ⓘ कोडगुमण्डलम्. कोडगुमण्डलं कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति मडिकेरी नगरम् । कोडगु इति आङ्ग्लभाषया उच्यते कर्णाटकस्य पश्चिमाद्रिशृङ्ख ..

                                     

ⓘ कोडगुमण्डलम्

कोडगुमण्डलं कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति मडिकेरी नगरम् । कोडगु इति आङ्ग्लभाषया उच्यते) कर्णाटकस्य पश्चिमाद्रिशृङ्खलायाः एकं सुन्दरं विशिष्ठं च मण्डलम् अस्ति । न्यूना जनस्ंख्या सर्वत्र सुन्दरपर्वतप्रदेशः हिमाच्छादितभूमिः निर्झराः, जलपाताः सर्वदृष्ट्या कोडगुप्रदेशः कर्णाटकस्य ’काश्मीरः’ इति कथयितुं योग्यः अस्ति । विश्वे सौन्दर्यार्थं सुप्रसिद्धेन स्काटलैण्डदेशेन सह तोलयितुं शक्यः। कावेरीनद्याः जन्मस्थानं प्रवहणभूमिः च । अतः कावेरीमण्डलम् इत्यपि ख्यातम् अस्ति । पूर्वं पृथकराज्यमासीत् । इदानीं कर्णाटकराज्ये विलीनस्य एतस्य मण्डलम् इति स्थानं कल्पितम् अस्ति । तथापि स्वकीयभाषा-संस्कृति-परम्पराणां वैशिष्ठ्यकारणतः एतस्य मण्डलस्य विशिष्ठं स्थानम् अस्ति । कन्नडभाषया कुडु नाम गिरिः इति अर्थः । गिरिकन्द्ररप्रदेशं एतं कोडगु इति कथितवन्तः । मडिकेरी मण्डलस्य केन्द्रम् अस्ति ।

कर्णाटकस्य वीरभूमिः भारतस्य स्काट्लैण्ड् इत्यादिरूपेण प्रसिद्धिः कोडगुप्रदेशस्य महत्त्वं सूचयति। पर्वतश्रेणीनां मध्ये सानुप्रदेशः निसर्गसुन्दरः अत्यन्तं रमणीयः च अस्ति । हर्मन् मौग्लिङ्ग् इत्यादयः आङ्गलाः अन्ये विदेशीयाः च कोडगुप्रदेशं मुक्तकण्ठेन सम्यक् वर्णितवन्तः सन्ति । कावेरीनद्याः जन्मस्थानं कोडगुमण्डले तलकावेरी स्थले अस्ति । कन्नडकवयः पञ्जे मङ्गेशरायः, जी.पी.राजरत्नम्, सालिरामयचन्द्ररायः कोडगुप्रदेशं मनसा काव्यैः वर्णितवन्तः सन्ति । समग्रं मण्डलम् अतीवसुन्दरं भारतस्य काश्मीरसदृशम् अस्ति । कोडगुमण्डलस्य विस्तारः ४१०० चतुरस्रकि.मी अस्ति । सागरस्तरतः ३००० पादोन्नते प्रदेशे कोडगुप्रदेशः अस्ति । काफी एला मरीचम् नारङ्गम् इत्येतेषां वृक्षाणां वाटिकाः मनमोहकाः भवन्ति । अतः एव कविः द.रा. बेन्द्रेवर्यः बहूनि गीतानि रचितवान् अस्ति ।

कोडगुप्रदेशं कोडवरनाडु इत्यपि कथयन्ति । जनाः युद्धकलाचतुराः सन्ति । प्रतिगृहं योधाः सन्ति । फील्ड् मार्षल् कारियप्पः भारतस्य प्रथम महादण्डनायकः आसीत् । जनरल् तिम्मय्यः अपि कोडगुप्रदेशीयः । कोडवजनाः दृढशरीराः व्यायामप्रियाः शूराः उन्नताः क्रिडा क्षेत्रेऽपि प्रसिद्धाः च भवन्ति । एतेषां वस्त्रधारणविधिः अपि भिना एव अस्ति ।

आवर्षम् अत्र शीतकालः इव उत्तमं वातावरणं भवति । फेब्रुवरीमासे मरीचस्य पक्वकालः । एप्रिल्मासे काफीसस्यानि पुष्पितानि भवन्ति । तदा तेषां सुगन्धः अत्यन्तम् आह्लादकरः भवति । मे मासे हरितानि बीजानि रक्तानि भवन्ति । काफी सस्ये फलानां पक्वभवनस्य कालः । मनमोहकं काफिवाटिकादृश्यं रमणीयं भवति । कावेरीनदी सदा जलपूर्णा प्रवहति । तत्र तत्र अनेके जलपाताः निर्मिताः सन्ति वर्षाकाले नदीजलं भयं जनयति । जलपातेषु अधिकं जलं तदा पतति । जूनमासे वर्षारम्भः भवति । नव रात्रिपर्यन्तं वृष्टिः भवति । तलकावेर्यां जलोद्गमः, दसरामहोत्सवः, हुत्तरिपर्व कोडगुमण्डले अतीव वैभवयुक्तानि पर्वाणि सन्ति ।

मडिकेरीतः तलकावेरी ४६ कि.मी दूरे अस्ति । अत्रैव कावेर्याः उद्गमस्थानम् अस्ति । इर्प्पुजलपातम्, अब्बी जलपातं, सदा जलपूर्णानि दर्शकाणां आनन्ददायकानि भवन्ति । कुशालनगरसमीपे कावेरीनिसर्गधाम सुन्दरम् अस्ति । कोडगुप्रदेशे पादचारणाय माकुट्ट, बरपोळे, नीलं पोळे प्रदेशाः अतिजनप्रियाः । इग्गुतप्पः, तडियण्डमोळ्, चिन्ननप्प शिखरारोहणं साहसयात्रा एवास्ति । तडियण्डमोळ् सागरस्तरतः ५००० पादोन्नतम् अस्ति । सोमवारपेटे पुष्पगिरि, कुमारपर्वतशिखरं च पादचारणाय विशिष्टानि सन्ति ।

                                     

1. स्थानम्

अस्य मण्डलस्य पश्चिमदिशि दक्षिणकन्नडमण्डलम्, उत्तरदिशि हासनमण्डलं, पूर्वदिशि मैसूरुमण्डलं, दक्षिणदिशि केरळराज्यस्य कण्णूरुमण्डलं, च सन्ति । अस्मिन् मण्डलेपि प्रधानः उद्योगः काफीकृषिः एव । कोडगुमण्डलं पूर्वं ब्रिटिश्प्रभुत्वकाले राज्यम् एव आसीत् । कालान्तरेण ते एतत् मण्डलं मैसूरुराज्ये विलीनं कृतवन्तः ।

                                     

2. भाषा संस्कृतिः च

अत्रस्थान् जनान् कोडवाः इति कन्नडे कथयन्ति । प्रशासनभाषा कन्नड एव अस्ति किन्तु कोडवतक्क् अत्र प्रादेशिका भाषा अपि जनाः भाषन्ते । मलयाळं, अरेगन्नड, तुळु, रावुल इत्याद्याः भाषाः अत्र भाष्यन्ते । कोडवभाषा इति यदस्ति तस्याः लिपिः नास्ति एव । एते सर्वे जनाः हैन्दवकृषकाः सन्ति ।

                                     

3. प्रेक्षणीयस्थानानि

कोडगुमण्डले प्रधानतया पर्यटककेन्द्रत्रयम् अस्ति । मडिकेरीमध्ये अब्बिजलपातः, ओङ्कारेश्वरमन्दिरम्, राजगद्दुगे, तलकावेरी, सोमवारपेटे मध्ये कावेरीनिसर्गधाम, कोप्पप्रदेशे स्वर्णमयदेवालयः, वीरभूमिः, दुबारे, हारङ्गिजलाशयः, चिक्लिहोळे,होन्नम्मनकेरे, मल्लळ्ळि जलपातः, वीराजपेटेप्रदेशे नागरहोळे, इर्पुजलपातः, कुन्द टि एस्टेट् च दर्शनीयानि स्थानानि सन्ति ।

                                     

4.1. पवित्रस्थानानि १. भागमण्डलम्

अस्य क्षेत्रस्य भगण्डेश्वरक्षेत्रम् इति प्रसिद्धिः अस्ति । भगण्डऋषिः अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति विश्वासः अस्ति। एतत् क्षेत्रम् दक्षिणप्रयागः इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुजोतिनदीनाम् सङ्गमः अस्ति । अत्र स्नानकरणेन पुण्यसम्पादनं भवति । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलास्ंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः गच्छन्ति ।

                                     

4.2. पवित्रस्थानानि २.तलकावेरी

कावेरीनद्याः उगमस्थानं पवित्रक्षेत्रं च ब्रहमगिरिप्रदेशेऽस्ति । दक्षिणगङ्गा इति ख्याता कावेरी चौकाकारेण कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य ”‘तीर्थोद्भव’” इति नाम अस्ति । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थाद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।

मार्गः मडिकेरीतः ४८ कि.मी. बेङ्गलूरुतः २९७ कि.मी । मैसूरुतः १६० कि.मी भागमण्डलतः ८ कि.मी
                                     

4.3. पवित्रस्थानानि ३.मडिकेरी

कोडगुप्रदेशे मडिकेरीगिरिधाम सागरस्तरतः ३८०० पादोन्नते स्थलेऽस्ति । राजासीट् उद्यानं निसर्गसुन्दरं रम्यं स्थलम् । इतः सूर्यास्तदर्शनं शालीक्षेत्राणां दर्शनं, वाटिकादर्शनम् अतीव सन्तोषाय भवति । प्रतिवर्षं राजासीटप्रदेशे फलपुष्पप्रदर्शनम् अत्युत्तमतया आयोजितं भवति । उद्यानवने सन्ध्यारागनामकः कश्चन कार्यक्रमः भवति । इदानीम् अत्र लघुधूमशकटं बालानां विनोदसञ्चाराय निर्मितम् अस्ति । मडिकेरीदुर्गम् एतिहासिकं भवनमस्ति । अत्र विशालं राजगृहं, प्राच्यवस्तुसङ्ग्रहालयः, जिल्लाकेन्द्रीयन्थालयः, कोटेगणपतिदेवालयः आकर्षकाः सन्ति । दुर्गस्य रचनायाः विशेषः नाम षड्कोणाकारकः तलविन्यासः । षट्कोणेषु कोत्तलु विशेषदर्शकस्थानम् निर्मितम् अस्ति दर्शकस्थानं वृत्ताकारकम् अस्ति ।

राजगृहस्य मृच्छदः आङ्ग्लैः आनीतः अस्ति । सुन्दरभवनस्य द्विस्तरीयानि तोरणानि, चौकाकाराणि वातायनानि, काचकैः सम्यगलङाकृतानि सन्ति । विशालजलाशये कश्चन लघु शिलाकूर्मः अस्ति । गजाकृतयः जीवन्त्यः इव सन्ति । नगरे ओङ्कारेश्वरमन्दिरं राज्ञां मृतस्मारकाणि दर्शनीयानि सन्ति । ओङ्कारेश्वरमन्दिरं क्रिस्ताब्दे १८२० तमे वर्षे गार्थिक्-इस्लामिक् मिश्रशैल्या निर्मितम् ।

मार्गः -कोडगुमण्डले धूमशकटमार्गः नास्ति। वाहनमार्गः - बेङ्गळूरुतः २६० कि.मी । मैसूरुतः १३४ कि.मी वसत्याः कृते मडिकेरी भागमण्डलम् इत्यत्र व्यवस्थाः सन्ति । मङ्गळूरुतः १३५ कि.मी। कुशालनगरम् इत्यादिस्थलेषु उपाहारगृहाणि सन्ति ।


                                     
  • ध रव डमण डलम गदगमण डलम ग ल बर ग मण डलम ह सनमण डलम ह व र मण डलम क डग मण डलम क ल रमण डलम क प पळमण डलम मण ड यमण डलम म स र मण डलम मण ड यमण डलम
  • त मक र मण डलम ल ङ गस र र यच र मण डलम ब रह मग र च त रद र गमण डलम म त य ब ट ट क डग मण डलम प र वश ल य गस य नख क रक उग र गल ल लघ परश तडगत त इत य द न न त यज वन पय ग न
  • च मर जनगरमण डलम दक ष णद श तम ऴन ड र ज यम न र त यद श क रलर ज यम पश च मद श क डग मण डलम उत तरद श ह सनमण डलम च सन त म स र ह ग गडद वनक ट ह णस र क ष णर जनगर
  • ध रव डमण डलम गदगमण डलम ग ल बर ग मण डलम ह सनमण डलम ह व र मण डलम क डग मण डलम क ल रमण डलम क प पळमण डलम मण ड यमण डलम म स र मण डलम य दग र मण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम
  • उड प मण डलम उत तरकन नडमण डलम क डग मण डलम क प पळमण डलम क ल रमण डलम गदगमण डलम ग ल बर ग मण डलम च मर जनगरमण डलम च क कबळ ळ प रमण डलम