ⓘ काञ्चिपुरमण्डलम् भारतस्य तमिऴ्‌नाडुराज्यस्य ईशान्यदिशि काञ्चिपुरमण्डलम् अस्ति । अस्य केन्द्रस्थानं काञ्चिपुरपत्तनम् । जनसंख्यादृष्ट्या तमिऴ्‌नाडुराज्ये अस्य मण् ..

                                     

ⓘ काञ्चिपुरमण्डलम्

काञ्चिपुरमण्डलम् भारतस्य तमिऴ्‌नाडुराज्यस्य ईशान्यदिशि काञ्चिपुरमण्डलम् अस्ति । अस्य केन्द्रस्थानं काञ्चिपुरपत्तनम् । जनसंख्यादृष्ट्या तमिऴ्‌नाडुराज्ये अस्य मण्डलस्य द्वितीयस्थानम् ।

                                     

1. इतिहासः

- a UNESCO World Heritage Site"

क्रिस्तपूर्वकालादपि काञ्चिपुरस्य नाम प्रसिद्धम् अस्ति । पतञ्जलिकृते महाभाष्ये क्रि.पू. द्वितीयशतकम् अस्य उल्लेखः दृश्यते । ’मणिमेकलै’ तथा ’पेरुम्पनाट्टुपडै’ इत्येतयोः तमिऴ्‌काव्ययोः काञ्जिपुरं क्रिस्तपूर्वयुगे कथम् आसीत् इत्यस्य विस्तृतं वर्णनं दृश्यते । ’पत्तुपाट्टु’ इति सङ्गमसाहित्यभागे इदं पत्तनं २५०० वर्षेभ्यः प्राक् तोण्डैमन् इऴन्दिरायराजेन पालितम् इति उल्लिखितम् । काञ्जिपुरमण्डले पल्लवानां, चोळानां, विजयनगरराजानां तथा ब्रिटिष् जनानां प्रशासनम् आसीत् स्वातन्त्र्यपूर्वकाले । प्राचीनतमिऴ्देशविभागे इदं मण्डलं तोण्डैमण्डले अन्तर्भूतम् । काञ्जिपुरपत्तनं तोण्डैमण्डलस्य राजधानी आसीत् । क्रिस्तीयतृतीयशतकतः नवमशतकपर्यन्तं काञ्चिपुरं पल्लवानां राजधानी आसीत् । पल्लवाः उत्तरे कृष्णानद्याः आरभ्य दक्षिणे कावेरीनदीपर्यन्तं देशं शासितवन्तः । तेषां काले काञ्चिपुरे प्राकाराणां परिखाणां मार्गाणां देवालयानां च निर्माणम् अभूत् ।

क्रिस्तीयदशमशतकतः त्रयोदशशतकपर्यन्तं चोळानां प्रशासनम् आसीत् । ततः सप्तदशशतकपर्यन्तं विजयनगरसाम्राज्यस्य भागः आसीत् । काञ्चिपुरं तमिऴुदेशे प्रसिद्धम् अध्ययनकेन्द्रम् आसीत् । तथैव हिन्दूनां, बौद्धानां जैनानां च पवित्रम् इदं स्थलम् । ‘पुष्पेषु जाती नगरेषु काञ्चि नारीषु रम्भा श्रमिणां गृहस्थः । ’ वामनपुराणम् १२.५० इति काञ्चिपुरं श्रेष्ठनगरत्वेन प्रशस्यते । काञ्चिपुरस्य राजसु अन्यतमः महेन्द्रवर्मा -१ प्रकाण्डपण्डितः, सङ्गीतज्ञः, नाटककर्ता च आसीत् । युवान् ष्वाङ्ग् नामकः चीनादेशस्य प्रवासी क्रिस्तीये सप्तमशतके काञ्चिपुरम् आगतः । अस्य नगरस्य परिधिः ६ किलोमीटर् आसीत् इति सः वदति । अत्रत्याः जनाः वीर्येण, धर्मतत्परतया, न्यायप्रियतया, अध्ययनपरतया च प्रसिद्धाः आसन् इति सः वदति । बुद्धः इदं पत्तनं प्रति आगतः आसीत् इत्यपि सः वदति ।

ब्रिटिश्‌ शासनस्य काले काञ्चिपुरस्य ‘काञ्जीवरम्’ इति नाम अभूत् । तत्काले इदं मण्डलं द्विधा विभक्तम्। उत्तरभागः,दक्षिणभागः च इति । १७८८ तमे वर्षे अत्र प्रथमतया समाहर्ता कलेक्टर् नियुक्तः ब्रिटिश् प्रशासनेन । १७९० दशके क्लर्कः तथा बाल्फ़ोरः अत्र समाहर्तारौ आस्ताम् । १७९४ तः १७९९ पर्यन्तम् लियोनेल् प्लेसः समाहर्ता आसीत् । तस्य काले प्रसिद्धौ मधुरान्तक उत्तिरेमेरूरुतडागौ निर्मितौ । तदनन्तरं हाड्ज्सनः अत्र समाहर्ता आसीत् । तस्य निवासस्थलम् अद्यापि काञ्चिपुरे हाड्ज्सन्पेटनाम्ना प्रसिद्धम् अस्ति । नवदशशतके करुङ्गुऴि अस्य मण्डलस्य केन्द्रस्थानम् अभवत् । १८५९ तमे वर्षे गृहोद्यानं सैदापेट्टै केन्द्रस्थानम् अभवत् । १८५९ तः १९६८ पर्यन्तं सैदापेट्टै एव अस्य मण्डलस्य केन्द्रस्थानम् आसीत् । स्वातन्त्र्यानन्तरं काञ्चिपुरं चेङ्गलपाट्टुमण्डले आसीत् । ततः १९९७ तमवर्षस्य जुलै प्रथमदिनाङ्के चेङ्गलपाट्टु एम्जीआर् मण्डलं द्वेधा विभक्तम् । तदा काञ्चिपुरं तथा तिरुवळ्ळूरुमण्डले जाते ।

                                     

2. भौगोलिकम्

काञ्चिपुरमण्डलं तमिऴ्‌नाडुराज्यस्य ईशान्यसमुद्रतीरे अस्ति । अस्य पूर्वभागे बङ्गालसमुद्रः, पश्चिमभागे वेल्लूरु, तिरुवण्णामलैमण्डले, उत्तरदिशे तिरुवळ्ळूरु, चेन्नैमण्डले, दक्षिणे विल्लुपुरमण्डलं च अस्ति । अस्य मण्डलस्य विस्तारः ४,४३,२१० हेक्टेर्‌परिमितः । ५७ किलोमीटर् दीर्घः समुद्रतटः अस्ति । अस्य मण्डलस्य नदीषु पालार्‌नदी प्रमुखा ।

                                     

3. जनसंख्या

२०११ तमवर्षस्य जनगणनानुगुणं काञ्चिपुरमण्डलस्य जनसंख्या ३,९९०,८९७ । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या कडलूरु ५९ तमम् । जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२७ अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः ३८.६९% आसीत् । अत्र पुं, स्त्री अनुपातः १०००-९८५ अस्ति । साक्षरता ८५.२९% अस्ति ।

                                     

4. उपमण्डलानि

काञ्चिपुरमण्डले अष्ट उपमण्डलानि सन्ति

  • १. काञ्चिपुरम्
  • ४.चेङ्गलपाट्टु
  • ६.तिरुक्काऴुकुण्ड्रम्
  • ७. मधुरान्तकम्
  • ८.चेय्यूरु
  • ५.ताम्बरम्
  • २.श्रीपेरुम्बदूरु
  • ३.उत्तिरमेरूरु
                                     

5. कृषिः वाणिज्यं च

कृषिकार्यम् अस्य मण्डलस्य प्रमुखः उद्यमः । ४७% जनाः कृषिकार्यरताः सन्ति । व्रीहिः अत्र आरोप्यमानं प्रमुखं सस्यम् । कलायाः, इक्षुदण्डाः, धान्यानि, प्रियङ्गुसस्यानि च अपि अधिकतया उत्पाद्यन्ते । पालार्नदी, तडागाः कूपाश्च जलस्य प्रमुखमूलम् ।

कौशेयशाटिकानां वयनं काञ्जिपुरपत्तनस्य जनानां प्रमुखेषु उद्यमेषु अन्यतमम् । अतः इदं पत्तनं ’कौशेयपत्तनम्’ इति विख्यातम् । ४०० वर्षेभ्यः अपि देशस्य अत्युत्तमकौशेयशाटिकाः अत्र उत्पाद्यन्ते, अत्यन्तं जनप्रियाः च सन्ति । दक्षिणभारते कोऽपि विवाहः काञ्चिपुरशाटिकाः विना न प्रचलति इति प्रसिद्धिः अस्ति ।

राजधान्याः चेन्नैनगरस्य निकटे अस्ति इति कारणेन काञ्चिपुरे अनेकानि औद्यमिकसंस्थानानि सन्ति । ह्युण्डै, फ़ोर्ड्, मित्सुबिषि, नोकिया, साम्सङ्ग्, डेल्ल्, सैण्ट्-गोबैन् प्रभृतीनां बहूनां बृहत्संस्थानां उत्पादनशाखाः श्रीपेरुम्बदूरुसमीपे दृश्यन्ते । सङ्गणकक्षेत्रस्य प्रमुखानां टिसिएस्, इन्फ़ोसिस्, विप्रो, काग्निसेण्ट् इत्यादीनां संस्थानां कार्यालयाः अपि काञ्चिपुरमण्डले सन्ति । टिसिएस् तथा इन्फ़ोसिस् संस्थयोः महाकार्यालयौ स्तः, यत्र क्रमशः २२,००० तथा २५,००० उद्योगिनः कार्यरताः सन्ति ।



                                     

6.1. वीक्षणीयस्थलानि काञ्चिपुरम्

इदं देवालयनगरम् इत्येव ख्यातम् । अत्र दक्षिणभारतस्य प्रसिद्धपरम्पराणां देवालयाः सहस्रशः सन्ति । हिन्दूसम्प्रदायस्य सप्तसु पवित्रेषु मोक्षक्षेत्रेषु काञ्ची अपि अन्यतमा । तमिऴ्‌नाडुराज्यस्य प्रमुखाः शिवदेवालयाः, विष्णुदेवालयाः च अत्र सन्ति । विष्णोः वरदराज पेरुमाळ् मन्दिरं, शिवस्य एकाम्बरनाथमन्दिरं च बहुप्रसिद्धम् । कामाक्षीमन्दिरं, कुमारकोट्टं, कच्छपेश्वरमन्दिरं, कैलासनाथमन्दिरम् इत्यादीनि अत्रत्यानि प्रमुखमन्दिराणि । एकाम्बरनाथदेवालयस्य १९२ पादोन्नतं गोपुरं, वरदराजमन्दिरस्य शतस्तम्भमण्टपः च विजयनगरशिल्पकलायाः उज्ज्वलोदाहरणरूपेण तिष्ठतः । वरदराजदेवालयस्य शिल्पकलाकौशल्येन मोहितः ब्रिटिश् उपराजः राबर्ट् क्लैवः एतस्मै देवालयाय सुन्दराणि आभरणानि प्रदत्तवान् ।



                                     

6.2. वीक्षणीयस्थलानि वेदान्तङ्गल्

अत्रत्यं पक्षिधाम भारतस्य प्रमुखपक्षिधामसु अन्यतमम् । इदं काञ्चिपुरपत्तनतः ४८ किलोमीटर् दूरे अस्ति । अक्टोबर्‌मासतः मार्च्‌मासपर्यन्तं बहुदूरादागताः बहवः विदेशीयपक्षिणः अत्र द्रष्टुं शक्याः ।

                                     

6.3. वीक्षणीयस्थलानि मुत्तुक्काडु

बङ्गालसमुद्रस्य पृष्ठप्रवाहेण निर्मितं विशालं सरः इदम् । अत्र नौकायानस्य सर्फ़िङ्ग्‌क्रीडायाः च व्यवस्था अस्ति । इदं काञ्चिपुरपत्तनतः ८० किलोमीटर् दूरे अस्ति । तमिऴ्‌नाडुसर्वकारेण इदं स्थलं प्रवासिनः आकर्षयितुं तथा जलक्रीडानां केन्द्ररूपेण अभिवर्धितम् अस्ति । अत्र जलक्रीडायाम् आसक्तानां कृते प्रशिक्षणं प्रदर्शनं च आयोज्यते ।

                                     

6.4. वीक्षणीयस्थलानि मामल्लपुरम् महाबलिपुरम्

काञ्जिपुरस्य प्रमुखप्रवासिस्थानम् इदं पल्लवराजानां प्रशासने अभिवृद्धिं प्रापत् । चेन्नैनगरतः ६० किलोमीटर् दूरे अस्ति । द्राविडदेवालयनिर्माणशैल्याः उत्तमम् उदाहरणम् इदम् । अत्र बहवः शिलादेवालयाः सन्ति । युनेस्को द्वारा विश्वपरम्परास्थानम् इति अभिज्ञातम् अस्ति मामल्लपुरम् ।

                                     

6.5. वीक्षणीयस्थलानि कोव्‌लाङ्ग्

अयं चेन्नै नगरात् ४० किलोमीटर् दूरे मामल्लपुरमार्गे विद्यमानः मत्स्यग्राहिग्रामः । तत्र प्राचीनदुर्गस्य अवशेषाः सन्ति । अधुना तु तत्र विलासी समुद्रतीरावासः निर्मितः अस्ति । तरणार्थं, विण्ड् सर्फ़िङ्ग् क्रीडार्थं च अत्र व्यवस्था अस्ति । दर्गा तथा पुरातनं क्रैस्तमन्दिरम् अपि अत्र अस्ति ।

                                     

6.6. वीक्षणीयस्थलानि दक्षिणचित्रम्

दक्षिणभारतीयजीवनविधानस्य परम्परायाः च संरक्षणार्थं निर्मितम् इदम् । अस्मिन् ग्रामे दक्षिणभारतस्य भिन्नशैल्याः गृहाणि निर्मितानि सन्ति । तमिऴ्‌नाडु, कर्णाटकम्, केरळम्, आन्ध्रप्रदेशः इत्येतेषु १८-१९- २० तमशतकानां गृहाणां मार्गाणां च पुनर्निर्माणम् अत्र द्रष्टुं शक्यम् । चेन्नैतः २१ किलोमीटर् दूरे अस्ति दक्षिणचित्रम् ।

                                     

6.7. वीक्षणीयस्थलानि मकरतीरम् क्रोकोडैल् ब्याङ्क्

मामल्लपुरात् १४ किलोमीटर् दूरे इदं मकरसन्तानोत्पत्तिकेन्द्रं निर्मितम् अस्ति । अत्र षट् प्रभेदानां प्रायः ५००० मकराः अन्ये सरीसृपाः च पालिताः सन्ति । अत्र सर्पोद्यानम् अपि अस्ति । तस्मिन् विषहारकाणाम् उत्पादनं क्रियते । सर्पेभ्यः विषाहरणस्य प्रदर्शनमपि भवति अस्मिन् केन्द्रे ।



                                     
  • च न न मण डलम क ञ च प रमण डलम त र वळ ळ र मण डलम व ल ल र मण डलम त र वण ण मल मण डलम कडल र मण डलम व ऴ प प रमण डलम स ल मण डलम न मक कलमण डलम धर मप र मण डलम
  • बङ ग लमह सम द र उत तर, पश च म च त र वळ ळ र मण डलम अस त दक ष णद श क ञ च प रमण डलम अस त तमवर षस य जनगणन न ग ण च न न मण डलस य जनस ख य
  • तथ प एतय र मध य एक: एव तम ल न ड र ज यस य श सनम कर त च न न क ञ च प रमण डलम त र वळ ळ र मण डलम व ल रमण डलम त र वण ण मल मण डलम कडल र मण डलम व ऴ प प रमण डलम
  • ईर ड मण डलम कडल र मण डलम कन य क म र मण डलम कर र मण डलम क ञ च प रमण डलम क ष णग र मण डलम क यम बत त र मण डलम च न न मण डलम तञ ज व र मण डलम
  • च त त र मण डलम आन ध रप रद शर ज यम च न न मण डलम धर मप र मण डलम क ञ च प रमण डलम त र वण ण मल मण डलम   स ल मण डलम तम ऴन ड र ज यम व ऴ प प रमण डलम
  • च त त र मण डलम आन ध रप रद शर ज यम त र वळ ळ र मण डलम क ञ च प रमण डलम व ल ल र मण डलम   क ष णग र मण डलम त र वण ण मल मण डलम
  • ईर ड मण डलम कडल र मण डलम कन य क म र मण डलम कर र मण डलम क ञ च प रमण डलम क ष णग र मण डलम क यम बत त र मण डलम च न न मण डलम तञ ज व र मण डलम
  • ईर ड मण डलम कडल र मण डलम कन य क म र मण डलम कर र मण डलम क ञ च प रमण डलम क ष णग र मण डलम क यम बत त र मण डलम च न न मण डलम तञ ज व र मण डलम
  • त र वण ण मल मण डलम क ञ च प रमण डलम धर मप र मण डलम बङ ग ळ ख तसम द रम व ऴ प प रमण डलम   स ल मण डलम प रम बल र मण डलम कडल र मण डलम प ण ड च र मण डलम
  • ईर ड मण डलम कडल र मण डलम कन य क म र मण डलम कर र मण डलम क ञ च प रमण डलम क ष णग र मण डलम क यम बत त र मण डलम च न न मण डलम तञ ज व र मण डलम