ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 77

योगयुक्तो विशुद्धात्मा.

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तमः श्लोकः ।

योगसंन्यस्तकर्माणं.

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकचत्वारिंश्त्तमः श्लोकः ।

योगस्थः कुरु कर्माणि.

योगस्थः कुरु कर्माणि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः योगपरिभाषात्वेन समत्वस्य उपदेशं ददाति । पूर्वस्मिन् श्लोके कर्म कर्तुम् आज्ञां दत्त्वा अत्र सः कर्म कुर्वन् समत्वेन कथं भवितव्यम् इति कथयति ।

योगिनामपि सर्वेषां.

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तचत्वारिंशत्तमः४७ श्लोकः ।

योगी युञ्जीत सततम्.

यतचित्तात्मा = नियतमनोदेहः निराशीः = अपगततृष्णः अपरिग्रहः = परिग्रहरहितः एकाकी = सहायरहितः योगी = योगी रहसि = विजने स्थितः = वर्तमानः सततम् = सदा आत्मानम् = मनः युञ्जीत = योजयेत् समाधिमग्नं कुर्यात् ।

योत्स्यमानानवेक्षेऽहं.

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोविंशतितमः श्लोकः ।

योऽन्तःसुखोऽन्तरारामः.

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्विंशतितमः श्लोकः ।

योऽयं योगस्त्वया प्रोक्तः.

अर्जुन उवाच - योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रयस्त्रिंशत्तमः३३ श्लोकः ।

रजसि प्रलयं गत्वा.

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चदशः१५ श्लोकः ।

रजस्तमश्चाभिभूय.

रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य दशमः१० श्लोकः ।

रजो रागात्मकं विद्धि.

रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः७ श्लोकः ।

रसोऽहमप्सु कौन्तेय.

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टमः८ श्लोकः ।

रागद्वेषवियुक्तैस्तु.

रागद्वेषवियुक्तैस्तु इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रसादप्राप्तिम् उपस्थापयति । पूर्वस्मिन् श्लोके मनुष्यः विषयाणां चिन्तनं कृत्वा क्रमेण रागी, कामी, क्रोधी, सम्मोही, स्मृतिविभ्रमी, नष्टबुद्धिः च भवति । सः क्रमः एव तस्य मनुष्यस्य पतनक्रमोऽपि ...

रागी कर्मफलप्रेप्सुः.

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तविंशतितमः२७ श्लोकः ।

राजन्संस्मृत्य संस्मृत्य.

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षट्सप्ततितम७६ श्लोकः ।

राजविद्या राजगुह्यं.

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वितीयः२ श्लोकः ।

रुद्राणां शङ्करश्चास्मि.

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोविंशतितमः२३ श्लोकः ।

रुद्रादित्या वसवो ये.

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वाविंशतितमः२२ श्लोकः ।

रूपं महत्ते बहुवक्त्र.

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोविंशतितमः२३ श्लोकः ।

लभन्ते ब्रह्मनिर्वाणम्.

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः श्लोकः ।

लेलिह्यसे ग्रसमानः.

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिंशत्तमः३० श्लोकः ।

लोकेऽस्मिन् द्विविधा निष्ठा.

लोकेऽस्मिन्द्विविधा निष्ठा इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः वर्णनं करोति । पूर्वस्मिन् श्लोके अर्जुनः भगवन्तं मिश्रवचनम् अनुक्त्वा मह्यं कल्याणप्रदं तयोः एकं वदतु इति अवदत् । इतः भगवान् अर्जुनस्य व्यामिश्रेणेव वाक्येन इत्यस्य पदस्य उत्तर ...

लोभः प्रवृत्तिरारम्भः.

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वादशः१२ श्लोकः ।

वक्तुमर्हस्यशेषेण.

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षोडशः१६ श्लोकः ।

वक्त्राणि ते त्वरमाणा.

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तविंशतितमः२७ श्लोकः ।

वायुर्यमोऽग्निर्वरुणः.

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवत्रिंशत्तमः३९ श्लोकः ।

वासांसि जीर्णानि यथा विहाय.

वासांसि जीर्णानि यथा विहाय इत्यनेन श्लोकेन भगवान् श्रीकृष्णः देहिनः शरीरान्तप्राप्तेः तत्त्वज्ञानं कथयति । पूर्वस्मिन् श्लोके भगवान् देहिनः निर्विकारिताम् उपस्थाप्य अत्र तस्य देहिनः देहान्तरप्राप्तेः विषये मनुष्याणां वस्त्रपरिवर्तनस्य उदाहरणेन बो ...

विद्याविनयसम्पन्ने.

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टादशः श्लोकः ।

विधिहीनमसृष्टान्नं.

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोदशः१३ श्लोकः ।

विविक्तसेवी लघ्वाशी.

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विपञ्चाशत्तमः५२ श्लोकः ।

विषया विनिवर्तन्ते.

विषया विनिवर्तन्ते इत्यनेन श्लोकेन भगवान् श्रीकृष्णः केवलम् इन्द्रियेभ्यः विषयविच्छेदी स्थितप्रज्ञः न सिद्ध्यति इति स्पष्टयति । अग्रिमे श्लोके भगवता उक्तं यत्, इन्द्रियाणां विषयेभ्यः सर्वदा विच्छेदे सति यस्य प्रज्ञा प्रतिष्ठिता भवति, स एव स्थितप् ...

विस्तरेणात्मनो योगं.

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टादशः१८ श्लोकः ।

विहाय कामान्यः सर्वान्.

विहाय कामान्यः सर्वान् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादीनां त्यागस्य फलं शान्तिप्राप्तिः इति कथयति । पूर्वस्मिन् श्लोके कामनात्यागिनः शान्तिं प्राप्नुवन्ति, न तु कामिनः इत्युक्त्वा अत्र कामनायाः, ममतायाः, अहङ्कारस्य च त्यागिनः एव शान्तिं ...

वीतरागभयक्रोधा.

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य दशमः श्लोकः ।

वृष्णीनां वासुदेवोऽस्मि.

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तत्रिंशत्तमः३७ श्लोकः ।

वेदानां सामवेदोऽस्मि.

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वाविंशतितमः२२ श्लोकः ।

वेदाविनाशिनं नित्यं.

वेदाविनाशिनं नित्यम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मा हननक्रियायाः कर्ता उत कर्म न भवति इति बोधयति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारित्वम् उक्त्वा अत्र सः आत्मा न घातयति, न मारयति इति अर्जुनं बोधयति । अत्र न मारयति इति तु पूर्वस ...

वेदाहं समतीतानि.

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षड्विंशतितमः२६ श्लोकः ।

वेदेषु यज्ञेषु तपस्सु चैव.

वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अष्टाविंशतितमः २८ श्लोकः ।

व्यवसायात्मिका बुद्धिः.

व्यवसायात्मिका बुद्धिः इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समबुद्धिप्राप्तेः साधनं कथयति । पूर्वस्मिन् श्लोके भगवान् समबुद्धेः कर्मयोगानुगुणम् उपस्थापनं कृत्वा अत्र तस्याः समबुद्धेः प्राप्त्यै साधनं वदति । सः वर्णयति यद्, हे कुरुनन्दन! एतस्याः समबु ...

व्यामिश्रेणेव वाक्येन.

व्यामिश्रेणेव वाक्येन इत्यनेन श्लोकेन अर्जुनः स्वमोहितबुद्धिविषये चिन्तां प्रदर्शयति । पूर्वस्मिन् श्लोके अर्जुनः ज्ञानकर्मणोः मध्ये किं श्रेष्ठम् इति पृष्ट्वा अत्र श्रीकृष्णं स्पष्टं मार्गं प्रदर्शयितुं निवेदयति । सः कथयति यद्, मिश्रवचनैः मे बुद ...

व्यासप्रसादाच्छ्रुतवान्.

व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चसप्ततितमः७५ श्लोकः ।

शक्नोतीहैव यः सोढुं.

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य त्रयोविंशतितमः श्लोकः ।

शनैः शनैरुपरमेद्.

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चविंशतितमः श्लोकः

शमो दमस्तपः शौचं.

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वचत्वारिंशत्तमः४२ श्लोकः ।

शरीरं यदवाप्नोति.

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य अष्टमः८ श्लोकः ।

शरीरवाङ्मनोभिर्यत्.

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चदशः१५ श्लोकः ।

शुक्लकृष्णे गती ह्येते.

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षड्विंसशतितमहः २६ श्लोकः ।

शुचौ देशे प्रतिष्ठाप्य.

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकादशः श्लोकः ।

शुभाशुभफलैरेवं.

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टाविंशतितमः२८ श्लोकः ।