ⓘ मणिपुरराज्यम् भारतस्य किञ्चन राज्यम् । ईशान्यभारते स्थितम् अस्ति एतद् राज्यम् । अस्य राज्यस्य राजधानी इम्फाल् नगरम् । मणिपुरस्य उत्तरदिशि नागाल्याण्ड्राज्यं, दक ..

                                     

ⓘ मणिपुरराज्यम्

मणिपुरराज्यम् भारतस्य किञ्चन राज्यम् । ईशान्यभारते स्थितम् अस्ति एतद् राज्यम् । अस्य राज्यस्य राजधानी इम्फाल् नगरम् । मणिपुरस्य उत्तरदिशि नागाल्याण्ड्राज्यं, दक्षिणे मिझोरां, पश्चिमदिशि असमराज्यं, पूर्वसीमायां च विद्यते । अस्य विस्तारः विद्यते २२, ३४७ चतरस्रकिलोमीटर्मितः ।

राज्यस्य उपत्यकाप्रदेशेषु निवसन्तः मीटीस्जनाः जनसङ्ख्यायाः ६०% सन्ति, किन्तु तैः आक्रान्तः भूभागः १०%मात्रम् । तेषां भाषा विद्यते मीटीलन् अथवा मणिपुरीभाषा । इयं भाषा १९९२ तमे वर्षे भारतसर्वकारस्य राष्ट्रियभाषासु अन्यतमा इति घोषिता अस्ति । यवनाः मीटी-पङ्गल्, कुकीजनाः, नागजनाः, पैट्स् अन्ये च जनसङ्ख्यायाः ४०% सन्ति ये सम्पूर्णस्य मणिपुरराज्यस्य ९०% भागम् आक्रामन्ति । मणिपुरं सूक्ष्मसीमायुक्तराज्यमिति मन्यते ।

                                     

1. परिचयः

मणिपुरस्य शाब्दिकार्थः आभूषणस्य भूमिः इति । भारतस्य स्वातन्त्र्यतः पूर्वमिदं राजशासने आसीत् । अनन्तरं भारतस्य केन्द्रशासितराज्यं जातम् । इम्फाल् अस्य राजधानी । अस्य राज्यस्य समग्रः प्रदेशः पर्वतमयः । वार्षिकी वर्षा ६५ अङ्ग्गुलिमिता । अत्र सामान्यतः ६०विधाः नागाजातीयाः तथा कूकीजातीयाः वसन्ति । अत्रत्याः जनाः सङ्गीते इतरकलासु च प्रवीणाः भवन्ति । अत्र अनेकाः भाषाः भाषन्ते । पर्वतप्रदेशेषु चायस्य उपत्यकासु धान्यस्य च वर्धनं भवति । मणिपुरमार्गेण एव बर्मादेशं प्रति भूमार्गः कल्पितः अस्ति ।

अस्मिन् राज्ये प्राकृतिकसंसाधनानां प्रचुरभण्डारः अस्ति । अत्रत्यं प्राकृतिकसौन्दर्यं नयनानन्दकरम् अस्ति । मनसः प्रसन्नताकरणे समर्थाः सुन्दराः जलपाताः सन्ति । विविधवर्णीयपुष्पाणां सस्यानि सन्ति । दुर्लभाः वनस्पतयः सन्ति । वैविध्यमयं जीवजगत् अस्ति । पवित्रम् अरण्यं सदा वहन्त्यः नद्यः सन्ति । पर्वतशिखरेषु प्रसृतं हरिद्वैभवम् अस्ति । वक्रगत्या प्रवहन्तः निर्झराः सन्ति । लोकटकनामकं सरोवरं अत्रत्यं प्रमुखं सरोवरम् । भौतिकाधारैः राज्यमेतत् द्विधा विभक्तुं शक्यते -घट्टप्रदेशः,उपत्यका चेति । परितः पर्वताः भवन्ति,मध्ये उपत्यका वर्तते । मणिपुरीशैल्या क्रियमाणं रासलीलानृत्यं जगत्प्रसिद्धम् अस्ति । मणिपुरीनृत्यम् अत्रत्यः विशिष्टः नृत्यप्रकारः । राज्यस्य कला तथा संस्कृतिः विश्वस्य मानचित्रे स्वस्थानं कल्पितवत्यौ स्तः ।

                                     

2. भौगोलिकम्

मणिपुर-राज्यस्य विस्तारः २२,३२७ चतुरस्रकिलोमीटर्मितः अस्ति । भारतस्य पूर्वभागे इदं राज्यम् अस्ति । अस्य राज्यस्य पूर्वदिशि म्यान्मार-देशस्य अन्ताराष्ट्रियसीमा, दक्षिणपश्चिमदिशि असमराज्यम्, उत्तरे नागालैण्ड्-राज्यं, दक्षिणपश्चिमदिशि मिजोराम-राज्यं च अस्ति । अस्य राज्यस्य महत्तमः भागः पर्वतीयः अस्ति । इदं राज्यं परितः पर्वताः सन्ति । तेषां पर्वतानाम् औन्नत्यं ८०० तः ३,००० मीटरमितं यावत् अस्ति । मणिपुर-राज्यस्य दक्षिणपूर्वदिशि शैलप्रस्थस्थलं वर्तते ।" इसो पीक” इत्ययं मणिपुर-राज्यस्य बृहत्तमः पर्वतः अस्ति । अयं पर्वतः २,९९४ मीटरमितः उन्नतः अस्ति ।

                                     

2.1. भौगोलिकम् नद्यः

इम्फाल-नदी, बराक-नदी च मणिपुर-राज्यस्य प्रमुखे नद्यौ स्तः । इम्फाल-नदी चिन-पर्वतात् प्रवहति । इयं नदी अन्ते म्यान्मार-देशस्य चिदिवन-नद्यां मिलति । बराक-नदी उत्तरतः दक्षिणपश्चिमदिशि प्रवहति । अन्ते ब्रह्मपुत्रा-नद्यां सम्मिलति । इरोल-नदी, नाम्बुल-नदी, थौबल-नदी च मणिपुर-राज्यस्य अन्यतमाः नद्यः सन्ति ।

                                     

2.2. भौगोलिकम् जलवायुः

मणिपुर-नगरस्य जलवायुः समशीतोष्णः अस्ति । अस्य राज्यस्य इम्फाल-मण्डले सामान्यतः वर्षामानं ९३३ मिलिमीटरमितम् अस्ति । तमेङ्गलाङ्ग-मण्डले इदं मानं २,५९५ मिलिमीटरमितं भवति । अस्य राज्यस्य तापमानं ० डिग्री सेल्सियस् मात्रातः ३६ डिग्री सेल्सियस् मात्रा-पर्यन्तं भवति । अस्मिन् राज्ये चतुष्प्रकारकाणि वनानि प्राप्यन्ते । उष्णकटिबन्धीयार्द्धचिररहितानि वनानि, उष्णकटिबन्धीयानि मानसूनवनानि, अर्द्धोष्णकटिबन्धीयानि चीड-वनानि, शुष्कशीतोष्णकटिबन्धीयवनानि च एतानि चत्वारि वनानि भवन्ति । एतेषु वनेषु" शिराय लिली” नामकं पुष्पं प्राप्यते । इदं पुष्पं" स्वर्गपुष्पम्” इति कथ्यते । सम्पूर्णे विश्वस्मिन् इदं पुष्पं कुत्रापि न प्राप्यते ।

                                     

3. इतिहासः

पं. जवाहरलाल नेहरू” इत्याख्येन मणिपुर-राज्याय" भारतस्य रत्नम्” इति सम्माननं प्रदत्तम् । मणिपुर-राज्यस्य राजधानी अपि" भारतस्य पुरुषः” इति कथ्यते । राज्यमिदम् उत्सवानां भूमिः अपि कथ्यते । मणिपुर-राज्यस्य इतिहासः अतीव प्राचीनः अस्ति ।" प्रथमशताब्द्यां मणिपुर-राज्यस्य स्थापना जाता” इति मन्यते । अस्य राज्यस्य इतिहासः परिवर्तनशीलः, गौरवपूर्णश्चास्ति । ई. स. १०७४ तमवर्षपर्यन्तं" काबब घाटी” इत्येतत् स्थलं मणिपुर-राज्ये सम्मिलितम् आसीत् । ई. स. १५४२ तमे वर्षे अस्य राज्यस्य विस्तारः कृतः । ई. स. १७६२ तमे वर्षे जयसिंह-राजा अस्य राज्यस्य शासकः आसीत् । तस्मिन् काले म्यान्मार-देशेन अस्मिन् राज्ये आक्रमणं कृतम् आसीत् । तदा जयसिंह-राज्ञा ब्रिटिश-शासकैः सह सन्धिः कृतः । तेन सन्धिना म्यान्मार-देशस्य आक्रमणं विफलं जातम् । अनन्तरम् ई. स. १८२६ तमे वर्षे याण्डबु-सन्धिः जातः । तेन युद्धं शान्तम् अभवत् । किन्तु मणिपुर-राज्यस्य जनानां समस्यायाः निवारणं न अभवत् । तेन कारणेन ब्रिटिश-सर्वकारेण मणिपुरं स्थानीयराज्यत्वेन घोषितम् आसीत् । ई. स. १८९१ तमे वर्षे इदं राज्यं ब्रिटिश्-सर्वकाराधीनम् आसीत् ।



                                     

4. जनसङ्ख्या

२०११ जनगणनानुगुणं मणिपुर-राज्यस्य जनसङ्ख्या २२,२१,७५६ अस्ति । अत्र १३,६९,७६४ पुरुषाः, १३,५१,९९२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः। अत्र पुं-स्त्री अनुपातः १०००-९८७ अस्ति । अत्र साक्षरता ७९.८३% अस्ति ।



                                     

5. राजनीतिः

मणिपुर-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ६० स्थानानि सन्ति । राज्येऽस्मिन् लोकसभायाः द्वे स्थाने, राज्यसभायाः एकं स्थानम् अस्ति । ई. स. १९७२ तमे वर्षे सर्वकारेण मणिपुर-राज्यं पूर्णराज्यत्वेन स्वीकृतम् आसीत् । तस्मिन्नेव वर्षे मणिपुर-राज्याय" विशेषराज्यस्य स्थानं प्रदत्तम् ।" फेडरल् पार्टी ऑफ् मणिपुर”," मणिपुर स्टेट् कॉङ्ग्रेस् पार्टी”," भारतीय राष्ट्रीय कॉङ्ग्रेस् पक्ष”," भारतीय जनता पक्ष”," कम्युनिस्ट् पार्टी ऑफ् इण्डिया”," मणिपुर पीपुल्स् पार्टी” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति ।

                                     

6.1. महानगराणि इम्फाल

इम्फाल-नगरं मणिपुर-राज्यस्य राजधानी अस्ति । द्वितीयविश्वयुद्धस्य इतिहासे इम्फाल-नगरस्य उल्लेखः प्राप्यते ।" काङ्गला-दुर्गः” इम्फाल-नगरस्य प्रमुखं पर्यटनस्थलं वर्तते । इम्फाल-नगरस्य" खामीर बन्द बाजार” इत्ययं हट्टः अपि दृष्टव्यः ।" इमा किथेल” अस्य नगरस्य अपरः हट्टः वर्तते । स्त्रियः अस्य हट्टस्य सञ्चालनं करोति । अत्र पोलो-क्रीडायाः क्रीडाङ्गणम् अस्ति । साम्प्रतमपि इदं सक्रियम् अस्ति ।" कैबुल-लामजो-राष्ट्रियोद्यानम्”, मोइराङ्ग, एण्ड्रो, सेकता च इत्यादीनि मणिपुर-राज्यस्य वीक्षणीयस्थलानि सन्ति । द्वितीयविश्वयुद्धानन्तरम् इम्फाल-नगरं मणिपुरराज्यस्य राज्ञः राजधानी आसीत् । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरमपि इम्फाल-नगरम् आङ्ग्लशासकानाम् आधिपत्ये आसीत् ।" यम्फाल” इति शब्देन" इम्फाल” नामकरणम् अभवत् । यम्फाल इत्यस्य अर्थः" ग्रामाणां भूमिः” इति । इदं नगरं परितः पर्वताः सन्ति । ते पर्वताः दुर्गः इव अस्य नगरस्य रक्षणं कुर्वन्ति । अस्य नगरस्य समीपे बहव्य नद्यः प्रवहन्ति । इम्फाल-नगरस्य प्राकृतिकं सौन्दर्यम् अपि मनोहरम् अस्ति । इदं नगरं वन्यसौन्दर्याय प्रसिद्धम् अस्ति । अस्मिन् नगरे प्राचीनावशेषाः, मन्दिराणि, स्मारकाणि च सन्ति । अतः पर्यटकाः, इतिहासकाराः नगरे आकृष्टाः भवन्ति । युद्ध-स्मारकाणि इम्फाल-नगरस्य महत्त्वपूर्णानि स्थलानि सन्ति । नगरेऽस्मिन् बह्व्यः जातयः निवसन्ति । काबुईस, टाङ्गखुल्स्, पाइते च इत्यादयः जनजातयः निवसन्ति । अस्मिन् नगरे मारवाडीजनाः, पञ्जाबीजनाः, बिहारीजनाः, बङ्गालीजनाः चापि निवसन्ति ।" मेइतिलोन”" मणिपुरी” वा अस्य नगरस्य प्राथमिकभाषा वर्तते । आङ्ग्ल्, हिन्दी, तिब्बती, बर्मी च इत्यादिभिः भाषाभिः अपि व्यवहरन्ति जनाः । अस्य नगरस्य जलवायुः सुखदः, शान्तः च भवति । अतः ग्रीष्मर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति ।

इम्फाल-नगरं भूमार्गेण मणिपुर-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं नगरं गुवाहाटी-नगरात् ४७९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गेण, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण च सह सम्बद्धम् अस्ति । इम्फाल-नगरात् दीमापुर-नगरं २०८ किलोमीटर्मिते दूरे स्थितम् अस्ति । बसयानैः, भाटकयानैः इम्फाल-नगरं गन्तुं शक्यते । इम्फाल-नगरे रेलस्थानकं नास्ति । अस्य नगरस्य समीपे अपि रेलस्थानकम् नास्ति । दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम अस्ति । इम्फाल-नगरे एकं विमानस्थानकम् अस्ति । इम्फाल-नगरात् विमानस्थानकं ८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुख-नगरैः सह सम्बद्धम् अस्ति । इम्फाल-विमानस्थानकात् गुवाहाटी-नगराय, आइजोल-नगराय, बेङ्गळूरु-महानगराय, सिलचर-नगराय च इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।



                                     

6.2. महानगराणि तमेङ्गलाङ्ग

तमेङ्गलाङ्ग-नगरं मणिपुर-राज्यस्य तमेङ्गलाङ्ग-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् अत्यन्तं सुन्दरम् अस्ति । मण्डलस्यास्य सांस्कृतिकं, प्राकृतिकं च वैशिष्ट्यम् अपि अद्भुतम् अस्ति । अस्मिन् मण्डले पशूनां, वनस्पतीनां च विभिन्नप्रजातयः प्राप्यन्ते । मण्डलमिदं मणिपुर-राज्यस्य पश्चिमदिशि स्थितम् अस्ति । अस्य मण्डलस्य पूर्वोत्तर-दिशि सेनापति-मण्डलं, दक्षिणदिशि चुराचाँदपुरमण्डलं, पश्चिमदिशि इम्फाल-मण्डलं च स्थितम् अस्ति । २०११ वर्षस्य जनगणनानुसारं तमेङ्गलाङ्ग-मण्डले सर्वेषु राज्येषु न्यूनतमा जनसङ्ख्या अस्ति । तमेङ्गलाङ्ग-नगरं परितः पर्वताः सन्ति । अतः नियमितरूपेण तत्र भूस्खलनानि भवन्ति । बराक-नदी, सप्तजलप्रपाताः, थारोन-गुहा, जिलाद-तडागः च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्मिन् मण्डले उष्णकटिबन्धीय-वनानि, उपोष्णकटिबन्धीय-वनानि च सन्ति । अस्मिन् मण्डले जेलियनग्रोङ्ग् नागा, कुकी च इत्यादयः जनजातयः निवसन्ति । मण्डलेऽस्मिन्" ऑरेञ्ज् फेस्टिवल्”," रिह-नगई” चगा नगई," बनरुहमेई”," तरङ्ग” च इत्येते उत्सवाः आचर्यन्ते । अक्टूबर-मासतः मार्च-मासपर्यन्तः कालः अस्य मण्डलस्य भ्रमणाय अत्युत्तमः अस्ति । तत्र शैत्यम् अपि अधिकं भवति ।

तमेङ्गलाङ्ग-नगरं ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः तमेङ्गलाङ्ग-मण्डलस्य भ्रमणं कर्तुं शक्यते । तमेङ्गलाङ्ग-नगरे रेलस्थानकं नास्ति । अतः नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकं तमेङ्गलाङ्ग-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तमेङ्गलाङ्ग-नगरात् दीमापुर-नगरं ३७३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । तमेङ्गलाङ्ग-नगरात् इम्फाल-नगरं १५८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया सेनापति-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

6.3. महानगराणि बिष्णुपुर

बिष्णुपुर-नगरं मणिपुर-राज्यस्य सांस्कृतिकी, धार्मिकी च राजधानी वर्तते । भगवतः विष्णोः निवासः अस्मिन् नगरे अस्ति । अतः इदं नगरं बिष्णुपुरम् इति कथ्यते । पुरा इदं नगरं" लुम्लङ्गडोङ्ग” इति नाम्ना ज्ञायते स्म । इदं नगरं बिष्णुपुर-मण्डलस्य मुख्यालयः अस्ति । अस्य मण्डलस्य उत्तरदिशि सेनापति-मण्डलं, पश्चिम-दिशि इम्फाल-मण्डलं, चुराचाँदपुर-मण्डलं च, दक्षिणपूर्वदिशि चन्देल-मण्डलं, पूर्वदिशि थौबाल-मण्डलं च स्थितम् अस्ति । थाङ्गजरोक-नद्याः तटे स्थितम् अस्ति इदं नगरम् । इदं नगरं बिशेनपुरम् अपि कथ्यते । अस्मिन् मण्डले मृगाः प्राप्यन्ते । ते नृत्यं कुर्वन्ति । तत्र लोकटक-तडागः वर्तते । अयं मृदुजलयुतः तडागः अस्ति । मण्डलेस्मिन्" केइबुल-लम्जाओ-राष्ट्रियोद्यानम्” अस्ति । इदम् उद्यानं परितः लोकटक-तडागः अस्ति । अस्य मण्डलस्य एकस्मिन् सङ्ग्रहालये" सुभाषचन्द्र बोस” इत्याख्यस्य स्वातन्त्र्यक्रान्तिकारिणः अवशेषाः सन्ति । बिष्णुपुर-मण्डले बह्व्यः जनजातयः निवसन्ति । तासु" मेईटी” जनजातिः प्रमुखा वर्तते । अस्याः जनजातेः जनाः हिन्दुधर्मम् अनुसरन्ति । अस्य मण्डलस्य जनाः कृष्याधारिताः सन्ति ।" लाई हरोबा” इत्ययम् उत्सवः अस्य मण्डलस्य प्रमुखोत्सवः अस्ति । अयमुत्सवः प्रतिवर्षं मई-मासे आचर्यते । अक्टूबर-मासतः फरवरी-मासपर्यन्तं बिष्णुपुर-नगरस्य भ्रमणस्य उत्तमः कालः अस्ति ।

बिष्णुपुर-नगरं १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं मार्गः बिष्णुपुर-नगरम् इम्फाल-नगरेण सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः बिष्णुपुर-मण्डलस्य भ्रमणं कर्तुं शक्यते । बिष्णुपुर-नगरे रेलस्थानकं नास्ति । अतः नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकं बिष्णुपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । बिष्णुपुर-नगरात् दीमापुर-नगरं २३६ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । बिष्णुपुर-नगरात् इम्फाल-नगरं २७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया बिष्णुपुर-नगरं प्राप्तुं शक्नुवन्ति । बिष्णुपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।



                                     

6.4. महानगराणि सेनापतिः

सेनापति-नगरं मणिपुर-राज्यस्य सेनापति-मण्डलस्य मुख्यालयः अस्ति । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् अपि अद्भुतम् अस्ति ।" मारम खुल्लेन”," याङ्गखुल्लेन”," माओ लिईयाई”," मक्खेल”," पुरूल”," कौब्रु-पर्वतः”," हाउडू कोईडे बिसो” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । अस्मिन् नगरे विभिन्नाः वनस्पतयः, जीवाः प्राप्यन्ते । अस्य क्षेत्रस्य ८० प्रतिशतं क्षेत्रं वनक्षेत्रं वर्तते । अस्मिन् क्षेत्रे ओषधयः अपि प्राप्यन्ते ।" माओ”," ताङ्गखुल”," माराम”," कुकी”," जीमाई”," वाइफेरी”," चिरू”," चोटथे”," मीटी” इत्यादयः अस्य मण्डलस्य जनजातयः सन्ति । सर्वेषां समुदायानां संस्कृतिः अपि भिन्ना अस्ति । अस्मिन् मण्डले ईसाई-धर्मानुयायिनः प्रमुखाः सन्ति । हिन्दु-धर्मानुयायिनः, इस्लाम-धर्मानुयायिनः चापि निवसन्ति । अस्मिन् नगरे पर्यटनस्थलानि अपि बहूनि सन्ति । अतः जनाः तत्र गच्छन्ति ।

सेनापति-नगरं ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । इम्फाल-नगरेण, गुवाहाटी-नगरेण, दीमापुर-नगरेण च इदं नगरं सम्बद्धम् अस्ति । सेनापति-नगरम् इम्फाल-नगरात् ६२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरस्य रेलस्थानकम् अस्य समीपस्थं रेलस्थानकम् अस्ति । सेनापति-नगरात् दीमापुर-नगरं १४५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं देहली-नगरेण, कोलकाता-नगरेण, गुवाहाटी-नगरेण, चेन्नै-नगरेण च सम्बद्धम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । सेनापति-नगरात् इम्फाल-नगरं ६९ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण जनाः सरलतया सेनापति-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

7. शिक्षणम्

२०११ वर्षस्य जनगणनानुसारं मणिपुर-राज्यस्य साक्षरतामानं ७९.८३ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८६.४९ प्रतिशतं, स्त्रीणां साक्षरतामानं ७३.१७ प्रतिशतं च अस्ति । मणिपुर-राज्ये भारतस्य एकः एव" केन्द्रीयकृषिविश्वविद्यालयः Central Agricultural University” स्थितः अस्ति । अयं विश्वविद्यालयः इम्फाल-नगरे विराजते । इम्फाल-नगरे" मणिपुर-विश्वविद्यालयः” अपि अन्यतमः अस्ति । एते मणिपुर-राज्यस्य प्रमुखे शैक्षणिकसंस्थाने स्तः ।



                                     

8. अर्थव्यवस्था, कृषिः च

मणिपुर-राज्यस्य ८० प्रतिशतं जनाः कृष्याधारिताः सन्ति । तण्डुलाः, लवेटिका च अस्य राज्यस्य प्रमुखे सस्ये स्तः । राज्यस्य ७२ प्रतिशतं क्षेत्रे तण्डुलाः उत्पाद्यन्ते । सामान्यतः पर्वतेषु सोपानात्मकानि कृषिक्षेत्राणि भवन्ति । केचन आदिवासिनः मांसप्राप्त्यर्थं पशून् पालयन्ति । तेषां पशूनाम् उपयोगः दुग्धप्राप्त्यर्थं, भारवाहनाय च न क्रियते । राज्येऽस्मिन् विभिन्नफलानाम् उत्पादनम् अपि क्रियते । नारङ्गफलं, कदलीफलम्, अनास-फलम्, अमृतफलं, पूराम्ल-फलं, काजूतकं, पूगी-फलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति ।

                                     

9. उद्योगाः

कृषिः, कृषिसम्बद्धाः उद्योगाः मणिपुर-राज्यस्य अर्थव्यवस्थायाः आधारभूताः सन्ति । अस्मिन् राज्ये प्रायः ६,००० लघुबृहदुद्योगाः सन्ति । हस्तनिर्मितानां वस्तूनाम् उद्योगः अस्य राज्यस्य बृहत्तमः उद्योगः अस्ति । वैद्युतकोद्योगानां Electronic, कृतकोद्योगानां Plastic च प्रशिक्षणाय इम्फाल-नगरे" इलेक्ट्रॉनिक् डिजाइन् एवं टेक्नोनॉजी केन्द्र”," केन्द्रीय प्लास्टिक् इञ्जीनियरिङ्ग् संस्थान” इत्येतयोः संस्थानयोः स्थापना कृता । ई. स. १९९३ तमे वर्षे केन्द्रसर्वकारेण स्थापितेन पुणे-नगरस्य" हिन्दुस्तान एण्टीबायोटिक्स् लिमिटेड्” इत्यस्याः संस्थायाः साहाय्येन इम्फाल-मण्डलस्य नीलकुटी-नगरे" मणिपुर ड्रग् एण्ड् फार्मास्यूटिकल् लिमिटेड्” इति संस्था स्थापिता ।

                                     

10. कला, संस्कृतिश्च

मणिपुरी-नृत्यम् अस्य राज्यस्य शास्त्रीयनृत्यम् अस्ति । रास-नृत्यम् अस्य राज्यस्य सर्वप्रथमं नृत्यम् अस्ति । इदं नृत्यं चतुष्टयं भवति । मद्यरास-नृत्यं, कुञ्जरास-नृत्यं, बसन्तरास-नृत्यं, नटरास-नृत्यं च । एतेषु नृत्येषु कृष्ण-गोपीनां सङ्ख्या प्रायः अष्ट भवति ।" थबल चोङ्गबा” मणिपुर-राज्यस्य लोकनृत्यम् अस्ति ।" थबल चोङ्गबा” इत्यर्थः" चन्द्रिकायां नृत्यम्” इति ।" नट” इति मणिपुर-राज्यस्य शास्त्रीयसङ्गीतम् अस्ति । इदं सङ्गीतं विवाहादिप्रसङ्गेषु गीयते । मनोहर-सङ्गीतं, धोब-गीतं च लोकसङ्गीतेषु प्रमुखं विद्यते । राज्यमिदं पोलो-क्रीडायाः उत्पत्तिस्थानं मन्यते । पूर्वोत्तरदिशः राज्येषु केवलं मणिपुर-राज्ये एव हिन्दु-वैष्णवधर्मयोः मतानि सन्ति । मणिपुरी-भाषा" मैतेई” इत्यपि कथ्यते । साम्प्रतं मणिपुरवासिनः बङ्गला-लिपेः प्रयोगं कुर्वन्ति ।" डॉ. कमल”," हिजम अङ्गाहल” एतौ मणिपुर-राज्यस्य उपन्यासकारौ स्तः ।

राज्यमिदम्" उत्सवानां भूमिः” कथ्यते ।" निङ्गोली चकौबा याओशाङ्ग”," चुम्फा”," काङ्ग”," क्रिसमस”," चाईरोबा”," गङ्ग नागी” इत्यादयः मणिपुर-राज्यस्य प्रमुखाः उत्सवाः सन्ति । चाईरोबा-उत्सवः मणिपुरी-वर्षस्य अन्तिमे दिवसे आचर्यते । अस्मिन् उत्सवे जनाः नूतनवस्त्राणि धरन्ति । याओशाङ्ग-उत्सवः मणिपुर-राज्यस्य बृहत्तमः उत्सवः अस्ति । अयमुत्सवः पञ्चदिवसात्मकः भवति । रथायात्रा अपि अस्य राज्यस्य प्रमुखं पर्व अस्ति । इदं जून-मासे आयोज्यते ।

                                     

11. वीक्षणीयस्थलानि

मणिपुर-राज्यं" भारतस्य आभूषणं”," पूर्वदिशः स्विट्जरलैण्ड्” च कथ्यते । अस्मिन् राज्ये मनोहराणि प्राकृतिकदृश्यानि, नद्यः, पर्वताः, वनानि च सन्ति । अस्मिन् राज्ये पर्यटकेभ्यः नैकानि वीक्षणीयस्थलानि सन्ति ।" श्री गोविन्द जी मन्दिरं”," खारीम बन्ध बाजार”," युद्ध कब्रिस्तान”," शहीद मीनार”," नुपी सान महिलानां युद्धम्”," मेमोरियल् कॉम्लोर् क्सा”," खोङ्घापत-उद्यानम्”," आई एन् ए मेमोरियल्”," लोकटक-तडागः”," कीबुल लामजो राष्ट्रियोद्यानं”," विष्णुपुर-नगरस्य विष्णुमन्दिरं”," सेण्ड्रा”," मोरेह सिराय - ग्रामः”," सिराय-पर्वताः”," डूको घाटी”," कैना पर्यटक निवास”," खोङ्गजोम वार मेमोरियल्” इत्यादीनि मणिपुरराज्यस्य महत्त्वपूर्णानि पर्यटनस्थलानि सन्ति ।

                                     

11.1. वीक्षणीयस्थलानि थौबल

थौबल-नगरं मणिपुर-राज्यस्य थौबल-मण्डलस्य मुख्यालयः विद्यते । इदं नगरं मणिपुर-राज्यस्य अन्यनगराणाम् अपेक्षया विकासशीलम् अस्ति । थौबल-नद्याः तटे स्थितम् इदं नगरम् । इम्फाल-नदी अपि अस्य नगरस्य समीपे प्रवहति । पनथोईबी, चिङ्गा लैरेनभी-मन्दिरं, तोमजिङ्ग चिङ्ग, मणिपुरसाहित्यसमितिः च अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य हट्टेषु हस्तकलायाः प्रदर्शिन्यः दृश्यन्ते । हस्तनिर्मितानि विशिष्टोत्पादनानि अपि प्राप्यन्ते । अस्य नगरस्य समीपे बहवः तडागाः, बह्व्यः नद्यः च सन्ति । नगरेऽस्मिन् व्रीहीणां क्षेत्राणि सन्ति । थौबल-मण्डलस्य कृषिकार्याय प्रसिद्धम् आसीत् । अस्मिन् नगरे मुख्यत्वेन तण्डुलानां, सर्षपाणां, आलूकानां, विभिन्नफलानां, कौशेयस्य च उत्पादनं क्रियते । वर्षर्तोः अनन्तरम् इदं स्थलं विहाराय श्रेष्ठम् अस्ति । भारतस्य विभिन्नगरेभ्यः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

थौबल-नगरं १०२ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः थौबल-नगरं भारतस्य विभिन्ननगरैः सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । थौबल-नगरे रेलस्थानकं नास्ति । किन्तु दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं थौबल-नगरात् २३० किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-नगरात् गुवाहाटी-नगराय नियमितरूपेण रेलयानानि प्राप्यन्ते । दीमापुर-नगरात् बसयानैः भाटकयानैः वा थौबल-नगरं प्राप्यते । इम्फाल-नगरस्य विमानस्थानकं थौबल-नगरस्य समीपस्थं विमानस्थानकमस्ति । इदं विमानस्थानकं थौबल-नगरात् ३० किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः बेङ्गळूरु-महानगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण थौबल-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया थौबल-नगरम् प्राप्तुं शक्नुवन्ति ।

                                     

11.2. वीक्षणीयस्थलानि चुराचांदपुरम्

चुराचांदपुर-नगरं मणिपुर-राज्यस्य चुराचांदपुर-मण्डलस्य मुख्यालयः अस्ति । मणिपुर-राज्ये इदं नगरं" लामका” इति ज्ञायते । लाम, का च इत्याभ्यां शब्दाभ्याम् अस्य शब्दस्य निष्पत्तिः जाता ।" लाम” इत्यस्य अर्थः" मार्गः”," का” इत्यस्यार्थः" सन्धिस्थलं” च भवति । इम्फाल-नगरात् चुराचांदपुर-नगरं ५९ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे नैकानि वीक्षणीयस्थलानि सन्ति । खूगा-जलबन्धः, जनजातीय-सङ्ग्रहालयः, नगालोइ- जलप्रपातः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । इदं नगरं मणिपुर-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयम् अस्ति । इदं नगरं शान्तम् अस्ति । प्रत्येकसमुदायस्य जनाः सौहार्द्रपूर्णाः, व्यावहारिकः, भावुकाः च सन्ति । तत्र सिमते, पैते, गङ्गते, जोउ, वाइफी, लूसी, सुकते च इत्यादयः समुदायाः निवसन्ति । केभ्यश्चिद् वर्षेभ्यः प्राग् अस्य नगरस्य जनाः कृष्याधारिताः आसन् । किन्तु समयान्तरे जनाः व्यावसायिकक्षेत्रे प्रगतिशीलाः अभवन् । यदा पूर्वोत्तर-दिशः जापानी-जनाः भारतं समागतवन्तः, तदा चुराचांदपुर-नगरम् अपि जापानी-जनैः नाशितम् । तथापि साम्प्रतम् इदं नगरं शान्तिप्रियम् अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं चुराचांदपुर-नगरं जनाः गच्छन्ति ।

चुराचांदप्पुर-नगरं १५० क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राजमार्गः चुराचांद-नगरम् इम्फाल-नगरेण सह सञ्योजयति । मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य नगरस्य समीपस्थानि स्थलानि गन्तुं प्राप्यन्ते । चुराचांदपुर-नगरे रेलस्थानकं नास्ति । अतः दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् अस्मात् नगरात् १७२ किलोमीटरमिते दूरे स्थितम् अस्ति । दीमापुर-रेलस्थानकात् मणिपुर-राज्यस्य, भारतस्य च विभिन्ननगरैः रेलयानानि प्राप्यन्ते । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इम्फाल-नगरात् बसयानैः, भाटकयानैः च चुराचांदपुर-नगरं गन्तु शक्यते । यात्रिकाः सरलतया चुराचांदपुर-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

11.3. वीक्षणीयस्थलानि चन्देल

चन्देल-नगरं मणिपुर-राज्यस्य चन्देल-मण्डलस्य केन्द्रं विद्यते । इदं नगरं भारत-म्यानमार-देशयोः सीमायां स्थितम् अस्ति । नगरमिदम् म्यान्मार-देशाय प्रवेशद्वारम् अस्ति । ई. स. १९७४ तमे वर्षे चन्देल-मण्डलस्य निर्माणम् अभवत् । तदा अस्य नाम" तेङ्ग्नौपल” इति नाम आसीत् । किन्तु ई. स. १९८३ तमे वर्षे अस्य नाम" चन्देल” इति कृतम् । चन्देल-मण्डले मणिपुर-राज्यस्य न्यूनतमा जनसङ्ख्या अस्ति । इदं मण्डलम् अविकसितम् अस्ति । अतः प्रतिवर्षं सर्वकारेण आर्थिकसाहाय्यं दीयते । केन्द्रियसर्वकारेण" ट्रान्स् एशियन् सुपर् हाईवे प्रोजेक्ट्” एका परियोजना आरब्धा । तया परियोजनया चन्देल-नगरं महत्त्वपूर्णं नगरं भवितुं शक्यते । अस्मिन् मण्डले नैकधा ओषधयः, वनस्पतयः च प्राप्यन्ते । मण्डलेऽस्मिन् विभिन्नाः पशवः अपि प्राप्यन्ते । तेषु" हुलोक् गिबन” इति नामकः वानरः प्राप्यते । अयं वानरः केवलम् अस्मिन् मण्डले एव प्राप्यते । अस्य मण्डलस्य जैववैविध्यं जनान् आकर्षति । भारतस्य विभिन्ननगरेभ्यः जनाः प्राकृतिकसौन्दर्यम् अनुभवितुं समागच्छन्ति । मोरेह-नगरं चन्देल-नगरस्य समीपस्थं पर्यटनस्थलं वर्तते । मोरेह-नगरं मणिपुर-राज्यस्य अन्ताराष्ट्रियव्यावसायिककेन्द्रं मन्यते । चन्देल-नगरात् मोरेह-नगरं ७० किलोमीटरमिते दूरे स्थितम् अस्ति । चन्देल-मण्डले बह्व्यः आदिवासीजनजातयः निवसन्ति । मेयोन, अनल, मारिङ्ग, कुकीस, पाईटे, चोथे, थडोउ च इत्यादयः जनजातयः अस्मिन् मण्डले निवसन्ति ।" थडाउ” अस्य मण्डलस्य प्रमुखा भाषा अस्ति । ऐमोल-भाषायाम् अपि जनाः व्यवहरन्ति । अस्य नगरस्य सांस्कृतिकविभिन्नातायाः कारणेन इदं नगरं" बहुवर्णीयं नगरम्” इति कथ्यते । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ चन्देल-नगरस्य वातावरणं सुखदं, स्वास्थ्यकरं च भवति । अतः शीतर्तोः आरम्भे चन्देल-नगरं गन्तव्यम् ।

मणिपुर-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । अतः बसयानैः जनाः भ्रमणं कर्तुं शक्नुवन्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गे इदं नगरं स्थितम् अस्ति । चन्देल-नगरे रेलस्थानकं नास्ति । नागालैण्ड्-राज्यस्य दीमापुर-नगरस्य रेलस्थानकम् अस्य नगरस्य समीपस्थं रेलस्थानकम् अस्ति । दीमापुर-नगरात् भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । चन्देल-नगरात् दीमापुर-रेलस्थानकं २१५ किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । चन्देल-नगरात् इदं विमानस्थानकं ६५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इम्फाल-नगरात् बसयानैः, भाटकयानैः च चन्देल-नगरं गन्तु शक्यते । यात्रिकाः सरलतया चन्देल-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

11.4. वीक्षणीयस्थलानि उखरुल

उखरुल-नगरं मणिपुर-राज्यस्य उखरुल-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् अत्यन्तं सुन्दरं विद्यते । नगरमिदं स्वर्गः इव दृश्यते । वैदेशिकपुष्पेषु" सिरोय लिली” नामकं पुष्पं केवलम् उखरुल-मण्डले एव प्राप्यते ।" फ्रैङ्क् किङ्गडम् वार्ड्” इत्याख्यः वनस्पतिशास्त्रज्ञः आसीत् । तेन इदं पुष्पम् अन्विष्टम् । तस्य पत्न्याः नाम" लिलियम् मैकलिनिए” आसीत् । अतः अस्य पुष्पस्य नाम अपि तदैव कृतम् । तत्रत्याः जनाः इदं पुष्पं" काशोगवोन्” इति कथयन्ति । यतः इदं पुष्पम् आधिक्येन शिरुई-पर्वते प्राप्यते ।" लुङ्घर सिहाई फानग्रेड्”," काचौ फुङ्ग् तडागः” च अस्य नगरस्य वीक्षणीयस्थले स्तः । उखरुल-मण्डले बहवः जलप्रपाताः, गुहाः, च सन्ति ।" शिरुई काशोग पर्वतः”," खयाङ्ग-पर्वतः”," निल्लाइ-चायोद्यानम्” च अपि विहाराय उत्तमानि स्थलानि सन्ति ।" खाङ्गखुई मङ्गसर-गुहा अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते ।" अस्य नगरस्य ९० प्रतिशतं जनाः साक्षराः सन्ति” इति आश्चर्यम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । अतः जनाः तस्मिन् काले भ्रमणार्तं तत्र गच्छन्ति ।

उखरुल-नगरं १५० क्रमाङ्कस्य राजमार्गे स्थितम् अस्ति । मणिपुर-राज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति इदं नगरम् । नगरेऽस्मिन् रेलस्थानकं नास्ति । नागालैण्ड्-राजस्य दीमापुर-नगरस्य रेलस्थानकम् उखरुल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । नगरेऽस्मिन् विमानस्थानम् अपि नास्ति । अतः इम्फाल-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । उखरुल-नगरात् इम्फाल-नगरं ९० किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । गुवाहाटी-नगरेण सह विशिष्टतया सम्बद्धम् अस्ति ।

                                     

12.1. परिवहनम् भूमार्गः

मणिपुर-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । राज्येऽस्मिन् त्रयः राजमार्गाः सन्ति । ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गः, ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गः, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गः च । अस्य राज्यस्य राजधानी इम्फाल-नगरं पूर्वदिशि ३९ क्रमाङ्कस्य राष्ट्रियराजमार्गेण म्यान्मार-देशेन, पश्चिमदिशि ५३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण असम-राज्येन, १५० क्रमाङ्कस्य राष्ट्रियराजमार्गेण मिजोरम-राज्येन च सह सम्बद्धम् अस्ति । अतः इदं राज्यं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

                                     

12.2. परिवहनम् धूमशकटमार्गः

पुरा अस्मिन् राज्ये रेलमार्गाः नासन् । किन्तु ई. स. १९९० तमस्य वर्षस्य मई-मासे जिरिबाम-नगरपर्यन्तं रेलमार्गाः निर्मापिताः । इम्फाल-नगरात् जिरिबाम-नगरं २२५ किलोमीटरमिते दूरे स्थितम् अस्ति । इम्फाल-नगरात् २१५ किलोमीटरमिते दूरे नागालैण्ड्-राज्यस्य दीमापुर-नगरं स्थितम् अस्ति । अस्मिन् नगरे मणिपुर-राज्यस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मणिपुर-राज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयति । साम्प्रतम् अपि मणिपुर-राज्ये रेलमार्गाणां निर्माणाय परियोजनाः प्रचालिताः सन्ति । साम्प्रतं रेलमार्गस्य विकासः नास्ति । अतः मणिपुर-नगरं गन्तुं काठिन्यं भवति । किन्तु" भविष्यत्काले अस्य राज्यस्य रेलमार्गाः समृद्धाः भवन्ति” इति विचिन्त्य सर्वकारः प्रयासान् करोति ।

                                     

12.3. परिवहनम् वायुमार्गः

इम्फाल-नगरे मणिपुर-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इम्फाल-विमानस्थानात् हैदराबाद-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, इन्दौर-महानगराय, गुवाहाटी-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं मणिपुर-राज्यं भारतस्य विभिन्नराज्यैः सह सञ्योजयति । अनेन प्रकारेण मणिपुर-राज्यं गन्तुं वायुमार्गः सरलं विद्यते ।

                                     
  • म म तमण डल च, दक ष णद श स रस पमण डल ल ङ गल मण डल च, उत तरद श मण प रर ज यम अस मर ज य च अस त ऐज लमण डलस य जनसङ ख य अस त
  • स य त मण प र य ण सर व ष म अप न त य आसक त अध क मण प र न त य मण प रर ज यम इव एव परमस न दरम भरतस य उत तरप र व यभ ग पर वत न मध य स थ तस य
  • 12 कर ण टकम 13 Kerala 14 14 मध यप रद श 15 मह र ष ट रम 16 मण प रर ज यम   17 म घ लयर ज यम   18 म ज र मर ज यम   19 न ग ल य ण डर ज यम
  • मह र ष ट रर ज यम MH म 713 मर ठ म म बई मण प रर ज यम MN जनवर मण प र इम फ ल म घ लयर ज यम
  • मण प रर ज यम ऐज लमण डलम ऐज लमण डल स रस पमण डल म य नम रद श चम प यमण डलम   म य नम रद श म य नम रद श
  • व ख मण डलम द म प रमण डलम फ कमण डलम क ह म मण डलम   मण प रर ज यम
  • मध यप रद शर ज यम मह र ष ट रर ज यम मण प रर ज यम ओड श र ज यम पञ ज बर ज यम