ⓘ देहली. दिल्ली अथवा देहली भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते ..

रघुराम राजन्

रघुराम गोविन्द राजन् भारतीय अर्थशास्त्रज्ञयः अस्ति। सः अन्तर्राष्ट्रीय वित्तकोषस्य मुख्य अर्थशास्त्रज्ञयः एवम् संशोधन विभागस्य प्रधानः आसीत्। सः २०१३ वर्षे भारतीय रिसर्व बैंकस्य प्रधानः अभवत्। तत् काले सः अधिकोष-सङ्कट समाधानम् अकरोति। सः अङ्कीय व्यवहाराणिः समुन्नमतिम् अकरोति। १९९१ वर्षे चिकागो विश्वविद्यालयहा बुथ् स्कूल ओफ़् बुसिनेस्स कलाशालायाहा वित्तउपप्राध्यापक पदं अस्विकरोति च १९९५ वर्षे पूर्णकाल प्राध्यापकः अभवत्। सः स्टोकोल्म् स्कूल ओफ़् एकोनोमिक्स्, केल्लोग स्कूल ओफ़् मेनेज्मेण्ट्, एम. ऐ. टि. स्लॉन् स्कूल ओफ़् मेनेज्मेण्ट्, इण्डियन स्कूल ओफ़् बुसिनेस्स संस्थानेषु अचिरस्थायी प्राध्या ...

कारगिलयुद्धम्

कारगिलयुद्धं भारतस्य ऐतिहासिकविजयस्य स्मारकत्वेन इतिहासे अङ्कितम् अभवत् । १५,००० मीतपादौन्नते पर्वते एतत् युद्धं जातम् आसीत् । पाकिस्थानदेशेन कारगिल, द्रास, बटालिक इत्यादिभ्यः स्थानेभ्यः भारतस्योपरि आक्रमणं कृतम् आसीत् । भारतगणराज्यस्य जम्मूकाश्मीरराज्यस्य श्रीनगर-महानगरस्य, लेह-नगरस्य च मध्ये स्थितं राष्ट्रियमहामार्गं ध्वंसितुं पाकिस्थानस्य प्रयासः आसीत् । परन्तु पाकिस्थानस्य सैनिकानां सः प्रयासः भारतीयसैनिकैः खण्डितः । तस्मिन् युद्धे भारतेन पाकिस्थानस्योपरि महान् विजयः प्राप्तः । पाकिस्थानविरुद्धं यत् युद्धं भारतगणराज्यम् अकरोत्, तस्याः युद्धस्य योजनायाः नाम ‘ऑपरेशन् विजय’ आसीत् ।

लोकसभानिर्वाचनम् २०१९

निर्वाचनम् सप्तसु घट्टेषु चाल्यते। मतगणना मे २३ दिनाङ्के। बिहार-उत्तरप्रदेश-पश्चिमबङ्गालराज्येषु सप्तस्वपि घट्टेषु निर्वाचनं चाल्यते। निर्वाचने ९० कोटिजनाः मतदानं कर्तुम् अर्हाः आसन्। निर्वाचने आहत्य ६७% प्रजाः मतदानम् अकुर्वन्। एतत् भारतीयनिर्वाचनेतिहासे अधिकतमं मतदानं विद्यते। २०१९ वर्षस्य लोकसभानिर्वाचने महिलाः अपि अधिकसङ्ख्यया मतदानम् अकुर्वन्।

                                     

ⓘ देहली

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।

                                     

1. भारतस्य राजधानी

भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।

                                     

2. देहलीनगरस्य इतिहासः

देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः अनङ्गपालः क्रिस्ताब्दे १०६० तमे वर्षे लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वाणः तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् कुतुब् मिनार्भवनं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं कौरवाः हस्तिनावतीनगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थनगरे पुरानाकिलाभागे प्रशासनं कुर्वन्ति स्म । देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरःअत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । भारतस्य सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति ।

                                     

3. देहल्याः प्रेक्षणीयस्थानानि

जन्तर् मन्तर् ग्रहतारावीक्षणालयः

देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः "ग्रहतारावीक्षणालयः" १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।

                                     

3.1. देहल्याः प्रेक्षणीयस्थानानि राष्ट्रपतिभवनम् मोगल् गार्डन् च

राष्ट्रपतिभवनं भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् । १३० हेक्टरप्रदेशे व्याप्तम्, राष्ट्रपतिभवनं परितः मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिःगुम्बज़् अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । A Paradise on Earth, A garden of beauty इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त्, हेलिगोनिया, डापोडिल्स्, आर्किड्, स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, हैदराबाद् कोच्ची इत्यादिप्रदेशेभ्यः आनीतानि । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति । ४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति ।



                                     

3.2. देहल्याः प्रेक्षणीयस्थानानि कुतुब् मिनार्

कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः, तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।

                                     

3.3. देहल्याः प्रेक्षणीयस्थानानि फेरी क्वीन्

फेरिक्वीन् – हेरिटेज् धूमशकटम् - देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति । अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति । अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं कर्णाटकम् आगतम् आसीत् । मेहरौली, कुतुब् मिनार् समीपे एतस्य स्थानम् अस्ति।



                                     

3.4. देहल्याः प्रेक्षणीयस्थानानि जन्तर् मन्तर् ग्रहतारावीक्षणालयः

देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः "ग्रहतारावीक्षणालयः" १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।

                                     

3.5. देहल्याः प्रेक्षणीयस्थानानि संसद् भवनम्

संसत् भवनम् वृत्ताकारकं भवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थानानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति ।

                                     

3.6. देहल्याः प्रेक्षणीयस्थानानि मेहरौली अयस्स्तम्भः

कुतुब् मिनार् इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति ।

                                     

3.7. देहल्याः प्रेक्षणीयस्थानानि इतरदर्शनीयानि स्थानानि

देहलीनगरे अनेक मुस्लिमराजानां म्रुतस्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोधिवंशीयानां स्मारकाणि, मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु, इत्यादीनि प्राणिसङ्कुलानि सन्ति । राजघाट् प्रदेशे विशाले उद्याने महात्मा गान्धिः जवाहरलालनेहरुः लालबहादुरशास्त्री श्रीमती इन्दिरागान्धिः इत्येतेषां स्मारकाणि सन्ति । बिर्लामन्दिरम् इति ख्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति । देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति । देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम्, न्याशनल् म्यूसियम्, नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् रक्तदुर्गं, कुतुब् मिनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं, तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। भारतस्य सर्वराज्यानां राजधानीभ्यः वाहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।



                                     
  • अत र पर वर तन क त व द हल उच चन य यलयस य म ह त द तव य
  • द हल म ट र द हल नगरस य क च त पर वहनस व ध तम वर ष द हल म ट र र लय न न स म न यन गर क भ य तत क ल न न प रध नमन त र ण अटलब ह र व जप य न उद घ ष त
  •  स क ष त अध गच छत द हल अण डम नन क ब रद व पसम ह चण ड गढ द दर नगरहव ल च दमन द व च लक षद व प प द च च र भ रतस य क न द रश स तप रद श
  • आक रमण क तम आस त अय प रथम म स ल मश सक आस त ई. स. तमवर षत द हल - स म र ज यस य ध न य आस त अष ट दशशत ब द पर यन तम इद र ज य म गल - स म र ज यस य
  • इत यत र गङ ग नद य म लत एष नद उत तर खण ड - हर य ण - द हल - उत तरप रद शर ज य न म र ग ण प रवहत द हल मथ र आग र इत य द प रम खनगर ण अस य त र सन त
  • जयगढद र ग च अस त जयप र य द हल म म बई, अहमद ब द, क लकत औरङ ग ब द मह र ष ट रम इत य द नगर भ य व म नसम पर क अस त द हल - त प ङ कस ट एक स प र स
  • स व तन त र य नन तरम अप स र जन त सक र य एव आस त ई. स. तम वर ष स द हल - नगरस य प रथम मह प र अभवत ई. स. तम दशक तय प रच र - प रस रम ध यमक न द रम
  • ग व ल यर - नगरस य मध य स थ तम अस त इद र लस थ नक द हल - च न न - र लम र गस य म ख य र लस थ नकम अस त द हल च न न क लक त भ प ल, उज ज न, इन द र, म म बई
  • उत तर - पश च मद श पञ ज ब - र ज य प र वद श उत तरप रद श - र ज यम उत तर खण ड - र ज य द हल - र ज य च स थ तम अस त यम न - नद हर य ण - र ज यस य प रम ख नद अस त
  • त व रतम स धन वर तत म म बई - र लस थ नकम इन द र - नगर ण, ब ङ गळ र - नगर ण, द हल - नगर ण, क लक त - नगर ण, प ण - नगर ण, भ प ल - नगर ण इत य द भ भ रतस य प रम खनगर
  • द र ऽस त द हल - जयप र - म म बई - अजम र द नगर भ य व म नसम पर क अस त प य ल स आन द व ह ल स इत य तत स प रस द ध र लय नम अस त द हल - त च तक - एक स प र स