ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 60

महालिङ्गः

महालिङ्ग स्य उत महालिङ्गशास्त्रिणः जन्म १८९७ ख्रीष्टाब्दे समभूत् । तञ्जौर-मण्डल-वास्तव्येन कविना प्रतिराजसूयनाटकस्य अन्ते निजवंशस्य परिचयो लिखितः । शास्त्रिणा काव्य-कथोपन्यास-सङ्गीत-ललितकलाविषयका अनेके ग्रन्था विरचिताः । अस्य नाट्य-साहित्यं तु सा ...

यतीन्द्रः

यतीन्द्रः वर्तमान-बाङग्लादेशस्थे कधुखिलग्रामे १९०८ ई० वर्षे जनिं प्रापत् । तस्य पिता रसिकचन्द्रचतुर्धरीणः प्राथमिकशालायां शिक्षकः सन्नपि समाजे समादृतः; जनैश्च गुरुरिति व्यपदिष्टः। अयं महाभागः सर्वस्वं दत्त्वापि कोलकातायां लन्दन-नगरे च यतीन्द्रस्य ...

रमा चौधुरी

डा० रमा चौधुरी डा० यतीन्द्रविमलस्य पत्नी बहूनि संस्कृत-नाटकानि प्रणीतवती । रमा यतीन्द्रेण सार्धमेवाधीत्य अक्सफोर्ड विश्वविद्यालयस्य ‘डी० फिल् इत्युपाधिमुपलेभे । सा त्रिंशद् वर्षाणि यावद् ब्रावोर्न कालेजे प्राचार्यपदमलङ्करोति स्म । ततः सप्त वर्षाण ...

लीला राव

लीला रावः नाटकलेखिकायाः सुप्रसिद्धकवयित्र्याः क्षमायाः तनूजा वर्तते। अस्याः विवाहो हरीश्वरदयालेन सह समवर्तत । हरीश्वरदयालो प्रथमतो भारतीयशासनसेवायां विदेशसेवायां नियुक्तोऽभूत्। लीला" टेनिस क्रीडायाम् अग्रतामुपलब्धवती । संस्कृते लेखनस्य प्रेरणा सा ...

वीरेन्द्रकुमारभट्टाचार्यः

वीरेन्द्रकुमारभट्टाचार्यः बङ्गप्रदेशे १६१७ ई० वर्षे जनिमलभत । कोलकाताविश्वविद्यालयात् उच्चशिक्षां प्राप्यायं १९४२ ई० वर्षात् प्रारभ्य १९४६ ई० वर्षं यावत् महाविद्यालये दर्शनशास्त्रस्य प्राध्यापकपदमलञ्चकार । अनन्तरं आसेवानिवृत्तेः केन्द्रीयशासनस्य ...

वेङ्कटरामराघवः

वेङ्कटरामराघवो विंशतिशतकस्य विश्वविख्यातेषु संस्कृतसाहित्यकारेष्वनन्यो विद्यते । मीनाक्षी-वेङ्कटरामाययरावस्य पितरावास्ताम् । अस्य जन्म २२-८-१९०८ ख्रिष्टाब्दे तञ्जौरजनपदस्य तिरुवायूरनगरे संवृत्तम् । मद्रासस्य प्रेसीडेन्सी-महाविद्यालये महामहोपाध्या ...

व्यासराजशास्त्री

व्यासराजशास्त्री विद्यासागर इत्युपाधिना विभूषितः । उपाधिरयं शास्त्रिणः सारस्वतमुत्कर्षम्। कविनानेन रामायणमुपजीव्य प्रायः पञ्चविंशतिः लघूनि रूपकाणि प्रणीतानि । संस्कृतं प्रति भारतवासिनामुपेक्षा तस्य मानसं दुनोति स्म । व्यासराजस्य रूपकेषु विद्युन्म ...

हरिदाससिद्धान्तवागीशः

हरिदाससिद्धान्तवागीशस्य कश्चन नाट्यकारः। ख्रीष्टाब्दे १८७६ फरीदपुरमण्डले लब्धजन्मा हरिदाससिद्धान्तवागीशो भारतवर्षस्य स्वातन्त्र्यमुद्गायन् विशिष्ट एव । अस्य माता विधुमुखी पिता च गङ्गाधरविद्यालङ्कार आस्ताम्। अयं बाल्यत एव महाकविरासीत् । पञ्चदशवर्ष ...

यास्कः

यास्कस्य कालस्थानयोः विषये विदुषां मतभेदो वर्तते । आधुनिकपाश्चात्यविदुषां मते यास्कस्य कालः प्रायः ईसापूर्व सप्तमशताब्दिः 7th BC। यास्कः पाणिनेः प्राचीनः इत्यैतिहासिकानां मतम् । यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन ज्ञायते यत् स ...

कैय्यटः

कैय्यटः एकः संस्कृतस्य वैय्याकरणः वर्तते । व्याकरणक्षेत्रे एतस्य नाम प्रसिद्धं वर्तते । एतेन भाष्यप्रदीपः इति ग्रन्थस्य पठनेन माहाभाष्यस्य अध्येतॄणां सुकरो भवति । एतस्य कालः दशमशताब्दस्य अन्तिमभागः । मम्मटः, उव्वटः इति नामस्सादृश्यात् एषः अपि काश ...

जिनेन्द्रबुद्धिः

जिनेन्द्रबुद्धिः एकः वैय्याकरणः वर्तते । एतेन न्यासमञ्जरी इति ग्रन्थः लिखितः । एषः बौद्धपन्थीयः आसीत् इति ज्ञायते । एतस्य कालः प्रायः अष्टमशताब्दः इति उच्यते ।

नागेशभट्टः

महाभाष्ये तत्र तत्र आचार्यप्रवृत्तिर्ज्ञापयति इत्यादीनि बहूनि वाक्यानि दृश्यन्ते । सूत्रस्थेन लिङ्गेन यानि वचनानि ज्ञापितानि भवन्ति तानि तत्र सूचितानि वर्तन्ते । एतादृशवचनानि द्विप्रकाराणि भवन्ति, परिभाषारूपाणि परिभाषेतरणि च इति । परिभाषारूपाणि प ...

पतञ्जलिः

भगवान् पतञ्जलिः योगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां ...

पाणिनिः

पाणिनिः संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः अष्टाध्यायीनामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते । संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा- इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः । पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्द ...

भट्टोजिदीक्षितः

सुप्रसिद्धस्य ‘सिद्धान्तकौमुदी’ इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः । एषः महाराष्ट्रदेशीयः । एतस्य पिता लक्ष्मीधरः । शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः । एषः क्रि.श. १६ शतकस्य उत्तरार्धे आसीत् इति विद्वद्भिः निर्णीत ...

भागुरिः

भागुरेः नामोल्लेखः पाणिनिना कृतः । परन्तु भागुरिव्याकरणाविषयकं मतं न्यासकारेणोध्दतम् । यथा वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः आपं चैव हलन्तानां यथा वाचा निशा दिशा । अनेनानुमीयते यत् भागुरिनामधेयः कश्चन वैयाकरण आसीत् । महाभाष्ये ७/३/४५ सूत्रे भाग ...

भारद्वाजः(वैय्याकरणः)

पाणिनीयव्याकरणे एकस्मिन् स्थाने भारद्वाजस्य मत्तमुध्दृतम् । पतञ्जलिनापि तस्यैव सूत्रस्य व्याख्यानावसरे भारद्वाजस्य मतं समीक्षितम् । कृकर्णपर्णाद् भारद्वाजे ४/२/१४५ सूत्रे यो भारद्वाजशब्दो विद्यते स देशवचनं एव च गोत्रशब्द इति काशिकायामुक्तम् । महा ...

रामचन्द्रः (वैय्याकरणः)

रामचन्द्रः एकः संस्कृतस्य वैय्याकरः वर्तते । एतेन प्रक्रियाकौमुदी इति ग्रन्थः लिखितः । अत्र च पाणिनीयसूत्राणां व्याख्यानं विद्यते । एवमेव धर्मकीर्तिः अपि रूपावतारः इति व्याख्यां लिखितवान् । परन्तु रामचन्द्रस्य व्याख्या विस्तृता, सरला च वर्तते । श ...

वररुचिः

वररुचिः प्राचीनभारतीयः ग्रन्थकर्ता अस्ति । भारतस्य नैके भागे अनेकेषु पुराणेतिहासस्य शास्त्राणां च ग्रन्थैः सह वररुचेः नाम श्रूयते । किन्तु अयं सः वररुचिः यः वार्तिककारः कात्यायनः इति प्रथितः। प्रकृतभाषायाः सर्वप्रथमव्याकरणग्रन्थस्य प्राकृतप्रकाशस ...

वृषभदेवः

वृषभदेवः एकः वैयाकरणः विद्यते । भर्तृहरेः वाक्यपदीयस्य प्रथमकाण्डद्वयस्य उपरि एतेन स्वोपज्ञवृत्तिः लिखिता । एतस्य पितुः नाम श्रीदेवयशः इति । राज्ञः विष्णुगुप्तस्य आस्थाने एषः आसीत् ।

व्याकरणभाष्यकाराः

व्याकरणभाष्यकाराः इत्युक्ते पाणिनेः व्याकरणशास्त्रम् आधारीकृत्य ये पण्डिताः स्वभाष्याणि अरचयन्, ते। महाभाष्यकारः तु पतञ्जलिः एव। परन्तु अन्ये अनेके वैय्याकरणाः पाणिनेः व्याकरणशास्त्रे स्वभाष्यम् अरचयन्। तेषु भर्तृहरिः, कैय्यटः, नागेशभट्टादयः प्रस ...

व्याडिः

व्याडिः पाणिनिव्याकरणस्य आधारेण सङ्ग्रहग्रन्थम् अरचयत्। कात्यायनः पाणिनिशब्दानुशासनोपरि वार्तिकानि कृतवान् । तयोरन्तराले हि व्याडिर्नाम काश्चिदपरो विचक्षणो बभूव यो हि पाणिनीयव्याकरणमधिकृत्य संग्रहग्रन्थं प्रणीतवान् । व्याडेः समग्रः परिचयस्तु नैव ...

शरणदेवः

शरणदेवः एकः संस्कृतस्य वैय्याकरणः वर्त्तते । एतेन दुर्घटवृत्तिः इत्याख्यः ग्रन्थः लिखितः । येषां शब्दानां पाणिनीयव्याकरणरीत्या साधुत्वं कल्पयितुं न शक्यते तादृशानां शब्दानाम् अत्र साधुत्वं प्रदर्शितम् । तदपि शास्त्रीयशैल्या निरूपितवान् । अपि च का ...

संस्कृतस्य वैयाकरणाः

यदा सर्वासु अष्टाध्यायीटीकासु महाभाष्यमनितरसांधारणं स्थानं प्रपेदे तदाऽष्टाध्यायीमाश्रित्य विराचिता अन्ये सर्वे वृत्तिग्रन्थाः गौणत्वं भेजिरे । महाभाष्यं न केवलं व्याकरणनिबन्धमात्रमपितु ग्रन्थेऽस्मिन् सर्वाण्यपि ज्ञातव्यानि विषयजातानि स्थाने स्था ...

हरदत्तः

एषः एकः संस्कृतवैय्याकरणः वर्तते । एतेन काशिकाग्रन्थस्य उपरि पदमञ्जरी इति एकं प्रौढं, विस्तृतं च व्याख्यानं लिखितवान् । एषः महान् वैय्याकरण, वैदिकवाङ्मये, गृह्य-धर्मसूत्रेष्वपि एतस्य महत् पाण्दित्यम् असीत् इति स्वेनैव उल्लिखितम् । प्रायः एतस्य का ...

हेलाराजा

हेलाराजा इति एकः संस्कृतस्य वैय्याकरणः वर्तते । वाक्यपदीयस्य तृतीयकाण्डस्य कृते एतेन एका टीका आरचिता । एतस्य पितुः नाम भूतिरजा इति । एतस्य कालः प्रायः दशमशताब्दः आसीत् ।

मल्लिनाथसूरिः

मल्लिनाथसूरिः अथवा मल्लिनाथः संस्कृतविमर्शकः आसीत्। एषः कवित्वमपि अलिखत्, किन्तु तस्य विमर्शनग्रन्थाः बहुप्रसिद्धाः । पञ्चमहाकाव्यानाम् भाष्यम् एषः लिखितवान् । महामहोपाध्यायः व्याख्यानचक्रवर्तिः इति च अस्य उपनामौ द्वौ । तस्य जन्म आन्ध्रप्रदेशे को ...

अनङ्गहर्षः

तापसवत्सराजा नाटकस्य प्रणेता अनङ्गहर्षाप रनामधेयो मातृराजा आसीत् । अयं मातृराजा ‘माउराज’ इति विकृतनाम्ना राजशेखरेण- ‘माउराजो जज्ञे नान्यः कलचुरिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः॥’ इति स्मृतः । मालतीमाधवमनुसृत्यायं मातृराजाः तत्रत्यका ...

अनन्तभट्टः

अनन्तभट्टः ‘चम्पूभारतम्’ इति ग्रन्थं रचितवान् । ग्रन्थस्य नाम एव कथयति यत् एषः ग्रन्थः महाभारतस्य कथायाः आधारेण रचितः इति । अत्र १२ स्तबकानि सन्ति । अनन्तभट्टस्य देशकालादिविषये अधिकं विवरणं न लभ्यते । षोड्शशतकस्य आदिभागो एषः आसीत् इति पण्डितैः ऊह ...

अमरसिंहः

अमरसिंहः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत्। सः अमरकोषस्य कर्ता आसीत्। अमरसिंहः तस्य अमरकोशः इति कोशेनैव विश्वप्रसिद्धः अस्ति । संस्कृतवाङ्मये ईदानीमपि शब्दकोशस्य अनन्यः ग्रन्थः अमरकोशः इति प्रसिद्धः नामलिङ्गानुशासनम् । कि.श. ...

अमरुः

संस्कृतसाहित्ये नैकैः कविभिः नानावस्तुवैविध्यमयानि शतककाव्यानि प्रणीतानि । तादृशेषु शतककाव्येषु शृङ्गाररसवस्तुविशदम् अमरुशतकम् अन्यतमम् । अस्य काव्यस्य रचयिता अमरुः अथवा अमरुकः । एतस्य नान्यानि काव्यानि तूपलभ्यन्ते, किन्तु एकेनापि शतपद्यात्मकेन क ...

अश्वघोषः

अश्वघोषः संस्कृतसाहित्यस्य सुप्रसिद्धः कविः। साकेतनगरम् अस्य जन्मस्थानम् । साकेतनगरम् अधुनातनम् अयोध्यानगरमेव । एष आर्यसुवर्णाक्ष्याः पुत्र इति अस्य सौन्दरानन्दकाव्यान्ते आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यभदन्ताश्वघोषस्य महाकवेर्महाव ...

आस्थाननवरत्नानि

क्रि.पू. ५७तमे वर्षे विक्रमादित्यः शकान् पराजित्य उज्जयिनीं वशीकृतवान् । उज्जयिन्याम् अस्य आस्थाने नवरत्नानि इति प्रसिद्धाः नव कोविदाः कवयः आसन् | ते धन्वन्तरी, क्षपणकः, अमरसिंहः, शङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः, वररुचिः च, श्र ...

ए आर् राजराजवर्मा

केरळपाणिनिरिति सुविज्ञातः आ॰ रा॰ राजराजवर्मा १०३५ तमे कोलम्बवर्षे कुम्भमासे नवमे दिने पूर्वाभाद्रपदनक्षत्रे केरळेषु चङ्ङनाश्शेरि नाम्नि देशे लक्ष्मीपुरस्थराजमन्दिरे जातोऽभूत् । षट्पञ्चाशे वयसि स्वर्गमगात् ।

कविः

कविः दार्शनिकः भवति । काव्यस्य प्रणेता भवति । वाल्मीकिः आदिकविः इति प्रसिद्धः । जयन्तु ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति एषां यशः काये जरामरणजं भयम्॥ इति उक्तिः प्रसिद्धा एव । एकदा वृद्धो विद्वान् पृष्ठः -" कान् ग्रन्थान् पठित्वा एतादृशं ज् ...

क्षेमीश्वरः

क्षेमीश्वरो दशमशताब्द्याः पूर्वभागे आर्यावर्ताधीश्वरं महीपालदेवमाश्रित्य काव्य-सरस्वतीं निषेवते स्म। एषः चण्डकौशिक-नाटकस्य प्रणेता अस्ति। अनेन नैषधानन्दं नाम सप्ताङ्कमन्यदपि नाटकं नलदमयन्तीकथानकमनुसृत्य विरचितम् । नाद्ययावत् नैषधानन्दं प्रकाशितम्।

गङ्गादासः

गङ्गादासः प्रसिद्धः छन्दोविद् । सः छन्दोमञ्जरी नामकं ग्रन्थं लिखितवान्। तस्य मातुः नाम सन्तोषा आसीत्। पितुः नाम वैद्यगोपालदासः आसीत्। अस्य समयः १३००क्रिस्ताब्दतः १५०० क्रिस्ताब्द्याम् आसीत् । तस्य अन्याः अपि रचनाः सन्ति यथा - १ अच्युतचरितम् २ कंस ...

गुणाढ्यः

काश्मीरग्रन्थतो ज्ञायते यद् गोदावर्यास्तीरे प्रतिष्ठाननगरं गुणाढयस्य अभिजनः । गुणाढ्यः सातवाहनस्यातीव प्रीतिपात्रमासीत् । कदाचिद् महिष्या ‘मा उदकैरितिं जलप्रतिषेधार्थकं वाक्यं सन्धिं कृत्वा ‘मोदकैरि’त्युक्तम् । संस्कृतानभिज्ञश्च राजा मोदकैर्मधुरभ ...

गोवर्धनाचार्यः

अयं गोवर्धनाचार्यो मैथिलदेशस्य पण्डितो वङ्गीयस्य राज्ञो लक्ष्मणसेनस्य सभायां आसीत् । तथा चोक्तम्- गोवर्धनश्च शरणो जयदेव उपापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य तु ॥ श्रीजयदेवकविनाऽपि स्यर्यतेऽयम् – शृङ्गारोत्तरसत्प्र्मेयरचनैराचार्यगोवर्धनस्प ...

जयापीडः

जयापीडः कविः राजा च आसीत्। जयापीडः क्रि.श सप्तमशताब्देः अन्तकाले काश्मीर प्रदेशे बभूव। मुक्तापूडललितादित्यस्य च क्रमदर्शिकायां सञ्जातो बप्पियललितादित्यापरनामा वज्रादित्योऽस्य कवेः पिता। ज्येष्ठभ्रातरं राज्यभ्रष्टं कृत्वाऽयं कश्मीरपालकः समभवत्। रा ...

तिरुमलाम्बा

१६ शतके जाता तिरुमलाम्बा विजयनागरराजस्य अच्युतदेवस्य पत्नी । ‘वरदाम्बिकापरिण्यः नाम चम्पूग्रन्थः एतया लिखितः । ग्रन्थस्य अन्ते एषा स्वविषये उक्तवती अस्ति इत्यतः एतस्याः देशकालादिविषयाः स्फुटतया ज्ञायन्ते । वरदाम्बिकापरिणयः कश्चन ऐतिहासिकः ग्रन्थः ...

नागार्जुनः

Nagarjun at Gadya Kosh his prose work in Devanagari script Nagarjun at Anubhuti Nagarjun at Kavita Kosh Hindi Work online Nagarjuns poems: Badal ko ghirate dekha hai

नीलकण्ठदीक्षितः

नीलकण्ठदीक्षितः ‘नीलकण्ठविजयचम्पूः’ इत्येतं ग्रन्थं रचितवान् अस्ति । एषः प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवि इति । नीलकण्ठदीक्षितः स्वग्रन्थे वदति - ‘अहम् एतं ग्रन्थं ४७३८ तमे कलिवर ...

बाणभट्टः

बाणः वात्स्यायनमहर्षेः वंशे जातः महाकविः । सः हर्षवर्धनस्य आस्थाने कविरासीदित्यवगम्यते । ’हर्षचरितम्’, ’कादम्बरी’ च तस्य कृती। महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक् ...

भट्टनारायणः

वेणीसंहारनामकस्य प्रसिद्धस्य नाटकस्य रचयिता भट्ट्नारायणः । एषः अष्टमे शतके आसीत् इति पण्डिताः अभिप्रयन्ति । एषः कान्यकुब्जप्रदेशे जातः इत्यत्र तु न कस्यापि विमतिः । स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृतसाहित्येऽतितरां प्रख् ...

भर्तृहरिः

भर्तृहरिः संस्कृतभाषायाः परम: विद्वान् कविश्चासीत् । अर्वाचीनकोशे एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन गन्धर्वः । तस्य चत्वारः पुत्राः - भर्तृहरिः, विक्रमादित्यः, सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकम ...

भवभूतिः

भवभूतिः संस्कृतनाटककर्तृषु कविषु अन्यतमः। बहूनां संस्कृतकवीनां यथा तथैव भवभूतेरपि जीवनचरितम् नातीव ज्ञायते । अयम् महावीरचरिते नाटके स्वस्य विषये किञ्चिदिव विवृणोति; यथा- तत्र केचित् तैत्तरीयिणः काश्यपाश्चरणगुरवः पङ्तिपावनाः पञ्चाग्नयो धृतव्रताः स ...

भारविः

भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपे ...

भासः

गीतगोविन्दकारः जयदेवः भासं स्तौति यथा-" भासो हासः कविकुलगुरुः कालिदासो विलासः इति । महाकविः भासः Bhaasa कश्चित् महान् संस्कृतनाटककारः। भासस्य त्रयोदशनाटकानि उपलभ्यन्ते । १९०९ क्रिस्ताब्दौ त्रिवेन्द्रम् निवासी महामहोपाध्याय: टी० गणपतिशास्त्रीमहोदय ...

माधवभट्टः

माधवभट्टः ऋग्वेदस्य भाष्यं कृतवान्। माधव-नामधेयाश्चत्वारो भाष्यकाराः उल्लिख्यन्ते इतिहासकारैः । तेष्वेकः सामवेदसंहितायां किञ्चेतरे त्रय ऋग्वेदे भाष्यं लिलिखुः । केषाञ्चनमतेन माधवो नाम न कोऽपि भाष्यकारः सायणः किंवा वेङ्कट एव ‘माधव इत्येतेन नाम्नः ...