ⓘ गोवाराज्यम्. गोवाराज्यं ˈ ɡ oʊ v ɑː r ɑː dʒ j ə m हिन्दी: गोवा, आङ्ग्ल: Goa भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तट ..

                                     

ⓘ गोवाराज्यम्

गोवाराज्यं / ˈ ɡ oʊ v ɑː r ɑː dʒ j ə m / हिन्दी: गोवा, आङ्ग्ल: Goa भारते स्थितं किञ्चन लघुराज्यम् अस्ति । गोवाराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि महाराष्ट्रराज्यं, दक्षिणदिशि कर्णाटकराज्यं, पूर्वदिशि पश्चिमघाटः, पश्चिमदिशि अरबीसमुद्रश्चास्ति । पणजी, वास्को द गामा, मडगांव चास्य राज्यस्य प्रमुखनगराणि सन्ति । पणजी-नगरं राज्यस्य राजधानी अस्ति । वास्को द गामा राज्यस्यास्य बृहत्तमं नगरमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं बहुभ्यः वीक्षणीयेभ्यः समुद्रतटेभ्यः सुप्रसिद्धमस्ति ।

गोवाराज्यस्य विस्तीर्णं ३७०२ च.कि.मी अस्ति । पणजी इति नगरमस्य राजधानी अस्ति । वास्को, फोण्डा, मडगांव, म्हापसा च राज्यस्यास्य मुख्यनगराणि सन्ति । माण्डवीनदीतीरे पणजी इत्येतत् नगरमस्ति । गोवाराज्ये सागरतीरं १०५ कि.मी दीर्घमस्ति । २७ सागरतीरप्रदेशाः सुप्रसिद्धाः सन्ति । उत्तरगोवा, दक्षिणगोवा इति द्विधा इदं राज्यं विभाजितम् अस्ति ।

                                     

1. भौगोलिकम्

गोवा-राज्यस्य विस्तारः ३,७०२ चतुरस्रकिलोमीटर्मितः वर्तते । २०११ जनगणनानुगुणं गोवाराज्यस्य जनसङ्ख्या १३,४३,९९८ अस्ति । अस्य राज्यस्य उत्तरदिशि तेरेवोल-नदी अस्ति । इयं नदी गोवा-महाराष्ट्रराज्ययोः मध्ये प्रवहति । गोवा-राज्यस्य उत्तरदिशि महाराष्ट्र-राज्यं, पूर्वदिशि, दक्षिणदिशि च कर्णाटक-राज्यं च स्थितम् अस्ति ।

                                     

1.1. भौगोलिकम् नद्यः

गोवा-राज्ये बह्व्यः प्रमुखाः नद्यः सन्ति । ताः – माण्डवी, जुआरी, तेरेवोल, चपोरा, वेतुल, सिङ्क्वोटी, गोमती च । गोवा-राज्ये प्रमुखे द्वे कूल्ये स्तः – प्रथमा चीनी, अपरा कवेपम च । माण्डवी-जुआरीनद्योः मुखे मैनग्रोव-वनम् अस्ति ।

                                     

1.2. भौगोलिकम् जलवायुः

गोवा-राज्यं कोङ्कण-क्षेत्रे स्थितम् अस्ति । अतः अस्य राज्यस्य वातावरणं मनोहरं भवति । जून-मासतः सितम्बर-मासपर्यन्तम् अस्य राज्यस्य जलवायुः आर्द्रपूर्णः भवति । वर्षर्तौ सामान्यतः ३२०० से.मी.मात्रात्मिका वृष्टिः भवति । ग्रीष्मर्तौ गोवा-राज्यस्य अधिकतमं तापमानं २४ डिग्री सेल्सियस् तः ३२.७ डिग्री सेल्सियस् पर्यन्तं भवति । शीतर्तौ च अस्य न्यूनतमं तापमानं ३२.२ डिग्री सेल्सियस् तः २१.३ डिग्री सेल्सियस् पर्यन्तं भवति ।

                                     

1.3. भौगोलिकम् वनानि

गोवा-राज्ये" भगवान्महावीरराष्ट्रियोद्यानम्” स्थितम् अस्ति । उद्यानमिदं १०७ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्मिन् उद्याने भाल्लुकाः Bear, कुञ्जराः Elephant, चित्रव्याघ्राः leopard, अजगराः, सर्पाः, कस्तूरीमृगाः, वृक्षशायिकाः चेत्यादीनां जीवानां विभिन्नप्रजातयः प्राप्यन्ते । अस्मिन् प्रदेशे अन्यानि अपि अभयारण्यानि सन्ति । तानि –" मोलेम-वन्यप्राणी-अभयारण्यं”," बोण्डला-वन्यप्राणी-अभयारण्यं”," कोटिगो-वन्यप्राणी-अभयारण्यं” च । गोवा-राज्ये" डॉ. सलीम अली पक्षि-उद्यानम्” अपि स्थितम् अस्ति ।

                                     

2. पौराणिकी गोवापुरी

गोवाराज्यस्य प्रप्रथमोल्लेखः महाभारतस्य भीष्मपर्वणि उपलभ्यते । भीष्मपर्वणि गोमन्त इति नामोल्लेखः अस्ति, यस्यार्थः भवति गवां प्रदेशः इति । स्कन्दपुराणस्य सह्याद्रिखण्डे उल्लिखितमस्ति यत्, परशुरामेण सह्याद्रिपर्वतसमीपस्थं समुद्रजलं प्रतिप्रेषिते सति अस्य प्रदेशस्य रचना जाता इति । पुराणकथास्ति यत्, परशुरामः सप्तर्षिभ्यः यज्ञयोग्यम् उचितं स्थानम् अन्वेषयन् भारतस्य पश्चिमभागे सह्याद्रिपर्वतं प्राप्तवान् । पश्चिमसमुद्रतटस्थं सह्याद्रिपर्वतं सम्प्राप्य सः समुद्रमग्नं पवित्रस्थलं दृष्टवान् । परन्तु समुद्रजलत्वात् यज्ञक्रिया नार्हति इति चिन्तयन् सह्याद्रिपर्वतशिखरात् सप्तशरैः समुद्रजलमेव प्रतिप्रेषितवान् सः । अतः सः प्रदेशः परशुरामक्षेत्रम् इति प्रसिद्धः जातः । ततः सप्तर्षयः तस्मिन् स्थले रुद्रयागं कृतवन्तः । रुद्रयागेन प्रसन्नः शिवः सप्तर्षिभ्यः आशीर्वादं दत्त्वा सप्तकोटेश्वररूपेण तत्रैव निवसतुम् आरभत । पुराणे कुत्रचित् उल्लिखितमस्ति यत्, शिव-पार्वत्योः विवादः यदा जातः, तदा किञ्चित् समयपर्यन्तं गोमन्तप्रदेश एव शिवस्य निवासस्थानम् आसीत् इति । हरिवंशपुराणानुसारं श्रीकृष्णः जरासन्धवधं यस्मिन् गोमाञ्चलपर्वते कृतवान्, सः पर्वतः गोवाप्रदेश एवास्ति । गोवापुरी पवित्रतमप्रदेशेषु अन्यतमः अस्ति इति नारदपुराणस्य उत्तरार्धस्य चतुस्सप्ततितमे ७४ अध्याये उल्लिखितमस्ति । तस्मिन्नेवाध्याये गोवाप्रदेशस्य स्थाननिर्धारणं, माहात्म्यं, रचनाकथां च वसुनामकः कश्चन गुरुः मोहिनीनामिकां शिष्याम् उद्दिश्य वर्णयति । एनम् अध्यायं निश्चयेन पठन्तु । ब्रह्माण्डपुराणेऽपि गोवापुर्याः उल्लेखः अस्ति । तद्यथा -

स्कन्दपुराणेऽपि एवम् उल्लिखितम् अस्ति -



                                     

3. इतिहासः

इतिहासानुसारं क्रिस्ताब्दे चतुर्थे शतके शतवाहनवंशीयाः, तदनन्तरं क्रमेण चालुक्यवंशीयाः, कोङ्कणशिलहरवंशीयाः, गोवाकदम्बवंशीयाः ९८०-१५५५, कोङ्कणभोजवंशीयाः च अत्र प्रशासनं कृतवन्तः । अग्रे यादवान् पराजित्य मोघलवंशीयाः अधिकारं प्राप्तवन्तः । अनन्तरं विजयनगरराजानः, बहमनीवंशीयाः च अत्र प्रशासनाधिकारं प्राप्तवन्तः आसन् । चतुर्दशे शतके बिजापुरस्य आदिलशाहीवंशीयानाम् अधीनम् आसीत् एतत् राज्यम् । १५१० तमे वर्षे पुर्तुगालदेशीयानां शासनम् आरब्धम् । ई. स. १९४७ तमे वर्षे यदा भारतेन स्वातन्त्र्यं प्राप्तं, तदा गोवा-राज्यम् पुर्तगाली-जनानाम् अधिकारे आसीत् । भारतीयसेनया" ऑपरेशन् विजय" इति अभियानम् आरब्धम् । अनेन अभियानेन भारतीयसेनायाः पुर्तगाल-शासनात् मुक्तिः अभवत् । ई. स. १९६१ तमे वर्षे दिसम्बर-मासस्य एकोनविंशतितमे १९ दिनाङ्के १९ दिसम्बर १९६१ गोवा-राज्यं पुर्तगाली-शासनात् मुक्तं जातम् आसीत् । अतः प्रतिवर्षं दिसम्बर-मासस्य एकोनविंशति १९ तमे दिनाङ्के" गोवा मुक्ति दिवस” आचर्यते । अनन्तरम् इदं राज्यं केन्द्रशासितप्रदेशत्वेन उद्घोषितम् । ई. स. १९८७ तमस्य वर्षस्य मई-मासस्य त्रिंशत्तमे ३० दिनाङ्के ३० मई १९८७ गोवा-इत्यस्मै राज्यपदं प्रदत्तम् । तदा गोवा-राज्यं भारतस्य पञ्चविंशतितमं राज्यम् अभवत् ।



                                     

4. राजनीतिः

गोवा-राज्यस्य विधानमण्डलम् एकसदनात्मकम् अस्ति । गोवा-राज्ये विधानसभायाः ४० स्थानानि Seats सन्ति | तत्र लोकसभायाः द्वे स्थाने, राज्यसभायाः च एकम् एव स्थानम् अस्ति । अस्मिन् राज्ये ई. स. १९७९ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के २८ अप्रैल १९७९ राष्ट्रपतिशासनम् आरब्धम् ।" प्रतापसिंह राणे” इत्याख्यः गोवा-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् ।" भारतीय जनता पार्टी”," भारतीय राष्ट्रीय कॉङ्ग्रेस्”," युनाईटेड् गोमान्तवादी डेमोक्रेटिक पार्टी”," महाराष्ट्रवादी गोमान्तक पार्टी”," नेशनलिस्ट् कॉङ्ग्रेस् पार्टी” च इत्यादयः राजनैतिकपक्षाः गोवा-राज्ये सन्ति । गोवा-राज्ये एकः मण्डलस्तरीयः न्यायालयः विद्यते । इदं राज्यं मुम्बई-महानगरस्य उच्चन्यायाधीनम् अस्ति । मुम्बई-महानगरस्य उच्चन्यायालयस्य एका शाखा पण्डजी-नगरे स्थिता अस्ति ।

                                     

5. अर्थव्यवस्था, कृषिः च

गोवा-राज्यस्य प्रमुखः उद्योगः पर्यटनम् अस्ति । यतः इदं राज्यं समुद्रतटे स्थितम् अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । इतः परम् अपि अस्मिन् राज्ये लौह-खानिजाः पर्याप्तमात्रायां प्राप्यन्ते । लौह-खानिजस्य जापान-देशे, चीन-देशे च विक्रयणं क्रियते । गोवा-राज्ये साम्प्रतम् एकं विमानपत्तनम् अपि अस्ति । अस्मिन् राज्ये पर्यटनाय बहूनि वीक्षणीयस्थलानि सन्ति । अतः विदेशात् अपि जनाः तत्र गच्छन्ति । अतः पर्यटनस्थलेषु बहुप्रकारकाः व्यापाराः भवन्ति । तेन अस्य राज्यस्य अर्थव्यवस्था सुदृढा वर्तते । तण्डुलाः गोवा-राज्यस्य मुख्यसस्यम् अस्ति । अन्यानि अपि विविधानि सस्यानि सन्ति । नारिकेलं, काजूतकं, पूगीफलं, इक्षुदण्डं, आम्रं, कदलीफलं च इत्यादीनि अपि अस्मिन् राज्ये उत्पाद्यन्ते । सम्पूर्णे गोवा-राज्ये २,२७,०२९ टन्-मात्रात्मिकाः व्रीहिः, ६४,००० टन्-मात्रात्मकः इक्षुदण्डः च उत्पाद्यते । एकविंशतिलक्षोत्तरैककोटिः नारिकेलाः भवन्ति ।

                                     

5.1. अर्थव्यवस्था, कृषिः च सेचनं, विद्युदुत्पादनं च

गोवा-राज्ये सेचनाय विविधाः योजनाः प्रचलन्त्यः सन्ति । यथा सेलाउलिम, अञ्जुनेम चेत्यादयः जलबन्धाः सन्ति । तासां सेचनयोजनानां कारणेन सेचनक्षेत्रे वृद्धिर्जायते । तिल्लारी-जलबन्धे अपि कार्यं जायमानम् अस्ति । एतासु योजनासु ४३,००० हेक्टेयर् मात्रात्मकेषु स्थानेषु सेचनं कर्तुं क्षमता समुद्भूता । राज्यस्य प्रत्येकस्मिन् ग्रामे विद्युत्सौकर्यम् अपि सम्प्राप्तम् आसीत् ।

                                     

5.2. अर्थव्यवस्था, कृषिः च उद्योगाः

गोवा-राज्ये बहवः लघु-उद्योगाः सन्ति । तत्र ५,७५६ सङ्ख्यात्मकाः उद्योगाः सन्ति । सम्पूर्णे राज्ये षोडश औद्योगिकस्थलानि सन्ति । मत्स्यपालनं गोवा-राज्यस्य प्रमुखोद्योगः वर्तते । एतेषु उद्योगेषु आहत्य ३९,४३२ जनाः कार्यं कुर्वन्ति । ई. स. १९९७ तमे वर्षे" पेट्रोलियम् सुरक्षा, स्वास्थ्य तथा पर्यावरण प्रबन्धन IPSHEM” इत्याख्यं संस्थानं प्रस्थापितम् आसीत् । इदं संस्थानं" दोना पाउला” इत्यत्र अस्ति । गोवा-राज्यस्य खानिजोत्पादनेषु मैङ्गनीज्, बॉक्साईट्, लौहखानिजः च सन्ति । एतेषां विदेशेषु विक्रयणेन राज्यस्य अर्थव्यवस्था प्रबला वर्तते ।

                                     

6. शिक्षणम्

२०११ जनगणनानुगुणं गोवा-राज्यस्य साक्षरतामानं ८७.०१ प्रतिशतम् अस्ति । तेषु पुरुषसाक्षरतामानं ९२.८ प्रतिशतं, महिलासाक्षरतामानं ८१.८४ प्रतिशतं च अस्ति । गोवा राज्ये नैकानि शैक्षणिकसंस्थाननि सन्ति ।" गोवा विश्वविद्यालय”," राष्ट्रीय समुद्र विज्ञान संस्थानम्”," राष्ट्रीय जल क्रीडा संस्थानम्”," गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्”," भारतीय कृषि अनुसन्धान संस्थानम्” च इत्यादीनि शैक्षणिकसंस्थानानि गोवा-राज्ये स्थितानि सन्ति ।

                                     

7. कला, संस्कृतिः च

गोवा-राज्यं कोङ्कणी-संस्कृतेः प्रमुखं केन्द्रं विद्यते । अतः अस्य राज्यस्य भाषा अपि" कोङ्कणी” एव अस्ति । तत्र माडो, धालो, फुगडी इत्यादीनि लोकनृत्यानि सन्ति । जगर पेराणि इत्याख्या गोवा-नगरस्य लोककथा अस्ति । इयं कथा राज्ये बहुप्रचलिता अस्ति । नाट्यक्षेत्रे अपि गोवा-राज्यस्य बहवः जनाः प्रसिद्धाः सन्ति । चलच्चित्रजगतः गायिकायाः" लता मङ्गेशकर” इत्याख्यायाः पिता दीनानाथ मङ्गेशकर, श्रीमती दुर्गा केलकर, रघुवीर सावरकर च इत्यादयः गोवा-राज्यस्य गौरवभूताः विद्यन्ते । सङ्गीतक्षेत्रे अञ्जनी मालयेकर, केसरबाई केरकर इत्यादयः प्रसिद्धाः सन्ति । गोवा-राज्ये दीपावलीपर्व, दशहरापर्व, गणेशचतुर्थीपर्व च आचर्यते । तेषु पर्वसु गणेशचतुर्थीपर्व मुख्यम् अस्ति । जनैः उत्साहपूर्वकम् उत्सवाः आचर्यन्ते । फरवरी-मासे मार्च-मासे वा कार्निवल् इत्ययम् उत्सवः आचर्यते ।

गोवा-राज्यं ५०० वर्षाणि यावत् पुर्तगाल-शासनाधीनम् आसीत् । अतः तत्र युरोप-देशस्य संस्कृतेः अत्यधिकः प्रभावः अनुभूयते । गोवा-राज्यस्य प्रायः ६० प्रतिशतं जनाः हिन्दुधर्मानुयायिनः, २८ प्रतिशतं जनाः ईसाई-धर्मानुयायिनः च सन्ति । गोवा-राज्यस्य दक्षिणभागे ईसाई-समाजस्य प्रभावः अधिकः अस्ति । किन्तु तत्र वास्तुस्थापत्यकलासु हिन्दुधर्मस्य प्रभावः अधिकः दृश्यते । गोवा-राज्ये पुरातनानि मन्दिराणि दृश्यन्ते ।



                                     

8. साहित्यम्

गोवा-राज्यं कोङ्कणी-साहित्यस्य प्रसिद्धकेन्द्रम् अस्ति । गोवा-राज्यस्य साहित्यिकपरम्परा अतीवप्राचीना अस्ति । ई. स. १५३६ तमे वर्षे पुर्तगाल-क्षेत्रियेण बार्रुण-इत्याख्येन इतिहासकारेण संस्कृतानुवादकस्य कस्यचित् ब्राह्मणस्य पुर्तगाली-भाषायाम् उल्लेखः कृतः अस्ति । बोरकर-इत्याख्यः कविः महाराष्ट्रियः आसीत् । सः अपि गोवा-राज्यस्य निवासी आसीत् । अस्य राज्यस्य प्रमुखा भाषा कोङ्कणी-इति अस्ति । कोङ्कणी-भाषायाः लिपिः देवनागरी एव अस्ति । इयं भाषा पञ्लिपिषु लिख्यते । ताः – रोमन्, कन्नड, मलयालम, अरबी फारसी वा, देवनागरी च ।" थॉमस् स्टीफेन्स्” इत्याख्येन कविना" ईसाई-साहित्यस्य जनकः” इत्युपाधिः प्राप्तः ।

                                     

9. वीक्षणीयस्थलानि

वीक्षणीयप्रदेशेषु गोवा-राज्यं" पृथ्व्याः स्वर्गः” इति कथ्यते । अस्य राज्यस्य प्रमुखोद्योगः पर्यटनम् एव अस्ति । प्रतिवर्षं १० लक्षाधिकाः यात्रिकाः गोवा-राज्यं गच्छन्ति । वर्षर्तौ गोवा-राज्यस्य प्राकृतिकं सौन्दर्यं प्रसरति । ये जनाः शान्तिप्रियाः, प्रकृतिप्रेमिणः च भवन्ति, तेभ्यः हृदयाह्लादकं भवति इदं गोवा-राज्यम् । इदम् एकं लघुराज्यम् अस्ति, तथापि तत्र चत्वारिंशत् समुद्रतटानि सन्ति । तेषु तटेषु कानिचन तटानि अन्ताराष्ट्रियतटानि अपि सन्ति । ग्रीष्मर्तौ अत्यधिकाः पर्यटकाः शीतलतां प्राप्तुं गच्छन्ति । अनन्तरं ये जनाः वर्षर्तोः आनन्दं प्राप्तुम् इच्छन्ति, ते पर्यटकाः वर्षर्तौ तत्र गच्छन्ति ।

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।

उत्तरगोवामण्डले अरावेलं जलपातः, दत्तमन्दिरं, मेयं लेक्, वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति ।

दक्षिणगोवामण्डले मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति ।

प्राचीनगोवाप्रदेशे भोमजीसस्-बेसिलिकास्थले सेन्ट् फ्रान्सिस् जेवियर-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं डिसेम्बर-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च इत्यादीनि अत्यन्तं सुन्दराणि सन्ति । गोवाराज्यस्य प्रवासोद्यमः अतीवोत्तमः अस्ति । सागरतटानां दर्शनं, देवालयानां दर्शनं, चर्चदर्शनं, सम्पूर्णदर्शनम् इत्यादीनां दर्शनम् एकस्मिन् दिने एव कर्तुं शक्नुवन्ति प्रवासिनः । पालोळम् इत्यत्र नारिकेलवाटिकानां सुन्दरं वीक्षणीयं स्थलम् अस्ति । मार्गोवा-तः सप्तत्रिंशत् कि.मी दूरे कोङ्कणधूमशकटमार्गसमीपे अतीव सुन्दरः सागरतटः अस्ति । राज्येऽस्मिन् विद्यमानानां सागरतटानां कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादीनि नामानि प्रसिद्धानि सन्ति ।



                                     

9.1. वीक्षणीयस्थलानि गोवाप्रदेशस्य सागरतटाः

अगोड इति डनहिल्सागरतटस्थम् उपाहारगृह-वसतिस्थानम् उत्तमं, प्रसिद्धं च अस्ति । ब्लूलगून् प्यारडैस् रेसार्ट अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरः सागरतटः अस्ति । बेनोलिम तटोऽपि जनप्रियः अस्ति । एतत् डबोलिम विमानस्थानकात् ४५ कि.मी दूरे अस्ति । प्यासेलिङ्ग् वाटर् स्कूटरप्रयाणम् अत्र कर्तुं शक्यते । अग्रे बाग् क्याण्डोलिं सिनक्वेरिं इति द्वौ तटौ पणजी-नगरात् १४ कि.मी दूरे स्तः । एतौ दीर्घतटौ । अत्युत्तरभागे केरि सागरतटः अस्ति । मालो मिरामाट् इत्यत्र अष्ट डैविङ्गसंस्थाः सन्ति । गोवासागरतटेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तं, सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः एव नास्ति ।

                                     

9.2. वीक्षणीयस्थलानि मपुसा

मपुसा उत्तरगोवा-मण्डले स्थितमेकं पत्तनम् अस्ति । इदं स्थलं बागा, अञ्जुना, कैलेङ्ग्यूट्-समूद्रतीरं च इत्येतेषां समीपे एव स्थितम् अस्ति । गोवा-राज्यस्य राजधानी पणजी अस्ति । पणजी-नगरात् इदं स्थलं १३ किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलं वीक्षणार्थिभ्यः सौकर्यमयम् अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अधिकमात्रायां जनाः तत्र गच्छन्ति । शुक्रवासरे मपुसा-नगरे हट्टः भवति । तस्मिन् हट्टे समीपस्थाः जनाः व्यापारार्थं गच्छति । हस्तकलां, कृष्युत्पादनानि, अभिनवफलानि इत्यादीनां वस्तूनां विक्रयणार्थं व्यापारिकाः हट्टे गच्छन्ति । सामुद्रिकखाद्यवस्तुभ्यः मपुसा-स्थलं प्रसिद्धम् अस्ति । पणजी-नगरात् मपुसा-पत्तनाय नियमितरूपेण बसयानानि प्राप्यन्ते ।

                                     

9.3. वीक्षणीयस्थलानि वागातोर

वागातोर-स्थलं गोवा-राज्यस्य सुन्दरस्थलेषु अन्यतमं वर्तते । इदं स्थलं मपुसा-पत्तनात् समीपे एव अस्ति । तत्रत्यानि भवनानि बङ्गलो, पुर्तगाली च इत्यादिभिः स्थापत्यकलाभिः निर्मितानि सन्ति । अञ्जुना-समुद्रतीरम् अपि तस्य समीपे एव अस्ति । चपोरा-दुर्गः अपि अस्य स्थलस्य समीपम् एव स्थितः अस्ति । अत्र समुद्रतीरे श्वेतवर्णीया सिकता प्राप्यते । अस्य समुद्रतीररस्य समीपे बहवः विश्रामालयाः, भोजनालयाः च सन्ति । तेषु भोजनालयेषु" प्रिमरोज शैक” इत्याख्यः भोजनालयः गोवा-राज्ये प्रसिद्धः अस्ति । तस्मिन् भोजनालये विविधप्रकारकानि व्यञ्जनानि प्राप्यन्ते । वागातोर-स्थले बहूनि सामुद्रिकखाद्यानि प्राप्यन्ते । वागातोर-स्थलं गन्तुं मपुसा-पत्तनात् मार्गः अस्ति । ततः समीपे एव इदं स्थलं विद्यमानम् अस्ति ।

                                     

9.4. वीक्षणीयस्थलानि बागा

बागा-समुद्रतीरं गोवा-राज्यस्य सौकर्यमयं स्थलं वर्तते । तत्र बहवः विश्रामालयाः, भोजनालयाः, मधुशालाः च सन्ति । वीक्षणार्थिनां निवासाय अपि व्यवस्था समीचीना अस्ति । तत्र बहवः कार्यसाधकाः Agents भ्रमन्ति । यतः तत्र बहवः क्रीडालयाः अपि सन्ति । ते कार्यसाधकाः क्रीडां कर्तुम् अस्मान् प्रेरयन्ति । अपरं च तत्र पैरासेलिङ्ग्, जलयानचालनं Water bike ride, कदलीनौका-चालनं Banana ride, नौकाविहारः च अपि प्रसिद्धः अस्ति । तत्र आदिनं जनसम्मर्दः भवति ।" मोम्बोस् क्लब्” गोवाराज्यस्य प्रसिद्धासु मधुशालासु अन्यतमा अस्ति । सा मधुशाला अपि अस्य समुद्रतीरस्य समीपे एव स्थिता अस्ति । भाटकयानेन इदं स्थलं प्राप्तुं शक्यते । कैण्डोलिम, पणजिम इत्येतेभ्यः बागा-समुद्रतीरं समीपे एव अस्ति । अतः सरलतया तत्र गन्तुं शक्यते ।

                                     

9.5. वीक्षणीयस्थलानि कोलवेल

उत्तरगोवा-मण्डले स्थितम् इदं कोलवेल-नगरम् । इदं नगरं कैण्डोलिम, बागा, कैलिङ्ग्यूट इत्येतेभ्यः समुद्रतीरेभ्यः उत्तर-पूर्वदिशि स्थितम् अस्ति । इदं नगरं परितः व्रीहीणां क्षेत्राणि सन्ति । चपोडा-नद्याः तटे स्थितम् अस्ति कोलवेल-नगरम् । अनय नद्य कोलवेल-नगरस्य सौन्दर्यं वर्ध्यते । प्राचीने काले अस्मिन्नगरे पुर्तगाल-जनाः, डच-जनाः, मराठा-जनाः चेत्यादयः व्यापारं कुर्वन्ति स्म । अतः इदं व्यापारकेन्द्रम् आसीत् । ई. स. १५९१ तमे वर्षे तत्र एकः कैस्तवदेवालयः निर्मापितः आसीत् । तस्य देवालयस्य वास्तुस्थापत्यकला दृष्टुं योग्या अस्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । तथापि भाटकयानेन सरलतया तत्र गन्तुं शक्यते ।

                                     

9.6. वीक्षणीयस्थलानि अगुआडा

अगुआडा-नगरस्य दुर्गः विशिष्टसंरक्षणे अस्ति । भारते कानिचन स्थानानि सन्ति, तेषां सरक्षणं सम्यकतया भवति । तेषु अगुआडा-दुर्गः अन्यतमः अस्ति । सप्तदशशताब्द्यां पुर्तगाल-जनैः अयं दुर्गः निर्मापितः । अयं दुर्गः वीक्षणार्थिनाम् आकर्षणस्य केन्द्रम् अस्ति । अगुआडा-दुर्गस्य विद्युद्गृहम् अपि अत्यन्तं विशिष्टं वर्तते । ततः अरब-महासागरस्य दृश्यं दृश्यते । अगुआडा-स्थलस्य नेत्रप्रियाणि दृश्यानि, मधुशालाः, भोजनालयाः, विश्रामालयाः च प्रसिद्धाः अस्ति । इदं स्थलं कैण्डोलिम-स्थलात् समीपे एव अस्ति । रात्रौ दुर्गस्य समीपे हट्टः भवति । तस्मिन् हट्टे अल्पमूल्यवस्तूनि मिलन्ति । अगुआडा-दुर्गात् गोवा-नगरं गत्वा निवासः क्रियते । तत्र निवासाय सुव्यवस्था वर्तते । गोवा-नगरस्य विमास्थनकात्, रेलस्थानकात् च अगुआडा-दुर्गः प्राप्यते ।

                                     

9.7. वीक्षणीयस्थलानि अरामबोल

अरामबोल-समुद्रतीरं गोवा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । बागा, कैलेङ्ग्यूट इत्यादीनि वीक्षणीयस्थलानि अरामबोल-समुद्रतीरात् समीपे एव सन्ति । किन्तु व्यावसायिकदृष्ट्या इदं स्थलं विकसितं नास्ति । यतः तत्र विश्रामालयाः, भोजनालयाः, मधुशालाः बहव्यः न सन्ति । इदं स्थलं सामान्यं वर्तते । अरामबोल-समुद्रतीरम् अञ्जुना, मपुसा-नगरात् समीपे एव स्थितम् अस्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तादृशेभ्यः जनेभ्यः इदं स्थलं भ्रमणयोग्यं वर्तते । इदं स्थलं शान्तिपूर्णम् अस्ति । तत्र जनाः मध्याह्नकालस्य आनन्दं प्राप्नुवन्ति ।

                                     

9.8. वीक्षणीयस्थलानि मोरजिम

मोरजिम-समुद्रतीरं गोवा-राज्यस्य मनोहरं स्थलं वर्तते । इदं स्थलं गोवा-राज्यस्य उत्तरभागे स्थितम् अस्ति । चपोरा-नद्या तटे स्थितमिदं मोरजिन-नामकं वीक्षणीयस्थलम् । तत्र पर्याप्तमात्रायां सामुद्रिकखाद्यानि, नारिकेलानि च प्राप्यन्ते । मोरजिम-समुद्रतीरे बहूनि मनोहराणि दृश्यानि सन्ति । गोवा-राज्यस्य पारम्परिकनृत्यस्य उत्पत्तिः मोरजिम-स्थलात् एव अभवत् । गोवा-राज्यस्य परम्पराणां, रीतीनां च उत्पत्तिस्थलम् अपि मोरजिम-समुद्रतीरम् एव अस्ति । मोरजिम-समुद्रतीरं गन्तुं यन्त्रद्विचक्रिकायाः उपयोगः क्रियते । तत्र भाटकेन यन्त्रद्विचक्रिकां प्राप्यते ।

                                     

9.9. वीक्षणीयस्थलानि कैलेङ्ग्यूट

कैलेङ्ग्यूट्-समुद्रतीरम् उत्तरगोवा-मण्डलस्य आकर्षणस्थलानां केन्द्रं विद्यते । इदं स्थलं परितः कैण्डोलिम-समुद्रतीरं, बागा-समुद्रतीरं च अस्ति । अतः इदं स्थलं" पर्यटकानां स्वर्गः” कथ्यते । कैलेङ्ग्यूट-समुद्रतीरे यानानि स्थापयितुं श्रेष्ठव्यवस्था वर्तते । तत्र प्रतिदिनं हट्टः भवति । हट्टे बहवः आपणाः भवन्ति । तेषु वस्त्राणि, आभूषणानि, पादत्राणानि, गोवा-राज्यस्य स्मारकाणि अल्पमूल्ये च लभ्यन्ते । कैलेङ्ग्यूट्-समुद्रतीरे शुष्कफलानि अपि मिलन्ति । कैलेङ्ग्यूट्-समुद्रतीरं जलक्रीडायै प्रसिद्धम् अस्ति । समुद्रतीरे व्यापारिकाः जलक्रीडायै बनानानौकां, जलयानं च आनयन्ति । तेषां जीवनम् एतेषु कार्येषु एव व्यतीतं भवति । कैलेङ्ग्यूट्-समुद्रतीरे" सौजा लोबो” इत्याख्यं स्थलम् अपि ख्यातम् अस्ति । इदं स्थलं केन्द्रे स्थितम् अस्ति । तत्र बसस्थानकम् अपि अस्ति । गोवा-राज्यस्य अन्येभ्यः वीक्षणीयस्थलेभ्यः कैलेङ्ग्यूट-स्थलात् यानानि प्राप्यन्ते ।

                                     

9.10. वीक्षणीयस्थलानि अञ्जुना

अञ्जुना-समुद्रतीरं कैण्डोलिम-समुद्रतीरात् ३ किलोमीटर्मिते दूरे स्थितम् अस्ति । अञ्जुना-समुद्रतीरे बहुमूल्यकाः भोजनालयाः सन्ति । इदं स्थलं प्राचीनतमेषु समुद्रतीरेषु अन्यतमम् अस्ति । तस्य समीपे अञ्जुना-समुद्रतीरे स्थितः कर्लीस्-नामकः भोजनालयः बहुप्रसिद्धः अस्ति । अन्येषां समुद्रतीराणाम् अपेक्षया अञ्जनासमुद्रतीरं सघनम् अस्ति । इदं स्थलं बागा-समुद्रतीरात्, कैलेङ्ग्यूट-समुद्रतीरात् च समीपे एव स्थितम् अस्ति ।

                                     

9.11. वीक्षणीयस्थलानि पोरवोरिम

मुम्बई-गोवा इत्यस्मिन् राजमार्गे पोरवोरिम-नगरं स्थितम् अस्ति । तत्र" सलीम अली पक्षि अभयारण्यम्” अस्ति । माण्डवी-नद्याः तटे" रीस मैगोस-दुर्गः” अस्ति । तस्य दुर्गस्य नवीनीकरणम् किञ्चित्समयपूर्वमेव अभवत् । ततः नद्याः मनोहरदृश्यं दृश्यते । तस्यां नद्यां बह्व्यः नौकाः, जलयानानि च सन्ति । पोरवोरिम-नगरं बहुमूल्यकम् आवासीयक्षेत्रम् अस्ति । गोवा-राज्यस्य राजधान्याः सर्वाणि व्यावहारिककार्याणि पोरवोरिम-नगरे भवन्ति । अतः इदं नगरम् उपनगरं कथ्यते ।

                                     

9.12. वीक्षणीयस्थलानि रिबन्दर

इदं स्थलम् एकम् उपनगरम् अस्ति । अस्मिन् स्थले बहवः कैस्तवदेवालयाः विद्यमानाः सन्ति । अस्मिन् नगरे" गोवा इन्स्टीट्यूट् ऑफ् मैनेजमेण्ट्” इतीयं शैक्षणिकसंस्था स्थिता अस्ति । इयं संस्था एशिया-खण्डस्य बृहत्तमः चिकित्सालयः अस्ति । इदं स्थलं माण्डोवी-नद्याः समीपे स्थितम् अस्ति । नगरमिदं बहुभिः सेतुभिः गोवा-राज्यस्य अन्यैः भागैः सह सञ्योजितम् अस्ति । तत्र हिन्दुदेवालयाः अपि बहवः विद्यन्ते ।



                                     

9.13. वीक्षणीयस्थलानि माण्ड्रेम

गोवा-राज्यस्य उत्तरभागे स्थितम् इदं माण्ड्रेम-स्थलम् । अस्य स्थलस्य वातावरणं शान्तं वर्तते । अत्र जनानां सम्मर्दः अपि न भवति । अस्मिन् समुद्रतीरे कैसुआरिना-इति वृक्षाः प्राप्यन्ते । अस्मिन् स्थले एकः लघुभोजनालयः अपि अस्ति । तस्य नाम" एण्ड् ऑफ् द वर्ल्ड्” इति । अस्मिन् भोजनालये सामुद्रिकखाद्यानि मिलन्ति । अत्र एकः पुर्तगालिकः दुर्गः अपि अस्ति । सः दुर्गः अस्य स्थलस्य आकर्षणकेन्द्रम् अस्ति ।

                                     

10. मार्गाः

वायुमार्गः

गोवा-राज्ये डबोलिम-विमानस्थानकं स्थितम् अस्ति । अनेन विमानस्थानकेन मुम्बई-नगरं, देहली-नगरं, तिरुवनन्तपुरं, कोच्ची-नगरं, चेन्नै-महानगरं, बेङ्गळूरु-महानगरं च गन्तुं प्रतिदिनं वायुयानानि प्राप्यन्ते ।

धूमशकटमार्गः

गोवा-राज्ये कोङ्कण-रेलस्थानकं वर्तते । ततः देहली-नगरं, मुम्बई-नगरं, मङ्गळूरु-नगरं, तिरुवनन्तपुरं च गन्तुं रेलयानानि प्राप्यन्ते । यावत् इदं कोङ्कण-रेलस्थानकं निर्मापितम् अस्ति, तावत् गोवा-राज्यं भारत-देशस्य पूर्वतटीयक्षेत्रैः सह सम्बद्धं जातम् । गोवा-राज्ये रेलयानानां गतिः अपि अधिका भवति । अपि च अस्य राज्यस्य रेलयानसेवा अपि श्रेष्ठा अस्ति । अनेन कारणेन इदं राज्यं भारते चर्चितम् अस्ति ।

भूमार्गः

गोवा-राज्ये आहत्य राष्ट्रियराजमार्गाणां दैर्घ्यं २२४ किलोमीटर्मितम् अस्ति । प्रान्तीयराजमार्गाणां दैर्घ्यं २३२ किलोमीटर्मितं च अस्ति । अपरं च मण्डलीयमार्गाणां दैर्घ्यं ८१५ किलोमीटर्मिम् अस्ति । गोवा-राज्ये सर्वत्र बसयानानि प्रचलन्ति । अतः ततः मुम्बई-महानगरं, बेङ्गलूरु-महानगरम् इतरनगराणि च गन्तुं बसयानानि प्राप्यन्ते ।



                                     
  • व स त र चत रस र क ल म टर अस त उत तरद श मह र ष ट रर ज यम ग व र ज यम च, प र वद श आन ध रप रद शर ज यम दक ष णभ ग तम ळन ड र ज यम क रलर ज यम
  • छत त सगढर ज यम द व न द र: फडणव स: - मह र ष ट रर ज यम मन हर - प र कर - ग व र ज यम श वर ज - स ह - च ह न - मध यप रद शर ज यम वस धर र ज - र जस थ नर ज यम
  • सङ घ यल कत न त र कगणतन त रम न प लम - जनन जन मभ म श च स वर ग दप गर यस ग व र ज यम भ रतम - सर व भद र ण पश यन त म कश च द द खभ ग भव त क रलर ज यश सनम
  • ग जर तर ज यम द दर तथ नगरहव ल जम म क श म रर ज यम कर ण टकर ज यम तथ ग व र ज यम क रलर ज यम तथ लक षद व प मह र ष ट रर ज यम मध यप रद शर ज यम
  • छत त सगढ भ ष ह न द र यप र ग व र ज यम GA म क ङ कण प न ज ग जर तर ज यम
  • छत त सगढर ज यम द हल ग व र ज यम ग जर तर ज यम हर य ण र ज यम
  • Goa District दक ष णग व ज ल ल गल ग बगसम द रतट द श India र ज यम ग व र ज यम उपमण डल न म रग व, स ल स ट मडग व क य प म, क नक न च उड सङ ग म
  • प णज Panaji land that never floods पणज मह नगरम द श भ रतम र ज यम ग व र ज यम मण डलम उत तरग व मण डलम मह नगरव स त र चत रस रक म जनसङ ख य
  • North Goa District उत तरग व ज ल ल क क सम द रतट द श India र ज यम ग व र ज यम उपमण डल न प रन म, ब रद ज म प स ब च ल म, सत र वलप ई त स व ड पणज
  • मठग र म म डग व Margao हन मन मन द रम मठग र म द श भ रतम र ज यम ग व र ज यम मण डलम दक ष णग व मण डलम मह नगरव स त र चत रस रक म जनसङ ख य