ⓘ द्वारका भारतस्य पौराणिकस्थलेषु अन्यतमा । एतत् गुजरातराज्ये अस्ति । एतत् नगरं स्वयं श्रीकृष्णः एव प्रतिष्ठापितवान् इति जनैः विश्वस्यते । द्वारावती इति एतस्याः अप ..

मयूराक्षि नदी

भारते पश्चिमबङ्गाल् प्रन्ते प्रसिद्धा नदी इयं मयूराक्षिनदी । विस्त्रुतजलप्लवनयुता चरितमस्ति अस्या: । जार्खन्ड्प्रान्तस्य दियोघर्नामकप्रान्तात् १६ योजनदूरे दूरे विद्यमानत्रिकूटाक्षपर्वतम् अस्याः मूलस्थानम् । २५० कि.मी पर्यन्तम् विस्त्रुतेयं नदी । इयं च जार्खन्ड् त: बर्हं, मुर्षीदाबाद्द्वारा हुग्लीनदीं प्रविशति । मयूराक्षि शब्दस्य मयूरस्य अक्षिणीव अस्तीति अनेन नाम्ना सुप्रसिद्धा। शुष्के काले स्वच्छे जले अच्छाः प्रकाशन्ते। वर्ष ऋतौ जलोपप्लवनयुता च भवति । मासन्जोर् सेतु निर्माणसमयेsपि अस्या: उप्प्लव कारणात् महान् विद्वन्स: सञ्जात:।

                                     

ⓘ द्वारका

द्वारका भारतस्य पौराणिकस्थलेषु अन्यतमा । एतत् गुजरातराज्ये अस्ति । एतत् नगरं स्वयं श्रीकृष्णः एव प्रतिष्ठापितवान् इति जनैः विश्वस्यते । द्वारावती इति एतस्याः अपरं नाम । एतस्याः प्राचीनं नाम कुशस्थली इति आसीत् ।

                                     

1. पुराणकथाः

अहमदाबादतः ३०० कि.मी दूरे जामनगरम् अस्ति । सरोवरं परितः पत्तनम् निर्मितम् अस्ति । मध्ये द्वीपः अपि अस्ति । द्वीपे दुर्गमस्ति । तस्य नाम लकोटदुर्गम् । तत्र अनेकाः मूर्तयः सङ्गृहीताः सन्ति । जामनगरतः पश्चिमे १४५ कि.मी दूरे श्रीकृष्णस्य राजधानी द्वारकापुरी आसीत् । गोमतीनद्याः सागरसङ्गम स्थले एव द्वारकापत्तनम् आसीत् । अत्र गोमतीतीर्थनामकं किञ्चन सरोवरम् अस्ति । अत्र स्थिते दुर्गे द्वारकाधीशस्य प्राचीनं मन्दिरमस्ति । द्वारकामन्दिरं श्रीकृष्णस्य सुतः वज्रः विश्वकर्मणा निर्मापितवान् । पञ्चस्तरीयं गोपुरम् उन्नतम् आकर्षकं च अस्ति । गर्भगृहे शङ्खचक्रगदाधारी कृष्णः विराजते । मुख्यमन्दिरम् १५० पादोन्नतम् अस्ति । आचार्यशङ्करेण स्थापितं मठम् अत्र अस्ति । द्वारकापट्टनतः ३० कि.मी दूरे ओखाद्वीपे अपि द्वारकानाथमन्दिरमस्ति । श्रीकृष्णस्य कृष्णशिलामूर्तिः अत्र अस्ति । कृष्णजन्माष्टमीदिने अत्र विशेषपर्व भवति । द्वीपं गन्तुम् उत्तमा व्यवस्था अस्ति ।

आख्यानतः ज्ञायते यत् श्रीकृष्णस्य राजधान्याः निर्माणार्थं समुद्रराजः किञ्चित् पृष्ठतः अपसृतवान् । ततः कृष्णः पर्याप्तमात्रेण भूमिं प्राप्तवान् इति । श्रीकृष्णस्य अवसानस्य अनन्तरं समुद्रराजः आत्मना दत्तां भूमिं प्रतिस्वीकृतवान् । तत्कारणतः भूयान् भागः समुद्रे लीनः जातः । यः भागः स्मुद्रराजस्य भागः आसीत् सः भागः समुद्रे लीनः जातः । यः भागः समुद्रराजस्य न आसीत्, स च भागः तेन स्पॄष्टः । बेटद्वाराकानाम्नः अयं द्वीपप्रदेशः अद्यापि द्रष्टुं शक्यः ।

बेटद्वारकासमीपे उत्खननतः ज्ञातम् अस्ति यत् एतस्मिन् प्रदेशे पूर्वं सुसमृद्धम् एकं नगरम् आसीत् इति । इदानीं यत् द्वारकानगरम् अस्ति तत् तस्मिन् स्थाने निर्मितं षष्ठं नगरम् । तन्नाम् एतस्मिन स्थले इतः पूर्व विविधे कालखण्डे पञ्चवारं नगराणि निर्मितानि आसन् । पुराणानि अपि ज्ञापयन्ति यत् श्रीकृष्णतः पूर्वम् एव अत्र नगरं किञ्चन आसीत् इति ।

द्वारका श्रीहरेः सशरीरावासस्थनमिति स्कन्दपुराणे उक्तम् । कुचेलपत्तनं, द्वारावती, कुशस्थली दारुकावनम् इत्येतानि द्वारकायाः अपरनामानि । मोक्षदायकेषु पुण्यक्षेत्रेषु एतस्याः स्थानमस्ति । हरिवंशे द्वारकायाः वर्णनमस्ति । श्रीकृष्णेन बाल्यं वृन्दावने यापितम् । अन्ते विश्वकर्मणः द्वारा मध्येसमुद्रं कुशस्थलिद्वीपे कुशासुरं निगृह्य द्वारकापत्तनं निर्मीय यादवैः सह उषितवान् । पुराणस्य कथानुसारम् एषा मायानगरी । चतुर्योजनविस्तारे निर्मितः भव्यप्रासादः द्वादशयोजनमितं दुर्गम् । रुक्मिणी-सत्यभामा-जाम्बवतीभ्यः निर्मितानि पृथक् पृथक् अन्तःपुरभवनानि सन्ति । सुवर्णवज्रवैढूर्यमरकतादिभिः रुपितं द्वारकानगरम् कुबेरस्य अलकापुरी इव रम्यम् आसीत् । श्रीकृष्णस्यावतारस्य समाप्तेरनन्तरं द्वारकायाः जलसमाधिरभूत् इति वदन्ति । एषा घटना ऐतिहासिकी इति समुद्रतले संशोधनं कुर्वतः इतिहाससंशोधकस्य एस्. आर्. रावमहोदयस्य अभिप्रायः ।

यद् किमपि भवतु, एतत्तु,सत्यम् । पुरातनेषु तीर्थक्षेत्रेषु अन्यतममिदम् । कृष्णेन सह सम्बध्दाः सर्वे विषयाः अत्र सन्ति । इदानीन्तनद्वारकानगरं गोमतीनद्याः अरब्बीसमुद्रस्य च तटे अस्ति । यात्रिकाः भारतयात्राकरणसन्दर्भे अविस्मृत्य एतत् क्षेत्रं सन्दर्श्य पुण्यं सम्पादयन्ति इति कथने लेशोऽपि संशयः नास्ति।

अत्रत्यः देवालयः पञ्च अट्टयुक्तः । जगत् मन्दिरनामकम् इदं मन्दिरम् अत्युन्नतगोपुरयुक्तं १५० पादमितम् अलङ्कृतैः द्विसप्ततिभिः स्तम्भैर्युक्तम् । तस्मिन् उन्नते गोपुरे ११७ पादमिते औन्नत्ये विशालः त्रिकोणाकारकः डयमानः ध्वजः अस्ति । तस्योपरि रक्तवर्णेनाङ्कितं सूर्यचन्द्रयोः चित्रणमस्ति । अस्मिन् मन्दिरे मुख्यद्वारद्वयमस्ति । एते द्वारे मोक्षद्वारं स्वर्गद्वारं चेति उच्यते। गर्भगृहे श्रीकृष्णस्य सुन्दरमूर्तिः वर्तते । सालिग्रामशिलया निर्मितोऽयं कृष्णः चतुर्हस्तयुक्तः सन् रजतसिंहासनस्योपरि तिष्ठति । शङ्कचक्रगदापद्मयुतः चतुर्हस्तः सः देवः यात्रिकेभ्यः षोडशकलात्मकदर्शनं यच्छति । विश्वकर्मणा निर्मितोऽयम् । एतं द्वारकाधीशः अथवा रणछोडः इति वदन्ति । तस्य परिवारदेवताः केशवः, राधा, जाम्बवती, लक्ष्मीः, सत्यभामा, बलरामः, विश्वनाथश्च । अनतिदूरे यशोदायाः मन्दिरम् अस्ति । एतत् परितः जनार्दन-नारद-दूर्वास-कुशेश्वराणां मन्दिराणि सन्ति । अनतिदूरे गङ्गासागरद्वीपः गोपीचन्दनक्षेत्राणि अपि सन्ति । तत्र लभ्यते पीतमृत्तिका इति ख्यातं पवित्रगोपीचन्दनम् । यत्र गोमतिः समुद्रेण मिलति तत्र पवित्रसालिग्रामाः इति भाव्यमानाः चक्राङ्किताः शिलाः लभ्यन्ते ।

इदं क्षेत्रं श्रीमता शङ्कराचार्येण सन्दर्शितम् आसीत् । तैः स्थापितेषु मठेषु अन्यतमं द्वारकापीठम् अत्रास्ति । गोवर्धनपीठनामके स्थाने श्रीमध्वाचार्यः आगत्य श्रीकृष्णं पूजितवान् १२३६-४० । भारत पर्यटनावसरे अत्रागतेषु महापुरुषेषु श्री रामानुजाचार्यः क्रि.श. १०३६-५०, श्रीवल्लभाचार्यः श्रीवादिराजतीर्थः अन्ये केचन च। नरसीमेहता श्रीकृष्णस्य महाभक्तेषु अन्यतमः । श्रीचैतन्यः, ज्ञानेश्वरः, बङ्गालस्य गोविन्दस्वामी अपि इदं क्षेत्रं सन्दर्शितवत्सु प्रमुखाः । मीराबायी, विठलेशगोस्वामी च अत्र सन्दर्श्य श्री कृष्णस्य गुणगानं कृतवन्तः सन्ति।

मोक्षदायिकासु नगरीषु अन्यतमा अस्ति द्वारका । अन्याश्च- अयोध्या, मथुरा, उज्जयिनी, वाराणसी, काञ्ची, हरिद्वारं चेति । श्रीकृष्णस्य प्रासादः रैवतकपर्वतस्य मूलभागे, पर्वतयोः मध्यभागे वा आसीत्। बेटद्वारका पर्वतसमूहे प्रसॄता अस्ति । एतस्य भूयान् भागः गुल्मैः आवृतः । प्राचीनमूर्तीनां स्मारकाणां च अवशेषाः एतस्मिन् प्रदेशे तत्र तत्र उपलभ्यन्ते । एतस्मात् स्पष्टं यत् अत्र पूवं नगरम् आसीत् इति ।

                                     

2. द्वारकाद्वीपः

शङ्कराचार्यः भारतस्य चतुर्षु पवित्रस्थानेषु चतुरः मठान् स्थापितवान् । दक्षिणे शृङ्गेर्यां पूर्वस्यां दिशि पुरीनागार्यं, पश्चिमदिशि द्वारकायाम् उत्तरे बदर्यां च तेन मठाः स्थापिताः । तेन स्थापितः मठः द्वारकाधीशमन्दिरस्य निकटे एव अस्ति । एतस्मिन् मन्दिरे रमणीया कृष्णप्रतिमा अस्ति । गोमतीनदीतीरे स्थितम् एतत् मन्दिरं श्रीकृष्णावंशीयः वज्रनाभः निर्मापितवान् । सहस्रशः भक्ताः प्रतिदिनम् एतत् मन्दिरं द्रष्टुम् आगच्छन्ति । इदानीं यत् इदानीं मन्दिरस्थानम् अस्ति तत्र पूर्वं कृष्णस्य जीवितकाले राजस्थानभवनम् आसीत् । १५४६ तमे वर्षे मेवाडस्य राज्ञी मीराबायी एतस्यां प्रतिमायां विलीना जाता इति काचित् जनश्रुतिः अस्ति । मन्दिरस्य दक्षिणभागे शान्तगम्भीरा गोमतीनदी प्रवहति । देवालयतः ५६ सोपानानि अवतीर्णानि चेत् नदी प्राप्यते । अग्रे एषा गुप्तरुपेण गङ्गया सङ्गता भवति इति जनाः भावयन्ति । श्रीप्रभासतीर्थः एतस्मात् मन्दिरात् द्विकिलोमीटरदूरे श्रीकृष्णस्य पत्न्याः रुक्मिण्याः मन्दिरम् अस्ति । तत्र एव नागेश्वरमहादेवतीर्थं नाम एकं प्राचीनं शिवमन्दिरम् अस्ति । श्रीकृष्णस्य बाल्यसुहृदः यदा वृन्दावनतः तं द्रष्टुं द्वारकाम् आगताः तदा एतस्य सरोवरस्य तीरे वसतिं कृतवन्तः आसन् । एवं द्वारकानगर्याम् आश्रीकृष्णात् आमीराबाय्इ बहूनां श्रेष्ठपुरुषाणां स्मरणानि निहितानि सन्ति । द्वारकानगरसमीपे कानिचन आधुनिकानि यन्त्रगाराणि अपि सन्ति । तत्परिसरे जनसम्मर्दादीनि अशान्तिचिह्नानि द्दश्यन्ते । नदीतीरेषु प्रदेशेषु तु प्रशान्तः परिसरः । आधुनिकजीवनस्य सर्वेषु साधनेषु सत्सु अपि अत्रत्यः परिसरः अतीतस्य गरिमाणम् एव प्राधान्येन स्मारयति । आधुनिकद्वारकायाम् अनेकाः शैक्षणिक सांस्कृतिकसंस्थाः सन्ति । ताः सर्वाः अपि श्रीकृष्णानाम्ना सम्बद्धाः एव प्रायः । द्वारकावासिनः अद्यापि साभिमानं वदन्ति यत् अस्मदीयनगर्यां श्रीकृष्णः स्वयं वसन् राज्यभारं निर्वहति स्म इति ।

                                     
  • सर व ण भवन न श व तर प ण इत क रण त नगर श व तनगरम इत वदन त द व रक - व र वलय मध य एतदस त अहमद ब द - प रबन दरम र ग अन त मन स थ नम क र त
  • क रण न व स म क महत वप र ण न त र थस थल न नद त र एव सन त ग मत नद य त र ऽप द व रक - भलक - परश र मतपस थल - सङ गमन र यण दय त र थस थल न सन त ग मत नद क
  • क न द रम अस त ज मनगरम इत नगरम अस म न न व मण डल त ष ठत भगवत क ष णस य द व रक ज मनगरमण डलस य व स त र चत रस रक ल म टर म त अस त ग जर तर ज यस य
  • द श स महत वप र ण न मन द र ण प रत ष ठन त त न प ण यध म न र म श वर द व रक जगन न थप र बदर न थ च अष टमशतक भगवप र द श र शङ कर च र य एत न एकस त र ण
  • शतक एव अत र व द न तज ञ नप ठ श रद प ठ च स थ प तम आस त प र बदर द व रक उज जय न प ठ न इव अत र प तपस व न व द ष च क न द र न र म तम आस त
  • सन त अस य र ज यस य ब हत तम नगर कर ण वत - मह नगरम अस त श र क ष णस य द व रक द व दशज य त र ल ङ ग ष अन यतम स मन थश च अत र र र जत भ रतस य श ल प
  • श वप र णस य द व दशज य त र ल ङ गस त त र यत क ष त र न र द ष ट तत इद न द व रक इत प रस द धम अस त द व दश ज य त र ल ङ ग ष अन यतम अय न ग श वर स र ष ट र
  • शतक एव अत र व द न तज ञ नप ठ श रद प ठ च स थ प तम आस त प र बदर द व रक उज जय न प ठ न इव अत र प तपस व न व द ष च क न द र न र म तम आस त
  • अभवत त क वल प रज न सम श व स य एव आसन प रध न श ल स तव: मय र क ष द व रक ब र ह मन एवम अजय नद य: मस स न ज र स त द व र स क व र य जन न
  • शब द अप अत रत यर मन र म तस त क रणत एव प रय गपथम आगत न ग श वर - द व रक द र क वनम न ग श द र क वन इत यद क त तत क ष त रमस त द व रक सम प
  • आस त अस य मन द रस य उद घ टन तम वर ष तत क ल न न म ख यमन त र ण द व रक प रस द म श र इत य ख य न क तम आस त मन द र ऽस म न श व तश ल ष प र ण कद श य न
  • बह नद - नद य प रवहन त त स अजय मय र क ष म र क प इ, वक र श वर ब र ह मण द व रक ह ल ब शल इत य द य उल ल खय ग य ब रभ ममण डल प रत नस थल न बह त र
  • च क कमगळ र कळल मङ गळ र क श उत तरक श कन य क म र अय ध य बदर क श रम द व रक ग र न र क रगड ड सज जनगड, वरदप रम इत य द ष प रद श ष प रव स वसत