ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 6

भारतीयदर्शनशास्त्रम्

भारतीयदर्शनशास्त्र स्य) आविश्वं ख्यातिः वर्तते । वेदकालात् आरभ्य अनेकेषाम् ऋषीणां, मुनीनां, चिन्तकानां च सारसङ्ग्रहत्वात् भारतीयदर्शनशास्त्रस्य विस्तारः अति व्याप्तः वर्तते ।

भारतीयदार्शनिकाः

पद-वाक्य-प्रमाणपारावारीणस्य श्रीजयन्तभद्रस्य जन्मतिथिः = जन्मकाल स्तथा स्थितिकालस्तदीयपुत्रेण विरचितस्य कादम्बरीकथासार-नामकग्रन्थस्या नुसारेण प्राय:--नवमशताब्द्या उत्तरभागात्मक एव कालः प्रतीयते । न्यायमञ्जरीग्रन्थे वाचस्पतिमिश्रस्य तथाऽऽनन्दवर्धन ...

व्याकरणदार्शनिकग्रन्थाः

व्याकरणदार्शनिकग्रन्थाः व्याकरणे प्रवर्तमानानां दर्शनस्वरूपं निरूपयन्ति। तेषां प्रचलनस्य आरम्भसीमा न प्राप्यते, परन्तु एतस्याः परिपाटेः प्रचलनं शास्त्रे दरीदृश्यते। तेषु व्यक्तिविवेकादयः ग्रन्थाः प्रसिद्धाः सन्ति। अर्थप्रवृत्तितत्वानां शब्दा एव न ...

अद्वैतवेदान्तः

अद्वैतवेदान्तः दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । अस्य मतस्य प्रवर्तकः शङ्क ...

तत्त्वम् (दर्शनशास्त्रे)

तत्त्वम् इत्येतस्य शब्दस्य संस्कृते एते अर्थाः दृश्यन्ते - १ तस्य भावह् - तद् त्वः करौ व्याधुन्वत्याह् पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती । - शाकु १-२० २ ब्रह्म, परब्रह्म, परमात्मा वदन्ति तत्तत्त्वविदस्तत्वं यज्ज्ञान ...

प्रमाणम्

प्रमाकरणं प्रमाणम् । अथवा प्रतीयते अनेन इति प्रमाणम् । नवविधप्रमानानि सन्ति । तत्र पुनः वेदान्तिनः षट् प्रमाणानि अङ्गीकुर्वन्ति । नैय्यायिकाः चत्वारि एव प्रमाणानि इति । एवम् अत्र अनेके विकल्पाः सन्ति ।

धर्मसारः

विस्तृतविवेचनानन्तरं संक्षेपेण सूत्ररुपेण सारनिवेदनम् इति भवति शैली शास्त्रकाराणाम् । यथा अद्वैतसिध्दान्तविषये उक्तम्- श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥ इति । अथवा पुराणानां सारम् अधिकृ ...

धर्मसूत्रकाराः

धर्मसूत्रकाराः धर्मशास्त्रस्य सूत्राणां रचयितारः भवन्ति। गौतमादयः अनेके धर्मसूत्रकाराः प्रसिद्धाः वर्तन्ते। धर्मसूत्रसाहित्यं वेदाङ्गभूतस्य कल्पसूत्रस्यांगविशेषः। धर्मसूत्राण्यपि वैदिकशाखावद् भिन्नशाखासु भिन्नानि वर्तन्ते । यद्यपि सर्वे धर्मसूत्र ...

कालीपदः

अद्यतनस्य बाङ्गलादेशस्य फरीदपुरमण्डले कविरयं तर्कभूषणस्य हरिदासशर्मणस्तनय आसीत् । अयं १८८८ ख्रीष्टाब्दे जन्म लेभे। अस्य परिवारः कान्यकुब्जप्रदेशीयः श्रूयते । कालीपदस्य पौर्विको भ्राता हरिदाससिद्धान्तवागीश आसीत् । अनेन महामहोपाध्यायस्य शिवचन्द्रसा ...

कुलशेखरवर्मा

कुलशेखरवर्मा केरलानां महाराजो महोदयपुरमधिवसन् नवमशताब्दे विरराज। राजशेखरेण स्तुतास्य गद्यकाव्यकृतिराश्चर्यमञ्जरी नाद्ययावत् प्राप्ता। तपतीसंवरणं सुभद्राधनञ्जयं चेति नाटकद्वयमस्य यशोवितानं बिभ्रदवलोक्यते । नावं सम्प्रेष्य समाहूतः कोऽपि विपश्चित् प ...

तपतीसंवरणम्

तपतीसंवरणं कुलशेखरवर्मणः कृतिः अस्ति। अस्मिन् षट् अङ्काः सन्ति । महाभारतस्य आदिपर्वणः उद्धृतम् अस्ति इतिवृत्तम् । अनपत्यतया दुःखितः संवरणः तपतीं परिणीय पुत्रम् आप्नोति । एषः तस्य कथा सारांशः । श्रृङ्गारः एव अङ्गी रसः । अस्यनाटकस्य सम्पादनं टि. गण ...

पार्थपाथेयम्

पार्थपाथेयं नाम उपरूपकं काशिराजस्य प्रभुनारायणसिंहस्य सहृदयोल्लाप्यं वर्तते । तस्य शासन-समयः १८८६ ख्रीष्टाब्दतः १६३१ ख्रीष्टाब्दं यावत् वर्तते । वामाचरण-भट्टाचार्यानुसारं लेखकः शान्तमूर्तिः, सनातनधर्मस्य मूर्तरूपः, स्थविरोऽपि तरुण इवाध्यवसायशीलश् ...

लक्ष्मणसूरिः

लक्ष्मणसूरिणा त्रीणि रूपकाणि प्रणीतानि । दिल्लीसाम्राज्यं, पौलस्त्यवधम्, घोषयात्रा चेति । कविरयं मद्रासस्य तिन्नेवल्लीजनपदे १८५६ ख्रीष्टाब्दे प्रादुरभवत् । अस्य पिता मुथु सुब्बाभारती सुप्रसिद्धो विद्वान् आसीत् । सुब्बादीक्षितोऽस्य गुरुरिति मन्यते ...

सुभद्राधनञ्जयम्

सुभद्राधनञ्जयं नाम कुलशेखरप्रणीतं पञ्चाङ्कं नाटकं वर्तते। महाभारतस्य आदिपर्वणः गृहीतेऽस्य कथानके कुलशेखरः कांश्चिदभिनवरसोल्लासान् प्रस्तौति । अलम्बुषेण रक्षसा द्विः सुभद्राहरणं, गात्रिका-समावेशः, परमहंसवेषं धनञ्जयं सम्भावयितुं रामकृष्णयोर्गमनं, स ...

स्यमन्तकोद्धारम्

स्यमन्तकोद्धारं व्यायोगकोटिकं रूपकम् । अस्य प्रणयनं ख्रीष्टाब्दस्य १६३१ वर्षे सञ्जातम् । अत्र मिथ्यावादो यत् कृष्णेन स्यमन्तक-मणि-कृते प्रसेनो हत इति । कृष्णः मित्राणि प्रति सन्देशं प्रेषयति - सस्नेहदृष्ट्या चिरमेव दृष्टो युष्माभिरासीदमलो हि कृष् ...

अनर्घराघवम्

अनर्घराघवं नाम सप्ताङ्कविस्तरं नाटकं वर्धमानस्य तनूजन्मा मुरारिः प्रणीय बालवाल्मीकिरिति नामापि लेभे । रामकथायाः विकासमुद्दिश्य कृतेन विचारेणायं भवभूति-राजशेखरयोर्मध्ये क्वापि विराजत इति मन्यते। तथा च प्रायेण ८७५ ख्रीष्टाब्दे स्थितिरित्यपि निश्चीय ...

दूताङ्गदम्

दूताङ्गदस्य छायानाटकस्य चतुरङ्कस्य कर्ता सुभटस्त्रयोदश्याः शताब्याः पूर्वार्धे गुर्जरेषु भीमद्वितीयस्य शासनकाले प्रातिभमालोकं प्रसारयामास । तदनन्तरं त्रिभुवनपाले शासति १२४३ ई० वर्षे कुमारपाल-यात्रामहोत्सवेऽस्य प्रथमप्रयोगोऽभवत्। गुर्जरराजसभाजितः ...

पुष्पकविमानम्

पुष्पकविमानं हिन्दूपौराणिक-महाकाव्ये रामायणे वर्णितं वायु-वाहनम् अस्ति| तस्मिन् लंकायाः राजा रावणः यात्रां करोति स्म। एतस्य विमानस्योल्लेखः एव सीताहरणस्य प्रकरणेऽपि प्राप्यते। रामायणस्य अनुसारं राम-रावणयोः युद्धोद्धरं श्रीराम-सीता-लक्ष्मणाः लङ्का ...

प्रबुद्धरौहिणेयम्

प्रबुद्धरौहिणेय स्य षडङ्कस्य प्रकरणस्य रचयिता रामचन्द्रो जैनमुनिर्वादिदेवस्य जयप्रभसूरेः शिष्यो द्वादश्याः शताब्द्याश्चरमे भागे जन्मना भुवमलङ्कुर्वाणः स्वातन्त्र्यप्रेमस्थेमानं स्तुवन् कालकूटचतुष्टयीं परिभाषते स्म - अन्यासक्ते जने स्नेहः पारवश्यम ...

रामायणम्

कूजन्तं रामरामेति मधुरं मधुराक्षरम्। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥ अन्वयः- अहं वन्दे कोकिलः इव वाल्मीकिं यः सदा ‘राम, राम’ इति मधुरं मधुराक्षरं अकूजत् तथा च कविताशाखां आरोहत्। ​ रामस्य अयनं चरितं रामायणम् । रामायणमादिकाव्यं सर्वेषां सं ...

वीणावासवदत्तम्

वीणावासवदत्तं केन कदारचयदिति न सुनिश्चितम् । वल्लभदेवः पञ्चदश्यां शताब्द्यां स्वकृतौ सुभाषितावली वीणावासवदत्तस्य नान्दीमुदाहरति । ततः प्राचीनतामेवास्य सूचयति । द्वादश्यां शताब्द्यां रामचन्द्रेण रचितस्य नलविलासस्य नायकयोः समागममनुहरति। वीणावासवदत् ...

हनुमन्नाटकम्

हनुमन्नाटकं रामायणस्य कथाधारितं किञ्चन महानाटकं वर्तते। अत्र वाल्मीकिरामायणात् केचन प्रसङ्गाः भिद्यन्ते।हनुमन्नाटकस्य स्थिता कीर्तिः समस्तं मध्यकालकवित्वं प्रतिनिधत्ते, यया समावर्जितो महाकविः श्रीतुलसीदासो बहुशस्तद्भावान् अनुगृह्य रसप्रचुरान् प्र ...

अनुक्रमणीसाहित्यम्

अनुक्रमणी ग्रन्थाः, यत्र मन्त्राणां द्रष्टारो ऋषयः के?, तेषां देवताः काः?, तेषां छन्दःअनुवाकवर्गसूक्तानि च कानि? इति बोधनं भवति। वेदाङ्गेषु अपरिगणिता अपि अनुक्रमणीग्रन्थाः, प्रातिशाख्यग्रन्थाः, देवताग्रन्थाश्च वेदस्य रक्षार्थमेव प्रणीताः । बहवः अ ...

आर्षेयकल्पसूत्रम्

आर्षेयकल्पसूत्र स्य नाम सामवेदीयकल्पसूत्रेषु मुख्यं मन्यते । मशकाख्यः ऋषिरस्य कर्ता अासीत् । विशालोऽयं ग्रन्थोऽस्ति । ग्रन्थेऽस्मिन्नेकादशाध्यायाः सन्ति । कस्मिन् यागे कस्य विशिष्टसाम्नो गायनं सम्पन्नं कर्त्तव्यमिति प्रदर्शनमेवास्य ग्रन्थस्य मुख् ...

निघण्टुः

निघण्टुः वेदस्य कठिनशब्दानां समुच्चयः अस्ति । निघण्टुग्रन्थस्य सङ्ख्याविषये पर्याप्तः मतभेदः अस्ति । सम्प्रति समुपलब्धो निघण्टुग्रन्थ एक एवास्ति, किञ्च प्राचीनपरम्परायाः अनुशीलनेन निघण्टुग्रन्था अनेके प्राप्यन्ते। निरुक्तस्य आरम्भे निघण्टुम् समाम ...

प्रातिशाख्यग्रन्थः

प्रातिशाख्यग्रन्थः वैदिकवाङ्गमयस्य विचारणीयान् विवेचनीयांश्च विषयान् अधिकृत्य लिखितः वेदस्य लक्षणग्रन्थोऽस्ति। अनेन ग्रन्थेन वेदस्य बाह्यस्वरूपं निर्दिष्टं भवति । चतुर्णां वेदानां चत्वारि प्रातिशाख्यानि सन्ति । तानि च – ऋक्प्रातिशाख्य-वाजसनेयिप्र ...

मन्त्रः

मन्त्रः वेदसम्बद्धः शब्दः। आपस्तम्बे प्रोक्तञ्च – ‘ मन्त्रब्राह्मणयोर्वेदनामधेयम्॥ येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति, स मननात् मन्त्र इत्युच्यते । मननात् त्रायते इति मन्त्रः। केचन विख्याता: मन्र ...

वेदभाष्यकाराः

वेदभाष्यकाराः वेदानां, वेदसूक्तीनां च अर्थान् विपुलतया भाष्यमाध्यमेन वेदार्थजिज्ञासूनां कृते उपस्थापयन्ति। वेदभाष्यकृत्सु स्कन्दस्वामि –नारायण्-उद्गीथ-माधव –वेङ्किटमाधव-धानुष्कयज्वा –आनन्दतीर्थभट्ट –आत्मानन्द-सायणप्रभृतयः भाष्यकाराः सुविदिताः सन् ...

वैदिकवाङ्गमये पाश्चात्यानां योगदानम्

वैदिकवाङ्गमये पाश्चात्यानां योगदानम् अभ्यासक्रमेषु अपि अन्तर्भवति। वैदिकसाहित्यस्य अर्थात् वेदः, वेदभाष्याणि, उपनिषदः, ब्राह्मणग्रन्थाः इत्यादीनां कृते ग्रन्थनिर्माणं, अनुवादकार्यं, प्रकाशनकार्यं, सङ्कलनकाञ्च अनेके पाश्चात्यविद्वांसः कृतवन्तः।

वैदिकविज्ञानम्

वैदिकसभ्यता सनातनसभ्यता अस्ति। विज्ञानस्य क्षेत्रमपि वैदिकसभ्यतायाः अनेकानि योगदानानि सन्ति। सा भौतिकशास्त्रे, रसायनशास्त्रे, स्थापत्यशास्त्रे इतियादौ निपुणः आसीत्। तयाः सभ्यतायाः सिन्धुक्षेत्रे प्राप्तम् अभवत् इष्टिकाः ३००० ईसापूर्वस्य अस्ति। ता ...

वैदिकसाहित्यम्

वैदिकसाहित्यम् उत वैदिकवाङ्मयं समुद्रवद् अपारम्, अगाधं, हिमालयवत् ससारञ्च वर्तते। अत एव देवेभ्यः अपि तत् आदृतं भवति । सर्वेऽपि वेदाः मन्त्ररूपाः एव । यज्ञादिषु अवसरेषु ब्राह्मणप्रयुक्तैः तैः मन्त्रैः आवाहनादिविधिना अावाहिताः देवाः तत्र तत्र अायान ...

सर्वानुक्रमणी

सर्वानुक्रमणी ऋग्वेदस्य समस्तावश्यकविषयाणां ज्ञानाय कात्यायनस्य कृतिः। ग्रन्थोऽयं सूत्ररूपेण निबद्धोऽस्ति । प्रत्येकं सूत्रस्य आदिपदम्, अनन्तर-ऋचां संख्यां, सूक्तस्य ऋषेर्नाम, तस्य गोत्रं, सूक्तानां, तदनन्तर्गतमन्त्राणां च देवतायाः निर्देशं, मन्त ...

आर्यभटीयम्

आर्यभटेन गणितज्योतिषविषये लिखितः ग्रन्थः। तत्र वराहकल्पस्यास्य सप्तमे मन्वन्तरे वर्तमानाष्टाविंशच्चतुर्थुगस्य कल्पादेः खखषट्वर्गमिते सौराब्दे गते त्रयोविंशतिवर्षे आचार्यार्यभटः पुरातनानि कालक्रियागोल- लौकिकगणित – प्रतिपादकानि शास्त्राणि कालदैर्घ् ...

कामसूत्रम्

कामशास्त्रं संस्कृतस्य प्रसिद्धग्रन्थेषु अन्यतमम् । कामशास्त्रं प्रजापतेः एव आगतम् । अत्र प्रमाणमेवमस्ति प्रजापति र्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधन मध्यायानां शतसहस्रेणाऽग्रे प्रोवाच - वात्स्यायनकामसूत्राणि------१.१.५ अत् ...

चित्रकाव्यम् (ग्रन्थः)

एतस्य काव्यस्य रचयिता अस्ति श्रीरामभद्राचार्य: । कोयम्बत्तूरुसमीपे ‘सुन्दपालयम्’ ग्रामे तस्य जन्म । तेन 25 अधिका: कृतय: रचिता: । तासु बह्व्य: पूजा-सम्प्रदायादि-सम्बद्धा: । तस्य अपूर्वप्रतिभाया: निदर्शकम् अस्ति ‘चित्रकाव्यम् ।’ चित्रकाव्ये चमत्कृत ...

तर्कसङ्ग्रहः

श्रीमदन्नंभट्टेन रचितः तर्कसङ्ग्रहो नाम ग्रन्थः न्यायशास्त्रे विशिष्टं स्थानम् अलङ्करोति । बालपाठार्थम् उपयुज्यमानोऽपि अयं ग्रन्थः दर्पणः हस्तिनमिव सर्वमपि न्यायशास्त्रविषयं स्वकीये लघुशरीरे अन्तर्भाव्य दर्शयति ।

नाट्यशास्त्रम् (ग्रन्थः)

नाट्यशास्त्रम् इति एकः प्राचीनग्रन्थः द्विसहस्रवर्षेभ्यः पूर्वमेव भरताचार्येण कृतः अस्ति । तस्मिन् ग्रन्थे सः नाट्यस्वरूपं नाटकलक्षणं च सम्यक् उक्तवान् । धनञ्जयः नामकः पण्डितः दशरूपकम् इति ग्रन्थं विलिख्य रूपकाणां परिचयं कारितवान् । प्रथमं कविना ...

प्रज्ञासूत्रम्

प्रज्ञासूत्रम् इदं सुभाष काकेन विरचितम् आधुनिकसूत्रम् अस्ति। बन्धु-परोक्ष-यज्ञाः विज्ञानस्य त्रिपादाः ।१। देव-भूत-जीवात्मानोऽन्तरेण बन्धुः ।२। मनसि प्रतिबिम्बितं ब्रह्माण्डम् ।३। चिदाकाशस्य तदीयौ सूर्य-चन्द्रौ ।४। सूर्य-चन्द्राव्-अष्टोत्तर-शत-अंश ...

प्राचेतसराजशास्त्रम्

वाल्मीकीयं रामायणं भारतीयानाम् आदिकाव्यमिति, पुराणमिति, इतिहास इति च महदादरपात्रम् । धर्मं नीतिं च बुभुत्समाना: अपि इदं काव्यं सश्रद्धम् आश्रयन्ति । मन्वादिस्मृतिभि: कौटिल्यादिशास्त्रकारैश्च निरूपिता राजनीति: एव अत्र कान्तासम्मित-रूपेण वाचकानां ह ...

बुद्धचरितम्

बुद्धचरितम् अश्वघोषस्य प्रसिद्धं महाकाव्यम् अस्ति । अस्मिन् महाकाव्ये सप्तदश सर्गाः उपलभ्यन्ते। अयं ग्रन्थः बहुशः त्रिसहस्रश्लोकपरिमितः आसीदिति चीनादेशीयस्य प्रो.तककुसुमहाशयस्य भणितिरस्ति । किन्तु अधुना लभ्यमाने अस्मिन् काव्ये केवलम् १३६८ श्लोकाः ...

बृहत्कथा

बृहत्कथा तु गुणाढ्येन पैशाचभाषया विरचिता वर्तते । अस्मिन् लक्षश्लोकाः वर्तन्ते । अस्मिन् पाण्डववंशस्य वत्सराजस्य पुत्रस्य नरवाहनदत्तस्य चरित्रं वर्णितम् अस्ति । अत्र अष्टादशसु लम्बकेषु नवरसभरिताभिः कथाभिः चरित्रं वर्णितम् अस्ति । सातवाहनस्य जन्मच ...

भारतविजयम्

विदुषा रङ्गनाथशर्म-महोदयेन रचितानां पद्यानां सङ्ग्रहोऽयम् । यद्यपि लोके कवित्वपाण्डित्ययो: भिन्नाधिकरणत्वमेव प्रसिद्धं, तथापि शर्मवर्य: तस्यैकम् अपवादस्थानम् । वशीकृतानेकशास्त्र: स: महाभाग: कवितारचनायामपि सिद्धहस्त: । अस्मिन् ग्रन्थे तेन विभिन्नप ...

मतङ्गः

मतङ्ग: मतङ्गस्य ग्रन्थ: उपलभ्यते परं ग्रन्थकारस्य विवरणं क्वापि न लभ्यते। ग्रन्थस्य रचनाकाल: अनिर्णीत:।प्रायश: ख्रिस्ताब्दस्य चतुर्थशतकत: सप्तमशतकपर्यन्तं विद्यमाने कालखण्डे कदाचिदस्य रचना जाता इति तर्क:।ग्रन्थे भरतमुने: नाट्यशास्त्रस्य उल्लेख: अ ...

महाकाव्यम्

महाकाव्यम् इति किञ्चन काव्यस्य लक्षणम्। किं काव्यं महाकाव्यम् उच्यते इत्यस्य परिमाणाय एतस्य लक्षणस्य उपयोगो भवति। साहित्यदर्पणादयेषु अनेकेषु ग्रन्थेषु महाकाव्यस्य लक्षणानि वर्णितानि सन्ति।

मातृकाग्रन्थः

मातृकाग्रन्थः कश्चन हस्तलिखितः ग्रन्थविशेषः। एतस्य हस्तप्रतिः, लिपिग्रन्थः इत्यादीनि नामानि अपि सन्ति। आङ्ग्लभाषायां Manuscript इति शब्देन प्रसिद्धः एषः ग्रन्थः MS उत MSS इत्यनेन लघुना नाम्ना अपि आख्यायते। हिन्दीभाषायां पाण्डुलिपि, हस्तलेख, हस्तल ...

मुकुन्दशतकम्

रामपाणिवादविरचितस्य मुकुन्दशतकस्य द्वौ पाठौ वर्तेते । द्वावपि पाठौ केरलसर्वकलाशालातः १९४६ तमे संवत्सरे प्रसिद्धीकृतौ । स्वस्य विष्णुविलासस्य मुकुन्दशतकस्य च मिथः सादृश्यं बह्वत्र दृश्यते। एकः दृष्टान्तः अधः दीयते - विष्णुविलासः निघ्नत्याजुष्टतीर् ...

रूपकाणि

1 आश्चर्यचूडामणिः 2 कमलिनीराजहंसम् 3 कमलिनीकलहंसम् 4 मदनकेतुचरितम् 5 चन्द्रिका 6 लीलावती 7 सुभद्राधनञ्जयम् 8 तपतीसंवरणम् 9 सीताराघवम् 10प्रद्युम्नाभ्युदयम् 11 अनङ्गजीवनम् 12 अक्षयपात्रव्यायोगः 13 अज्ञातवासः 14 अन्नदातृचरितम् 15 अपहारवर्मचरितम् 16 ...

शुद्धिकौमुदी

शुद्धिकौमुदी इत्येतत् संस्कृतभाषया शुद्धरीत्या लेखितुं, पठितुं, वक्तुं च सन्दर्भात्मकं पुस्तकम् अस्ति । संस्कृतसम्भाषणमाध्यमेन, संस्कृतविकिपीडिया-जालस्थानस्य माध्यमेन, संस्कृतप्रत्रिकाणां माध्यमेन, संस्कृतवर्तमानपत्राणां माध्यमेन, संस्कृतवार्ताणा ...

श्रीशङ्करचरितामृतम्

शङ्करभगवत्पादस्य जीवनम् अधिकृत्य लिखिता: ग्रन्था: श्रीशङ्करदिग्विजयादय: प्रसिद्धा: सन्ति । परं ते सुदीर्घा, प्रौढा, नानावस्तुवर्णनै: विस्तृताश्च । अत: तदधिकृत्य सरलया भाषया संक्षिप्तरूपेण लिखित: नित्य-पारायणयोग्यश्च कश्चन ग्रन्थ: अपेक्षित: इति आस ...

षडर्धविक्रमार्थस्य तत्त्वप्रदीपः

श्रीमदानन्दतीर्थभगवत्पादाचार्यकृपाविशेषसम्पादितज्ञान-विज्ञानादिगुणगणदक्षाणां, सर्वज्ञभगवत्पादाचार्यस्यास्खलि-तानवरतवेदशास्रव्याख्यानश्रवण्समुत्खातदुः खसङ्घातानां ज्ञानामृतसमुद्रावगाहिनां लिकुचकुलशेखराणां त्रिविक्रमपण्डिता चार्यपूज्यपादानां विषये ...