ⓘ भारतस्य पर्वताः. भारते सर्वोपि पर्वतः येन केनचित् कारणेन पूज्यः अस्ति । जगति अन्यदेशानां जनानां दृष्ट्या जडवस्तु इति यत् चिन्त्यते तादृशं पर्वतं वयं भगवदंशं मन् ..

                                     

ⓘ भारतस्य पर्वताः

भारते सर्वोपि पर्वतः येन केनचित् कारणेन पूज्यः अस्ति । जगति अन्यदेशानां जनानां दृष्ट्या जडवस्तु इति यत् चिन्त्यते तादृशं पर्वतं वयं भगवदंशं मन्यामहे । अस्माकं विश्वासस्य बहूनि कारणानि सन्ति । केषुचित् पर्वतेषु देवाः वसन्ति इति वयं विश्वसिमः । केषुचित् ऋषिमुनयः साधनं कुर्वन्तः सन्ति । केषुचित् अस्मत्पूर्वजाः मन्दिराणां निर्मांणम् अकुर्वन् । केचन पर्वताः बहूनां नदीनाम् उद्भवस्थानम् । पुराणेषु, काव्येषु, जनपदसाहित्येषु पर्वतस्य माहात्म्यसम्बद्धानि बहूनि वर्णनानि विवरणानि वा सन्ति ।

प्राचीनकाले कृषकाः इन्द्रस्य अथवा पर्जन्यदेवतायाः पूजां कुर्वन्ति स्म । कृष्णस्य काले व्रजमण्डलस्य जनाः वर्षाकालस्य समाप्त्यनुक्षणम् इन्द्रोत्सवम् आचरन्ति स्म । तत्रत्यप्रजासु अधिकांशाः गोपालकाः । तेषां पर्वतेन सह सम्बन्धः अधिकः । तेषां गावः प्रतिदिनं चरणार्थं पर्वतखातं गच्छन्ति स्म । तस्मात् अधिकप्रमाणेन दुग्धं प्राप्यते स्म । एतदर्थं कृतज्ञतायाः समर्पणम् इव ते पर्वतस्य पूजाम् आरब्धवन्तः । कृष्णस्य सूचनानुसारं तैः गोवर्धनशैलोत्सवः आचरितः । तदारभ्य अस्मद्देशे पर्वतस्य पूजा प्रचलति । इदानीम् अपि कुत्रचित् कृष्णजन्माष्टम्याः अवसरे, भागवतसप्ताहस्य अवसरे च लोहेन वा मृत्तिकया वा गोवर्धनपर्वतं निर्माय पूजां कुर्वन्ति ।

पुराणेषु पर्वतः द्विधा विभक्तः । वर्षपर्वताः कुलपर्वताश्च इति । वर्षपर्वताः राष्ट्रस्य सीमां सूचयन्ति । उदाहरणर्थं – हिमालयः । कुलपर्वताः राष्ट्रस्य अन्तः सन्तः प्रान्तसीमां सूचयन्ति । एतादृशाः सप्त कुलपर्वताः सन्ति ।

१. महेन्द्रः २. मलयः नीलगिरिः ३. सह्यः ४. शुक्तिमत् पारसनाथः ५. ऋक्षवान् विन्ध्यः ६. रैवतकः गिरिनार् ७. पारियात्रः अरावली च ।

वयं प्रातःस्मरणावसरे अस्माकं देशस्य श्रेष्ठान् पर्वतान् स्मरन्तः" महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः । ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥" इत्येतं श्लोकं वदामः ।

एवं प्रातःकाले स्मर्यमाणाः एते पर्वताः अस्माकं श्रद्धाकेन्द्रं जाताः कथम्? तस्य कारणानि कानि? इति ज्ञातव्यं चेत् तेषां पर्वतानां परिचयः प्राप्तव्यः प्रथमम् । एतान् पर्वतान् विहाय अन्येऽपि बहवः पर्वताः सन्ति अस्माकं देशे । एते तु पुराणादिषु प्राचीनसाहित्त्येषु वर्णिताः पर्वताः । एतान् विहाय अन्यान् पर्वतान् "शिखरम्" इति पदेन निर्दिष्टवन्तः स्मः । हिमालये एव १४६ शिखराणि सन्ति । तेषां सर्वेषाम् अपि परिचयः कारयितुं शक्यः अस्मिन् विभागे ।

                                     
  • अस म क भ ग लस य अध कभ ग जल न आव त सन त अवश ष टभ भ ग ष अप पर वत कन दर नद य श द वल अरण य न स न प रद श न म नप नप रद श मर त स थल न क ष क ष त र ण
  • तस य वर णन पर वत एव स थन यस य स भ म इत य क त पर वत त प र द र भ त न नद न जल जन प बन त अत भ म त स तन य जद जलम भ रतस य स स क त
  • भ त क ध र र ज यम तत द व ध व भक त शक यत - घट टप रद श उपत यक च त पर त पर वत भवन त मध य उपत यक वर तत मण प र श ल य क र यम ण र सल ल न त य जगत प रस द धम
  • प र च नतममन द र ष अन यतम क ळ ळ मल पर वत न मक कलपत तन त क ल म टर द र प र वघट टप रद श इम पर वत सन त एष म औन नत य प र य म टर
  • उष णवलय अन तर भवत अत अत र व श ष ट व तवरण द र ष ट शक यत अत र अन क पर वत जलप त वन न च सन त श ल पकल त न त र कक शलत त त यशतकत शतक
  • जन पर यटन य कटक - नगर गच छन त कटक - नगरस य सम प मन द र ण द र ग पर वत इत य द न पर यटनस थल न सन त नगरस य सम प अनश प - तड ग वर तत अस य
  • तस य वर णन पर वत एव स थन यस य स भ म इत य क त पर वत त प र द र भ त न नद न जल जन प बन त अत भ म त स तन य जद जलम भ रतस य स स क त
  • स वर मर त ङ ग न गढ तथ अक ल त र द इत अस य र ज यस य उत तर तथ दक ष ण च पर वत सन त मध यभ गस य भ म स फल तथ समतल च अस त र ज यस य प रत शत
  • ज वन त स पर सर यस य वय न वस म स य प थ व अत र व द यम न नद य पर वत व क ष पशव पक ष ण प रद श व त इत य त सर व ऽप पर सरशब द न स च यन त