ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 69

अस्माकं तु विशिष्टा ये.

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तमः श्लोकः ।

अहं क्रतुरहं यज्ञः.

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षोडशः१६ श्लोकः ।

अहं वैश्वानरो भूत्वा.

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य चतुर्दशः१४ श्लोकः ।

अहं सर्वस्य प्रभवो.

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टमः८ श्लोकः ।

अहं हि सर्वयज्ञानां.

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्विंशतितमः२४ श्लोकः ।

अहङ्कारं बलं दर्पं.

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य अष्टादशः१८ श्लोकः ।

अहिंसा सत्यमक्रोधः.

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वितीयः२ श्लोकः ।

अहिंसा समता तुष्टिः.

बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं च अभयम् एव च अहिंसा समता तुष्टिः तपः दानं यशः अयशः पृथग्विधाः भावाः भूतानां मत्तः एव भवन्ति ।

अहो बत महत्पापं.

अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चचत्वारिंशत्तमः श्लोकः ।

आख्याहि मे को भवान्.

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकत्रिंशत्तमः३१ श्लोकः ।

आचार्याः पितरः पुत्राः.

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुस्त्रिंशत्तमः श्लोकः ।

आत्मौपम्येन सर्वत्र.

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वात्रिंशत्तमः श्लोकः ।

आदित्यानामहं विष्णुः.

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचीर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकविंशतितमः२१ श्लोकः ।

आपूर्यमाणमचलप्रतिष्ठं.

आपूर्यमाणमचलप्रतिष्ठम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः ज्ञानिमहापुरुषस्य महिमानं करोति । पूर्वस्मिन् श्लोके मननशीलस्य संयमिनः पुरुषस्य कृते संसारः रात्रिवत् अस्ति इत्युक्तम् । तेन प्रश्नः उत्पद्यते यत्, किं सः ज्ञानी पुरुषः पदार्थानां सम्पर्के ...

आब्रह्मभुवनाल्लोकाः.

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षोडशः १६ श्लोकः ।

आयुःसत्त्वबलारोग्य.

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टमः८ श्लोकः ।

आयुधानामहं वज्रं.

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टाविंशतितमः २८ श्लोकः ।

आरुरुक्षोर्मुनेर्योगं.

योगम् = ज्ञानयोगम् आरुरुक्षोः = आरोढुमिच्छतः मुनेः = मुनीभविष्यतः गृहस्थस्य कर्म = कर्माचरणम् कारणम् = साधनम् उच्यते = कथ्यते योगारूढस्य = ज्ञानयोगम् आरूढस्य तस्य एव = मुनीभूतस्य तस्यैव शमः = उपशमः कारणम् = ज्ञानपरिपाके साधनम् उच्यते = निगद्यते ।

आवृतं ज्ञानमेतेन.

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य नवत्रिंशत्तमः श्लोकः ।

आशापाशशतैर्बद्धाः.

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वादशः१२ श्लोकः ।

आश्चर्यवत्पश्यति कश्चिदेनम्.

आश्चर्यवत्पश्यति कश्चिदेनम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शरीरिणः अलौकिकतायाः वर्णनं करोति । पूर्वस्मिन् श्लोके जन्ममृत्य्वोः मध्यस्थायाः स्थितेः वर्णनं कृत्वा अत्र भगवान् आत्मनः वैशिष्ट्यं वर्णयति । सः कथयति यद्, कश्चन एनं शरीरिणम् आश्चर्यवद ...

आसुरीं योनिमापन्ना.

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य विंशतितमः२० श्लोकः ।

आहुस्त्वामृषयः सर्वे.

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोदशः १३ श्लोकः ।

इच्छा द्वेषः सुखं दुःखं.

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षष्ठः६ श्लोकः ।

इच्छाद्वेषसमुत्थेन.

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तविंशतितमः२७ श्लोकः ।

इति क्षेत्रं तथा ज्ञानं.

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तंसमासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टादशः१८ श्लोकः ।

इत्यर्जुनं वासुदेवः.

सञ्जय उवाच - इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चाशत्तमः५० श्लोकः ।

इदं ज्ञानमुपाश्रित्य.

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वितीय:२ श्लोकः ।

इदं तु ते गुह्यतमं.

श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य प्रथमः१ श्लोकः ।

इदं शरीरं कौन्तेय.

श्रीभगवानुवाच - इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य प्रथमः१ श्लोकः ।

इन्द्रियस्येन्द्रियस्यार्थे.

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चतुश्त्रिंशत्तमः श्लोकः ।

इन्द्रियाणां हि चरतां.

इन्द्रियाणां हि चरताम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वायोः, नावः च दृष्टान्तम् उक्त्वा इन्द्रियेन मनसः हरणस्य तर्कम् उपस्थापयति । पूर्वस्मिन् श्लोके अयुक्तस्य पुरुषस्य कृते सुखाभावम् उक्त्वा अत्र वायुवेगात् स्वच्छन्दताङ्गतायाः नावः उदाहरणेन अ ...

इन्द्रियाणि पराण्याहुः.

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य द्विचत्वारिंशत्तमः श्लोकः ।

इन्द्रियाणि मनो बुद्धिः.

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चत्वारिंशत्तमः श्लोकः ।

इमं विवस्वते योगं.

श्रीभगवान् उवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1 ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य प्रथमः श्लोकः ।

इष्टान्भोगान् हि वो देवा.

इष्टान्भोगान्हि वो देवा इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः तृतीयं वचनं श्रावयति । पूर्वस्मिन् श्लोके प्रजापतेः वचनम् उपस्थापयन् भगवान् निःस्वार्थभावेन कर्तव्यपालनं कृत्वा परस्परं कल्याणप्राप्तिं कर्तुं शक्नुवन्ति इति उक्तवान् । अत्र देवे ...

इहैकस्थं जगत्कृत्स्नं.

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तमः७ श्लोकः ।

इहैव तैर्जितः सर्गो.

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवदशः श्लोकः ।

ईश्वरः सर्वभूतानां.

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकषष्टितमः६१ श्लोकः ।

उच्चैःश्रवसमश्वानां.

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तविंशतितमः २७श्लोकः ।

उत्क्रामन्तं स्थितं वापि.

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य दशमः१० श्लोकः ।

उत्तमः पुरुषस्त्वन्यः.

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः१७ श्लोकः ।

उत्सन्नकुलधर्माणां.

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुश्चत्वारिंशत्तमः श्लोकः ।

उत्सीदेयुरिमे लोका.

उत्सीदेयुरिमे लोका इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वस्य अकर्मण्यतायाः कारणेन उत्पन्नस्य नाशस्य वर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् स्वस्य अकर्मण्यतायाः कारणने किं किं भवितुम् अर्हति इत्यस्य विवरणम् आरब्धवान् । तस्य विवरणस्य द्वितीयसोपानत ...

उदाराः सर्व एवैते.

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टादशः१८ श्लोकः ।

उद्धरेदात्मनात्मानं.

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चमः श्लोकः ।

उपद्रष्टानुमन्ता च.

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वाविंशतितमः२२ श्लोकः ।

ऊर्ध्वं गच्छन्ति सत्त्वस्था.

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टादशः१८ श्लोकः ।

ऊर्ध्वमूलमधःशाखम्.

श्रीभगवानुवाच - ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य प्रथमः१ श्लोकः ।

ऋषिभिर्बहुधा गीतं.

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्थः४ श्लोकः ।