ⓘ झारखण्डराज्यम्. झारखण्डराज्यं भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्म ..

                                     

ⓘ झारखण्डराज्यम्

झारखण्डराज्यं भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं, दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राँची अस्य राजधानी । जमशेदपुर अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद, बोकारो, हजारीबाग च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine, Pictureque इति उक्तवन्तः सन्ति। बेट्ला, हजारीबाग, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची, दुमका इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।

                                     

1. झारखण्डराज्यस्य प्रेक्षणीयस्थानानि

राञ्ची

राञ्ची झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः २३ कि.मी, ट्यागोर् हिल् राञ्चीजलबन्धः इत्यादीनि दर्शनीयानि सन्ति ।

जमशेदपुरम्

अस्मिन् नगरे हजारीबागतः ११८ कि.मी अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते । राञ्चीप्रदेशे देवगढ्, रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः २४ तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति । झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।

वाहनमार्गः

राक्साल्, पाटना, गया इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।

                                     

2. इतिहासः

गौतमकुमारबेरा, अन्ये च केचन इतिहासकाराः उल्लिखन्ति यत् मगधसाम्राज्यात् पूर्वमपि झारखण्डनामकः कश्चन भूराजनैतिकः सांस्कृतिकः समूहः आसीत् इति । तस्य पुस्तके पृष्ठम्-३३ भविष्यपुराणस्य उल्लेखः अपि क्रियते । मुण्डराजाः इति कथ्यमानाः केचन वनवासिराजाः महत्याः कृषिभूसम्पदः स्वामिनः आसन् । मुघलसाम्राज्यावसरे झारखण्डप्रदेशः कुकरप्रदेशः इति प्रसिद्धः आसीत् ।

                                     

3. झारखण्डः - पृथक् राज्यम्

झारखण्डराज्यं २००० तमे वर्षे नवम्बर्मासस्य १५ दिनाङ्के सक्रियं जातम् । ततः पूर्वं पञ्चाशदधिकवर्षाणि एतन्निमित्तं जनानाम् आन्दोलनं सञ्जातम् । इदं भारतस्य २८ तमं राज्यम् । सर्वकारः तस्मिन् प्रदेशे विद्यमानानाम् आदिवासिनाम् अन्येषां च सामाजिक-आर्थिकस्थितीनां समानरीत्या संवर्धयितुम् अशक्तः जातः इत्यतः एव वनवासिनाम् एव पृथक्प्रदेशः करणीयः अभवत् । १९९१ तमस्य वर्षस्य जनगणतेः अनुसारम् अस्य राज्यस्य जनसङ्ख्या २,००,००,००० । एषु २८% वनवासिनः, १२% अनुसूचितजातिजनाः च विद्यन्ते । झारखण्डराज्ये २४ मण्डलानि, २१२ विभागाः, ३२,६२० ग्रामाः च विद्यन्ते । एतेषु ४५% ग्रामेषु विद्युद्व्यवस्था विद्यते । ८,४८४ ग्रामाणां मार्गसम्पर्कः विद्यते । देशे धातुसम्पदः उत्पादकेषु राज्येषु झारखण्डराज्यं द्वितीयस्थाने विद्यते छत्तीसगढराज्यं प्रथमम् । अयःIron, अङ्गारः, ताम्रम्copper, अभ्रकम्mica, स्फोदिजःbauxite, कौकिलेयःgraphite, कर्करःlimestone, युरेनियम् इत्यादयः धातवः अत्र उपलभ्यन्ते । झारखण्डराज्यं स्वस्य अरण्यसम्पदः निमित्तमपि प्रसिद्धं वर्तते ।

एवं विद्यते चेदपि राज्यस्य सामान्यजनानां जीवने बहु परिवर्तनं न दृश्यते । जनाः राज्यस्य अभिवृद्धै प्रयतमानाः सन्ति, सक्रियाः दृश्यन्ते । तेषां सांस्कृतिकसम्पत्तिः समृद्धा विद्यते - विभिन्नाः भाषाः, विविधाः उत्सवाः, जनपदसङ्गीतं, नृत्यम् अन्याः साम्प्रदायिक्यः कलाः ।



                                     

4. वातावरणम्

राज्यस्य महान् भागः छोटा-नागपुर-शैलप्रस्थभूमौ विद्यते यः कोयल्, दामोदर्, ब्राह्मणि, खार्कै, सुबर्नरेखा इत्येतासां नदीनां स्रोतः वर्तते । बहु भागः अरण्यप्रदेशः इत्यतः व्याघ्राः गजाश्च अधिकसङ्ख्याकाः सन्ति । झार्खण्डराज्यस्य मृत्तिकासु महान् भागः महाशिला-शिलाखण्डानां विघटनेन उत्पन्नः अस्ति । मृत्तिकाः एवं विभक्ताः सन्ति -

                                     

5. सस्य-प्राणिसम्पत्तिः

सस्यसम्पत्तिः प्राणिसम्पत्तिश्च अस्मिन् राज्ये समृद्धा अस्ति । अत्र विद्यमानेषु राष्ट्रियोद्यानेषु सस्योद्यानेषु च वैविध्यता दृश्यते । लतेहर्मण्डले विद्यमानं २५० चतरस्र कि मी विस्तारयुतं बेट्लाराष्ट्रियोद्यानं बर्वाडितः ८ कि मी दूरे विद्यते । अस्मिन् व्याघ्राः, गवलाःवनमहिषाः, हरिणाः, वनसूकराः, अजगराः, चित्रहरिणाः, शशाः इत्यादयः विद्यन्ते । सस्तनिजातिप्राणिनः - विविधाः वानराः, नीलवृषभाः, अरण्यसूकराश्च । १९७४ तमे वर्षे इदम् उद्यानं व्याघ्ररक्षणप्रकल्पत्वेन घोषितम् ।

एतादृशमेव अन्यदेकं हजारीबाग्-वैल्ड्लैफ्-साङ्क्चुरि-नामकम् उद्यानं राञ्चितः १३५ कि मी दूरे प्राकृतिकसौन्दर्येण युक्तं वर्तते । बोकारो-स्टील्-नगरे विद्यमानं जवहरलाल्-सस्यशास्त्रीयोद्यानं झारखण्डराज्ये विद्यमानं बृहत्तमं सस्यशास्त्रीयोद्यानम् । २०० एकर्मिते विस्तारयुते अस्मिन् उद्याने बहु विधाः प्राणिनः पक्षिणश्च विद्यन्ते । अत्र कृतकजलोद्यानं, नौकाविहारः च विद्यते । बिर्सा मुण्डा जैविकोद्यानं राञ्चीतः १६ कि मी दूरे विद्यते । अत्र अधिकाः सस्तनिप्राणिनः विद्यन्ते ।

                                     

6. जनसङ्ख्याशास्त्रम्

झारखण्डराज्यस्य जनसङ्ख्या ३,२९,६०,००० - पुरुषाः - १,६९,३०,००० महिलाः - १,६०,३०,००० । लिङ्गानुपातः ९४७ महिलाः: १००० पुरुषाः । जनसङ्ख्यायां २८% वनवासिनः, १२% अनुसूचितावल्यां विद्यमानाः, ६०% अन्ये च । राज्यस्य जनसङ्ख्यानिबिडता अस्ति - चतरस्रकिलोमीटर्मितायां भूमौ ४१३ जनाः । इयं परिवर्तते - गुम्लामण्डले चतरस्रकिलोमीटर्मितायां भूमौ १४८ जनाः कनिष्ठम् धान्बाद्मण्डले चतरस्रकिलोमीटर्मितायां भूमौ ११६७ जनाः । जनगणनाविवरणं दर्शयति यत् क्रमशः राज्ये वनवासिनां सङ्ख्या न्यूना जायमाना अस्ति, वनवासिभिन्नानां सङ्ख्या वर्धमाना अस्ति इति । वनवासिनां जननप्रमाणस्य अल्पता, मरणप्रमाणस्य आधिक्यम्, अन्येषाम् अत्र आप्रवासः, इतः वनवासिनां देशान्तराधिवासनम्, औद्योगिकीकरणस्य दुष्परिणामाः, नगरीकरण्म् इत्यादयः अस्य हेतवः । वनवासिनः वदन्ति यत् विवरणमिदं न युक्तम्, वयमेव अधिकसङ्ख्याकाः स्मः इति । स्वातन्त्रप्राप्तेः अनन्तरं देशस्य प्रगत्यर्थं कृतायाः योजनायाः द्वारा एव झारखण्डराज्यस्य जनसङ्ख्यायां महत् परिवर्तनं दृष्टमित्येषः विपर्यासः एव । १९५१ तमात् वर्षात् केन्द्रजल-आयोगेन ९० मुख्याः जलबन्धाः, ४०० सामान्यजलबन्धाः, ११,८७८ लघुबन्धाः च निर्मिताः । ७९ मुख्यानि औद्योगिककेन्द्राणि कार्यागाराश्च निर्मिताः । एताभिः निर्माणयोजनाभिः औपचरिक-आर्थिकतावलम्बिनां लाभः जातः । किन्तु अनौपचारिक-आर्थिकतावलम्बिनां प्राकृतिकसम्पत्त्यैकावलम्बिनां वनवासिनां जीविकायै महती विपत्तिः आपतिता । ३० लक्षजनाः एतासां योजनानां कारणतः स्थानान्तरिताः अभवन् । तेषु ९०% जनाः आसन् वनवासिनः ।



                                     

7. जातिप्रजातयः

वनवासिषु अधिकांशाः जगदात्मवादस्य सर्णामतस्य अनुयायिनः । इदं मतं हिन्दु-क्रैस्त-यवनमतभिन्नं किञ्चन मतम् । मुण्डरिभाषायां सर्णाइत्यस्य अर्थः पवित्रा वनिका इति । सिङ्ग बोङ्गनामके विशेषचैतन्ये एतेषां विशेषश्रद्धा । इदं जगत् असङ्ख्यानां विविधविधानां चैतन्यजीविनां वासस्थानम् इति तेषां विश्वासः । एते तैः चेतनैः सह समीपसाङ्गत्येन एव सर्वम् आचरन्ति । सर्णा इति कथ्यमानस्य साल् ट्री इज्जलवृक्षस्य अधः एव धार्मिकविधीन् आचरन्ति यत्र बोङ्ग प्रत्यक्षः भवति इति विश्वस्यते । वनवासिनां पुराणकथानुसारं सर्णामतस्य उगमः एवं जातः - कदाचित् मृगयार्थं वनं प्रति गताः वनवासिनः वृक्षस्य अधः विश्रामसुखम् अनुभवन्तः चर्चाम् आरब्धवन्तः - अस्माकं सृष्टिकर्ता रक्षकः कः? इति । सूर्यः वा? वायुः वा? मेघः वा? अन्ते तैः निर्णीतं यत् बाणं प्रमुञ्चामः, तस्य लक्ष्यीभूतं यद् भवति स एव देवस्य निवासः इति । तथैव आकाशं प्रति तैः बाणः प्रमुक्तः । सः इज्जलवृक्षस्य अधः अपतत् । ततः ते इज्जलवनिकायां सिङ्गबोङ्गस्य आराधनाम् आरब्धवन्तः । साल्ट्रीतः निष्पन्नम् इत्यतः सर्णा इति नाम । एवं सर्णामतम् अस्तित्वं प्राप्नोत् । तस्मिन् नैके कुडम् नैके इति कथ्यमानाः अर्चकाः सहार्चकाः च भवन्ति सर्वेषु सन्थाल्ग्रामेषु । पहानाः भवन्ति मुण्डाग्रामेषु । बहवः हिन्दवः विश्वसन्ति यत् इदमपि हिन्दुधर्मे साम्यं भजते यतः हिन्दुधर्मे अपि वृक्षस्य पूजा प्रचलति इति । अपि च तैः आचर्यमाणः कर्मपर्व कर्म-एकादश्यां भाद्रपदशुक्ल-एकादशी, सर्हुल्पर्व चैत्रशुक्लतृतीयायां भवति सर्वदा हिन्दुपञ्चागानुसारम् । किन्तु वनवासिषु अधिकांशाः इदम् अर्थहीनं मन्यन्ते यतः तेषु हिन्दुवर्णव्यवस्था ब्राह्मण-क्षत्रिय-वैश्य-शू्द्रादि न विद्यते । केचन आदिवासिनः आग्रहम् अकुर्वन् यत् भारतस्य जनगणनायां तेषां धर्मः पार्थक्येन उल्लेखनीयः इति । २०११ तमस्य वर्षस्य जनवरिमासस्य १-२ दिनाङ्कयोः अखिलभारतीय-आदिवासिसम्मेलनम् आयोजितम् आसीत् पश्चिमवङ्गे असन्सोल्मण्डलस्थे बर्नपुरे । अस्मिन् ७५० प्रतिनिधयः भागम् अवहन् । तैः कृतस्य मतदानस्य विवरणम् एवमस्ति - सारि धोरोम् - ६३२, सर्णा - ५१, खेर्वालिस्म् - १४, अन्ये धर्माः - ३ । झारखण्डे ३२ वनवासिगणाः सन्ति । ते असुर्, बैगा, बञ्जार, बथुडि, बेडिया, बिञ्जिया, बिर्होर्, बिर्जिय, खेरो, चिक्-बारिक्, गोन्द्, गोरैट्, हो, कार्मलि, खरिय, खार्वार्, खोन्द्, किसान्, कोरा, कोर्वा, लोह्रा, माह्लि, माल्-पहारिय, मुण्ड, ओरान्, पर्हाय, सन्ताल्, सौरिय-पहारिय, सवर्, भुम्जि, कोल्, कान्वार् च । झारखण्डराज्यस्य केषुचित् मण्डलेषु वनवासिनः एव अधिकसङ्ख्याकाः ।



                                     

8. भाषाः

राज्यभाषा हिन्दी चेदपि जनाः बहुभिः भाषाभिः व्यवहरन्ति याः गणत्रये योजयितुं शक्याः - मुण्डाभाषाः - सन्ताली, मुन्दरि, हो, खरिय, भूम्जिभाषा च । इण्डो-आर्यन्-भाषाः - बङ्गाली, ओरिया, कोसली, मैथिली, नागपुरी, सद्रि, खोर्थ, कुर्मलि, पञ्चपरगणियभाषा च । द्रविडियन्भाषाः - ओरान् कुरुख्, कोर्वा, पहारिय माल्टोभाषा च । सेन्तालि, मुण्डरि, हो भाषाः च सहोदर्यः इति कथयितुं शक्यं यतः ८०%-९०% तासां व्याकरणं समानम् अस्ति ।

                                     

9. संस्कृतिः

वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।

सम्बद्धा: विषया:

                                     
  • चत रस रक ल म टर म त अस त अस य जनपदम पर त म र श द ब दजनपदम बर धम नजनपदम झ रखण डर ज यम च अस त अस म न मण डल म ल ल म टर म त व र ष कव ष ट प त भवत
  • चत रस रक ल म टर म त अस त अस म न मण डलम पर त ओड श र ज यम झ रखण डर ज यम च अस त जनगणन न ग ण जशप रमण डलस य जनसङ ख य अस त अस म न
  • ध न अन यतम इत मह न द र स ह ध न ब ह रस य र ञ च नगर अद यतन य झ रखण डर ज यम तम वर ष ज ल म सस य द न ङ क जन म प र प न त प त प न स ह
  • र ज यस य र जध न य भवन त आन ध रप रद शर ज यम ब ह रर ज यम तथ झ रखण डर ज यम द हल ग जर तर ज यम द दर तथ नगरहव ल जम म क श म रर ज यम
  • मह र ष ट रर ज यम व द यन थ व तर क तम व द यन थमन द रम द वघरनगरम झ रखण डर ज यम च त र व द यन थमन द रम प रल नगरम मह र ष ट रर ज यम व द यन थमन द रम
  • लद ख उर द श र नगरम ग र ष मक ल जम म श तक ल झ रखण डर ज यम JH नव म बर ह न द र ञ च जमश दप र
  • झ रखण डर ज य ब ज प रमण डलम Country भ रतम States and territories of India झ रखण डर ज यम Area Total km Population Total Website
  • क म द र ब रह मग र य न कट ग द वर य त र अस त व द यन थ झ रखण डर ज यम द वघरमण डलम श वप र ण न स र व द यन थ च त भ म अस त झ र खण डर ज यस य
  • झ रखण डर ज य र ञ च मण डलम Country भ रतम States and territories of India झ रखण डर ज यम Area Total km Population Total Density
  • झ रखण डर ज य र मगडमण डलम Country भ रतम States and territories of India झ रखण डर ज यम Area Total km Population Total Density