ⓘ ईरोडमण्डलम् भारतस्य तमिऴ्नाडुराज्यस्य पश्चिममण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानम् ईरोडुनगरम् । १९९६ पर्यन्तम् इदं मण्डलं पेरियारमण्डलम् इति ज्ञातम् आसीत् । से ..

                                     

ⓘ ईरोडमण्डलम्

ईरोडमण्डलम् भारतस्य तमिऴ्नाडुराज्यस्य पश्चिममण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानम् ईरोडुनगरम् । १९९६ पर्यन्तम् इदं मण्डलं पेरियारमण्डलम् इति ज्ञातम् आसीत् । सेप्टम्बर् १७, १९७९ पर्यन्तम् ईरोडुमण्डलं कोयम्बत्तूरुमण्डलस्य भागः आसीत् । सुप्रसिद्धगणितज्ञस्य श्रीनिवासरामानुजस्य, समाजसुधारकस्य पेरियारस्य च जन्मस्थलम् ईरोडु ।

                                     

1. भौगोलिकम्

ईरोडुमण्डलस्य उत्तरभागे कर्णाटकराज्यस्य चामराजनगरमण्डलम् अस्ति । पूर्वदिशि कावेरीनदी प्रवहति । कावेर्याः अपरस्मिन् तीरे सेलं मण्डलं, नामक्कल् मण्डलं, करूरुमण्डलं च अस्ति । दक्षिणसीमायां तिरुप्पूरुमण्डलम् अस्ति । कोयम्बत्तूरुमण्डलम् तथा नीलगिरिमण्डलं च पश्चिमदिग्भागे स्तः ।

कावेरीनद्याः तिस्रः उपनद्यः भवानी, नोय्यल्, अमरावती च मण्डलस्य उत्तरभागे पर्वतेषु प्रवहन्ति । पालार् नदी अत्र प्रवहन्ती अपरा प्रमुखा नदी । पालार् नदी ईरोडुमण्डलस्य कर्णाटकराज्यस्य च सीमारूपेण प्रवहति । भवानीसागरजलबन्धः, कोडिवेरिजलबन्धः च मण्डले कृषिकार्यार्थं जलव्यवस्थां कल्पयतः । पश्चिमघट्टेषु अन्तर्भूताः अनेके पर्वताः अस्मिन् मण्डले सन्ति । तेषु प्रमुखाः चेन्निमलै, पच्चैमलै, पवऴमलै, पेरुमाळ्मलै, तलवुमलै, लक्कपुरपर्वतः च ।

                                     

2. जनसंख्या

२०११ जनगणनानुगुणं ईरोडुमण्डलस्य जनसंख्या २,२५९,६०८ । जनसंख्यादृष्ट्या भारतस्य ६४० मण्डलेषु ईरोडुमण्डलस्य २०० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्ररकिलोमीटर् ३९७ अस्ति १०३० प्रतिचतुरश्रमैल् । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.०५% आसीत् । अत्रत्यः पुं, स्त्री अनुपातः १०००-९९२, साक्षरताप्रमाणं च ७२.९६% ।

                                     

3. कृषिः वाणिज्यं च

कृषिः ईरोडुमण्डलस्य जनानां प्रमुखा जीविका । तण्डुलः, कलायः, कदली, कार्पासः, हरिद्रा, नारिकेलः, इक्षुखण्डः इत्येतानि मुख्यानि कृष्युत्पन्नानि । ईरोडुनगरं, हरिद्रानगरम् इत्येव विख्यातम् अस्ति । अत्र अत्यधिकप्रमाणस्य हरिद्रा रुह्यते । पाके उपस्करत्वेन, वस्त्रेषु वर्णकारकत्वेन च हरिद्रा उपयुज्यते ।

गोबिचेट्टिपाळैयं श्वेतकौशेय-कदली-नारिकेलोत्पादने प्रसिद्धम् । भारतदेशस्य प्रथमं स्वयञ्चालितं कौशेयतन्तूत्पादनकेन्द्रं गोबिचेट्टिपाळैये अस्ति । ईरोडुनगरं भारतस्य वैद्युतसीवनकेन्द्रम् इत्यपि ख्यातम् । अत्र वैद्युतसीवनेन निर्मितानां कार्पासशाटिका, शयनवस्त्र, वस्त्रकट, प्रोञ्छ, कटिवस्त्रादीनां विपणयः सन्ति ।

                                     

4. वीक्षणीयस्थलानि

भवानीसागरजलबन्धः

अयं जलबन्धः भवानीनद्यां निर्मितः । एषः गोबिचेट्टिपाळैयपत्तनात् ३५ किलोमीटर् दूरे अस्ति । अस्य जलबन्धस्य निर्माणकार्यं १९५३ तमे वर्षे समाप्तम् । अत्र बृहद् उद्यानम् अपि अस्ति ।

कोडिवेरिजलबन्धः

गोबिचेट्टिपाळैयात् १५ किलोमीटर् दूरे आनैकट्टुग्रामे अयं जलबन्धः अस्ति । एषः सप्तदशशतके मैसूरुमहाराजेन निर्मितः । भवानीनद्यां निर्मितः अयं जलबन्धः ।

                                     

4.1. वीक्षणीयस्थलानि भवानीसागरजलबन्धः

अयं जलबन्धः भवानीनद्यां निर्मितः । एषः गोबिचेट्टिपाळैयपत्तनात् ३५ किलोमीटर् दूरे अस्ति । अस्य जलबन्धस्य निर्माणकार्यं १९५३ तमे वर्षे समाप्तम् । अत्र बृहद् उद्यानम् अपि अस्ति ।

                                     

4.2. वीक्षणीयस्थलानि कोडिवेरिजलबन्धः

गोबिचेट्टिपाळैयात् १५ किलोमीटर् दूरे आनैकट्टुग्रामे अयं जलबन्धः अस्ति । एषः सप्तदशशतके मैसूरुमहाराजेन निर्मितः । भवानीनद्यां निर्मितः अयं जलबन्धः ।



                                     

4.3. वीक्षणीयस्थलानि सत्यमङ्गलवन्यप्राणिधाम

अन्दियूरुसंरक्षितारण्यप्रदेशः, सत्यमङ्गलवन्यप्राणिधाम च गोबिचेट्टिपाळैयतः २५ किलोमीटर् दूरे अस्ति । अत्र बहुविधाः प्राणिनः सस्यानि च जीवन्ति । पश्चिमघट्टप्रदेशस्य अस्मिन् अरण्ये अपरिमितं जीविवैविध्यं दृश्यते । अस्मिन् अरण्ये प्रायः २५०० गजाः वसन्ति । देशस्य बृहत्तमेषु गजनिवासप्रदेशेषु अयम् अपि अन्यतमः । इदम् अरण्यं व्याघ्रसुरक्षाकाननं भवेत् इत्यपि प्रयत्नः चलति । भारतीयचित्रव्याघ्रः, कृष्णसारङ्गः, मयूरः, कण्टकमृगः इत्यादयः अपि अत्र दृश्यन्ते ।

                                     

4.4. वीक्षणीयस्थलानि वेलायुधस्वामिदेवालयः

ईरोडुपत्तनात् २५ किलोमीटर् दक्षिणे शिवगिरिपत्तने अयं देवालयः अस्ति । अस्मिन् देवालये दक्षिणभारते तृतीयबृहत्तमः रथः अस्ति । चित्रापूर्णिमायाम् अत्र रथोत्सवः वैभवेन आचर्यते । अत्रत्या देवी पोन्कालियम्मन् । एषा कोङ्गु वेल्ललार् समुदायस्य कुलदेवता । पङ्गुनीमासे मीनमासे अस्याः देव्याः रथोत्सवः भवति ।

                                     

4.5. वीक्षणीयस्थलानि कोडुमुडिदेवालयः

तमिऴ्नाडुराज्यस्य कोङ्गुप्रदेशस्य सप्तसु तेवारस्थलेषु इदं षष्ठं स्थलम् । अत्र सुन्दरः नमच्चिवायप्पदिकं रचितवान् । अत्र ब्रह्मणः विष्णोः च पूजास्थलानि सन्ति । एतौ परमेश्वरस्य पूजां कृतवन्तौ, अतः अस्य देवालयस्य त्रिमूर्तिदेवालयः मुम्मूर्तिगळ् तलम् इत्यपि नाम ।

                                     
  • भ रतस य तम ळ न ड र ज य क ञ चनमण डलम अस त ईर डमण डलम अस य मण डलस य क न द रम अस त ईर डनगरम
  • व ऴ प प रमण डलम स ल मण डलम न मक कलमण डलम धर मप र मण डलम प द क क ट ट मण डलम ईर डमण डलम न लग र मण डलम क यम बत त र मण डलम कर र मण डलम त र च र पळ ळ मण डलम
  • व ऴ प प रमण डलम स ल मण डलम न मक कलमण डलम धर मप र मण डलम प द क क ट ट मण डलम ईर डमण डलम न लग र मण डलम क यम बत त र मण डलम त र च र पळ ळ मण डलम फखर प रम बल र मण डलम
  • स ल मण डलम ईर डमण डलम त र च र पळ ळ मण डलम न मक कलमण डलम   कर र मण डलम