ⓘ महाराष्ट्रराज्यम् भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः ..

                                     

ⓘ महाराष्ट्रराज्यम्

महाराष्ट्रराज्यम् भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबी समुद्रः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी ।

                                     

1. भौगोलिकम्

महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति । भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति । अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम" कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । अस्मिन् राज्ये स्थिताः शैलप्रस्थाः अस्य राज्यस्य प्राकृतिकवैशिष्ट्यं वर्तते । तेषु शैलप्रस्थेषु बुलढाना-शैलप्रस्थः, अहमदनगर-शैलप्रस्थः, यवतमाल-शैलप्रस्थः च इत्यादयः प्रमुखाः सन्ति । अतः इदं राज्यं शैलप्रस्थानां शैलप्रस्थः” कथ्यते । महाराष्ट्रराज्यस्य उत्तरभागे सतपुडा-पर्वतशृङ्खला अस्ति । महाराष्ट्रराज्यस्य उत्तरदिशि गुजरात-राज्यम्, उत्तर-पूर्वदिशि मध्यप्रदेश-राज्यं, छत्तीसगढ-राज्यं च, दक्षिणदिशि गोवा-राज्यं, कर्णाटक-राज्यम्, आन्ध्रप्रदेश-राज्यं च, पश्चिमदिशि दादरा-नगरहवेली-केन्द्रशासितप्रदेशः, अरबसागरश्च स्थितः अस्ति ।

                                     

1.1. भौगोलिकम् नद्यः

गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति ।

अस्मिन् राज्ये सर्वकारेण नदीषु बहव्यः परियोजनाः प्रचालिताः सन्ति । कृष्णा-नद्यां" कृष्णा परियोजना”, पावना-कृष्णा-नद्योः" भीमा परियोजना”, कार्ली-नद्यां" कार्ली सरार परियोजना”, कार्ली-नद्यां" बावन छडी परियोजना”, पूर्णा-नद्यां" पूर्णा परियोजना” च प्रचालिता अस्ति । अस्मिन् राज्ये बहवः तडागाः अपि सन्ति । लोनार, लोनवाली, कोयना, बेल, शिवरता, बलहनान इत्यादयः तडागाः सन्ति । ब्रान्द्रा-मण्डले, चन्द्रपुर-मण्डले च सर्वाधिकाः तडागाः सन्ति । अतः इदं क्षेत्रं" तडागानां देशः” कथ्यते ।

                                     

1.2. भौगोलिकम् जलवायुः

अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मार्च-मासतः जून-मासपर्यन्तं ग्रीष्मकालः भवति । तदनन्तरम् अक्टूबर-मासपर्यन्तं वर्षतुः भवति । वर्षर्तौ प्रदेशस्य तटीयक्षेत्रेषु अधिकमात्रायां वर्षा भवति । ग्रीष्मर्तौ महाराष्ट्रस्य मध्य-पूर्व-क्षेत्राणां तापमानं ४३ डिग्री सेल्सियस् मात्रात्मकं भवति । शीतर्तौ तेषां क्षेत्राणां तापमानं प्रायः २० डिग्री सेल्सियस् मात्रात्मिकं भवति ।

                                     

2. जनसङ्ख्या

महाराष्ट्रराज्यस्य जनसङ्ख्या२०११ ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं भारते तृतीयं तथा लोकसङ्ख्यादृष्ट्या द्वितीयं राज्यम् अस्ति ।

                                     

3. नाम्नः उद्गमः

अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र" इति नाम्ना प्रसिद्धः अयं परिसरः इति ह्युएन्-त्सांगादि पथिकानां मतम् । राज्यस्य महाराष्ट्र इति नाम प्राकृतभाषायां महाराष्ट्री शब्दात् निर्मितं जातम् इति मन्यते । केषाञ्चित् मते अस्य राज्यस्य नाम "महाकान्तार" महान् वनम्-दण्डकारण्यम् इति शब्दस्य अपभ्रंशः वर्तते ।

                                     

4. इतिहासः

भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः मुच्यतां भारतवर्षम् इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।



                                     

4.1. इतिहासः संयुक्तमहाराष्ट्रान्दोलनम्

महाराष्ट्रराज्यस्थापना ऐतिहासिकः महत्वपूर्णविषयः । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभागः मुम्बईराज्ये, मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते इदानीन्तनमध्यप्रदेशे समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण भाषानुसारेण राज्यरचना भवेत् इति निर्णयः १९५० तमे वर्षे एव कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ मे १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजनाः, कर्मकरजनाः, कृषकाः, विचारवन्तः जनाः भागं गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।

सह्याद्री पर्वतश्रेणिः वा पश्चिमघट्टाः महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन शैलप्रस्थः अस्ति । एषः बह्वीनां नदीनां स्रोतः अस्ति । महाराष्ट्रे ३५ मण्डलानि अपि च षड्विभागाः सन्ति । ते -औरङ्गाबाद, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः । विदर्भः नागपुरम्अमरावती, मराठवाडा औरङ्गाबाद, खान्देशः उत्तरमहाराष्ट्रं नाशिक, पश्चिम महाराष्ट्रं पुणे, कोङ्कणं च ते पञ्चविभागाः ।



                                     

5.1. महानगराणि मुम्बई

मुम्बई-महानगरं भारतस्य बृहत्तमं नगरं विद्यते । इदं महानगरं महाराष्ट्रराज्ये स्थितम् अस्ति । मुम्बई-महानगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः तत्र बहूनि समुद्रतटानि सन्ति । महानगरेऽस्मिन् बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् महानगरे त्रीणी समुद्रतटानि प्रसिद्धानि सन्ति । जुहू-समुद्रतटं, चौपाटी-समुद्रतटं, गोराई-समुद्रतटं च । तत्र" मरीन ड्राईव” इत्येतत् स्थलं वर्तते । एतत्स्थलं" क्वीन्स् नेकलेस्” इति नाम्ना अपि ज्ञायते । मुम्बई-महानगरे धार्मिकस्थलानि अपि सन्ति । सिद्धिविनायक-मन्दिरं," हाजी अली मस्जिद्” च अस्य नगरस्य प्रसिद्धे धार्मिकस्थले स्तः । अनयोः मन्दियोः वास्तुकला प्रायः समाना एव अस्ति । अनयोः स्थलयोः जनसम्मर्दः अपि सर्वाधिकः भवति । मुम्बई-नगरस्य रात्रिजीवनं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । यतः जनाः दिवाकाले व्यवसायं कुर्वन्ति । किन्तु रात्रिकाले भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे द्युतक्रीडायाः स्थानानि अपि सन्ति । जनः द्युतक्रीडां कर्तुं तत्र गच्छन्ति । महाराष्ट्र-राज्यस्य सर्वकारेण मुम्बई-महनगरस्य दर्शनाय बसयानानि प्रचालितानि सन्ति । अतः ये जनाः कारयानैः मुम्बई-नगरस्य भ्रमणं कर्तुं नेच्छन्ति, तैः बसयानद्वारा भ्रमणं कर्त्तव्यम् । तानि बसयानानि" गेटवे ऑफ् इण्डिया” इत्यस्मात् स्थलात् मुम्बई-दर्शनं कारयन्ति । सायंकाले मुम्बई-नगरस्य भ्रमणं कृत्वा पुनः" गेटवे ऑफ् इण्डिया” इतीदं स्थलं प्राप्नुवन्ति । अनेन प्रकारेण यात्रिकाः मुम्बई-महानगरस्य प्रमुखाणि स्थलानि दृष्टुं शक्नुवन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ, वर्षर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।

मुम्बई-महानगरं भूमार्गेण सम्पूर्ण-भारतस्य प्रसिद्धनगरैः सह सम्बद्धम् अस्ति । महानगरमिदम् उत्तरदिशि आगरा-मार्गेण, पूर्वदिशि इन्दौर-मार्गेण, उत्तरदिशि अहमदाबाद-मार्गेण च सह सम्बद्धम् अस्ति । मुम्बई-महानगरे महाराष्ट्र-राज्यस्य सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । तैः बसयानैः गमने सौकर्यं भवति । मुम्बई-महानगरं रेलमार्गाय प्रसिद्धम् अस्ति । अस्य नगरस्य निवासिनः गमनाय रेलयानानां सर्वाधिकम् उपयोगं कुर्वन्ति । रेलयानम् अस्य नगरस्य तीव्रतमं साधनं वर्तते । मुम्बई-रेलस्थानकम् इन्दौर-नगरेण, बेङ्गळूरु-नगरेण, देहली-नगरेण, कोलकाता-नगरेण, पुणे-नगरेण, भोपाल-नगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । एतैः नगरैः मुम्बई-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे" छत्रपति शिवाजी” नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः सरलतया मुम्बई-महानगरं गन्तुं शक्नुवन्ति ।



                                     

5.2. महानगराणि पुणे

पुणे-नगरं महाराष्ट्रराज्यस्य पुणे-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम्" सदाचारस्य नगरम्” अपि कथ्यते । पुरा इदं" पुणेवाडी” इति नाम्ना ज्ञायते स्म ।" छत्रपति शिवाजी” इत्याख्येन मराठा-शासकेन कथ्यते स्म । पुणे-नगरे ऐतिहासिकानि, धार्मिकानि च स्थलानि सन्ति । आगा खान पैलेस्, शिन्दे छतरी, सिंहगढ-दुर्गः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति ।" ओशो रजनीश” इत्याख्येन पुणे-नगरे" ओशो कम्यून् इण्टरनेशनल् सेण्टर्” इत्याख्या संस्था स्थापिता । अस्मिन् नगरे कार्ला-भाजा इत्यनयोः बौद्धगुहाः अपि प्रसिद्धाः सन्ति । पटलेश्वर-मन्दिरं पुणे-नगरस्य प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं १४०० वर्षेभ्यः पुरातनम् अस्ति । अस्त नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति । पुणे-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, नागपुर-महानगराय च पुणे-नगरात् बसयानानि प्राप्यन्ते । पुणे-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । पुणे-नगरात् १२ किलोमीटर्मिते दूरे लोहेगांव-विमानस्थानकम् अस्ति । लोहेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुणे-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया पुणे-नगरं गन्तु शक्नुवन्ति ।

                                     

5.3. महानगराणि नागपुरम्

नागपुर-नगरं महाराष्ट्र-राज्यस्य नागपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्र-राज्यस्य बृहत्तमेषु नगरेषु तृतीयम् अस्ति । इदं भारतस्य" टाईगर राजधानी” इति नाम्ना ज्ञायते । गोड-राजवंशजैः नागपुर-नगरम् अन्विष्टम् । समयान्तरे बहुभिः राजवंशैः नागपुर-नगरे शासनं कृतम् आसीत् । अन्ते आङ्ग्लैः नागपुर-नगरं प्रान्तस्य केन्द्रियराजधानीत्वेन स्थापितम् । नाग-नद्याः नाम्ना अस्य नगरस्य नाम नागपुरम् इत्यभवत् । समुद्रतलात् इदं नगरं ३१० मीटर्मितम् उन्नतं वर्तते । इदं नगरं १०,००० किलोमीटर्मितं विस्तृतम् अस्ति । नवेगांव-जलबन्धः, सीताबुल्दी-दुर्गः, पेंच-राष्ट्रियोद्यानं च अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नागपुर-नगरे" दीक्षाभूमिः” इत्येतत् स्थलं प्रसिद्धम् अस्ति । तस्मिन् स्थाने सहस्राधिकजनैः" डॉ. बी. आर्. अम्बेडकर” इत्याख्यम् अनुसृत्य बौद्धधर्मः आचरितः । नागपुर-नगरस्य मध्ये एकः पाषाणस्तम्भः स्थितः अस्ति । तस्मिन् स्तम्भे नागपुर-नगरात् भारतस्य प्रमुखनगराणाम् अन्तरम् उल्लिखितम् अस्ति । अस्य निर्माणं ब्रिटिश्-शासनकाले अभवत् । नगरेऽस्मिन् मानवनिर्मितः, प्राकृतिकः च तडागः अपि वर्तते ।" सेमिनरी हिल्स्” इत्यत्र बालाजी-मन्दिरं स्थितम् अस्ति । ततः नागपुर-नगरस्य सम्पूर्णं दृश्यं दृश्यते । इदं पर्वतीयक्षेत्रं पर्वतारोहिणां मनोहरं स्थलम् अस्ति । अस्मिन् नगरे पोदेश्वर-मन्दिरं, वेङ्कटेश-मन्दिरं च स्थितम् अस्ति । तत्र भगवतः बुद्धस्य मन्दिरम् अपि विद्यते । तस्य नाम ड्रैगन्-मन्दिरम् अस्ति । नामानुसारम् अस्य मन्दिरस्य परिचयं ज्ञातुं न शक्यते । तत्र गुबलीगढ-दुर्गः स्थितः अस्ति । अयं दुर्गः ३०० वर्षेभ्यः पुरातनः अस्ति । नागपुर-नगरे नवरात्रिमहोत्सवः, विजयादशमी, गणेशमहोत्सवः, दुर्गामहोत्स्वः, मोहर्रम् च इत्यादयः उत्सवाः आचर्यन्ते । नागपुर-नगरं" नारङ्गफलस्य नगरी” इति कथ्यते । अस्मिन् नगरे प्रचुरमात्रायां नारङ्गफलस्य उत्पादनं क्रियते । नगरमिदं दक्कन-शैलप्रस्थस्य समीपे स्थितम् अस्ति । अतः तस्मिन् नगरे जलस्रोतांसि न सन्ति ।

नागपुर-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, पुणे-महानगराय च नागपुर-नगरात् बसयानानि प्राप्यन्ते । नागपुर-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नागपुर-नगरात् ६ किलोमीटर्मिते दूरे सोनेगांव-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सोनेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नागपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नागपुर-नगरं गन्तु शक्नुवन्ति ।



                                     

5.4. महानगराणि नाशिक

नाशिक-नगरं महाराष्ट्र-राज्यस्य नाशिक-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं" मदिरायाः राजधानी” इति कथ्यते । यतः अस्मिन् नगरे द्राक्षाफलस्य उत्पादनम् अधिकमात्रायां क्रियते । नाशिक-नगरं मुम्बई-महानगरात् १८० किलोमीटर्मिते, पुणे-नगरात् २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । इदं नगरं" नापा घाटी” इत्यस्य पश्चिमघट्टे स्थितम् अस्ति । पुरा इदं नगरं सत्वहना-राजवंशस्य राजधानी आसीत् । षोडशशताब्द्याम् अस्मिन् नगरे मुगल-शासनम् आसीत् । तस्मिन् समये इदं" गुल्शानाबाद” इत्यपि कथ्यते स्म । एकोनविंशतितमशतब्द्याम् अस्मिन् नगरे आङ्ग्ल-शासनम् आसीत् । भारतीयस्वातन्त्र्यान्दोलने नैके क्रान्तिकारिणः नाशिक-नगरेण सह सम्बद्धाः आसन् । पुराणानुसारं ज्ञायते यत् –" भगवान् रामः चतुर्दशवर्षाणां वनवासस्य कानिचन वर्षाणि नाशिक-नगरस्य समीपे एकस्मिन् तपोवने यापितवान् । अत्रैव भगवता लक्ष्मणेन शूर्पणखायाः नासिकाछेदनं कृतम् आसीत् । अतः एव अस्य नाम" नाशिक” इत्यभवत् । नाशिक-नगरं महाराष्ट्रराज्यस्य विकासशीलनगरेषु अन्यतमं वर्तते । कालिदासेन, वाल्मीकिना अपि स्वस्य ग्रन्थेषु नाशिक-नगरस्य उल्लेखः कृतः अस्ति । नाशिक-नगरस्य समीपे त्र्यम्बकेश्वर-मन्दिरम् अस्ति । इदं मन्दिरं भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमं वर्तते । नगरेऽस्मिन् मुद्राणां सङ्ग्रहालयः अस्ति । अयं सङ्ग्रहालयः एशिया-खण्डस्य एकः एव मुद्रा-सङ्ग्रहालयः अस्ति । नगरमिदं मन्दिराणां नगरम् अस्ति । यतः अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । कालाराममन्दिरं नाशिक-नगरस्य विशिष्टमन्दिरेषु एकम् अस्ति । अस्मिन् मन्दिरे भगवतः रामस्य कृष्णपाषाणनिर्मिता प्रतिमा अस्ति । सीता-गुहा, पञ्चवटी च अस्य नगरस्य धार्मिकस्थले स्तः । अस्मिन् नगरे जनाः प्रतिचतुर्वर्षेषु नाशिक-नगरे कुम्भोत्सवम् आचरन्ति । जनाः उत्साहपूर्वकम् उत्सवम् आचरन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । महात्मना असहयोगान्दोलनस्य आरम्भः नाशिक-नगरादेव कृतः ।" डॉ. बी. आर्. अम्बेडकर” महात्मनः समर्थनं प्रदत्तम् आसीत् । नाशिक-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः अस्य नगरस्य तापमानम् अधिकं भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य यात्रा न कर्त्तव्या । शीतर्तौ अस्य नगरस्य यात्रा लाभकरी, स्वास्थ्यप्रदा च भवति । इदं नगरं भारतस्य केन्द्रे स्थितम् अस्ति । अतः अस्य नगरस्य यात्रा सरलतया भवितुं शक्नोति ।

नाशिक-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नाशिक-नगरस्य भ्रमणे सारल्यं भवति । पुणे-नगरात् नाशिक-नगरं २२० किलोमीटर्मिते दूरे अस्ति । मुम्बई-महानगराय, पुणे-महानगराय, नागपुर-नगराय च नाशिक-नगरात् बसयानानि प्राप्यन्ते । नाशिक-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-नगरस्य" छत्रपति शिवाजी”- विमानस्थानकं नाशिक-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मात् विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नाशिक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नाशिक-नगरं गन्तु शक्नुवन्ति ।

                                     

5.5. महानगराणि वर्धा

वर्धा-नगरं महाराष्ट्र-राज्यस्य वर्धा-मण्डलस्य मुख्यालयः स्ति । वर्धा-नद्याः तटे स्थितम् इदं वर्धा-नगरम् । ई. स. १८५६ तमे वर्षे अस्य नगरस्य स्थापना जाता । इदं नगरं ६३१० किलोमीटर्मितं विस्तृतम् अस्ति । साम्प्रतम् इदं नगरं कार्पास-व्यापाराय भारते प्रसिद्धम् अस्ति । अस्य नगरस्य इतिहासः अपि महत्त्वपूर्णः वर्तते । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । तेषु चालुक्य-राजवंशः, मौर्य-राजवंशः, शतवाहन-राजवंशश्च मुख्यः अस्ति । ई. स. १३५१ तमे वर्षे नगरमिदं बहमनी-राजवंशजानाम् आधीन्ये आसीत् । समयान्तरे ब्रिटिश्-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । गीताई-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, महाकाली-मन्दिरं, केल्जर्-मन्दिरं च अस्य नगरस्य प्रसिद्धानि मन्दिराणि सन्ति ।" विश्वशान्तिस्तूपः”, परमधाम-आश्रमः," गान्धी आश्रम बापू कुटी” च इत्यादिनी अस्य नगरस्य समीपस्थानि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । वर्धा-नगरस्य वातावरणं सर्वदा सुखकरं, स्वास्थ्यकरं च भवति । महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः वर्धा-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । वर्धा-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोङ्कण-रेलमार्गे वर्धा-नगरस्य रेलस्थानकं स्थितम् अस्ति । इदं रेलस्थानकम् भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः प्रमुखनगरेभ्यः वर्धा-नगरात् रेलयानानि प्राप्यन्ते । नागपुर-नगरे स्थितं" डॉ. बी. आर्. अम्बेडकर”-विमानस्थानकं वर्धा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । वर्धा-नगरात् इदं विमानस्थानकं ७४ किलोमीटर्मिते दूरे स्थ्तम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरस्य विमानस्थानकात् बसयानैः, भाटकयानैः वा वर्धा-नगरं गन्तुं शक्यते । अनेन प्रकारेण वर्धा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति ।



                                     

5.6. महानगराणि औरङ्गाबाद

औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य नाम औरङ्गजेब-राज्ञः नाम्ना अभवत् । खामनद्याः तटे स्थितम् इदं नगरम् । ई. स. १६८१ तमे वर्षे औरङ्गजेब-राज्ञा स्वस्य राज्यस्य राजनैतिकव्यवस्थायै, रणनैतिकव्यवस्थायै च इदं नगरम् आधारत्वेन स्थापितम् । औरङ्गजेब-राज्ञः मृत्योः अनन्तरम् अस्मिन् नगरे निजाम-शासकनाम् आधिपत्यम् अभवत् । ई. स. १९५६ तमे वर्षे अस्य नगरस्य महाराष्ट्रराज्ये विलयः जातः । अस्मिन् नगरे जनैः मराठी-भाषायाम्, उर्दू-भाषायां च व्यवह्रियते । औरङ्गाबाद-नगरं" सिटी ऑफ् गेट्स्” इति नाम्ना अपि ख्यातम् अस्ति । इदं स्थलं महाराष्ट्रराज्यस्य आधिकारिकी सम्पत्तिः वर्तते । यदा अस्मिन् नगरे मुगल-शासनम् आसीत्, तत्पूर्वं बौद्धधर्मस्य महत्प्रभावः वर्तते स्म । साम्प्रतम् अजन्ता-एलोरा-गुहाः अस्य प्रमाणिभूताः सन्ति । अस्य नगरस्य संस्कृतिः हैदराबाद-नगरस्य संस्कृत्या सह सम्बद्धा अस्ति । अस्मिन् नगरे" बीबी का मकबरा” इति नामकः प्रसिद्धं स्मारकं वर्तते । तत्र औरङ्गजेब-राज्ञः पत्न्याः समाधिः वर्तते । अस्य नगरस्य जलवायुः शीतोष्णः वर्तते । अतः वर्षर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं मनोहरं भवति । आवर्षं तत्र जनानां सम्मर्दः दृश्यते । मुम्बई-नगरात् इदं नगरं ३७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्रराज्यस्य बृहत्तमेषु नगरेषु अन्यततमं वर्तते । अस्मिन् नगरे बसयानानां, भाटकयानानां व्यवस्था पर्याप्तमात्रायाम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरात् १२० किलोमीतर्मिते दूरे मनमाद-रेलस्थानकम् अस्ति । तद्रेलस्थानकम् अपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् विद्यते । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति ।

                                     

5.7. महानगराणि अहमदनगरम्

अहमदनगरं महाराष्ट्रराज्यस्य अहमदनगर-मण्डलस्य मुख्यालयः अस्ति । सिना-नद्याः तटे स्थितम् अस्ति इदं नगरम् । नगरमिदं ५०० वर्षेभ्यः पुरातनम् अस्ति । ई. स. १४९४ तमे वर्षे" अहमद निजाम शाह” इत्याख्येन राज्ञा अस्य नगरस्य स्थापना कृता । अतः एव अस्य नाम अहमदनगरम् अभवत् । प्रायः ई. स. १६३६ तमे वर्षे शाहजहां-राज्ञा अस्मिन् नगरे आधिपत्यं स्थापितम् । समयान्तरे अस्मिन् नगरे बहुभिः राजभिः शासनं कृतम् । कथ्यते यत् -" निजाम-शासकैः अस्मिन् नगरे १५० वर्षाणि शासनं कृतम् आसीत्” इति । ई. स. १७५९ तमे वर्षे पेशवा-राजवंशजैः, मराठा-शासकैः च अस्य नगरस्य स्वरूपं परिवर्तितम् । ई. स. १८१७ तमे वर्षे आङ्ग्लाः पराजयं प्राप्य अहमदनगरं समागतवन्तः । अहमदनगरे अहमदनगर-दुर्गः स्थितः अस्ति । अयं दुर्गः अस्य नगरस्य मुख्यं पर्यटनस्थलं वर्तते ।" शलाबत खान का मकबरा”," राउजा बाग”," कोट बाघा निजाम” इत्यादीनि स्थलानि ऐतिहासिकानि सन्ति । नगरमिदम् एकं धार्मिकस्थलम् अपि अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि अपि सन्ति । मोहाता-देवीमन्दिरं, सिद्धेश्वर-मन्दिरं, श्रीगणपति-मन्दिरं च इत्यादीनि धार्मिकस्थलानि सन्ति । अस्मिन् नगरे ऐतिहासिकभवनानि, सङ्ग्रहालयाः, संशोधनकेन्द्राणि च सन्ति । तेषु टैङ्क-सङ्ग्रहालयः प्रसिद्धः अस्ति । अस्य पूर्णं नाम" कावालेरी टैङ्क सङ्ग्रहालयः” इति । ई. स. १९९४ तमे वर्षे" बी. सी जोशी” इत्याख्येन अस्य सङ्ग्रहालयस्य उद्घाटनं कृतम् आसीत् । अस्मिन् सङ्ग्रहालये अग्निगोलकाः, युद्धयानानि च सङ्गृहीतानि सन्ति । अस्मिन् सङ्ग्रहालये चत्वारिंशद् देशानां युद्धयानानि प्रदर्शितानि सन्ति । अहमदनगरस्य जलवायुः सामान्यः एव भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कम्, उष्णं च भवति । किन्तु वर्षर्तौ वातावरणं सुखदं भवति । अतः जनाः विहाराय तत्र गच्छन्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तेन जनाः अहमदनगरस्य समीपस्थानि वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । अहमद-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, पुणे-नगरेण च इत्यादिभिः महाराष्ट्र-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकम् अहमदनगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अहमदनगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयाननि प्राप्यन्ते । पुणे-विमानस्थानकात् बसयानैः भाटकयानैः वा अहमदनगरं प्राप्यते । अनेन प्रकारेण अहमदनगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अहमदनगरं प्राप्नुवन्ति ।

                                     

5.8. महानगराणि कोल्हापुरम्

कोल्हापुरं महाराष्ट्र-राज्यस्य कोल्हापुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य धार्मिकस्थलत्वेन सम्पूर्णे भारते प्रसिद्धम् अस्ति । प्रतिवर्षं लक्षाधिकजनाः दर्शनार्थं तत्र गच्छन्ति । महालक्ष्मीदेव्या कोलासुर-राक्षसः हतः । तावदेव अस्य नगरस्य नाम कोल्हापुरम् इत्यभवत् । अस्मिन् नगरे ऐतिहासिकानि स्थलानि अपि सन्ति । दुर्गाः, ऐतिहासिकभवनानि च अस्य नगरस्य पर्यटनस्थलानि सन्ति । इदं नगरम् अतीव प्राचीनं विद्यते । सह्याद्रिपर्वतशृङ्खलायाः समीपे स्थितम् इदं नगरम् ।" छत्रपति ताराबाई” इत्याख्यया कोल्हापुरस्य विकासः कृतः । अनन्तरं" छत्रपति शाहु महाराज” इत्याख्यः राजा राज्यस्य सञ्चालनं कुर्वन् आसीत् । तेन अस्य नगरस्य सामाजिकः शैक्षणिकः च विकासः कृतः । पुराणानुसारं कथ्यते यत् – कोल्हापुरं भगवतः शिवस्य निवासस्थलम् मन्यते । इदं नगरं" दक्षिणकाशी” इत्यपि कथ्यते । शाहु-सङ्ग्रहालयः अस्य नगरस्य प्राचीनतमः सङ्ग्रहालयः अस्ति । कोल्हापुर-नगरे कुशबाग-प्राङ्गणम् अस्ति । अस्मिन् प्राङ्गणे मल्लयुद्धाभ्यासः क्रियते । नगरेऽस्मिन् तडागाः अपि सन्ति । कोल्हापुर-नगरस्य पादत्राणानि विश्वस्मिन् प्रसिद्धानि सन्ति । कोल्हापुर-नगरे चर्मणः श्रेष्ठवस्तूनि प्राप्यन्ते ।" राजा हरिशचन्द्र” नामकं चलच्चित्रं भारतस्य सर्वप्रथमं चलच्चित्रम् अस्ति । अस्य चलच्चित्रस्य निर्माणं कोल्हापुर-नगरे एव अभवत् । महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः कोल्हापुर-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । कोल्हापुर-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोल्हापुरनगरे" छत्रपति शाहु महाराज टर्मिनस्” इति नामकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च कोल्हापुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । कोल्हापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् उजलाईवाडी-स्थले स्थितम् अस्ति । इदं कोल्हापुर-नगरात् ९ किलोमीटरमिते दूरे स्थितम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । यात्रिकाः सरलतया अस्य नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।

                                     

6. राजनीतिः

महाराष्ट्रे द्विसदनात्मकं विधानमण्डलं वर्तते । एकं विधानपरिषद्, अपरं विधानसभा च । विधानसभायाः आहत्य २८८ स्थानानि सन्ति । विधानसभायाः अध्यक्षः" स्पीकर्” इति कथ्यते । अस्य राज्यस्य विधानपरिषदः आहत्य ७८ सदस्याः सन्ति । परिषदः सर्वोच्चपदाधिकारी" सभापतिः” इति कथ्यते ।" वाय्. वी. चौहान” इत्याख्यः अस्य राज्यस्य सर्वप्रथमः मुख्यमन्त्री आसीत् । ई. स. १९८० तमस्य वर्षस्य फरवरी-मासस्य अष्टादशदिनाङ्के १८ फरवरी १९८० अस्मिन् राज्ये सर्वप्रथमं राष्ट्रपतिशासनम् अभवत् । महाराष्ट्रराज्ये लोकसभायाः एकोनपञ्चाशत् ४९ स्थानानि, राज्यसभायाः एकोनविंशतिः १९ स्थानानि च सन्ति ।" शिवसेना”," राष्ट्रवादी-कॉङ्ग्रेस्-पक्षः”," भारतीय-राष्ट्रीय-कॉङ्ग्रेस्-पक्षः”, ”भारतीयजनतापक्षः”," कम्युनिस्ट् पार्टी ऑफ् इण्डिया” च अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । मुम्बई-नगरे उच्चन्यायालयः स्थितः अस्ति । ई. स. १८६२ तमे वर्षे अस्य स्थापना जाता । नागपुर-नगरे, पणजी-नगरे, औरङ्गाबाद-नगरे च अस्य उच्चन्यायालयस्य खण्डपीठानि सन्ति । महाराष्ट्र-राज्यम् अस्य उच्चन्यायालयस्य अधिकारक्षेत्रम् अस्ति । अपि च गोवा-राज्यं, दादरा-नगरहवेली-केन्द्रशासितप्रदेशं, दमनदीव-केन्द्रशासितप्रदेशं च इत्येतानि प्रदेशानि अस्यैव उच्चन्यायालयस्य अधिकारक्षेत्रे सन्ति ।

                                     

7. अर्थव्यस्था, कृषिः च

महाराष्ट्र-राज्यस्य राजधानी मुम्बई-महानगरम् अस्ति । इदं महानगरं भारतस्य" वाणिज्यराजधानी” इति कथ्यते । अस्य प्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ६५ प्रतिशतं जनाः कृषिकार्येषु आधारिताः सन्ति । तण्डुलाः, गोधुमः, हरिद्रा च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । द्राक्षाफलम्, आम्रफलं, कदलीफलं, नारङ्गफलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति । एतेषां फलानाम् उत्पादनं प्रचुरमात्रायां क्रियते । महाराष्ट्रराज्यस्य आहत्य कृषिक्षेत्रस्य १०.९८ हेक्टेयर् परिमिते कृषिक्षेत्रे फलानाम् उत्पादनं भवति ।

                                     

8. उद्योगाः

महाराष्ट्रराज्यम् औद्योगिकरूपेण, आर्थिकरूपेण च समृद्धम् अस्ति । इद् भारतस्य प्रमुखम् औद्योगिकं राज्यम् अस्ति । भारतस्य आहत्य औद्योगिकोत्पादनस्य २५ प्रतिशतम् उत्पादनं महाराष्ट्रराज्ये भवति । भारतस्य आहत्य वैद्युतकोत्पादनस्य १९ प्रतिशतम् उत्पादनम् अस्मिन् राज्ये भवति । पुणे-नगरं, मुम्बई-महानगरं, थाणे-नगर, च वैद्युतकोत्पादनानां केन्द्राणि सन्ति । खाद्योद्योगः, वैद्युतोद्योगः, मुद्रण-प्रकाशनोद्योगः, कर्गजोद्योगः, रसायनोद्योगः, वस्त्रोद्योगः, यन्त्रोद्योगः, वाहनोद्योगः च महाराष्ट्रराज्यस्य उद्योगाः सन्ति । मुम्बई-महानगरं चलच्चित्रोद्योगस्य गृहम् अस्ति । अस्मिन् महानगरे उच्चस्तरात्मकं चलच्चित्रनिर्माणं क्रियते । इदं" बॉलिवुड्” इति कथ्यते । महाराष्ट्र-राज्ये पर्यटनस्थलानि अपि बहूनि सन्ति । अतः पर्यटनस्थलेषु अपि जनाः व्यापारं कुर्वन्ति ।

                                     

9. शिक्षणम्

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं महाराष्ट्रराज्यस्य साक्षरतामानं ८२.६५ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८९.८२ प्रतिशतं, स्त्रीणां साक्षरतामानं ७५.४८ प्रतिशतं च अस्ति ।" मुम्बई-विश्वविद्यालयः”,मुम्बई ;" डॉ बाबा साहेब अम्बेडकर मराठवाडा विश्वविद्यालयः”, औरङ्गाबाद;" भारतीय प्रौद्योगिकी संस्थानम्” I.I.T., मुम्बई;" पुणे-विश्वविद्यालयः”, पुणे;" उत्तरी महाराष्ट्र विश्वविद्यलयः”, जलगांव;" शिवाजी-विश्वविद्यालयः”, कोल्हापुर;" अमरावती-विश्वविद्यालयः, अमरावती;" महात्मागान्धी-अन्ताराष्ट्रियहिन्दीविश्वविद्यालयः”, वर्धा;" भारतीयविद्यापीठं”, पुणे;" जनसङ्ख्या विज्ञान का अन्तरराष्ट्रीय संस्थानम्”, मुम्बई;" महाराष्ट्र युनिवर्सिटी ऑफ् मेडिकल् सायन्स्”, नाशिक;" टाटा इन्स्टीट्यूट् ऑफ् सोशल् सायन्स्”, मुम्बई;" यशवंतराव चौहान महाराष्ट्र मुक्त विश्वविद्यालय”, नाशिक;" इन्दिरा गान्धी इन्स्टीट्यूट् ऑफ् डेवलपमेण्ट् रिसर्च्”, मुम्बई;" केन्द्रीय मत्स्य पालन शिक्षा संस्थान”, मुम्बई;" गोखले इन्स्टीट्यूट् ऑफ् पॉलिटिक्स् एण्ड् इकोनॉमिक्स्”, पुणे च इत्यादीनि महाराष्ट्रराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।

                                     

10. कला, संस्कृतिश्च

कलादृष्ट्या इदं राज्यम् अत्यधिकं समृद्धम् अस्ति । मुम्बई-महानगरं भारतस्य चलच्चित्रोद्योगस्य केन्द्रं विद्यते । मुम्बई-महानगरं भारतीयचलच्चित्रजगतः राजधानी” अस्ति । इदं नगरं" भारतस्य हॉलीवुड्” इत्यपि कथ्यते ।" दादा साहेब फाल्के” इत्याख्येन ई. स. १९१३ तमे वर्षे" हरिशचन्द्र” नामकं भारतस्य सर्वप्रथमं चलच्चित्रं निर्मितम् आसीत् । अतः सः एव भारतीयचलच्चित्रोद्योगस्य संस्थापकः अस्ति । महाराष्ट्र-राज्यस्य नृत्यकलासु तमाशा, लावणी, पोवाडा इत्यादयः नृत्यकलाः प्रमुखाः वर्तन्ते । मराठी-भाषा महाराष्ट्रराज्यस्य मातृभाषा अस्ति । किन्तु लिपिः देवनागरी अस्ति ।" स्वामी मुकुन्द राव” इत्याख्यः मराठी-भाषायाः साहित्यकारः आसीत् । सर्वप्रथमं तेन एव मराठी-भाषायां साहित्यिकरचना कृता आसीत् । समयान्तरे सन्तज्ञानेश्वरः, नामदेवः, तुकारामः, रामदासः इत्यादिभिः मराठी-भाषायाः साहित्ये योगदानं प्रदत्तम् । अतः एव मराठीभाषासाहित्यं समृद्धम् अस्ति । महाराष्ट्रराज्ये भारतीयशास्त्रीयसङ्गीतम् अपि प्रचलितम् अस्ति ।" पं. विष्णु दिगम्बर पलुस्कर” इत्याख्यः भारतीयशास्त्रीयसङ्गीतस्य मूर्धन्येषु अन्यतमः आसीत् ।" विष्णुदास भावे” इत्याख्यः महाराष्ट्रराज्यस्य प्रथमः नाट्यकारः आसीत् ।" विष्णुदास भावे” इत्याख्येन एव मराठी-भाषायाः नाटकस्य आधारः संस्थापितः ।

गणेश-महोत्सवः महाराष्ट्रराज्यस्य महत्त्वपूर्णः उत्सवः अस्ति । अयम् उत्सवः दशदिवसात्मकः भवति । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । एलिफेण्टा-उत्सवः, पुणे-उत्सवः, बाणगङ्गा-उत्सवः, एलोरा-उत्सवः, कालिद-उत्सवः इत्यादयः महाराष्ट्रराज्यस्य प्रमुखाः उत्सवाः सन्ति । एलिफेण्टा-उत्सवः औरङ्गाबाद-नगरस्य समीपे आचर्यते । नागपुर-नगरे कालिदासोत्सवः आचर्यते । महाराष्ट्रराज्ये दीपावलि-पर्व, रामनवमी, विजयादशमी च इत्यादीनि धार्मिकपर्वणि जनाः आचरन्ति । महाराष्ट्रराज्यस्य जनाः सर्वे उत्सवान् उत्साहपूर्वकम् आचरन्ति । तेन जनेषु प्रीतिः अपि वर्धते । जनाः सङ्घटिताः अपि भवन्ति ।

महाराष्ट्र राज्यस्य लोकसंस्कृतिः विशिष्टा । राज्यस्य यथा पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोदः, नाटकं, चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुमः । वैविध्यपूर्णा एषा संस्कृतिः । इदानीं महाराष्ट्रराज्ये सर्वे भाषिकाः जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री-मराठी एव । महाराष्ट्रस्य विस्तारः अपि बृहत् अतः तावत् वैविध्यमपि अनुभवामः । राज्यमिदं कृषिप्रधानम् अतः तस्य प्रभावमपि दृश्यते ।

                                     

10.1. कला, संस्कृतिश्च आहारपद्धतिः

ये पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यतः प्रतिदिने आहारे रोटिका भाकरीवा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेहः, उपसेचनं, पर्पटश्च समाविष्टः अस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्थान् यथा - पुरणपोळी, जिलेबीकुण्डलिका,बुंदी इत्यादिकं खादन्ति । नगर, ग्राम निवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवामः ।

                                     

11. वीक्षणीयस्थलानि

महाराष्ट्र-राज्यं जनसङ्ख्यादृष्ट्या भारते द्वितीयम् अस्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । अस्य राज्यस्य पश्चिमदिशि समुद्रः स्थितः अस्ति । अतः तत्र बहूनि मनोहराणि समुद्रतटानि सन्ति । इतः परं सङ्ग्रहालयाः, स्मारकाः, दुर्गाः, मन्दिराणि चापि सन्ति । तेन कारणेन इदं राज्यं समृद्धम् अस्ति । अजन्ता-एलोरा-गुहाः," महाबलेश्वर माथेरान”," पञ्चगनी”," जवाहर माथेरान”," मालशेज घाट”," चिकलधारा”," पन्हाला” च इत्यादयः महाराष्ट्र-राज्यस्य पर्यटनस्थलानि सन्ति । शिरडी, पंढरपुर, हरिहरेश्वर, कोल्हापुर, अम्बजोगई, शेगाँव, नासिक, त्र्यम्बकेश्वर च इत्यादयः महाराष्ट्रस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । महाराष्ट्र-राज्ये" गेटवे ऑफ् इण्डिया” अपि अस्ति । ई. स. १९११ तमे वर्षे" जॉर्ज् पञ्चम” इत्याख्यस्य ब्रिटिश्-शासकस्य, मेरी इत्याख्यायाः राज्ञ्याः च स्वागतार्थं तस्य निर्माणं कारितम् आसीत् ।

                                     

11.1. वीक्षणीयस्थलानि भीमाशङ्कर

भीमाशङ्कर” इत्येतत् स्थलं महाराष्ट्रराज्यस्य धार्मिकं स्थलं वर्तते । इदं स्थलं महाराष्ट्रराज्यस्य पुणे-मण्डलात् १२७ किलोमीटर्मिते दूरे शिरधाव-ग्रामे स्थितम् अस्ति । इदं सह्याद्रिपर्वतशृङ्खलायाः क्षेत्रे स्थितम् अस्ति । भारते स्थितेषु द्वादशज्योतिर्लिङ्गेषु अन्यतमं ज्योतिर्लिङ्गम् अस्मिन् स्थले स्थितमस्ति । अतः तेन कारणेन इदं स्थलं प्रसिद्धम् अस्ति । इदं मन्दिरं समुद्रतलात् ३२५० पादोन्नतम् अस्ति । द्वादशज्योतिर्लिङ्गेषु पञ्च ज्योतिर्लिङ्गानि महाराष्ट्रे स्थितानि सन्ति । भीमाशङ्करस्थलात् भीमानदी उद्भवति । सा दक्षिणपश्चिमदिशि प्रवहति । अन्ते इयं नदी कृष्णानद्यां सम्मिलति । एका पौराणिकी कथा अस्ति यत् –" देवतानां निवेदनेन भगवान् शिवः सह्याद्रिपर्वते निवसन् आसीत् । तस्मिन् समये त्रिपुरासुरेण राक्षसेन सह भगवतः शिवस्य युद्धम् अभवत् । तस्मिन् युद्धे भगवता शिवेन त्रिपुरासुरः हतः । किन्तु युद्धस्य उष्णतायाः कारणेन भीमानदी शुष्का जाता । अनन्तरं भगवतः शिवस्य स्वेदेन पुनः भीमानदी उद्भूता । अस्य स्थलस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति ।" कमलजा”, मोक्षकुण्डतीर्थं, कुशरान्यतीर्थं च अस्य स्थलस्य धार्मिकस्थानानि सन्ति । अस्य स्थलस्य समीपे वनक्षेत्रम् अपि विद्यते । तस्मिन् बहवः वन्यजीवाः दृश्यन्ते । ये जनाः धार्मिकाः भवन्ति, तेभ्यः अपि इदं स्थलं दर्शनीयम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण परिवहनाय बसयानानि प्रचालितानि सन्ति । बसयानैः एकस्मात् स्थानात् अन्यत्र गन्तुं शक्यते । भीमाशङ्कर-स्थलात् पुणे-नगरं १२७ किलोमीटर्मिते, मुम्बई-महानगरं २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । पुणे-नगरात्, मुम्बई-नगरात् च भीमाशङ्कर-स्थलाय बसयानानि, भाटकयानानि च प्राप्यन्ते । पुणे-नगरस्य रेलस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । तद् रेलस्थानकं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, मुम्बई, देहली, इन्दौर, अहमदाबाद, वडोदरा, चेन्नै च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे" लोहगांव” नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । लोहगांव-विमानस्थानकं मुम्बई, हैदराबाद, देहली च इत्यादिभिः अन्ताराष्ट्रियविमानस्थानकैः सह सम्बद्धमस्ति । अस्मात् विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्नुवन्ति ।

                                     

11.2. वीक्षणीयस्थलानि मालशेज घाट

मालशेज-घाट” इत्ययं घट्टः महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितः अस्ति । अयं घट्टः पश्चिमभागस्य घट्टेषु अन्यतमः अस्ति । महाराष्ट्रराज्ये अयं घट्टः ख्यातः वर्तते । अयं समुद्रतटात् ७०० मीटर्मितः उन्नतः वर्तते । अस्य जलवायुः शान्तः, सुखदश्च अस्ति । क्षेत्रमिदं पर्वतीयम् अपि अस्ति । अतः पर्वतारोहणाय अपि स्थलमिदं प्रसिद्धं वर्तते । तत्र बहवः तडागाः, नद्यः च अपि सन्ति । तत्र बहवः ऐतिहासिकाः दुर्गाः सन्ति । तस्मिन् क्षेत्रे जलप्रपाताः अपि सन्ति । जलप्रपातानां दृश्यं मनोहरं भवति । तत्र अभयारण्ये बहुप्रकाराकाः जीवजन्तवः, वनस्पतयः च प्राप्यन्ते । तस्मिन् अभयारण्ये" फ्लेमिङ्गो” इति नामकाः विहगाः अपि दृश्यन्ते । वर्षाकाले भ्रमणार्थं स्थलमिदं सर्वश्रेष्ठं वर्तते । पर्वतप्रदेशे मेघाः स्पृशन्तः भवन्ति । तत्र मेघेषु स्वर्गीयानुभवं कर्तुं शक्यते । अस्य स्थलस्य समीपं पिम्पल-ग्रामे" जोग-जलबन्धः” स्थितः अस्ति । अयं जलबन्धः पुष्पावतीनद्यां निर्मितः वर्तते ।" अजोबा हिल् फोर्ट्” अयं पर्वते स्थितः एकः दुर्गः अस्ति । अस्य दुर्गस्य वास्तुकला दृष्टुं योग्या । इतः परम् अपि" जीवधन चावण्ड्” इति नामकः दुर्गः”, हरिशचन्द्रगढ-दुर्गः च अपि अस्ति । एतौ दुर्गौ विख्यातौ स्तः । अनन्तरम् अन्यः एकः दुर्गः अपि विद्यते । तस्य नाम" शिवनेरी-दुर्गः” इति । अयं तु आकर्षणस्य केन्द्रं विद्यते ।" शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलम् अस्ति अयं दुर्गः । अस्य क्षेत्रस्य समीपम् अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः तत्र वर्षर्तौ भ्रमणार्थं गच्छन्ति ।

मालशेज-घट्टः महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह संलग्नः अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तानि बसयानानि सम्पूर्णे महाराष्ट्रराज्ये प्रचलन्ति । मुम्बई-नगरात्, पुणे-महानगरात् च इत्यादिभ्यः नगरेभ्यः" मालशेज-घट्टाय बसयानानि प्राप्यन्ते । भाटकयानैः अपि तत्र गन्तुं शक्यते । कल्याण-रेलस्थानकम् अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । इदं रेलस्थानकं महाराष्ट्र-राज्यस्य प्रमुखनगरैः, भारतस्य प्रमुखनगरैः च सम्बद्धम् अस्ति । मालशेज-घट्टात् कल्याण-रेलस्थानकं ८६ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं मालशेज-घट्टात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मालशेज-घट्टः प्राप्तुं शक्यते ।

                                     

11.3. वीक्षणीयस्थलानि गुहागर

गुहागर-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि, समुद्रतटानि सन्ति । अतः इदं" मन्दिराणां तटानां च नगरम्” इति कथ्यते । भारत प्रमुखेषु पर्यटनस्थलेषु नगरमिदं प्रसिद्धम् अस्ति । इदं नगरं महाराष्ट्रराज्यस्य पश्चिमतटे स्थितम् अस्ति । गुहागर-नगरस्य पश्चिमदिशि अरबसागरः अस्ति । अस्य पूर्वदिशि सह्याद्रिपर्वतशृङ्खला च वर्तते । अस्मिन् नगरे हिन्दुधर्माणां बहूनि मन्दिराणि सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । बालकेश्वर-मन्दिरम्, उदसेश्वर-मन्दिरं, व्यादेश्वर-मन्दिरं, वेलनेश्वर-मन्दिरं, तालकेश्वर-मन्दिरं च एतानि अस्य नगरस्य शिवमन्दिराणि सन्ति । एतेषु मन्दिरेषु भगवतः शिवस्य विभिन्नरूपाणि दृश्यन्ते । गुहागर-नगरे चन्द्रिका-मन्दिरं स्थितम् अस्ति । मन्दिरमिदं सम्पूर्णे भारते विख्यातम् अस्ति । तस्य मन्दिरस्य समीपं भगवतः गणपतेः मन्दिरं विद्यते । यात्रिकाः गणेशदेवस्थानस्य, उमामहेश्वर-मन्दिरस्य च दर्शनं कुर्वन्ति । नगरेऽस्मिन् बहूनि समुद्रतटानि सन्ति । तानि सर्वाणि सुन्दराणि सन्ति । तत्र वर्जिन-समुद्रतटम् अस्ति । अयं तटः ६ किलोमीटर्मितः विस्तृतः वर्तते । तत्र नारिकेलस्य वृक्षाः पर्याप्तमात्रायां सन्ति । अस्मिन् नगरे कोङ्कण-संस्कृतेः प्रभावः अधिकः वर्तते । इदं नगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः अस्य नगरस्य तापमानं सर्वदा सामान्यम् एव भवति । मई-मासतः सितम्बर-मासपर्यन्तम् अस्य नगरस्य तापमानं सुखदं भवति । अस्य नगरस्य अधिकतमं तापमानं ३९ डिग्री सेल्सियस्-मात्रात्मकं, न्यूनतमं तापमानं १८ डिग्री सेल्सियस्-मात्रात्मकं च भवति । अस्मिन् नगरे सर्वाधिकम् औष्ण्यं मई-मासे भवति ।

गुहागर-नगरात् चिपलून-नगरं ४० किलोमीटर्मिते दूरे स्थितम् अस्ति । सर्वकारप्रचालितैः बसयानैः चिपलून-नगरं सरलतया प्राप्यते । चिपलून-नगरं महाराष्ट्रराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । चिपलून-नगरे एकं रेलस्थानकम् अपि अस्ति । तस्मात् रेलस्थानात् पुणे-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च रेलयानानि प्राप्यन्ते । रेलस्थानात् भाटकयानैः, बसयानैः वा गुहागर-नगरं गन्तुं शक्यते । मुम्बई-नगरे स्थितं" छत्रपति शिवाजी” इत्याख्यं विमानस्थानकं गुहागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-नगरे वैयक्तिकवाहनानि, भाटकवाहनानि, बसयानानि च प्रचलन्ति । भूमार्गेण ततः गुहागर-नगरं गन्तुं शक्यते ।

                                     

11.4. वीक्षणीयस्थलानि जुन्नर

जुन्नर” इत्येतत् पर्यटनस्थलं महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितम् अस्ति । इदं नगरं पुणे-नगरात् ९० किलोमीटर्मिते दूरे उत्तरदिशि स्थितम् अस्ति । मुम्बई-महानगरात् जुन्नर-नगरं १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं समुद्रतलात् २२६० पादोन्नतं विद्यते । इदं नगरं धार्मिकम्, ऐतिहासिकं, पौराणिकं च वर्तते । इदम् अत्यन्तं लोकप्रियं स्थलम् अस्ति । जुन्नर-नगरं प्राचीनमन्दिरेभ्यः, वास्तुकलाभिः निर्मिताभ्यः गुहाभ्यः, दुर्गेभ्यः च भारते प्रसिद्धम् अस्ति । अस्य इतिहासः सहस्रवर्षेभ्यः पुरातनः अस्ति । पुरा इदं नगरं" जिमा-नगरम्” इति नाम्ना ज्ञायते स्म । तस्मिन् समये अस्मिन् नगरे नहापन-राजा शासनं कुर्वन् आसीत् । सः शक-राजवंशस्य राजा आसीत् । अनन्तरं सप्तवाहन-राजवंशजैः तत्र शासनं कृतम् । सप्तवाह-राजवंशस्य सातकर्ण-राज्ञा एव शिवनेरी-दुर्गः निर्मापितः । सः दुर्गः" छत्रपति शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलं वर्तते ।

जुन्नर-नगरे याः गुहाः सन्ति, तासां गुहानां वास्तुकला विश्वस्मिन् प्रसिद्धा वर्तते । अत एव तत्स्थलं वास्तुकलायाः केन्द्रत्वेन ख्यातम् अस्ति । तत्र गुहानां त्रयः समूहाः सन्ति ।" मनमोदी-हिल-समूहः”," गणेश-लेना-समूहः”," तुलजा-लेना-समूहः” च । इतः परं लेन्याद्रि-गुहाः सन्ति । ताः गुहाः शिलाछेदनेन निर्मिताः सन्ति । तस्मिन् समूहे त्रिंशत् गुहाः सन्ति । ताः गुहाः अस्य नगरस्य आकर्षणकेन्द्रं वर्तते । अस्य स्थलस्य ५०० चतुरस्रकिलोमीटर्मितं क्षेत्रे बहवः चित्रकायाः Panther प्राप्यन्ते । अस्य स्थलस्य जलवायुः शीतलः अस्ति । अतः आवर्षं जनाः सुखेन भ्रमणं कुर्वन्ति ।

महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि प्रचालितानि सन्ति । पुणे-नगरात् जुन्नर-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरात् बसयानैः जुन्नर-नगरं प्राप्यते । पुणे-नगरे रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं जुन्नर-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पुणे-नगरस्य रेलस्थानकात् भारतस्य प्रमुख-नगरेभ्यः रेलयानानि नियमितरूपेण प्रचलन्ति । तस्मात् रेलस्थानकात् भाटकयानैः जुन्नर-नगरं गन्तुं शक्यते । मुम्बई-नगरे" छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं जुन्नर-नगरात् १७७ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।



                                     

11.5. वीक्षणीयस्थलानि ”वधु”," तुलापुर” द्वौ ग्रामौ

वधु”," तुलापुर” एतौ द्वौ लघु ग्रामौ महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितौ स्तः । एतौ ऐतिहासिकौ ग्रामौ स्तः ।" सम्भाजी” इत्याख्येन शिवाजी-राज्ञः पुत्रेण अत्रैव प्राणत्यागः कृतः आसीत् । तुलापुर-ग्रामः पुणे-नगरात् ४० किलोमीटर्मिते दूरे उत्तरपूर्वदिशि स्थितः अस्ति । अस्मिन् ग्रामे ब्रह्मा-भामा-इन्द्रायणीनदीनां सङ्गमः अस्ति । पुरा तुलापुर-नगरं" नागरगांव” इति नाम्ना ज्ञायते स्म । वधू-ग्रामे" सम्भाजी” इत्याख्यस्य समाधिः अस्ति । मराठाशासनस्य इतिहासे एतयोः ग्रामयोः महत्त्वपूर्णं स्थानम् अस्ति । ई. स. १८२२ तमे वर्षे युद्धस्मारकं निर्मापितम् आसीत् । साम्प्रतं तस्य नाम" रणस्तम्भः” इति । तुलापुर-ग्रामे भगवतः शिवस्य सङ्गमेश्वर-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । अस्य मन्दिरस्य समीपे एव" सम्भाजी” इत्याख्यस्य समाधिः विद्यते ।

ताभ्यां ग्रामाभ्यां पुणे-नगराय बसयानानि प्राप्यन्ते । पुणे-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं ताभ्यां ग्रामाभ्यां ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरस्य रेलस्थानकात् ताभ्यां ग्रामाभ्यां भाटकयानानि, बसयानानि च प्राप्यन्ते । इदं रेलस्थानकात् मुम्बई-महानगराय, अहमदनगराय, नागपुर-नगराय, अहमदाबाद-नगराय च रेलयानानि प्राप्यन्ते । मुम्बई-नगरे" छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया तौ ग्रामौ प्राप्तुं शक्नुवन्ति ।

                                     

11.6. वीक्षणीयस्थलानि कर्जत

कर्जत” इत्येतत् स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं स्थलं पर्वतीयक्षेत्रम् विद्यते । इदं सह्याद्पर्र्तिशृङ्खलाः क्षेत्रे स्थितम् अस्ति । इदं स्थलम् उल्हास-नद्याः तटे स्थितम् अस्ति ।" कर्जत” इत्येतत् स्थलं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । तत्र बहवः जलप्रपाताः सन्ति । वर्षर्तौ ते जलप्रपाताः दृश्यन्ते । इद स्थलं मुम्बई-महानगरात् ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । समीपस्थाः जनाः सप्ताहान्ते तत्र भ्रमणार्थं गच्छन्ति । पर्वतारोहणाय इदं स्थलं श्रेष्ठं वर्तते । तत्र पेठ-दुर्गः, कोण्डाना-गुहाः च सन्ति । बौद्धधर्मस्य प्राचीनावशेषाः अपि प्राप्यन्ते । इदं स्थलं २०० मीटर्मितं पादोन्नतं वर्तते । इदं नगरं पारम्परिकं वर्तते । अस्य नगरस्य ऐतिहासिकं महत्त्वं विद्यते । कर्जत-नगरे महाराष्ट्र-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । कर्जत-नगरात् मुम्बई-महानगराय, पुणे-नगराय, पनवेल-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । कर्जत-नगरे एकं रेलस्थानकम् अपि विद्यते । कर्जत-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कर्जत-नगरं खण्डाला-नगरस्य, लोनावाला-नगरस्य च समीपे स्थितम् अस्ति । मुम्बई-नगरे" छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्जत-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

11.7. वीक्षणीयस्थलानि मुरुड जञ्जीरा

मुरुड जञ्जीरा” इतीदं स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डलस्य मुरुड-ग्रामे स्थितम् अस्ति । स्थलमिदं समुद्रतटे स्थितम् अस्ति । तत्र एकः दुर्गः अस्ति । अस्मिन् दुर्गे सिद्दी-राजवंशस्य शासनम् आसीत् । मराठा-शासकैः, पुर्तगाली-शासकैः, डच-शासकैः इत्यादिभिः शासकैः अस्मिन् दुर्गे बहुवारम् आक्रमणं कृतम् । तथापि ते तं दुर्गं जेतुं न अशक्नुवन् ।" जञ्जीरा” इत्ययं शब्दः अरबी-भाषायाः अस्ति । अरबी-भाषायां" जजीरा” शब्दस्य अर्थः" द्वीपः” भवति ।

द्वादशशताब्द्यां सिद्दी-राजवंशेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । तस्मिन् समये मरुड-नगरं सिद्दी-राजवंशस्य राजधानी आसीत् । वैदेशिकशासकैः बहुवारम् अस्मिन् दुर्गे आक्रमणं कृतम्, किन्तु सर्वदा ते सर्वे वैफल्यं प्राप्तवन्तः । शिवाजी-राज्ञा अपि षड्वारम् आक्रमणं कृतम् आसीत् । किन्तु सः अपि निष्फलः जातः । पुरा अयं दुर्गः काष्ठैः निर्मितः आसीत् । पुरा ये मत्स्यपालकाः आसन्, समुद्रतस्करेभ्यः रक्षणाय तैः अयं दुर्गः काष्ठैः निर्मितः आसीत् । अनन्तरं" पीर खान” इत्याख्येन अस्मिन् दुर्गे स्वस्याधिकारः प्रस्थापितः । सः अहमदनगर-साम्राज्यस्य शासकः आसीत् । तेन अस्य दुर्गस्य दृढतया निर्माणं कारितम् । अतः अयं दुर्गः अभेद्यः अस्ति ।" मालिक अम्बर” इत्याख्यः अहमदनगर-साम्राज्यस्य राजा आसीत् । तेन अस्य दुर्गस्य पुनर्निमाणं कारितम् ।

मुरुड-ग्रामः भूमार्गेण पुणे-नगरेण, कल्याण-नगरेण, मुम्बई-महानगरेण इत्यादिभिः महाराष्ट्र-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । रोहा-नगरस्य रेलस्थानकं मुरुड-नगरस्य समीपस्थं रेलस्थानकं वर्तते । इदं कोङ्कण-रेलमार्गे स्थितम् अस्ति । इदं रेलस्थानकं महाराष्ट्रराज्यस्य प्रमुकरेलस्थानकैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं मुरुड-नगरात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मुरुड-नगरं प्राप्तुं शक्यते । पुणे-नगरस्य लोहगांव-विमानस्थानकं, नासिक-नगरस्य गान्धीनगर-विमानस्थानकं च अपि समीपस्थे विमानस्थानके स्तः । ताभ्यां विमानस्थानकां मुरुड-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

                                     

11.8. वीक्षणीयस्थलानि खोडाला

खोडाला-ग्रामः महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितः अस्ति । अयं ग्रामः समुद्रतलात् १८०० पादोन्नतः अस्ति । खोडाला-ग्रामस्य वातावरणं शान्तम् अस्ति । वैतरना-तडागः, इगतपुरी-कसार-घट्टः, त्रिङ्गलवाडी-दुर्गः च इत्यादीनि अस्य ग्रामस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अयं ग्रामः पर्वतक्षेत्रे स्थितः अस्ति । अतः पर्वतारोहणाय अपि अयं ग्रामः विशिष्टः वर्तते । अस्मिन् ग्रामे आदिवासिनः निवसन्ति । साम्प्रतम् अपि ते पशुबलिं ददति । प्रतिवर्षम् आदिवासिनः स्वस्य पारम्परिकोत्सवान् आचरन्ति । तेषु उत्सवेषु आदिवासि-नृत्यं दर्शनीयं भवति । तत्र" अमला-वन्यजीवाभयारण्यम्” अस्ति । अस्मिन् अभयारण्ये बहवः वन्यपशवः दृश्यन्ते । खोडाला-ग्रामः पुणे-नगरेण, मुम्बई-नगरेण, इगतपुरी-नगरेण च भूमार्गेण सम्बद्धः अस्ति । तेभ्यः नगरेभ्यः खोडाला-ग्रामाय प्रतिदिनं नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इगतपुरी-नगरस्य रेलस्थानकं खोडाल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तस्मात् रेलस्थानकात् पुणे-नगराया, मुम्बई-महानगराय इत्यादिभ्यः महाराष्ट्र-राज्यस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं खोडाला-ग्रामात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा खोडाला-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च खोडाला-ग्रामः सरलतया गन्तुं शक्यते ।

                                     

11.9. वीक्षणीयस्थलानि यवतमाल

यवतमाल-नगरं महाराष्ट्रराज्यस्य यवतमाल-मण्डलस्य मुख्यालयः वर्तते । इदं नगरं समुद्रतलात् १४६० पादोन्नतं वर्तते । विदर्भक्षेत्रे गण्यते इदं यवतमाल-नगरम् । इदं नगरं परितः चन्द्रपुर-मण्डलं, परभणीमण्डलम्, अकोला-मण्डलम्, अमरावती-मण्डलं च स्थितम् अस्ति । यवत, माल इत्याभ्यां शब्दाब्यां" यवतमाल” इति शब्दस्य उत्पत्तिर्जाता । मराठी-भाषायां" यवत” इत्यर्थः पर्वतः," माल” इत्यर्थः पङ्क्तिः च । अस्य नगरस्य इतिहासः अति रोचकः वर्तते । तत्र बहुभिः शासकैः शासनं कृतम् आसीत् । पुरा इदं नगरं" यावाते चा महल”," योत-लोहार” इति नामभ्यां ज्ञायते स्म । तस्मिन् समये यवतमाल-नगरं डेक्कन्-साम्राज्यस्य मुख्यनगरम् आसीत् । मुगल-शासकैः अहमदनगर-साम्राज्यस्य शासकाः पराजिताः । तदा मुगल-शासकैः शासनं कृतम् । मुगल-शासकस्य अन्तिमशासकस्य मृत्योः अनन्तरं मराठा-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । तदनन्तरं ब्रिटिश-शासकैः अधिकारः प्राप्तः । पुरा इदं नगरं मध्यभारतस्य किञ्चन नगरम् आसीत् । किन्तु समयान्तरे महाराष्ट्रराज्ये अस्य नगरस्य विलयः जातः । यवतमाल-नगरे बहूनि मन्दिराणि, वीक्षणीयस्थलानि च सन्ति । नरसिंह-मन्दिरं, दत्त-मन्दिरं, खाटेश्वरमहाराज-मन्दिरं, जगत-मन्दिरं," खोजोची-मस्जिद्” च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्य नगरस्य समीपं कलम्ब-ग्रामः वर्तते । तस्मिन् ग्रामे चिन्तामणिगणेश-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनं वर्तते । अस्य समीपे गणेश-कुण्डः अपि अस्ति । अस्मिन् नगरे द्वे प्रमुखे अभयारण्ये स्तः । बैनगङ्गा-वन्यजीवाभयारण्यं, तिपेश्वर-वन्यजीवाभयारण्यं च । एतयोः अभयारण्ययोः प्राकृतिकसौन्दर्यं महत्त्वपूर्णं वर्तते । शीतर्तौ जनाः यवतमाल-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।

यवतमाल-नगरं महाराष्ट्रराज्यस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अमरावती-नगरात्, चन्द्रपुर-नगरात् च यवतमाल-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः इदं नगरं महाराष्ट्रस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । यवतमाल-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय, अहमदनगराय च रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरे" डॉ. बाबासाहेब आम्बेडकर” नामकं विमानस्थानकं वर्तते । इदं यवतमाल-नगरस्य समीपस्थं विमानस्थानकं वर्तते । यवतमाल-नगरात् नागपुर-नगरं १२६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । हैदराबाद-नगरस्य" राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकम्” अपि समीपे स्थितम् अस्ति । इदं यवतमाल-नगरात् ३५६ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

                                     

11.10. वीक्षणीयस्थलानि कर्नाला

कर्नाला-नगरं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं नगरं समुद्रतलात् ४७.५ किलोमीटर्मितम् उन्नतं वर्तते । इदं नगरं परितः सघनानि वनानि, उन्नताः पर्वताः च स्थिताः सन्ति । तुगलक-वंशस्य राज्ञां शासनकाले कर्नाला-नगरं कोङ्कण-मण्डलस्य राजधानी आसीत् । ततः परं तस्मिन्" निजाम शाह” इत्याख्येन राज्ञा आधिपत्यं स्थापितम् । सः अहमदनगरस्य संस्थापकः आसीत् । समयान्तरे अस्मिन् क्षेत्रे" ईस्ट् इण्डिया कम्पनी” इत्याख्यायाः संस्थायाः स्थापना जाता । तत्र एकं विहगाभयारण्यं वर्तते । तस्मिन् अभयारण्ये विहगानां १५० जातयः सन्ति । ये जनाः पर्वतारोहणाय उत्सुकाः भवन्ति, तेभ्यः इदं स्थलम् अत्युत्तमं वर्तते । अस्य स्थलस्य वातावरणं सर्वदा सुखदं, स्वास्थ्यप्रदं, मनोहरं च भवति ।

इदं स्थलं मुम्बई-महानगरात् ६० किलोमीटर्मिते, पनवेल-नगरात् १२ किलोमीटर्मिते च दूरे स्थितम् अस्ति । पनवेल-नगरात् गोवा-राजमार्गेण अपि कर्नाला-नगरं गन्तुं शक्यते । महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः अपि भ्रमणे सारल्यं भवति । पनवेल-नगरस्य रेलस्थानकं कर्नाला-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं मुम्बई-रेलविभागस्य मुख्यं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-नगरे" छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्नाला-नगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । पुणे-नगरस्थं लोहगांव-विमानस्थानकम् अपि कर्नाला-नगरस्य समीपे एव अस्ति । लोहगांव-विमानस्थानकं कर्नाला-नगरात् १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया कर्नाला-नगरं प्राप्तुं शक्नुवन्ति ।

                                     

11.11. वीक्षणीयस्थलानि बोरदी

बोरदी-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डलस्य दहानू-नगरात् १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं नगरं समुद्रतटे स्थितः अस्ति । अतः जलक्रीडाः अपि कर्तुं शक्यन्ते । अस्य नगरस्य समुद्रतटं शान्तं, कृष्णवर्णीयं च वर्तते । अस्य समुद्रतटस्य जलस्तरः न्यूनः एव भवति । अतः अस्मिन् तटे जलक्रीडाः सुरक्षितरूपेण क्रियन्ते । महाराष्ट्र-राज्यस्य" वुड्स्-संरक्षणविभागः” अस्य समुद्रतटस्य निरीक्षणं करोति । बोरदी-नगरे पारसी-समुदायस्य बहूनि धार्मिकस्थलानि सन्ति । पारसी-जनैः अस्मिन् नगरे पर्यटकेभ्यः पारसी-भोजनस्य, निवासस्य च व्यवस्था कृता । बोरदी-नगरात् ८ किलोमीटर्मिते दूरे बहरोट-गुहाः स्थिताः सन्ति । ताः गुहाः अस्य स्थलस्य आकर्षणस्य केन्द्रं वर्तते । तत्र पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं पारसीसमुदायस्य पवित्रस्थलं वर्तते । इदं क्षेत्रं १५०० पादोन्नतं वर्तते । तत्र मल्लीनाथतीर्थं, कोदबाद-मन्दिरं च अस्ति । एते मन्दिरे जैनधर्मस्य तीर्थस्थले स्तः । बोरदी-नगरात् १० किलोमीटर्मिते दूरे कल्पतरू-उद्यानं स्थितम् अस्ति । अस्य नगरस्य समीपे वृन्दावन-चलच्चित्रनिर्माणगृहं स्थितम् अस्ति । तत्र" महाभारत”," रामायण” इत्यादीनाम् ऐतिहासिकचलच्चित्राणां निर्माणं क्रियते स्म । बोरदी-नगरे दहानू-दुर्गः अस्ति । कथ्यते यत् –" एकवारं दहानू-दुर्गस्य उपयोगः कारागारत्वेन अपि कृतः” इति । अयं दुर्गः भारतस्य संस्कृतेः प्रतीकं वर्तते । वर्षतोः अनन्तरं, शीतर्तोः पूर्वं च अस्य नगरस्य वातावरणं लाभकरं, सुखदं च भवति । नवम्बर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य तापमानं १२ डिग्री सेल्सियस् मात्रात्मकं भवति । तस्मिन् काले जलवायुः अपि स्वास्थ्यकरः, समशीतोष्णः च भवति ।

महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । बोरदी-नगरात् दहानू-रेलस्थानकं १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं बोरदी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । घोलवद-रेलस्थानकम् अपि समीपे एव स्थितम् अस्ति । बसयानैः भाटकयानैः वा ताभ्यां रेलस्थानकाभ्यां बोरदी-नगरं प्राप्यते । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं बोरदी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकात् भाटकयानैः बसयानैः वा बोरदी-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च बोरदी-नगरं गन्तुं सारल्यं भवति ।

                                     

11.12. वीक्षणीयस्थलानि सतारा

सतारा-नगरं महाराष्ट्र-राज्यस्य सतारा-मण्डलस्य मुख्यालयः अस्ति । सतारा-मण्डलस्य उत्तरदिशि, पुणे-मण्डलं, दक्षिणदिशि साङ्गली-मण्डलं, पूर्वदिशि सोलापुर-मण्डलं, पश्चिमदिशि रत्नागिरि-मण्डलं च अस्ति । एतत् परितः सप्तपर्वताः सन्ति । जरन्देश्वर-पर्वतः, यवतेश्वर-पर्वतः, जिङ्क्यात्रा-पर्वतः," कित्लिचा डोङ्गर”-पर्वतः, सज्जनगढ-पर्वतः," पैदयाचा बैरोबा”-पर्वतः," नक्दिचा डोङ्गर”-पर्वतः, अतः एव इदं नगरं" सतारा” इति कथ्यते । पुरा अस्मिन् नगरे राष्टकूट-राजवंशस्य शासनम् आसीत् । अनन्तरं चालुक्यवंशस्य, मौर्यवंशस्य शासनम् आसीत् । सप्तदशशताब्द्याम् अत्र मराठा-वंशस्य शासनम् आसीत् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । अस्य नगरस्य पर्यटनस्थलेषु जिङ्क्यात्रा-दुर्गः प्रसिद्धः अस्ति । अस्य दुर्गस्य निर्माणं भोज-राज्ञा कारितम् । अयं दुर्गः ३००० पादोन्नतः अस्ति । अस्मिन् दुर्गे मङ्गलाईदेव्याः मन्दिरम् अपि अस्ति । सतारा-नगरस्य इतिहासः समृद्धः वर्तते । अस्य नगरस्य दुर्गाः, मन्दिराणि, वन्याभयारण्यानि, प्राकृतिकसौन्दर्यं च आकर्षणस्य केन्द्रं विद्यते ।

सतारा-नगरं पुणे-बेङ्गळूरु-राजमार्गे स्थितम् अस्ति । सतारा-नगरात् पुणे-नगरं १२० किलोमीटर्मितं, मुम्बई-महानगरं २७० किलोमीटर्मितं च दूरे स्थितम् अस्ति । महाराष्ट्रस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । सतारा-नगरे एकं रेलस्थानकं वर्तते । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, बेङ्गळूरु-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकं सतारा-नगरस्य समीपस्थं विमानस्थानकं वर्तते । सतारा-नगरात् पुणे-विमानस्थानकं १०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । अनेन प्रकारेण सतारा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः भ्रमणार्थम् इच्छुकाः यात्रिकाः सरलतया सतारा-नगरं गन्तुं शक्नुवन्ति ।

                                     

11.13. वीक्षणीयस्थलानि रत्नागिरि

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अरबसागरस्य तटे स्थितमिदं नगरम् । ई. स. १७३१ तमे वर्षे शिवाजी-राज्ञः शासनानन्तरम् अस्मिन् नगरे सात्र-राजभिः स्वस्य आधिपत्यं स्थापितम् । ई. स. १८१८ तमात् वर्षात् ब्रिटिश्-शासकैः शासनं कृतम् । पुराणानानुसारं कथ्यते यत् –" यदा पाण्डवैः चतुर्दशवर्षाणां वनवासः कृतः । तदा तैः तेषु वर्षेषु कश्चित् कालः रत्नागिरि-नगरे यापितः । तस्मिन् समये यः राजा अत्र शासनं कुर्वन् आसीत्, तेन कौरवाणां विरोधाय पाण्डवानां साहाय्यं कृतम् । एवं च महाभारतयुद्धे अपि तेन भागः गृहीतः । रत्नागिरि-नगरे जयगढ-दुर्गः आकर्षणस्य केन्द्रम् अस्ति । अस्य नगरस्य समीपे रत्नादुर्ग-दुर्गः अपि अस्ति । अयं दुर्गः ६०० वर्षेभ्यः प्राचीनः अस्ति । रत्नागिरि-नगरे इतिहासस्य, धर्मस्य, प्रकृतेः इत्यादीनां सर्वेषां मिश्रणम् अस्ति । अत्र मराठासंस्कृतेः अत्यधिकः प्रभावः अस्ति । रत्नागिरि-नगरे माण्डवी-समुद्रतटम् अस्ति । अस्य समुद्रतटस्य सिकता कृष्णवर्णीया अस्ति । गणपतिपुले-समुद्रतटं, गणेशघुले इत्येते द्वे स्थले अपि मुख्ये स्तः । गणपतिपुले-समुद्रतटस्य समीपे स्वयंभूगणपतेः प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं ४०० वर्षेभ्यः पुरातनम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ यात्रिकाः भ्रमणार्थं तत्र गच्छन्ति । किन्तु यदि येभ्यः जनेभ्यः आम्रं रोचते, तैः ग्रीष्मर्तौ तत्र गन्तव्यम् ।

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य बृहत्तमनगरेषु अन्यतमं वर्तते । अतः अत्र परिवहनाय कष्टं नास्ति । इदं नगरं सप्तदशक्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय अल्पमूल्यकानि बसयानानि प्रचालितानि सन्ति । तैः बसयानैः यात्रिकाः रत्नागिरि-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति । रत्नागिरि-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं कोङ्क-रेलमार्गे स्थितम् अस्ति । भारतस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति इदं रेलस्थानकम् । रत्नागिरि-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगरा, गोवा-नगराय, कोल्हापुर-नगराय, च नियमितरूपेण रेलयानानि प्राप्यन्ते । रत्नागिरि-नगरे एकं विमानस्थानकम् अपि स्थितम् अस्ति । रत्नागिरि-नगरात् इदं विमानस्थानकं १२ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं रत्नागिरि-ग्रामात् ३७० किलोमीटर्मिते दूरे स्थितः अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः, धूमशकटयानैः वा रत्नागिरि-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च रत्नागिरि-ग्रामः सरलतया गन्तुं शक्यते ।

                                     

11.14. वीक्षणीयस्थलानि सजन

सजन-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितम् अस्ति । इदं नगरं मुम्बई-नगरात् १३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् नगरे" चीकू”-फलस्य, आम्रस्य च विपुलतया उत्पादनं क्रियते । पुर्तगाली-जनैः यदा भारते आक्रमणं कृतम् आसीत्, तदा तैः सजन-नगरं विश्रामस्थलत्वेन उपयुक्तम् । ई. स. १३०० तमवर्षतः १६६० तमवर्षपर्यन्तम् अस्मिन् नगरे मुस्लिम-शासनम् आसीत् । मराठा-शासकानां शासनकाले सजन-नगरस्य उन्नतिः जाता । अस्मिन् नगरे बहूनि धार्मिकस्थलानि स्थितानि सन्ति । अस्मिन् नगरे पलूसा-जलप्रपातः अस्ति । अयं जलप्रपातः ६० पादोन्नतः वर्तते । टाईगर-गुहाः, कोहेज-दुर्गः इत्येते अस्य नगरस्य ऐतिहासिके स्थले स्तः । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः सजन-नगरं गन्तुं शक्यते । सजन-नगरं मुम्बई-नगरेण, पुणे-नगरेण, ठाणे-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ठाणे-नगरस्य रेलस्थानकं सजन-नगरस्य समीपस्थं रेलस्थानकं वर्तते । ठाणे-रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ठाणे-नगरात् भाटकयानैः, बसयानैः च सजन-नगरं गन्तुं शक्यते । मुम्बई-महानगरे" छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं सजन-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा सजन-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सजन-नगरं सरलतया गन्तुं शक्नुवन्ति ।

                                     

11.15. वीक्षणीयस्थलानि अजन्ता-गुहाः

अजन्ता-गुहाः महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । ई. स. २०० वर्षाणि पूर्वतः ई. स. द्वितीयशताब्दीपर्यन्तम् एतासां गुहानां निर्माणकाः मन्यते । एतासु गुहासु भगवतः बुद्धस्य मूर्तयः, चित्राणि च दृश्यन्ते । भगवतः बुद्धस्य जन्मकालस्य प्रसङ्गाः अपि चित्रेषु दृश्यन्ते । तत्र आहत्य नवविंशतिः गुहाः सन्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः" विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन UNESCO” इमाः गुहाः वैश्विकसम्पत्तित्वेन उद्घोषिताः । एतासु गुहासु बौद्ध-धर्मस्य, हिन्दुधर्मस्य. जैनधर्मस्य च कलाकृतयः सन्ति । एकोनविंशतितमायां शताब्द्यां ब्रिटिश्-सैनिकाः औरङ्गाबाद-नगरस्य समीपस्थानि वनानि आखेटाय गतवन्तः, तस्मिन् समये ते एताः गुहाः दृष्टवन्तः । तैः त्वरितमेव पुरातत्त्वविभागाय सन्देशः प्रेषितः । तत्पूर्वं न कोऽपि एतासां गुहानां विषये जानाति स्म ।

अजन्ता-स्थलात् औरङ्गाबाद-नगरं ९६ किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । अजन्ता-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् अजन्ता-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्मात् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि अजन्ता-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अजन्ता-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अजन्ता-स्थलं प्राप्तुं शक्नुवन्ति ।

                                     

11.16. वीक्षणीयस्थलानि एलोरा-गुहाः

एलोरा-गुहाः महाराष्ट्रराज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । औरङ्गाबाद-नगरात् इदं स्थलं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः" विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन UNESCO” इमाः गुहाः वैश्विकसम्प्रतित्वेन उद्घोषिताः । मन्यते यत् –" इमाः गुहाः राष्ट्रकूट-राजवंशस्य शासनकाले निर्मिताः आसन्” इति । एतासां गुहानां भागत्रयं वर्तते । बौद्धभागः, हिन्दुभागः, जैनभागश्च । बौद्धभागे द्वादश गुहाः, हिन्दुभागे सप्तदश गुहाः, जैन भागे पञ्च गुहाः च सन्ति । एतासु गुहासु सुन्दरकलाकृतयः सन्ति ।" सर्वासु गुहासु जलस्रोतांसि सन्ति” इति सर्वासां गुहानां वैशिष्ट्यम् अस्ति । अतः एव साधवः, भिक्षवः च एतासु गुहासु निवसन्ति स्म । यतः तत्र जलसौकर्यम् आसीत् ।

एलोरा-स्थलात् औरङ्गाबाद-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । एलोरा-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् एलोरा -स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्माद् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि एलोरा -स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण एलोरा-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया एलोरा-स्थलं प्राप्तुं शक्नुवन्ति ।

                                     

12.1. परिवहनम् भूमार्गः

ई. स. २००५ वर्षस्य मार्चमासपर्यन्तं महाराष्ट्रराज्यस्य मार्गाणाम् आहत्य दैर्घ्यं २.२९ लक्षकिलोमीटरमितम् आसीत् । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४,३६७ किलोमीटरमितं, प्रान्तीयराजमार्गाणां दैर्घ्यं ३३,४०६ किलोमीटरमितं, प्रमुखमण्डलस्थमार्गाणां दैर्घ्यं ४८,८२४ किलोमीटरमितम्, अन्यमण्डलस्थमार्गाणां दैर्घ्यं ४४,७९२ किलोमीटरमितं, ग्राम्यमार्गाणां दैर्घ्यं ९७,९१३ किलोमीटरमितं च आसीत् । अस्य राज्यस्य पञ्च राजमार्गाः इदं राज्यं देहली-महानगरेण, इलाहाबाद-नगरेण, कोलकाता-महानगरेण, हैदराबाद-महानगरेण, बेङ्गळूरु-महानगरेण च सह योजयन्ति । सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति ।

                                     

12.2. परिवहनम् धूमशकटमार्गः

महाराष्ट्रराज्ये रेलमार्गाणां दैर्घ्यं ५,५२७ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये मुम्बई-नगरस्य, पुणे-नगरस्य, वर्धा-नगरस्य, नागपुर-नगरस्य इत्यादीनां नगराणां रेलस्थानकानि प्रमुखाणि सन्ति । एतैः रेलस्थानकैः इदं राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।

                                     

12.3. परिवहनम् वायुमार्गः

महाराष्ट्रराज्ये सप्तदश-विमानस्थानकानि सन्ति । तैः महाराष्ट्रराज्यं भारतस्य विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरस्य" छत्रपति शिवाजी”-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तस्माद् विमानस्थानकात् अमेरिका, यूरोप, सिङ्गापुर, ऑस्ट्रेलिया इत्यादीन् देशान् गन्तुं वायुयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य विमानस्थानकानि महाराष्ट्रराज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयन्ति ।

                                     
  • अस य मण डलस य प र व खरग नमण डल पश च म मह र ष ट रर ज यम उत तर ध रमण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल नर मद नद प रवहत अस य
  • मण डलस य प र व मह र ष ट रर ज य पश च म मह र ष ट रर ज यम उत तर खण डव मण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल त प नद प रवहत अस य
  • चत रस रक ल म टर म त अस त अस य मण डलस य प र व दन त व ड मण डलम पश च म मह र ष ट रर ज यम उत तर न र यणप रमण डलम दक ष ण आन ध रप रद शर ज यम च अस त अत र
  • मण डल मण डल पश च म छ न दव ड मण डलम उत तर जबलप रमण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल व णगङ ग नद प रवहत जनगणन न ग ण स वन मण डलस य
  • छत त सगढर ज य पश च म स वन मण डलम उत तर मण डल मण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल व णगङ ग नद प रवहत अस य मण डलस य दक ष ण - प र वभ ग
  • स वन मण डल पश च म नरस हप रमण डलम उत तर ब त लमण डल दक ष ण मह र ष ट रर ज यम अस त जनगणन न ग ण छ न दव ड मण डलस य जनसङ ख य अस त
  • चत रस रक ल म टर म त अस त अस य मण डलस य प र व ओड श र ज यम पश च म मह र ष ट रर ज यम उत तर र जनन दग वमण डलम दक ष ण दन त व ड मण डलम च अस त
  • मह र ष ट रर ज य पश च म नवस र मण डलम उत तर त प मण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल म ल ल म टर म त व र ष कव ष ट प त भवत
  • द र गमण डलम पश च म इन द र वत नद उत तर कब र ध म - मण डलम दक ष ण मह र ष ट रर ज यम मध यप रद शर ज यम च अस त जनगणन न ग ण र जनन दग वमण डलस य
  • मह र ष ट रर ज य पश च म गल फ आफ खम भ त उत तर नवस र मण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल म ल ल म टर म त व र ष कव ष ट प त भवत
  • छ न दव ड मण डल पश च म हरद मण डलम उत तर ह शङ ग ब दमण डल दक ष ण मह र ष ट रर ज यम अस त अस म न मण डल त प नद प रवहत जनगणन न ग ण ब त लमण डलस य