ⓘ तिरुनेल्वेलीमण्डलम्. तिरुनेल्वेलीमण्डलं दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुनेल्वेलीनगरम् । अस्य मण्डलस्य वैशिष्ट्यम् इदं ..

                                     

ⓘ तिरुनेल्वेलीमण्डलम्

तिरुनेल्वेलीमण्डलं दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुनेल्वेलीनगरम् । अस्य मण्डलस्य वैशिष्ट्यम् इदं यत् तमिऴसाहित्ये उल्लिखिताः पञ्चविधाः भौगोलोकप्रदेशाः अपि अत्र दृश्यन्ते । कुरिञ्जि, मुल्लै, मरुदम्, नैदल्, पालै च । तिरुनेल्वेलिमण्डलं १७९० तमवर्षस्य सेप्टम्बरमासस्य प्रथमे दिने ब्रिटिश् सर्वकारस्य पक्षतः प्राचीन इण्डिया कम्पेन्या निर्मितम् । तदानीन्तने तिरुनेल्वेलीमण्डले अद्यतने तिरुनेल्वेली, तूत्तुकुडिमण्डले, विरुदुनगरमण्डलस्य, रामनाथपुरमण्डलस्य केचन भागाः च आसन् । राज्यस्य मण्डलेषु विस्तारदृष्ट्या अस्य मण्डलस्य द्वितीयं स्थानम् । तमिऴ् अभिजनाः इदं मण्डलं प्रीत्या ‘नेल्लै’ इति सूचयन्ति ।

                                     

1. इतिहासः

तिरुनेल्वेलीमण्डलस्य निर्माणदिनाङ्कः सेप्टम्बर् १ तिरुनेल्वेलीदिनम् इति आचर्यते । ब्रिटिश् प्राचीन इण्डिया कम्पेन्या अस्य ‘तिन्नेवेल्लिमण्डलम्’ इति नाम कृतम् । अस्य केन्द्रस्थानम् आदौ पाळैयंकोट्टैपत्तने आसीत्, यत्र पाळैयकाराणां विरुद्धं कार्याचरणसमये कम्पेन्याः सेनाकेन्द्रम् आसीत् ।

तिरुनेल्वेलीमण्डलस्य नामकरणे कारणत्रयं दृश्यते । मण्डलस्य बृहत्तमं नगरं तिरुनेल्वेलिः इत्येकम् । नायकानां नवाबानां च प्रशासने अयं प्रदेशः ‘तिरुनेल्वेलीसीमै’ इति ख्यातः इति द्वितीयम् । पाण्ड्यसाम्राज्यस्य दक्षिणराजधानी आसीद् इयम् इति तृतीयम् । मण्डले तिरुनेल्वेली पाळैयंकोट्टैनगरे यमलनगरत्वेन अभिवृद्धौ स्तः ।

विंशशतकस्य आदौ तिरुनेल्वेलीमण्डलस्य भागान् पृथक्कृत्य रामनाथपुरमण्डलं, विरुदुनगरमण्डलं च निर्मितम् । १९८६ तमे वर्षे पुनः इदं मण्डलं प्रशासनसौकर्यार्थं द्वेधा विभक्तम् । चिदम्बरनार् अद्यतनः तूत्तुकुडिः मण्डलम् एकम्, नेल्लै, कट्टबोम्मन् इत्यपरम् । ततः अस्य ‘तिरुनेल्वेली, कट्टबोम्मन-मण्डलम्’ इति, ततः पुनः ‘तिरुनेल्वेलीमण्डलम्’ इति नाम अभवत् ।

                                     

2. भौगोलिकम्

तिरुनेल्वेलीमण्डलं तमिऴ्नाडुराज्यस्य दक्षिणभागे अस्ति । अस्य उत्तरभागे विरुदुनगरमण्डलं, पश्चिमभागे पश्चिमघट्टपर्वताः, दक्षिणभागे कन्याकुमारीमण्डलं, पूर्वभागे तूत्तुक्कुडिमण्डलं च अस्ति । मण्डलस्य विस्तारः ६,८२३ चतुरश्रकिलोमीटर् ।

मण्डले पश्चिमघट्टस्य पर्वतप्रदेशाः सन्ति । ताम्रपर्णीनदी, अन्याः काश्चन लघ्व्यः नद्यः अत्र प्रवहन्ति । मण्डले बहवः रमणीयाः जलधाराः सन्ति । सर्वेषु ऋतुषु अस्मिन् मण्डले वृष्टिः भवति । वृष्टेः प्रमाणं ९५३.१ मिल्लीमीटर् आसीत्। २००५-२००६ वर्षे ईशान्यप्रावृषः, नैर्ऋत्यप्रावृषः च प्रभावेण अत्र वृष्टिः भवति । पश्चिमघट्टेभ्यः प्रवहन्तीनां पच्चैयार् प्रभृतीनां बहूनां नदीनां जलं कृषिकार्योपयोगि भवति । पच्चैयारनदी ताम्रपर्ण्याः उपनदी । ताम्रपर्णी, मणिमुत्तारुनद्योः बहवः जलबन्धाः सति, यत्र सङ्गृहीतं जलं कृषिकार्ये, विद्युदुत्पादने च उपयुज्यते । चित्तारनदी अपि अस्मिन् मण्डले प्रवहति । कोर्टल्लं जलधारा, मणिमुत्तारजलधारा च मण्डलस्य जलधारासु प्रमुखे ।

                                     

3. जनसंख्या

२०११ तमवर्षस्य जनगणनानुगुणं मण्डलस्य जनसंख्या ३,०७२,८८० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११६ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरसश्किलोमीटर् ४५८ ११९० प्रतिचतुरश्रमैल् अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६६% आसीत् । मण्डले पुं, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८२.९२% अस्ति ।

                                     

4. उपमण्डलानि

तिरुनेल्वेलीमण्डले द्वादश उपमण्डलानि सन्ति । तानि - १) तिरुनेल्वेलिः २) पाळैयंकोट्टै ३) शङ्करन्कोयिलः ४) अम्बासमुद्रम् ५) नङ्गुनेरिः ६) कडैयनल्लूरुः ७) राधापुरम् ८) तेङ्कासिः ९) शेङ्कोट्टै १०) अलङ्गुळम् ११) वीरकेरलम्बुदूरुः १२) शिवगिरिः

                                     

5. कृषिः वाणिज्यं च

इदं कृषिप्रधानमण्डलम् । प्रमुखतया तण्डुलानि, नारिकेलाः, कदल्यः, सम्बारपदार्थाः च अत्र रुह्यन्ते । समुद्रतीरे स्थितत्वात् मत्स्यग्रहणोद्यमः अपि अत्र प्रामुख्यं भजते । मण्डले ४०७ खनयः सन्ति । लैम्स्टोन्, ग्रानैट्, गार्नेट् साण्ड् इत्येते खनिजाः अत्र उत्पाद्यन्ते । वस्त्रोद्यमः, आहारपदार्थोद्यमः, अरण्यपदार्थोद्यमः च अत्र अभिवृद्धः अस्ति । नङ्गुनेरिप्रदेशे विशिष्ट आर्थिकवलयः २००१ तमे वर्षे आरब्धः ।

                                     

6. वीक्षणीयस्थलानि

वल्लियूरुः

राधापुरौपमण्डले कार्त्तिकेयस्य पत्न्याः श्रीवल्ल्याः नाम्ना ज्ञातम् इदं पत्तनम् अस्ति । अत्र मुरुगस्य देवालयः अस्ति । वल्लियूरुकुऴम् इति ज्ञातः तडागः अपि अस्ति ।

मरुत्तूरुः

पाळैयं कोट्टैतः १२ किलोमीटर् दूरे अयं ग्रामः अस्ति । अत्र ताम्रपर्णीनद्यां निर्मितः २.५ किलोमीटर् दीर्घः जलबन्धः अस्ति ।



                                     

6.1. वीक्षणीयस्थलानि नल्लैयप्परदेवालयः

अयं देवालयः तिरुनेल्वेलीपत्तने अस्ति । अयं देवालयः क्रिस्तीये ७०० वर्षे शिवभक्तस्य तिरुज्ञानसम्बन्धस्य कृतौ उल्लिखितः अस्ति । आदौ शिवस्य शक्त्याः च अत्र भिन्नौ देवालयौ पाण्ड्यैः निर्मितौ आस्ताम् । १७ शतके अनयोः देवालयोः सन्धिरूपः ‘सेङ्गलिमण्डपः’ निर्मितः । देवालयस्य गोपुराणि अपि सप्तदशशतकस्य प्रारम्भे निर्मितानि । दक्षिणभारतस्य बृहत्तमेषु देवालयेषु अयम् अन्यतमः ।

                                     

6.2. वीक्षणीयस्थलानि वल्लियूरुः

राधापुरौपमण्डले कार्त्तिकेयस्य पत्न्याः श्रीवल्ल्याः नाम्ना ज्ञातम् इदं पत्तनम् अस्ति । अत्र मुरुगस्य देवालयः अस्ति । वल्लियूरुकुऴम् इति ज्ञातः तडागः अपि अस्ति ।

                                     

6.3. वीक्षणीयस्थलानि नङ्गुनेरिः

तिरुनेल्वेलीपत्तनात् ३१ किलोमीटर् दक्षिणे विद्यमाने अस्मिन् पत्तने विष्णोः देवालयः अस्ति । महाविष्णुः अत्र तोटाद्रिनाथरूपेण आराध्यते । अयं देवालयः वनमामलैमठेन निरुह्यते । वैष्णवसम्प्रदायस्य दिव्यदेशेषु इदम् अन्यतमम् ।

                                     

6.4. वीक्षणीयस्थलानि मरुत्तूरुः

पाळैयं कोट्टैतः १२ किलोमीटर् दूरे अयं ग्रामः अस्ति । अत्र ताम्रपर्णीनद्यां निर्मितः २.५ किलोमीटर् दीर्घः जलबन्धः अस्ति ।

                                     

6.5. वीक्षणीयस्थलानि वीरवनल्लूरुः

अस्मिन् पत्तने विद्यमानः भूमिनाथस्वामिदेवालयः तमिऴ्नाडुराज्यस्य प्राचीनतमेषु देवालयेषु अन्यतमः । अत्र सुन्दरराजपेरुमाळ्देवालयः, कडयम्मन् देवालयः, सन्तानमारियम्मन् देवालयः, रङ्गनाथस्वामिदेवालयः चापि सन्ति ।

                                     

6.6. वीक्षणीयस्थलानि शङ्करन्कोयिल्

हरिहरयोः ऐक्यप्रतिपादके अस्मिन् देवालये शङ्करनारयणनामकः देवः अर्च्यते, यस्य शरीरे अर्धभागः हरेः, अपरार्धः च हरस्य । देवी गोमती अम्बाळ् । अयं देवालयः क्रिस्तीये ९०० तमे वर्षे उक्रमपण्ड्येन निर्मितः ।



                                     
  • भ रतस य तम ळ न ड र ज य क ञ चनमण डलम अस त त र न ल व ल मण डलम अस य मण डलस य क न द रम अस त त र न ल व ल नगरम
  • द न ड गलमण डलम र मन थप रमण डलम श वगङ ग मण डलम व र द नगरमण डलम त र न ल व ल मण डलम त त क ड मण डलम कन य क म र मण डलम त र प प रमण डलम तञ ज व र मण डलम
  • अस त अस य मण डलस य उत तरभ ग श वगङ ग मध र मण डल स त आग न यद श त र न ल व ल मण डलम अस त पश च म क रलर ज यम व यव य त न मण डल च अस त वर षस य
  • प र वभ ग आग न यद श च मन न रसम द रक क ष अस त पश च म न र ऋत य च त र न ल व ल मण डलम अस त मण डलस य व स त र चत रश रक ल म टर अस त त त त क ड मण डल
  • क रलर ज यस य त र वनन तप रमण डलम उत तर प र वत र च तम ऴ न ड र ज यस य त र न ल व ल मण डलम अस त आग न यद श बङ ग लसम द रस य मन न र सम द रक क ष गल फ
  • क यम बत त र मह नगर न म - स ब रह मण य जननम - ड स म बर एट टयप रम त र न ल व ल मण डलम तम ळ न ड भ रतम मरणम - सप टम बर वय व स
  • द न ड गलमण डलम र मन थप रमण डलम श वगङ ग मण डलम व र द नगरमण डलम त र न ल व ल मण डलम त त क ड मण डलम कन य क म र य ङ गलप ट तञ ज व र मण डलम तम ळ न ड र ज य
  • मण डलम च न न मण डलम तञ ज व र मण डलम त र च च र पळ ळ मण डलम त र न ल व ल मण डलम त र प प रमण डलम त र वण ण मल मण डलम त र वळ ळ र मण डलम त र व र र मण डलम
  • मण डलम च न न मण डलम तञ ज व र मण डलम त र च च र पळ ळ मण डलम त र न ल व ल मण डलम त र प प रमण डलम त र वण ण मल मण डलम त र वळ ळ र मण डलम त र व र र मण डलम
  • मण डलम च न न मण डलम तञ ज व र मण डलम त र च च र पळ ळ मण डलम त र न ल व ल मण डलम त र प प रमण डलम त र वण ण मल मण डलम त र वळ ळ र मण डलम त र व र र मण डलम