ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 76

यथा नदीनां बहवो.

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टाविंशतितमः२८ श्लोकः ।

यथा प्रकाशयत्येकः.

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयस्त्रिंशत्तमः३३ श्लोकः ।

यथा प्रदीप्तं ज्वलनं.

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवविंशतितमः२९ श्लोकः ।

यथा सर्वगतं सौक्ष्म्याद्.

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वात्रिंशत्तमः३२ श्लोकः ।

यथाकाशस्थितो नित्यं.

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षष्ठः६ श्लोकः ।

यथैधांसि समिद्धोऽग्निः.

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तत्रिंशत्तमः श्लोकः ।

यदक्षरं वेदविदो वदन्ति.

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एकादशः११ श्लोकः ।

यदग्रे चानुबन्धे च.

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवत्रिंसत्तमः३९ श्लोकः ।

यदा ते मोहकलिलं.

यदा ते मोहकलिलं इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वैराग्यप्राप्त्या बुद्धेः शुद्धिः, स्वच्छता, निश्चलता च भवति इति वदति । पूर्वस्मिन् श्लोके समत्वबुद्धेः अनामयरूपि फलम् उक्त्वा अर्जुनाय विवेकजन्यवैराग्यप्राप्तेः मार्गं वर्णयति ।

यदा भूतपृथग्भावम्.

यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रिंशत्तमः३० श्लोकः ।

यदा यदा हि धर्मस्य.

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ७ श्लोकः ।

यदा विनियतं चित्तम्.

यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टदशः श्लोकः।

यदा संहरते चायं.

यदा संहरते चायं इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य तृतीयस्य प्रश्नस्य उत्तरं ददाति । "किमासीत" इति अर्जुनस्य तृतीयः प्रश्नः आसीत् । तस्य उत्तरं ददत् अत्र भगवान् श्रीकृष्णः कच्छपस्य उदाहरणेन इन्द्रियनिग्रहरीतिं वदति ।

यदा सत्त्वे प्रवृद्धे तु.

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्दशः१४ श्लोकः ।

यदा हि नेन्द्रियार्थेषु.

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्तः श्लोकः ।

यदादित्यगतं तेजो.

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वादशः१२ श्लोकः ।

यदि मामप्रतीकारम्.

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्चत्वारिंशत्तमः श्लोकः ।

यदि ह्यहं न वर्तेयं.

यदि ह्यहं न वर्तेयम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मणः हानिं वदति । पूर्वस्मिन् श्लोके भगवान् स्वस्य कर्मरतायाः कारणेन कः लाभः इति उक्त्वा अत्र स्वस्य अकर्मण्यतायाः कारणेन के दोषाः समुद्भवितुम् अर्हन्ति इति कथयति । सः उपस्थापयति यद ...

यदृच्छया चोपपन्नं.

यदृच्छया चोपपन्नम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मणः सौभाग्यं बोधयति । पूर्वस्मिन् श्लोके भगवान् उपस्थितस्य युद्धरूपिणः धर्मस्य पालनं कर्तुम् उक्तवान्, अत्र सः स्वधर्मं भाग्यशालिनः क्षत्रियाः प्राप्नुवन्ति इति कथयति । सः वदति यद्, यदृच् ...

यदृच्छालाभसन्तुष्टो.

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वाविशतितमः श्लोकः ।

यद्यदाचरति श्रेष्ठः.

यद्यदाचरति श्रेष्ठः इत्यनेन श्लोकेन भगवान् श्रीकृष्णः श्रेष्ठपुरुषाणाम् आचरणं प्रमाणीकरोति । पूर्वस्मिन् श्लोके भगवान् जनकसदृशानाम् उदाहरणेन निःस्वार्थकर्मणः औचित्यम् अवदत् । श्लोकेऽस्मिन् सः महापुरुषाणाम् आचरणं जनसामान्येभ्यः अनुसरणीयं, प्रमाणं ...

यद्यद्विभूतिमत्सत्त्वं.

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकचत्वारिंशत्तमः४१ श्लोकः ।

यद्यप्येते न पश्यन्ति.

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टत्रिंशत्तमः श्लोकः ।

यद्यहङ्कारमाश्रित्य.

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवपञ्चाशत्तमः५९ श्लोकः ।

यया धर्ममधर्मं च.

यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकत्रिंशात्तमः३१ श्लोकः ।

यया स्वप्नं भयं शोकं.

यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ३५ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चत्रिंशत्तमः३५ श्लोकः ।

यस्त्वात्मरतिरेव स्यात्.

यस्त्वात्मरतिरेव स्याद् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मज्ञानिने कर्तव्याभावं कथयति । पूर्वस्मिन् श्लोके यः कर्तव्यपालनं करोति, तस्य जीवनं व्यर्थम् अस्ति इति भगवता उक्तम् । अत्र सः वदति यद्, यः स्वकर्तव्यपालनं कृत्वा संसारात् सम्बन्धविच्छेद ...

यस्त्विन्द्रियाणि मनसा.

यस्त्विन्द्रियाणि मनसा इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वदति यद्, आसक्तिरहितकर्माचरणम् एव योगः इति । पूर्वस्मिन् श्लोके कर्मणः स्वरूपमात्रेण त्यागः मिथ्याचारम् उकत्वा अत्र भगवान् वास्तविकज्ञानस्य उपस्थापनं करोति । सः कथयति यद्, हे अर्जुन! यः मनु ...

यस्मात्क्षरमतीतोऽहम्.

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य अष्टादशः१८ श्लोकः ।

यस्मान्नोद्विजते लोको.

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य) पञ्चदशः१५ श्लोकः ।

यस्य नाहङ्कृतो भावो.

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान्न हन्ति न निबध्यते ॥ १७ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तदशः१७ श्लोकः ।

यस्य सर्वे समारम्भाः.

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवदशः श्लोकः ।

या निशा सर्वभूतानां.

या निशा सर्वभूतानाम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युक्तायुक्तयोः पुरुषयोः को वा भेदः? इति प्रदर्शयति । पूर्वस्मिन् श्लोके युक्तस्य मनुष्यस्य स्थिरबुद्धेः, सप्तषष्टे श्लोके अयुक्तस्य बुद्धिहरणस्य च उपस्थापनोत्तरम् अत्र तयोः उभयोः भेदं निरूपयति ।

यातयामं गतरसं.

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य दशमः१० श्लोकः ।

यान्ति देवव्रता देवान्.

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चविंशतितमः२५ श्लोकः ।

यामिमां पुष्पितां वाचं…

यामिमां पुष्पितां वाचम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिमनुष्याणां बुद्धयः किमर्थम् अनन्ताः इति बोधयति । पूर्वस्मिन् श्लोके व्यवसायात्मिकाव्यवसायात्मिकयोः बुद्ध्योः वर्णनं कृत्वा एतस्माच्च्छ्लोकाद् भगवान् अव्यवसायिनां मनुष्याणाम् अनन्त ...

यावदेतान्निरीक्षेऽहं.

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वाविंशतितमः श्लोकः ।

यावानर्थ उदपाने.

यावानर्थ उदपाने इत्यनेन श्लोकेन भगवान् श्रीकृष्णः निर्द्वन्द्वे सति किं भवति इति वर्णयति । पूर्वस्मिन् श्लोके भगवान् अर्जुनाय निर्द्वन्द्वो भव इति आज्ञां दत्त्वा अत्र निर्द्वन्द्वे सति किं भवति इति कथयति । सः वदति यद्, सर्वत्र महाजलाशयानां प्राप् ...

युक्तः कर्मफलं त्यक्त्वा.

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वादशः श्लोकः ।

युक्ताहारविहारस्य.

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तदशः श्लोकः।

युञ्जन्नेवं सदात्मानं.

युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चदशः श्लोकः।

युधामन्युश्च विक्रान्त.

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्एव महारथाः ॥ ६ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षष्ठः श्लोकः ।

ये चैव सात्त्विका भावा.

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वादशः१२ श्लोकः ।

ये तु धर्म्यामृतमिदं.

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य विंशतितमः२० श्लोकः ।

ये तु सर्वाणि कर्माणि.

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षष्ठः६ श्लोकः ।

ये त्वेतदभ्यसूयन्तो.

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य द्वात्रिंशत्तमः श्लोकः ।

ये मे मतमिदं नित्यम्.

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य एकत्रिंशात्तमः श्लोकः ।

ये यथा मां प्रपद्यन्ते.

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकादशः श्लोकः ।

ये शास्त्रविधिमुत्सृज्य.

अर्जुन उवाच - ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य प्रथमः१ श्लोकः ।

ये हि संस्पर्शजा भोगाः.

ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वाविंशतितमः श्लोकः ।