ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 74

पार्थ नैवेह नामुत्र.

श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चत्वारिंशत्तमः४० श्लोकः ।

पितासि लोकस्य.

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिचत्वारिंशत्तमह्ः ४३ श्लोकः ।

पिताहमस्य जगतो.

पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कारः ऋक्साम यजुरेव च ॥ १७ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तदशः१७ श्लोकः ।

पुण्यो गन्धः पृथिव्यां च.

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य नवमः९ श्लोकः ।

पुरुषः प्रकृतिस्थो हि.

पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकविंशतितमः२१ श्लोकः ।

पुरुषः स परः पार्थ.

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वाविंशतितमः २२ श्लोकः ।

पुरोधसां च मुख्यं मां.

पुरोधसांच मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्विंश्सतितमः२३ श्लोकः ।

पूर्वाभ्यासेन तेनैव.

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुश्चत्वारिंशत्तमः४४ श्लोकः ।

पृथक्त्वेन तु यज्ज्ञानं.

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकविंशतितमः२१ श्लोकः ।

प्रकाशं च प्रवृत्तिं च.

श्रीभगवान् उवाच - प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वाविंशतितमः२२ श्लोकः ।

प्रकृतिं पुरुषं चैव.

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवदशः९१ श्लोकः ।

प्रकृतिं स्वामवष्टभ्य.

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टमः८ श्लोकः ।

प्रकृतेः क्रियमाणानि.

प्रकृतेः क्रियमाणानि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञान्यज्ञानिनोः भेदं प्रदर्शयति । पूर्वस्मिन् श्लोके ज्ञानिपुरुषेभ्यः बुद्धिभेदम् अनुत्पादनस्य आज्ञां दत्त्वा अत्र भगवान् ज्ञान्यज्ञानिनोः मध्ये किं भिन्नत्वम् अस्ति इति बोधयति । सः कथयति यद ...

प्रकृतेर्गुणसम्मूढाः.

प्रकृतेर्गुणसम्मूढाः इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मविचलनाय निषेधं वदति । पूर्वस्मिन् श्लोके भगवान् भगवान् कर्मासक्तसमुदायस्य अपेक्षया साङ्ख्ययोगिनः विलक्षणतायाः प्रतिपादनं कृत्वा अत्र ज्ञानिभ्यः आदेशं करोति यद्, साधारणमनुष्याणां मनसि कर्म ...

प्रकृत्यैव च कर्माणि.

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवविंशतितमः२९ श्लोकः ।

प्रजहाति यदा कामान्.

प्रजहाति यदा कामान् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य प्रप्रथमस्य प्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके अर्जुनः स्थितप्रज्ञस्य लक्षणं पृच्छन् भगवन्तं श्रीकृष्णं चतुरः प्रश्नान् अपृच्छत् । तेषु प्रप्रथमः प्रश्नः "स्थिप्रज्ञस्य का भ ...

प्रयत्नाद्यतमानस्तु.

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चचत्वारिंशत्तमः४५ श्लॊकः ।

प्रयाणकाले मनसाचलेन.

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य दशमः१० श्लोकः ।

प्रलपन्विसृजन्गृह्णन्.

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवमः श्लोकः ।

प्रवृत्तिं च निवृत्तिं च.

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य सप्तमः७ श्लोकः ।

प्रशान्तमनसं ह्येनं.

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तविंशतितमः श्लोकः ।

प्रशान्तात्मा विगतभीः.

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६.१४॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्दशः श्लोकः ।

प्रसादे सर्वदुःखानां.

प्रसादे सर्वदुःखानाम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रसादफलं भगवत्प्राप्तिः इति कथयति । पूर्वस्मिन् श्लोके प्रसादप्राप्तेः विवरणं कृत्वा अत्र प्रसादप्राप्तेः सर्वेभ्यः दुःखेभ्यः मुक्तिः, परमात्मनि बुद्धेः अवस्थितिः इति फलं वदति ।

प्रह्लादश्चास्मि दैत्यानां.

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रिंशतितमः३० श्लोकः ।

प्राप्य पुण्यकृतां लोकान्.

प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकचत्वारिंशत्तमः४१ श्लोकः ।

बन्धुरात्मात्मनस्तस्य.

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षष्ठः श्लोकः ।

बलं बलवतां चाहं.

बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकादशः११ श्लोकः ।

बहूनां जन्मनामन्ते.

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य नवदशः१९ श्लोकः ।

बहूनि मे व्यतीतानि.

श्रीभगवान् उवाच - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चमः श्लोकः ।

बाह्यस्पर्शेष्वसक्तात्मा.

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकविंशतितमः श्लोकः ।

बीजं मां सर्वभूतानां.

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य दशमः१० श्लोकः ।

बुद्धियुक्तो जहातीह.

बुद्धियुक्तो जहातीह इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समत्वस्य फलं वदति । पूर्वस्मिन् श्लोके भगवान् सकामत्वस्य तुच्छतां वर्णयित्वा अत्र समत्वबुद्धियुक्तस्य पुरुषस्य प्रशंसां कुर्वन् अर्जुनाय कर्मयोगस्य अनुष्ठानाय आज्ञां यच्छति । तथा च कर्मबन्धनमु ...

बुद्धेर्भेदं धृतेश्चैव.

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवविंसशतितमः२९ श्लोकः ।

बुद्ध्या विशुद्धया युक्तो.

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकपञ्चाशत्तमः५१ श्लोकः ।

बृहत्साम तथा साम्नां.

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चत्रिंशत्तमः३५ श्लोकः ।

ब्रह्मणो हि प्रतिष्ठाहम्.

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तविंशतितमः२७ श्लोकः ।

ब्रह्मण्याधाय कर्माणि.

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य दशमः श्लोकः ।

ब्रह्मभूतः प्रसन्नात्मा.

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिंलभते पराम् ॥ ५४ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुःपञ्चाशत्तमः५४ श्लोकः ।

ब्रह्मार्पणं ब्रह्म हविः.

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्विंशतितमः श्लोकः ।

ब्राह्मणक्षत्रियविशां.

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकचत्वारिंशत्तमः४१ श्लोकः ।

भक्त्या त्वनन्यया शक्य.

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुःपञ्चाशत्तमः५४ श्लोकः ।

भक्त्या मामभिजानाति.

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चपञ्चाशत्तमः५५ श्लोकः ।

भयाद्रणादुपरतं.

भयाद्रणादुपरतं मंस्यन्ते इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः उत्तरं किं भवति? इति बोधयति । पूर्वस्मिन् श्लोके भगवान् श्रेष्ठपुरुषाणाम् अपकीर्तिः लोके अतीव भयङ्करी भवति इत्युक्त्वा अत्र लोके अपकीर्तित्वाद् किं किं भवति इति वर्णयति । सः कथय ...

भवान्भीष्मश्च कर्णश्च.

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टमः श्लोकः ।

भवाप्ययौ हि भूतानां.

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वितीयः२ श्लोकः ।

भीष्मद्रोणप्रमुखतः.

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चविंशतितमः श्लोकः ।

भूतग्रामः स एवायं.

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवदशः१९ श्लोकः ।

भूमिरापोऽनलो वायुः.

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्थः४ श्लोकः ।

भूय एव महाबाहो.

श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य प्रथमः१ श्लोकः ।

भोक्तारं यज्ञतपसां.

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवविंशतितमः श्लोकः ।