ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 68

अधर्माभिभवात् कृष्ण.

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकचतुरिंशत्तमः श्लोकः ।

अधश्चोर्ध्वं प्रसृताः.

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वतीयः२ श्लोकः ।

अधिभूतं क्षरो भावः.

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य चतुर्थः४ श्लोकः ।

अधियज्ञः कथं कोऽत्र.

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य द्वितीयः२ श्लोकः ।

अधिष्ठानं तथा कर्ता.

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुर्दशः१४ श्लोकः ।

अध्यात्मज्ञाननित्यत्वं.

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकादशः११ श्लोकः ।

अनन्तविजयं राजा.

हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ ।

अनन्तश्चास्मि नागानां.

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवविंशतितमः२९ श्लोकः ।

अनन्याश्चिन्तयन्तो मां.

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वाविंशतितमः२२ श्लोकः ।

अनपेक्षः शुचिर्दक्ष.

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षोडशः१६ श्लोकः ।

अनादित्वान्निर्गुणत्वात्.

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य एकत्रिंशत्तमः३१ श्लोकः ।

अनादिमध्यान्तम्.

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवदशः१९ श्लोकः ।

अनाश्रितः कर्मफलं.

श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य प्रथमः श्लोकः ।

अनिष्टमिष्टं मिश्रं च.

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वादशः१२ श्लोकः ।

अनेकचित्तविभ्रान्ता.

अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य षोडशः१६ श्लोकः ।

अनेकबाहूदरवक्त्रनेत्रं.

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षॉडसः१६ श्लोकः ।

अन्तकाले च मामेव.

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चमः५ श्लोकः ।

अन्तवत्तु फलं तेषां.

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मक्ता यान्ति मामपि ॥ २३ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रयोविंशतितमः१३ श्लोकः ।

अन्तवन्त इमे देहा.

अन्तवन्त इमे देहा इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणमेव करोति । पूर्वस्मिन् श्लोके मुख्यतया सतः निरूपणं कृत्वा अत्र असतः निरूपणं करोति भगवान् । एवञ्चात्र भगवान् अर्जुनाय योद्धुम् अपि आज्ञापयति । सः वदति यत्, अविनाशिनः, अप्रमेयस ...

अन्नाद्भवन्ति भूतानि.

अन्नाद्भवन्ति भूतानि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्राय कर्तव्यपालनस्य आवश्यकतां वदति । पूर्वस्मिन् श्लोके कर्तव्यपालनेन सर्वेषां पापानां नाशः भवति इति उक्त्वा अत्र मामं घोरकर्मणि किमर्थं योजयति? इत्यस्य अर्जुनस्य प्रश्नस्य उत्तरं यच् ...

अन्ये च बहवः शूरा.

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवमः श्लोकः ।

अन्ये त्वेवमजानन्तः.

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चविंशतितमः२५ श्लोकः ।

अपरं भवतो जन्म.

अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य चतुर्थः श्लोकः ।

अपरे नियताहाराः.

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रिंशत्तमः श्लोकः ।

अपरेयमितस्त्वन्यां.

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चमः श्लोकः ।

अपर्याप्तं तदस्माकं.

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० । अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य दशमः श्लोकः ।

अपाने जुह्वति प्राणं.

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवविंशतितमः श्लोकः ।

अपि चेत्सुदुराचारो.

अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ३० ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रिंशत्तमः३० श्लोकः ।

अपि चेदसि पापेभ्यः.

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षड्त्रिंशत्तमः श्लोकः ।

अप्रकाशोऽप्रवृत्तिश्च.

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य त्रयोदशः१३ श्लोकः ।

अफलाकाङ्क्षिभिर्यज्ञो.

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य एकादशः११ श्लोकः ।

अभ्यासयोगयुक्तेन.

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अषटमः८ श्लोकः ।

अमी हि त्वां सुरसङ्घा.

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकविंशतितमः२१ श्लोकः ।

अयतिः श्रद्धयोपेतो.

अर्जुन उवाच - अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तत्रिंशत्तमः३७ श्लोकः ।

अयनेषु च सर्वेषु.

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्एव हि ॥ ११ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकादशः श्लोकः ।

अयुक्तः प्राकृतः स्तब्धः.

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टाविंशतितमः२८ श्लोकः ।

अवजानन्ति मां मूढा.

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकादशः११ श्लोकः ।

अवाच्यवादांश्च बहून्.

अवाच्यवादांश्च बहून् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युद्धोपरामे ते शत्रवः किं करिष्यन्ति इति उपस्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामेण महारथिनः किं मंस्यन्ते इति उक्त्वा अत्र भगवान् शत्रवः किं करिष्यन्ति इति वदति । सः कथयति यद्, शत्रवः ते स ...

अविनाशि तु तद्विद्धि.

अविनाशी तु तद्विद्धि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणं करोति । पूर्वस्मिन् श्लोके सदसतोः लक्षणविवेचनं कृत्वा अत्र भगवान् सत्किम्?, असच्चकिम्? इति वर्णयति । सः कथयति यत्, तम् अविनाशित्वेन बुद्ध्यस्व, यः सम्पूर्णे संसारे व्याप् ...

अव्यक्तं व्यक्तिमापन्नं.

अव्यक्तंव्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्विंशतितमः२४ श्लोकः ।

अव्यक्तादीनि भूतानि.

अव्यक्तादीनि भूतानि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनित्यसिद्धान्तस्य, आत्मानित्यसिद्धान्तस्य च मध्यस्थितिं वर्णयति । पूर्वयोः श्लोकयोः भगवता शरीरिशरीरयोः एकत्वे स्वीकृतेऽपि शोकः न करणीयः इति उक्तम् । तयोः श्लोकयोः पूर्वम् आत्मनः नित्यत्वं ...

अव्यक्तोऽक्षर इत्युक्तः.

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एखविंशतितमः२१ श्लोकः ।

अव्यक्तोऽयमचिन्त्योऽयम्.

अव्यक्तोऽयमचिन्त्योऽयम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः शोकरहितत्वं प्रदर्शयति । पूर्वयोः उभयोः श्लोकयोः भगवान् आत्मनः नित्यत्वं निरूपयति, तस्य उपसंहारत्वेन एतस्मिन् श्लोके आत्मनः नित्यत्वेन सह आत्मनः शोकरहितत्वम् अपि बोधयति । सः वदति यत ...

अशोच्यानन्वशोचस्त्वं.

अशोच्यानन्वशोचस्त्वम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरभते । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् अर्जुनस्य युद्धोपरामस्य निर्णयं श्रावयित्वा तूष्णीं स्थितम् अर्जुनं भगवान् एतानि वचनानि अवदत् इत्युक्तवान् । एत ...

अश्रद्धधानाः पुरुषा.

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य तृतीयः३ श्लोकः ।

अश्रद्धया हुतं दत्तं.

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टाविंशतितमः२८ श्लोकः ।

अश्वत्थः सर्ववृक्षाणां.

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्विंशतितमः२६ श्लोकः ।

असंयतात्मना योगो.

असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्त्रिंशत्तमः३६ श्लोकः ।

असंशयं महाबाहो.

श्रीभगवान् उवाच - असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चत्रिंशत्तमः३५ श्लोकः ।

असक्तबुद्धिः सर्वत्र.

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवचत्वारिंशत्तमः४९ श्लोकः ।