ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 66

विकिः

विकिः अथवा विकि तु कश्चन जालस्थलस्य प्रकारः। विकिः तु एतादृशं जालस्थलं यस्य प्रयोक्तारः अस्मिन् अधिकं योक्तुं, परिवर्तयितुं अथवा अपाकर्तुं समर्थाः। तत्र विचरकस्य प्रयोगेन, काञ्चित् चिह्नकारिणीं भाषां नियोज्य अथवा कस्यचित् रिच्टेक्स्ट्-ऍडिटराख्यस् ...

विक्रमादित्यः

विक्रमादित्यः भारतवर्षस्य कश्चन धर्मपरायणः सत्यव्रती न्यायप्रियः सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा ...

विदारी

एतत् विदारी भारते अपि वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् विदारी आङ्ग्लभाषायां ॥॥। इति उच्यते । एतत् विदारी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते । ‎

विद्धशालभञ्जिका

विद्धशालभञ्जिका नाटिका नायिकायाः प्रतिकृतिं शालभञ्जिकापरपर्यायां निबध्नती नाम-सार्थक्यं धारयति । शालभञ्जिकां हि समालोक्य नायकस्य रागोऽवर्धतेति, राजशेखरस्याभिनवोद्भावना। मध्यप्रदेशस्थाय त्रिपुर्यां ९३६ ईसवीयेऽब्दे नाटिकेयं विरचिता । तत्र हि राजशेख ...

विबुधानन्दम्

विबुधानन्दं नाम नाटकं शीलाङ्को नवमशताब्दे क्वचित् विरचितवान् । जैनानामेकादशाङ्कव्याख्यातृत्वेन प्रसिद्धिभाक् शीलाङ्कः राष्ट्रकूटवंशीयनृपतेराश्रितस्तद्वंशधरमेव नायकं निबध्य लक्ष्मीधरनामानं प्रतिभाप्रकाशेनामरभारतीमालोकयामास । इदं च करुणरसपूरं नाट्यम् ।

विश्ववारा

अत्रिः ब्रह्ममानसपुत्रेषु अन्यतमः । एषः एतस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः । एषः किञ्चित्कालं यावत् ब्रह्मणः अधिकारस्य मन्त्रदृष्टा महर्षिः आसीत् । एतस्य वंशे एव विश्ववारा जन्म प्राप्तवती । एतस्याः विषये अधिकविषयाः न ज्ञाताः । चेदपि एषा काचित् ...

विषया

एषः बालकः अग्रे एतस्य राज्यसिंहाससस्य उत्तराधिकारी भविष्यति । तथैव भवतः समस्तसम्पत्तेः स्वामी भविष्यति । एतं जागरूकतया रक्षन्तु” इति सः राजज्योतिष्कः वदति । प्रासादस्य दास्या पालितः लघुबालकः कश्चित् कार्यवशात् कुन्तलस्य प्रधानमन्त्रिणः दुष्टबुद्ध ...

विष्णुतत्त्वनिर्णयः

विष्णुतत्त्वनिर्णयस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। दशप्रकरणग्रन्थेषु विष्णुतत्त्वनिर्णयः अतीव विस्तृतग्रन्थः। केचन एवं भावयन्ति, समग्रस्य सिद्धान्तस्य संक्षिप्तपरिचयात्मकः ग्रन्थः भवति इति। श्री जयतीर्थस्य अणुव्याख्यानम् इति टीका विद्यते। अ ...

विष्णुविलासकाव्यम्

रामपाणिवादविरचिते विष्णुविलासकाव्ये अष्ट सर्गाः सन्ति । भगवतः नव अवताराणि एव काव्येस्मिन् वर्ण्यन्ते । भागवतपुराणोक्तरीत्या एव एते अवताराः उक्ताः । पालियत्त् अच्छन् नाम भूप्रभोः निर्देशानुसारमेव अयं काव्यं लिखितम् । अस्य काव्यस्य विष्णुप्रिया नाम ...

वीररसः

वीरस्योत्साहः स्थायिभावो भवति । लोकोत्तरेषु कार्येषु क्रियमाणः स्थेयान् प्रयत्नःउत्साह उच्यते । ‘पर पराक्रम दानादि स्मृति जन्मा, औन्नत्याख्य श्चित्तवृत्ति विशेष उत्साह’ इति रसगङ्गाधरः। वीर् धातोः अच् प्रत्यये कृते" वीर” शब्दस्य उत्पत्तिः। वीररसस् ...

वेणीसंहारम्

नाटकमिदं महाभारतीयं कथावस्त्वाश्रित्य विरचितम् । दुश्शासनापमानसन्तप्ता द्रौपदी घोरां प्रतिज्ञामकृता, यद् अहं दुश्शासने निहत एव केशयसंयमनं करिष्यामि । अस्याः एव घटनायाः पूर्त्तौ महाभारतस्य या कथा साऽत्र वर्णिता । अत्र नाटके षडङ्काः सन्ति । प्रथमोऽ ...

वैदर्भी

बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घ समासा च वैदर्भीरीतिरिष्यते ॥ रचनागतं शब्दगतं वा काठिन्यं यत्र न विद्यते, यत्र च रचना असमासाः अल्पसमासाः वा भवति तत्र वैदर्भीरीतिरित्यर्थः । यथा – वितरणगुणलीलातोषिताशेषलोके विभवति नरनाथे काकतीयान्वये ...

वैराग्यशतकम्

नित्यानित्यविचारः यति-नृपति-सम्भाषणम् कालमहिमा तृष्णादूषणम् याज्ञा-दैन्यदूषणम् भोगास्थैर्यवर्णनम् अवधूतचर्या मनःसम्बोधन-नियमनम् शिवार्चनम् विषयपरित्याग-विडम्बना

वैशेषिकदर्शनम्

वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनमेतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः काश्यपः इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकम ...

व्योमशिवाचार्यः

अयमाचार्यो दाक्षिणात्य आसीत् । अनेन प्रशस्तपादभाष्यमधिकृत्य "व्योमवती टीका" विरचिता या हि प्राचीनतमा मन्यते । अस्योल्लेखः उदयनाचार्य-राजशेखरादिभिरादरेण विहितः । अस्य स्थितिकालविषये सम्राजः हर्षवर्धनस्य शासने उल्लेखः वर्तते । अयमाचार्यः शब्दस्यापि ...

शब्दालङ्कारः

ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा उच्यन्ते । अनुप्रासः, यमकः, श्लेषः च शब्दालङ्काराः सन्ति । ‎

शरच्चर्या

अयं पित्तप्रकोपस्य काल:।तस्मात् शरदारम्भ एव विरेचनं कार्यम्। तेन पित्तस्य शोधनं भवति।पित्तमत्यन्तं कुपितं चेद्, रक्तमोक्षणमपि आवशयकं भवति। आहारे तिक्तरसैर्भेषजद्रव्यै: सिद्धं घृतं समावेशनीयम्।आमलकं मधु शर्करा इत्येतानि द्रव्याण्याहारे भवेयु:।मधुर ...

शशिकला

सुबाहुः काशीनगरस्य महाराजः आसीत् । शशिकला तस्य एकमात्रं पुत्री । कदाचित् सा प्रासादस्य पार्श्वे गच्छन्तं वृद्धब्राह्मणतपस्विनं दृष्ट्वा तस्मै निमन्त्रणं प्रेषयति । तेन ब्राह्मणेन धृतेभ्यः वस्त्रेभ्यः वर्चसः च सा नितराम् आकृष्टवती आसीत् । धार्मिकभ ...

शान्तरसः

शान्तस्य शमश्च स्थायिभावो भवति । वैराग्यादिना निर्विकारचित्तत्वं शमः । नित्याऽनित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः इति रसगङ्गाधरकारः । गृहकलहादिजस्तु निर्वेदः व्यभिचारी भवति । साहित्यदर्पणे साहित्यदर्पणकारः शान्तरसम् एवं वर्णयति, शान्तः श ...

शार्दूलविक्रीडितच्छन्दः

सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम् प्रतिचरणम् अक्षरसङ्ख्या १९ यस्य चतुर्षु चरणेषु क्रमेण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति । तस्य लक्षणम् आचार्यपिङलेन इत्थं निर्दिष्टम् सूर्याश्वैर् ...

शिखरिणीछन्दः

रसै रुद्रैश्छिन्ना यमनसभला ग: शिखरिणी। केदारभट्टकृत- त्तरत्नाकर:३. ९० ।ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ य म न स भ ल ग। यति: षड्भि: एकादशभि:च। अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸ एकः मगणः, एकः नगणः, एकः सगणः एकः ...

शिवताण्डवस्तोत्रम्

॥ सार्थशिवताण्डवस्तोत्रम् ॥ जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्यलम्बितां भुजङ्गतुङ्गमालिकाम् ॥ डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- विलोलवीचिवल्लरीविराजमानमूर्द्धनि ॥ धगद ...

शुद्धतोडिरागः

शुद्धतोडिरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "तोडि" थाट् गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’ध’ भवति । संवादिस्वरः ’ग’ भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति ।

शृङ्गारशतकम्

शृङ्गारशतकं भर्तृहरेः कृतित्वेन प्रसिद्धं प्रस्तुतिकाव्यम् । शतकत्रय्यां शृङ्गारशतकमाद्यं हि शतकम् । अत्र रतिर्मानवजीवनस्योपादानविशेषत्वेन वर्णिता । अस्मिन् शतके स्त्रीसौन्दर्यम्, प्रणयलीला, पुरुषहृदयवशीकरणम्, अनुभवदिविषये लिखितवान् अस्ति । शतकस् ...

श्री (रागः-हिन्दुस्थानिशास्त्रीयसङ्गीतम्)

श्रीरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वीथाट् गणस्य रागः भवति । केचन काफी थाट् गणस्य इत्यभिप्रयन्ति । प्राचीनः स्वतन्त्रश्च रागः भवति । गम्भीरप्रकृतिकः रागः भवति । आरोहे गान्धारधैवतौ स्वरौ वर्ज्यौ भवतः । वादिस्वरः ...

श्लेषः

यत्र बहूनां पदानामेकपदवदवभासमानत्वं तत्र श्लेषः । सन्धिवशात् बहून्यपि पदान्येकपदवत् भासमानानि भवन्ति । कदाचित् तुल्यस्थानजनितानां वर्णानां समाहारेणाऽपि श्लेषस्सिध्यति । इमं श्लेषं विद्यानाथो मिथस्संश्लिष्टपदत्वमिति प्रत्यपादयत् । यथा – श्रीमत्काक ...

सच्चिदानन्दवात्स्यायनः

हिन्दी साहित्यं अनेन बहवः गद्यात्मकाः पद्यात्मकाः हिन्दी ग्रन्थाः सम्पादिताः|केषांचित ग्रंथानां नामानि निम्नलिखितानि वर्तन्ते| भग्नदूत / अज्ञेय कविता संग्रह, 1935 चिन्ता / अज्ञेय कविता संग्रह, 1942 इत्यलम् / अज्ञेय कविता संग्रह, 1946 शरणार्थी / अ ...

सदाचारस्मृतिः

सदाचारस्मृतिग्रन्थस्य रचयिता मध्वाचार्यः भवति। सदाचारस्मृतिग्रन्थः निष्काम्यकर्मणः महत्वं तथा नित्यविधिञ्च स्पष्टतया निरूपयति। प्रतिनित्यं हरिस्मरणपूर्वकं सकाले उत्थानं भवेत्। नित्यविधिं सम्पूर्णतया स्पष्टं निरूपितवान् अस्ति। गायत्रीमन्त्रजपविषये ...

समता

चतुर्षु पादेषु ललितानां शब्दानामर्थानां वा तुल्यतया भणनं समता । विद्यानाथोऽवैषम्येण भणनं समता - इत्यकथयत् । मार्गाऽभेदस्समता - इति वामनः, अविषमबन्धत्वं समता इति दण्डी च निरवोचताम् । वदान्यतरुमञ्जरी सुरभयश्श्रवः पारणं गुणा विदधते सदा जगति वीररुद्र ...

साङ्ख्यदर्शनम्

सांख्यदर्शनं प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भ ...

सात्वतीवृत्तिः

ईषत्प्रौढार्थसन्दर्भयुक्ता वृत्तिस्सात्त्वती । ईषत्प्रौढयोः वीरभयानकयोर्विषये वृत्तिरियं प्रयोज्या भवति । एषा हर्षातिशयसंवलिता, सात्विकाभिनयभूयिष्ठा च विराजते । यथा – दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र प्रस्थानारम्भभेरीनिनदमरिनृपाः प ...

सारङ्गरागः

सारङ्गरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । मेघरागस्य पत्नी इति प्रसिद्धिरस्य । अस्य रागस्य "काफि थाट्" भवति । अयं रागः "ओढव" विभागस्य भवति । अस्यैव रागस्य नाम ग्रन्थकाराः" मध्यमादिसारङ्गः” इति कथयन्ति । अस्य रागस्य प्रश ...

साहित्यदर्पणः

विश्वनाथेन रचितः ग्रन्थः साहित्यदर्पणम् इति । पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कार विषये वर्तते । सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः । साहित्यदर्पणे विश्वनाथस्य काव्यलक्षण: अस्ति। अत्र च विद्यमानाः कारिकाः, वृत्तयः एतेनैव रचिताः । साहित्यदर्पण ...

सीताराघवम्

रामपाणिवादमहाकविना सप्तभिः अङ्कैः उपनिबद्धं काव्यं भवति सीताराघवम् । मार्ताण्डवर्ममहाराज्ञः सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या च उज्वलं भवति सीतार ...

सुकर्णो

सुकर्णो सुकार्नो तस्य जन्मनाम कुस्नो सोस्रोदिहार्द्जो इण्डोनेशिया देशस्य स्वतन्त्रता योद्धा आसीत्। सः देशस्य प्रथम राष्ट्रपतिः अभवत्।

सुमध्या

पुरुषोत्तमपुम् इति किञ्चन नगरम् आसीत् । सौन्दर्यस्य, सुव्यवस्थायाः शासने तन्नगरं प्रसिद्धमासीत् । तस्मिन् नगरे उन्नतस्तरस्य वेश्याः आसन् । तासु सुमध्या बहुप्रख्यातिं प्राप्तवती । सुमध्या सत्कुलप्रसूता आसीत् । तथापि दुष्टसहवासेन सा मार्गभ्रष्टा अभ ...

सुलभा

प्रधानः कश्चन राजर्षिः । तस्य पुत्री एव सुलभा । एषा ब्रह्मचारिणी ब्रह्मनिष्ठा महातपस्विनी च आसीत् । एतादृशी सुलभा जनकमहाराजस्य कीर्तिं श्रुतवती । जनकः तु ब्रह्मज्ञानी एव । तस्य ब्रह्मज्ञानेन राजसभा अपि शोभते स्म । किन्तु तस्मिन् स्वस्य विश्वासः, ...

सूर्यशतकम्

अस्य सूर्यशतकस्य रचयिता बाणस्य मातुलः मयूरः मयूरभट्टः। अस्मिन् स्रग्धरावृत्ते निबद्धानि १०० पद्यानि विद्यन्ते । हर्षवर्धनस्य सूर्यप्रार्थनां निमित्तीकृत्य इदं स्तोत्रकाव्यं विरचितम् । अत्रत्या गौडीशैली यमकानुप्रासश्च सुप्रसिद्धः वर्तते । उपमा, रू ...

सूर्या

आदित्यसूर्यस्य पुत्री सूर्या । एतस्याः विवाहः चन्द्रमसा सह अभवत् । वेदे एतयोः विवाहस्य वर्णनम् अस्ति । सूर्या सूर्यदेवस्य पत्नी इति बृहद्देवता वदति । तस्य सप्तमाध्यायस्य १२१तम श्लोकः एतस्य आधारः । उषा रूपत्रयेषु सूर्यदेवेन सह दृश्यते । सूर्यदेवस् ...

सोरठिरागः

सोरठिरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । खमाज थाट् गणस्य रागः भवति। अस्य रागस्य वादिस्वरः ॠषभः भवति । संवादिस्वरः धैवतः भवति । ओढव तथा षाडवाभ्यां मिलितः भवति । अस्य रागस्य प्रशस्तकालः मध्यरात्रिः भवति । सोरट् इत्यपि अस्यैव रागस् ...

सोहनीरागः

सोहनीरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । मारवा थाट् गणस्य रागः भवति । "ओडव" तथा "षाडवजात्योः" सहितः रागः भवति । अस्य रागस्य प्रशस्तकालः रात्रौ तृतीयः उत चतुर्थः प्रहरः भवति । अस्मिन् रागे मध्यमस्वरौ भवतः तथापि तीव्रमध् ...

सौकुमार्यम्

सुकुमाराक्षरप्रायं सौकुमार्यमुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । अनिष्ठुराक्षरप्रायं सौकुमार्यमिति दण्डिनो मतम् । अर्थगतमपारुष्यमपि सौकुमार्यमेव । यथा – अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः । नगरे कालतीन्द्रस्य दिवाप्याभाति चन्द्रिक ...

स्तोत्ररत्नम्

विगाहे यामुनं तीर्थं साधुबृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥ आळवन्दार् इति प्रख्यातैः श्रीमद्यामुनमुनिभिः अनुसंहितं पञ्चषष्टिश्लोकात्मकं स्तोत्ररत्नं नाम श्रीमन्नारायणं स्तुवत् स्तोत्रकाव्यं वर्तते । श्रीवैष्णवसिद्धान्तप ...

स्वप्नवासवदत्तम्

एतदेकम् प्रसिद्धम् संस्कृतनाटकम् । महाकविः भासः एतस्य रचयिता इति अस्मिन् ग्रन्थ एव उल्लेखः लभ्यते । क्षेमेन्द्रस्य बृहत्कथामञ्जरीं सोमदेवस्य कथासरित्सागरं च आधृत्य विरचितमिदं नाटकम्, समग्रे संस्कृतवाङ्मये दृश्यकाव्यप्रकारेषु आदर्शकृतिरिति जेगीयते ...

हठयोगः

हठयोगः शरीरशुध्देः उपरि गुरुत्वं प्रददाति । अतएव उक्तम् –शरीरमाद्यं खलुधर्मसाधनम् । अस्मिन् योगे शरीरशुध्देरुपायो वर्णितः । शरीरं यन्त्रम्, शरीरं धारयति आत्मरुपी यन्त्री । शरीरस्य मनो –बुध्दि –अहंकारादयः आत्मनः विभूतयः शक्तयो वा । शरीरशुध्दौ मनः ...

हरिणीछन्दः

नसमरसलागः षड्वेदैर्हयैर्हरिणी मता रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा। - केदारभट्टकृत- वृत्तरत्नाकर:३.९३ अस्मिन् वृत्ते सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः नगणः¸ एकः सगणः, एकः मगणः, एकः रगणः एकः सगणः, एकः लघुः एक ...

हर्षचरितम्

महाकविर्बाणभट्टः संस्कृतगद्यसाहित्ये दण्डिसुबन्ध्वोः अनन्तरं सुविख्यातः कविः वर्तते, सः वात्स्यायनगोत्रीय ब्राह्मणवंशे जन्म गृहीतवान् । तस्य महाकवेः पूर्वजाः बिहार प्रान्तस्थितस्य हिरण्यवाहस्य शोणमहानदस्य तटे ‘प्रीतिकूट’ – नामके ग्रामे न्यवसन् । ...

हिण्डोलरागः

हिण्डोलरागः Hindol Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । उत्तराङ्गप्रधानः रागः भवति । प्रभातकालीनरागः भवति । अयं रागः वीररसप्रधानः रागः भवति । अस्मिन् रागे तीव्रमध्यमः अस्ति । रागस्य जीवभूतः वादिस्वरः धैवतः ध भवति । संवा ...

हेमन्तचर्या

हेमन्ते जाठराग्निर्बलवान्। स चाधिकमन्नरूपमिन्धनमपेक्षते।अतोऽस्मिन् ऋतौ मधुराम्ललवणरसात्मकानि भोज्यान्यधिकं भोक्तव्यानि। अन्यथा इन्धनाभावादग्निर्धातून्पचति, बलहानिं च जनयति।हेमन्ते निशा दीर्घा:। तेन प्रातरेव नरा बुभुक्षवो भवन्ति। अत: प्रातरेव नरै: ...

हैदराबाद्, पाकिस्तानम्

एषः लेखः पाकिस्थानदेशस्य नगरस्य विषये अस्ति, यदि भवान्/भवती भारतस्य हैदराबाद-नगरस्य विषये ज्ञातुम् इच्छति, तर्हि हैदराबाद्-नगरम्, भारतम् इत्यत्र गच्छतु । अड्वानी महोदयस्य शिक्षणम् अत्र अभवत्।