । केवलं भारतीयराष्ट्रध्वजः अर्धप्रवाहितः भवति । अन्ये सर्वे ध्वजाः सामान्यरीत्या प्रवाहिताः भवन्ति ।

भारतगणराज्यस्य राष्ट्रपतेः, उपराष्ट्रपतेः, प्रधानमन्त्रेः, लोकसभाध्यक्षस्य, सर्वोच्चन्यायलयस्य मुख्यन्यायाधीशस्य मृत्युः राष्ट्रियशोकस्य कारणत्वेन परिगण्यते । राष्ट्रियशोकस्य स्थितौ देहली-महानगरे, राज्यानां राजधानीषु, केन्द्रियमन्त्रमण्डलस्य गोष्ठीसमये च राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यमन्त्रिणः मृत्यौ सति देहली-महानगरे एव राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यस्य राज्यपाल-उपराज्यपाल-मुख्यमन्त्र्यादीनां मृत्यौ तस्मिन् राज्ये राष्ट्रध्वजः अर्धप्रवाहितः भवति ।

गणतन्त्रदिवसः, स्वातन्त्र्यदिवसः, महात्मा जयन्ती, राष्ट्रियसप्ताहः अप्रैल-मासस्य ६ तः १३ पर्यन्तं च अवसरे उक्तजनेषु कस्यापि निधनं भवति चेत्, मृतकस्य गृहे एव अर्धप्रवाहितः राष्ट्रध्वजः भवति । तद्विहाय सर्वत्र सामान्यरीत्या ध्वजारोहणं भवति । राज्यानां, सेनानां, केन्द्रियानाम् अधिकारिणां निधने सति तेषां शवस्य उपरि राष्ट्रध्वजः सम्मानार्थं स्थायनीयः । भारतीयसैनिकानां शवस्योपरि अपि सम्मानार्थं राष्ट्रध्वजः स्थापनीयः । परन्तु शवस्य दहनावसरे, ‘कबर’-इत्यस्मिन् स्थापनावसरे च राष्ट्रध्वजः स्मानपूर्वकं अवरोहणीयः । अर्थात् राष्ट्रध्वजस्य शवेन सह दहनं, ‘कबर’-मध्ये स्थापनं च असांविधानिकम् ।

                                     

8. जीर्णध्वजस्य किम्?

राष्ट्रध्वजः यदि जीर्णः भवति, तर्हि सम्मानपूर्वकं तस्य जीर्णराष्ट्रध्वजस्य विसर्जनविधिः आचरणीया । राष्ट्रध्वजस्य प्रधानविसर्जनविधिषु राष्ट्रध्वजस्य दहनं, भूमौ निखननंBury, गङ्गायाः प्रवाहे स्थापनं च मुख्यविधयः सन्ति । जीर्णध्वजस्य आरोहणं राष्ट्रध्वजस्य अपमानत्वेनैव परिगण्यते । शवस्योपरि जीर्णराष्ट्रध्वजः स्थापयितुं न शक्यते । अतः कदापि, कुत्रापि जीर्णराष्ट्रध्वजस्य उपयोगः न करणीयः ।

                                     

9. बाह्यानुबन्धाः

  • भारतीयराष्ट्रध्वजस्य पूर्वतनध्वजाः
  • भारतीयध्वजसंहिता, गृहमन्त्रालयः, भारतसर्वकारः
  • ध्वजगीतस्य रचना कथम् अभवत्?
  • पत्रालयविभागेन राष्ट्रध्वजस्य प्रशंसा कृता ।
  • राष्ट्रध्वजस्य इतिहासः
  • राष्ट्रध्वजस्य आरोहणार्थं मार्गदर्शनम्
  • झंडा ऊँचा रहे हमारा. - सुनीता सिंह गर्ग
                                     
  • श सन ध क र र ष ट रपत न यस त भ रतद शस य र जध न द हल नगरम भ रतस य र ष ट रध वज त र वर ण ङ क त तत र र ध व क सरवर ण मध य श व त अधश च हर त
  • अध गच छत भ रतस य र ष ट रपत श ण ˈbhɑːrətəsjə rɑːʃhtrəpətɪhɪ आङ ग ल: The President of India, ह न द भ रत य र ष ट रपत भ रतस य प रप रथम न गर क
  • न म च ह नम च त रम व श षम र ष ट र यध वज भ रतस य र ष ट रध वज प ङ गल व ङ कय यद व र रच त भ रत य त र रङ ग भ रत यत र रङ गस य उपर भ ग क सरवर ण
  • श ल सरल रमण य च स त भ ष बलवत वर तत न टक व व ध भ ष प रय क त प र क तस य स थ न ह न द भ षय ध ष ठ तम भ रतम ह म लय ह न द र ष ट रध वज
  • प रप रथमव र भ रतस य प रत क र ष ट रध वज जगत सम म खम उप स थ यत स र ष ट रध वज वन द म तरम - ध वजत व न अद य प प रस द ध अस त वन द म तरम - ध वज सम नलम बम नय क त
  • गन त न र कर त सर व ष म आग रह ण स प ष ठभ गम अगच छत स अवदत र ष ट रध वज यद अपम न स पदस थ त य भव ष यत तर ह अहम अग र आगत य मम द य त व
  • नवन ट यव ध न स सज ज न टक न क वल रसन र झर ण प रव ह त अप त त म नवत प र णस य च र ज वनस य पद धत रप न र द ष ट भ रतम श व ह न द र ष ट रध वज