ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 83

ञ्

ञः पुमान् स्याद्वलीवर्दे शुक्रे वाममतावपि”- मेदिनीकोशः शुक्रग्रहः वृषभः सम्प्रदाय विरोधि ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ” - एकाक्षरकोशः किङ्किणी शब्दः गायकः

ठ्

अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य द्वितीयः वर्णः । महाप्राणवर्णः अयम् । अयं कर्कशव्यञ्जनम् अस्ति ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०

डिमः (रूपकम्)

दशरूपके डिमः षष्ठः प्रभेदः । डिमो नाम उपद्रवः । स अत्रास्तीति डिम इति सार्थकं नाम । ’अर्शआदिभ्योऽच्’ इति मतुबर्थिकेऽचि डिम इति शब्दः । केचित् पुनः डयन्ते दर्पेण सञ्चरन्ति इति डिमाः । दृप्ता नायका इत्यर्थः । ते सन्ति अत्र अस्य वा इति डिमः । तन्मते ...

ण्

अस्य उच्चारणस्थानंमूर्धनासिकम् अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य पञ्चमः वर्णः ।"कादयो मावसानाः स्पर्शाः" । ’’ऋटुरषाणां मूर्धा -” ञमङणनानां नासिका च” ’ -सि० कौ०

तत्पुरुषसमासः

प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषसमासः। अतिमालः, अर्धपिप्पली, पूर्वकायः, निष्कौशाम्बिः इत्यादिषु उत्तरपदार्थस्य प्राधान्याभावेऽपि तत्पुरुषः समासः भवति। अतः लक्षणे प्रायेण इत्युक्तम्।

तन्वी

तन्वी। प्रतिचरणम् अक्षरसङ्ख्या 24 भूतमुनीनैर्यतिरिह भतना: स्भौ भनयाश्च यदि भवति तन्वी। केदारभट्टकृत- वृत्तरत्नाकर:३.१०६ ऽ।। ऽऽ। ।।। ।।ऽ ऽ।। ऽ।। ।।। ।ऽऽ भ त न स भ न य । यति: पञ्चभि: सप्तभि: द्वादशभि:च। उदाहरणम् - धर्मविलोपो जगति यदि भवेत्पुष्टमधर् ...

तामरसम्।

तामरसम्। प्रतिचरणम् अक्षरसङ्ख्या १२ इति वद तामरसं नजजादय:। केदारभट्टकृत- वृत्तरत्नाकर:३. ६९ ।।। ।ऽ। ।ऽ। ।ऽऽ न ज य। यति: पादान्ते। उदाहरणम् - विगलितधर्ममधर्मविकासं, त्वहमवलोक्य सृजामि तदा स्वम्। सुजनसुरक्षण-दुर्जनदण्डौ, स्थिरमपि धर्ममतं त्विह कर्तुम्॥

तिङर्थः

पचति इत्यादौ तिङ्प्रत्ययः श्रूयते । तिङ्प्रत्य्यस्य कारकं/ भावः, कालः, सङ्ख्या च अर्थाः । यथा –पचति / ते इत्यत्र ‘ति/ते’ प्रत्ययः कर्तृकारकं, वर्तमानकालम्, एकत्वसङ्खयां च बोधयति । पच्यते इत्यत्र तु ‘ते’ इति प्रत्ययः कर्मकारकं, वर्तमानकालम्, एकत्व ...

तृतीयाविभक्तिः

कारकतृतीया उपपदतृतीया इति तृतीया द्विविधा । कर्तृकारके करणकारके च तृतीयाविधानात् कर्तृतृतीया करणतृतीया चेति कारकतृतीया द्विविधा । एवञ्च कर्तृकारकतृतीया, करणकारकतृतीया, उपपदतृतीया चेति तृतीया अपि त्रिविधा भवति । यः कर्ता, यच्च करणं, तस्मात् कर्तृव ...

तृसरेणुः

अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । अतिलघुकालावधितः एकवर्षपर्यन्तः कालः अत्र निरूपितः । एकं क्षणम् = ३ निमेषाः। एकं लघु =१५ काष्ठाः = २ मिनिट्स्। एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः । एका नाड़ी यस्य दण्डः इत्यपि वदन्ति । = ...

तोटकम्।

तोटकम्। प्रतिचरणम् अक्षरसङ्ख्या १२ इह तोटकमम्बुधिसै: प्रथितम्। केदारभट्टकृत- वृत्तरत्नाकर:३. ४९ ।।ऽ ।।ऽ ।।ऽ ।।ऽ स स। यति: पादान्ते। उदाहरणम् - विकलं यदि धर्ममतं बलवद्यदधर्ममतं च सृजामि तदा। स्वयर्जुन पालयितुं सुजनानवमर्दयितुं हि खलान्सकलान्॥

त्रिविधसंहिता

त्रिविधिसंहिता अथर्वेदस्य अन्तर्भूता संहिता वर्तते। एतस्यां संहितायां त्रिस्र संहिताः सन्ति, अतः अस्याः नाम त्रविधिसंहिता इति। एतस्य संहितायाः अपरे नामनी "आचार्यसंहिता", "ऋषिसंहिता" च।

त्रुटिः

अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । एका वेधा =१०० त्रुटयः। एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः । एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।

त्वमेव माता च पिता त्वमेव इति

हिन्दूनां पूजाविधिषु प्रायः एतस्य श्लोकस्य पाठः क्रियते। एतं श्लोकम् आधृत्य बहूनि अन्यानि गीतानि प्रसिद्धानि। यथा हिन्द्याम् - तुम्हीं हो माता पिता तुम्हीं हो। तुम्हीं हो बन्धु सखा तुम्हीं हो।

थ्

अस्य उच्चारणस्थानं दन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य द्वितीयः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

दण्डः

अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः । एका वेधा =१०० त्रुटयः। एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः । एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः । एका लावा = ३ वेधाः। एकं क् ...

देवताध्यायब्राह्मणम्

देवताध्यायब्राह्मणम् इति दैवतब्राह्मणमिदं सामवेदीयब्राह्मणेषु लघ्वाकाकरम् अस्ति । अस्मिन् ग्रन्थे खण्डत्रयमस्ति । प्रथमखण्डे देवतानां वर्णनमस्ति । प्रथमकण्डिकानुसारेण सामदेवतानां नाम्नः निर्देशोऽनेन प्रकारेणास्ति - अग्निः, इन्द्रः, प्रजापतिः, सोम ...

देवयज्ञः

स्वस्य इष्टदेवतायाः उपासनाय परब्रह्मणः परमात्मने अग्नौ हवनमेव देवयज्ञ इति व्यपदिश्यते । अस्यैव अग्निहोत्रम् इत्यपि नामान्तरं विद्यते । यत्करोषि यदश्नासि यज्जुहोसि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति भगवद्वचनात् सिद्धं यत् परम ...

दोधकम्।

दोधकम्। प्रतिचरणम् अक्षरसङ्ख्या ११ दोधकवृत्तमिदं भभभाद्गौ। – केदारभट्टकृत वृत्तरत्नाकर:३.३४ ऽ।। ऽ।। ऽ।। ऽऽ भ ग ग। यति: पादान्ते। उदाहरणम्- धर्ममतं विकलं, सबलं वाधर्ममतं समये यदि पार्थ। स्वं स्वयमेव सृजामि तदानीं, सत्परिपालनकर्म विधातुम्॥

द्रुतविलम्बितम्।

द्रुतविलम्बितम्। प्रतिचरणम् अक्षरसङ्ख्या १२ द्रुतविलम्बितमाह नभौ भरौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ५० ।।। ऽ।। ऽ।। ऽ।ऽ न भ र । यति: पादान्ते। उदाहरणम् - विकलधर्ममधर्ममथोत्थितं, समवलोक्य सृजाम्यहमर्जुन। स्वयमसाधुवधाय युगे युगे, सदवनाय च धर्मविवृद्धये॥

द्वितीयाविभक्तिः

कारकद्वितीया, उपपदद्वितीया, चेति द्वितीया द्विविधा । कर्मसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कारकद्वितीया । परिगणितपदानां योगमात्रेण् प्रवर्तमाना द्वितीया उपपदद्वितीया । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य प्रवर्तमाना द्वितीया कर्मप्रवचनीयद्वितीया ...

धनञ्जयपुरञ्जयम्

पल्ल्यां कुटीद्वारि धनञ्जयनामा वृद्धो ब्राह्मणः स्वभागधेयं क्रोशन् तिष्ठति स्म । तस्य पत्न्याः मृत्योः विंशतिसमाः व्यतीताः । तदा पुरञ्जयः शिशुरासीत् | अहमेव तं पुष्णामि स्म । सम्प्रति स मां न पृच्छति । इदानीमहं वाराणसीं गत्वा वयसश्शेषं गमयितुमिच् ...

धात्वर्थः

पचति इत्यादौ तिडन्ते प्रकृतिः पचधातुः, प्रत्ययश्च तिङ् । ‘पक्ववान्’, ‘पचन्’ इत्यादौ कृदन्तेऽपि प्रकृतिः प्रत्ययश्च भवतः । तत्रापि प्रकृतिः धातुः, प्रत्ययश्च कृत् । एवञ्च धातोः द्वये प्रत्ययाः –तिङः कृतश्चेति । तत्र धातोः अर्थः निरूप्यते । तथाहि – ...

ध्यानमुद्रा

दक्षिणहस्तं वामहस्तस्य उपरि स्थापयामः चेत् भैरवमुद्रा भवति । वामहस्तं दक्षिणहस्तस्य उपरि स्थापयामः चेत् भैरवीमुद्रा भवति । द्वयोः मुद्रयोः परिणामः एकः एव । हस्तौ ऊर्ध्वमुखौ कृत्वा अङ्गुष्टस्य अग्रभागं परस्परं स्पर्षः करणीयः ।

ध्यानयोगः

भारतीयविचारानुसारेण आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।

नर्कुटकम्

नर्कुटकम् । प्रतिचरणम् अक्षरसङ्ख्या 17 यदि भवतो नजौ भजजला गुरुनर्कुटकम् । केदारभट्टकृत- वृत्तरत्नाकर:३.९५ ।।। ।ऽ। ऽ।। ।ऽ। ।ऽ। ।ऽ न ज भ ज ल ग। यति: सप्तभि: दशभि:च। उदाहरणम् - विगलितधर्मता भवति पुष्टमधर्ममतं, जगति यदा यदा स्वयमहं प्रभवामि तदा। सुजन ...

नलदमयन्तीयम्

नलदमयन्तीय स्य रचना कालीपदेन १६२७ ख्रीष्टाब्दे कृता । नाटकमिदं कालानुरूपं वर्तते । कविः कथयति - कालानुरूपरचनाप्रचितं यदि स्यात्। काव्यं तदा कवयितुः कविता चकास्ति। वीरस्य भूषणमरातिवधे कृपाणं शृङ्गाररङ्गसमये तदयोग्यमेव।।

नाटकचन्द्रिका

नाटकचन्द्रिका Naatakachandrika इति ग्रन्थः रूपगोस्वामिना लिखितः । नाटकचन्द्रिका एकः नाट्यशास्त्रग्रन्थः वर्तते । अस्मिन् गन्थे नाट्यस्वरूपं विवृतं वर्तते ।

नाटकम् (रूपकम्)

नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृचौ’ इति कर्तरि ण्वुलि नाटकशब्दः । नाटयति सहृदयानां हृदयं सन्तोषजननेन नर्तयति इत्यर्थः । अस्य लक्षणं तावदिदम् - नाटके रामायणमहाभारतादौ प्रसिद्धं किञ्चिदितिवृत्तं भवति । अत्र मुखम्, प्रतिमुखम्, गर्भः, विम ...

निमेषः

अयं भारतीयकालमानस्य कश्चन लघुबिन्दुः अस्ति । मनवस्य अक्षिणी सहजतया स्पन्देते । अयं स्पन्दनकालः निमेषः इति उच्यते । तन्नाम अक्ष्णोः पक्ष्म्नोः निमीलनस्य उन्मीलनस्य वा कालः इत्यर्थः ।सुराणाम् अक्षिस्पन्दनं नास्ति अतः तान् अनिमेषाः इति वदामः । एकः त ...

निर् (उपसर्गः)

१ पृथक्करणे – निवारयति, निष्कासयति । २ खेदे – निर्गच्छति । ३ आग्रहे – निर्बन्धः । ४ भृशे – निष्पतति, निरीक्षते । ५ भोगे – निर्विशति । ६ अधिश्रयणे – आग्नेयमष्टाकपालं चरुं निर्वपेत् । ७ शान्तौ – दीपः निर्याति । ८ अन्वाख्याने – निर्वक्ति । ९ सम्पत्त ...

निर्वचनप्रक्रिया

निरुक्ते यास्काचार्येण बहवः शब्दाः निर्वचिताः । तत्र निर्वचनप्रक्रिया कथमिति ज्ञेया । तस्य ज्ञानेन निरुक्ताध्ययनं, वेदाध्ययनं च सुकरं भविष्यति । अपार्थाश्च अपसरन्ति । त्रिविधाः शब्दाः भवन्ति । ते रूढशब्दाः, योगरूढशब्दाः, यौगिकशब्दाः इति । येषां श ...

नृयज्ञः

अतिथिसत्कारो हि मनुष्ययज्ञः, नृयज्ञो, अतिथियज्ञश्चेति कथ्यते । वैदिकग्रन्थेषु अतिथिः साक्षादग्निरेव इति वर्णितोऽस्ति । ब्रह्मचर्याश्रमस्य समावर्तनाख्ये संस्कारे अन्तेवासिनं स्नातकं गुरुरुपदिशति अतिथिदेवो भव इति । तमुपदेशमात्मसात्कृत्वा ब्रह्मचारी ...

नैगमकाण्डम्

निघण्टो: चतुर्थाध्यायस्य शब्दा: अत्र निर्वचिता: । एते शब्दा: नानार्थका: अथवा अनवगतसंस्कारा: । तेषां नाम ऐकपदिका: इति । नैगमकाण्डस्यारम्भे उक्तं हि - एकार्थमनेकशब्दमित्येतदुक्तम् । अथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्याम: । अनवगतसंस्कारा ...

नैघण्टुककाण्डम्

निरुक्तस्य भूमिकानन्तरं नैघण्टुककाण्डं विरचितं यास्केन । यस्मिन् काण्डे एकार्थकानेकशब्दानां सङ्ग्रह: वर्तते । निघण्टो: प्रथमाध्यायत्रये पठिता: शब्दा: निरुक्तस्य नैघण्टुककाण्डे निर्वचिता: । एतावन्त: समानकर्मणो धातव. एतावन्त्यस्य सत्वस्य नामधेयानि ...

न्यासमञ्जरी

पाणिनेः अष्टाध्याय्याः उपरि काशिका इति वृत्तिः लिखितः। काशिकायाः उपरि पुनः जिनेन्द्रबुद्धिः न्यासमञ्जरी इति ग्रन्थं लिखितवान् । पाणिनिसम्प्रदायाय बौद्धानां योगदानत्वेन वर्तते एषा व्याख्या ।

पञ्चचामरम्

पञ्चचामरम्। प्रतिचरणम् अक्षरसङ्ख्या 16 जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्। केदारभट्टकृत- वृत्तरत्नाकर:३. ८९ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ ज र ज र ज ग। यति: द्वाभ्यां द्वाभ्यां । उदाहरणम् - अधर्म उत्थितो यदा यदा च धर्मविप्लवो, भवाम्यजोऽपि सन्नहं तदा तदा च ...

पञ्चमहायज्ञाः

अथ ऋणशोधसंकल्पनायां ऋणशोधस्य कालस्तु जीवितावधिः । यदि मरणपर्यन्तं कदापि मनुष्यः यागम् एकम् अपि करोति, प्रौढावस्थायामपि पुत्रमेकं प्राप्नोति, यदि विद्यार्थिदशायामेव स्वाध्यायं सुष्ठुभावेन समाप्नोति, यदा कदा वा दानमपि ददाति, तर्हि चतुर्भ्यः ऋणेभ्यः ...

पञ्चमीविभक्तिः

कारकपञ्चमी उपपदपञ्चमी’ चेति पञ्चमी द्विविधा । यत् अपादानं भवति, तस्मात् अपादानात् पञ्चमी भवति । अपादाने पञ्चमीविधायकं सूत्रम् एकम् एव अपादाने पञ्चमी -२.३.१८ इति अपादानसंज्ञाविधायकसूत्राणि बहूनि सन्ति उपपदपञ्चमीविधायकानि सूत्राण्यपि सन्ति अनेकानि ...

पञ्चसूनादोषपरिहारः

मनुस्मृतौ पञ्चसूनादोषपरिहारः पञ्चमहायज्ञानां हेतुत्वेन निर्दिष्टः । तत्र अयमाशयः यद् गृहस्थस्य दैनंदिनगृहकार्येषु अपरिहार्यतया सूक्ष्मजन्तूनां हिंसा भवति अथवा वस्तूनां जीवनशक्तिह्रासरुपा सूक्ष्मार्थेन हिंसा भवति । तं हिंसादोषं मार्जयितुम् एते पञ् ...

परिणामालङ्कारः

परिणामालङ्कारः Parinamalankaraअलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति – परिणामः क्रियार्थश्चेद्विषयी विषयात्मना । प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥ यत्र आरोप्यमाणो विषयी कि ...

परिशिष्टम्

निरुक्तस्यान्तिमाध्यायद्वयं परिशिष्टमित्युच्यते । दैवतकाण्डे आधिदैविकार्था: निरूपिता: मन्त्राणाम् । इह परिशिष्टे आध्यात्मिकार्थस्य प्रतिपादनं, दिग्दर्शनं च कुर्वन्ति । निरुक्ते अन्यत्रापि अथाध्यात्मिक्यमिति वचनै: आध्यात्मिकार्थ: प्रतिपादित: । तथा ...

पल्लीकमलम्

मधुमालतीपल्ल्याः कन्या कमलकलिका प्रकृतिसुषुमायामात्मविस्मृतेव सुप्रसन्ना विद्यते । सोषसं आनन्दमालिकेति अमृतकलिकेति वर्णयति । नदी तस्याः कृते मायाविनी विद्यते । तस्या मात्रे तरङ्गिण्यै तस्या इदं काव्यमयं जीवनं न रोचते । सा तां भर्त्सयति | गृहपतिर् ...

पाणिनिव्याकरणस्य उपादेयता

वर्तमानायाः शिक्षायाः निरन्तरम् एधमानान् पादान् परिशील्य यदि वयं संस्कृतस्य स्थितेः मूल्याङ्कनं कुर्मः तर्हिः स्वान् अतीव निम्नस्तरे पश्यामः। एतादृश्यां स्थितौ पाणिनीयव्याकरणस्य अस्मिन् परिपेक्षे च का उपादेयता अस्ति इत्येतस्य प्रश्नस्य उत्पत्तिः ...

पाणिनीया शिक्षा

पाणिनीयशिक्षा शिक्षाग्रन्थेषु महत्त्वाधायी एकः ग्रन्थः। शिक्षाग्रन्थास्तु उच्चारणशास्त्रस्य सर्वप्राचीनाः आधारभूताश्च ग्रन्थाः सन्ति। तत्र उपपञ्चविंशतिग्रन्थानामुल्लेखः यत्र तत्र लभ्यते। परन्तु केवलाः केचित् ग्रन्थाः एव अधुना उपलभ्यन्ते। तेषु पाण ...

पितृयज्ञः

वैश्वदेवान्तर्गतबलिहरणेन, ब्राह्मणभोजनेन, अथवा विनायासं जलाञ्जलिप्रदानेन अपि पितृयज्ञः सम्पद्यते । पितॄन् प्रति स्नेहस्य आदरस्य च निदर्शकोऽयं यज्ञः । मातुः पितुश्च सततं परिचर्या, तयोराज्ञापालनं चात्र प्रधानं कर्म । पितॄन् देव इति भावयन्तः परलोकगत ...

पुट: ।

पुट:। प्रतिचरणम् अक्षरसङ्ख्या १२ वसुयुगविरतिर्नौ पुटोऽयम्। केदारभट्टकृत- वृत्तरत्नाकर:३. ५१ ।।। ।।। ऽऽऽ ।ऽऽ न म य । यति: अष्टभि: चतुर्भि: च। उदाहरणम् - यदि विगलितधर्म: स्यादधर्म: प्रबल इह तदात्मानं सृजामि। सदवनमसदुद्ध्वंसं विधातुं, रचयितुमपि धर्म ...

पृथुमृद्विका, सिंहश्च

पुराकाले कदाचित् भीषणशैत्यस्य वातावरणे सकलमपि जगत् हिमाच्छादितम् अभवत्। बहुभ्यः दिनेभ्यः आखेटं न प्राप्तवान् कश्चन सिंहः अतीव बुभुक्षितः कमपि ग्रामं प्रविष्टः। आखेटस्य अन्वेषणे अटन् सः दूरे वातायनात् बहिः दीपप्रकाशं प्रसार्यमाणं कुटीरम् अपश्यत्। ...

पृथ्वीछन्दः

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः - वृत्तरत्नाकर:३. ९१ ।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ ज स ज स य ल ग। यत्र प्रत्येकम् अपि पादे क्रमेण एकः जगणः¸ एकः सगणः, पुनः एकः जगणः, एकः सगणः,एकः यगणः एकः लघुश्च भवति । तद्वृत्तं पृथ्वी वृत्तं भवति। अस्मिन् वृत्ते अप ...

प्र (उपसर्गः)

प्रादिकर्मण्युपरमे दिग्योगैश्वर्जन्मसु । नर्मप्रेम्णोः प्रकर्षेऽग्रे ज्ञाने प्रसवभूषणे ॥ दोषे नियोगेऽवसरे सेवासाहसशुद्धिषु । उपयोगे प्रकथनेऽनवधानबहुत्वयोः ॥ माने हिंसाशास्त्रानाम्नोर्वञ्चनार्थविपर्यये । सन्न्यासमृत्योः कालेऽथ तथा स्यान्मन्दमुख्यय ...