ⓘ हैदराबाद्-नगरम्, भारतम्. एषः लेखः भारतस्य नगरस्य विषये अस्ति, यदि भवान्भवती पाकिस्तानस्य हैदराबाद-नगरस्य विषये ज्ञातुम् इच्छति, तर्हि हैदराबाद्, पाकिस्तानम् इत् ..

                                     

ⓘ हैदराबाद्-नगरम्, भारतम्

एषः लेखः भारतस्य नगरस्य विषये अस्ति, यदि भवान्/भवती पाकिस्तानस्य हैदराबाद-नगरस्य विषये ज्ञातुम् इच्छति, तर्हि हैदराबाद्, पाकिस्तानम् इत्यत्र गच्छतु ।

हैदराबादनगरमण्डलम् आन्ध्रप्रदेशराज्ये स्थितं किञ्चनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हैदराबाद् नगरम् ।

                                     

1. इतिहासः

प्राचीनकाले अस्य नामः भाग्यनगर अभवत् परन्तु १५९१ तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं अकरोत । शातवाहनैः,चालुक्यैः, काकतीयैः, बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् ।औरङ्गजेबः इदं प्रान्तं १६८७ तमे वर्षे अजयत् । असब्जाहीवंशजाः १७२४ वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । १८०३ तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाब् जनाः १९४८ तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । १९४८ तमे वर्षे इदं भारतदेशे विलीनं जातम् । १९५६ तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरम् उद्घोषितम् ।

                                     

2. भौगोलिकम्

अस्य प्राच्यांनल्गोण्डमण्डलं, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक् मण्डलम्, दक्षिणे च महबूब् नगरमण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते ।

                                     

3. वाणिज्यम्

भाग्यनगरपरिसरेषु केन्द्रराज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि । मादापूर् समीपे L&T, मैक्रोसाफट् Microsoft, ऎ. बी. एम् I.B.M., गूगुल् Google इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया विश्वविद्यालयः, केन्द्रीयविश्वविद्यालयः, पोट्टिश्रीरामुलुतेलुगुविश्वविद्यालयः,अम्बेडकर् दूरविद्या विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् ।

                                     

4. वीक्षणीयस्थलानि

चार्मिनार्, सालार् जङ्ग् वस्तुसङ्ग्रहालयः, शासनसभा, हुस्सेन् सागरस्थः बुद्धविग्रहः, इन्दिरा उद्यानानि, गोल्कोण्डदुर्गं, सार्वजनिक उद्यानानि, नेह्रुमृगालयः, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी फिल्म् सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति ।

                                     

4.1. वीक्षणीयस्थलानि नेह्रुमृगालयः

हैदराबाद् आन्ध्रप्रदेशराज्यस्य राजधानी अस्ति । अत्र नेह्रुमृगालयः अपूर्वः अस्ति । १२० हेक्टर् प्रदेशे व्याप्ते मृगालये विविधा वन्यमृगाः सन्ति । सिंहाः, गजाः, व्याघ्राः, पक्षिणः इत्यादीनी सन्ति । लघुवाहनेनापि मृगालयदर्शनव्यवस्था अत्र अस्ति । सोमवासरे विरामः अस्ति ।

                                     

4.2. वीक्षणीयस्थलानि बिर्लामन्दिरम्

हैदराबाद् समीपे बिर्लामन्दिरम् अथवा बालाजीमन्दिरम् अपूर्वं दर्शनीयमस्ति । उन्नतप्रदेशे स्थितात् मन्दिरात् नगरदर्शनम् अतीव आनन्दं जनयति ।



                                     

4.3. वीक्षणीयस्थलानि चारमीनार्

हैदराबादनगरे चारमीनार् इति स्थलं केन्द्रस्थाने अस्ति । हिन्दूनर्तक्याः बागमत्याः स्मरणार्थं निर्मितमेतत् चतुर्गोपुरात्मकम् । क्रिस्ताब्दे १५१३ तमे वर्षे सुल्तान् महम्मद् बुली कुतुब् शाही एतं निर्मितवान् । विपणिमध्ये एव एतत् विराजते । हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार् वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षण स्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतं विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि ५० मीटर् उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रानि, अरेबिक् भाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चार्मीनार् प्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः प्रातः ९ वादनतः सायं ४ वादन पर्यन्तं यावत् भवति। सायङ्काले ७ वादनतः ९ वादन पर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।



                                     

4.4. वीक्षणीयस्थलानि सालार् जङ्ग् वस्तुसङ्ग्रहालयः

एषः वस्तुसङ्ग्रहालयः विश्वे एव प्रसिद्धः अस्ति । भारते तृतीयः बृहत् सङ्ग्रहालयः एषः । एकेन सङ्गृहीतानि वस्तूनि ३५,००० अत्र सन्ति । सः एव सालारजङ्ग्-३ I एषः पितुः सकाशात् पितामहस्य सकाशात् च कतिचनवस्तूनि प्राप्तवान् । अनेकानि वस्तूनि स्वयं सङ्गृहीतवान् । कलात्मकानि वस्तूनि अत्र सन्ति । लेखनानां सङ्ग्रहः अपि अत्र अस्ति । ४० वर्षाणां परिश्रमस्य प्रयत्नेन एषः वस्तुसङ्ग्रहालयः सुव्यवस्थितः अभवत् ।

                                     

4.5. वीक्षणीयस्थलानि गोल्कोण्डदुर्गम्

ऐतिहासिकं दुर्गमेतत् पूर्वं वरङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान् क्वालि कुतुब् षाहे क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य १५९० तमे वर्ष पर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्ली सुल्तानसैन्यं विरुद्ध्य युद्धं कृतवान् ।

हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैट् शिलाभिः निर्मितं दुर्गं ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनानां राज्ञीवासः रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् ।

नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जलवितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जारबालाहिसारमुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् ।

प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादिशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति । १२० मीटर् उपरिप्रदेशे शब्दश्रवणं स्पष्टतया भवति । उपरिगन्तुं ३६० सोपानानि सन्ति ।

इतिहासानुसारं भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरं रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लिमार्गतः १४ कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बर्-मासतः फेब्रवरी-मासाभ्यान्तरं यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं द्रष्टुं शक्नुवन्ति । सायं ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।



                                     

4.6. वीक्षणीयस्थलानि रामोजी चित्रनगरी

हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलनच्चित्रनिर्माणकेन्द्रम् एतत् । १८०० हेक्टर् प्रदेशे व्याप्तं मनोरञ्जना स्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतं ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन् CPP Line स्टण्टशो स्थानानि अतीव कर्षकाणि सन्ति । प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति । सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रि जनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिका देशे रचितस्य वैल्ड् वेस्ट् नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति । युरेका पञ्चतारोपहारवसति गृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्यः, हनिमेक् फास्टफुड्, गङ्गाजमुना इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति । हैदराबाद् नगरतः ३५ कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषा चलनच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्ड जम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या ६२,२३,३७० अस्ति । फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबाद् नगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुडा समीपे वसति गृहाणि सन्ति । कोठी वाहननिस्थानतः २०५ सङ्ख्याकं वाहनं चलनच्चित्रनगरं गच्छति । रामोजी फिल्मसिटि दर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः ५०० सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले ९ वादनतः सायङ्काले ६ वादनम् । रायल् प्याकेज् टूर् व्यवस्था अस्ति ।



                                     

4.7. वीक्षणीयस्थलानि मार्गः

बेङ्गळूरु तः ५७४ कि.मी । चेन्नैतः ७९४ कि.मी । तिरुपतितः ७४१ कि.मी । विजयवाडातः २६० कि.मी । मुम्बयी तः ७३९ कि.मी । अन्यराज्यैः अपि वाहनसम्पर्कः अस्ति । समीपवाहननिस्थानानि जूबिलि, कोठि हाम्लिबिन् । धूमशकटवाहननिस्थानं काचिगुड्प्रदेशे अस्ति ।

                                     

4.8. वीक्षणीयस्थलानि विमानमार्गः

हैदराबाद् नगरम् आगन्तुं बेङ्गळूरु, चेन्नै, विशाखपट्टणम्, देहली, मुम्बयी, तिरुपतिः इत्यादि स्थानेभ्यः बेगम्पेट् विमानस्थानकं प्रति सम्पर्कविमानानि सन्ति ।



                                     

4.9. वीक्षणीयस्थलानि वाहनमार्गः

बेङ्गळूरु तः ५०० कि.मी । चेन्नै तः ७०४ कि.मी। विजयवाडतः २७३ कि.मी अस्ति।

                                     
  • अस त यद भव न भवत भ रतस य ह दर ब द - नगरस य व षय ज ञ त म इच छत तर ह ह दर ब द - नगरम भ रतम इत यत र गच छत अड व न मह दयस य श क षणम अत र अभवत
  • न बन ध ऽय भ रतद श इत व षय ल ख त अस त भ रतम इत ग रन थव षय मह भ रतम इत य तत पश यत भ रतम आध क र कर प ण भ रतमह र ज यम दक ष ण - जम ब द व प
  • ह दर ब द - रङ ग र ड ड मण डल च वर तन त अरण य - भ म य द वद र लभ यत र जम र ग र जम र ग च न र म त तम वर ष ह दर ब द - र ल म र ग
  • कडप प र वग द वर पश च मग द वर ग न ट र ह दर ब द कर नगरम खम मम क ष ण, कर न ल म हब ब नगरम म डक नल ग ण ड, न ल ल र न ज म ब द प रक शम
  • श स तस य ह दर ब द - र ज यस य अ श आस त स व ध नभ रत अन तर भ क त करणस य अनन तरमप त लङ ग ण ह दर ब द - र ज यस य एव प रद श आस त तम वर ष ह दर ब द - र ज यस य
  • इत य ख यस य म त र आस त म म त रत क रण त द स त म हम मद ख न इत यय ह दर ब द - नगरस य न ज म म र कमर उद द न न ज म उल म ल क इत यन न सह य द धमकर त
  • इन द र - मह नगर न वसन त इद नगरम एकस म न श लप रस थ स थ तम अस त इन द र - मह नगर मध यभ रतस य सर व ध क सम द ध नगरम अस त नगरम द म न म म बई
  • धर म वरन स थ नत प टपर त नगर गन त शक यत ब ङ गळ र च न न ह न द प र ह दर ब द इत य द नगर भ य व हनसम पर क अस त ब ङ गळ र त क म धर म वरत
  • ग प रम स न नघट ट त र रत नब द धल ञ छन न ग ण ट र त क म व जयव ड ह दर ब द इत य द नगर भ य व हनसम पर क अस त ग ण ट र मछल पट टणम र ग म च ल न स थ नत
  • श र र म क म कल इण डस ट र स म म बई, द हल ब ङ गळ र अजम र, च न न ह दर ब द झ स उज ज न, क लक त इत य द भ य नगर भ य र ल - य न न रतल म - नगर प र प त
  • ग व ल यर - नगर य व म नय न न सन त म म बई, द हल ब ङ गळ र च न न ह दर ब द झ स उज ज न, क लक त इत य द भ य नगर भ य ग व ल यर - नगर प रत र लय न न