ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 43

अधोक्षजतीर्थः

एषः मध्वाचार्यस्य शिष्यः ।पेजावरमठस्य आदिमः । उडुपीक्षेत्रे श्रीकृष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य श्रीदेवी-भूदेवीसहितविठ्ठलस्य आराधकः । पेजावरमठस्य परम्परा श्रीवादीन्द्रतीर्थः श्रीपुष्कराक्षतीर्थः श्रीविजयतीर्थः श् ...

अनुमानवादः (अलङ्कारशास्त्रम्)

अभिनवगुप्तस्यानन्तरं स्थितेषु लाक्षणिकेषु, ध्वनिवादखण्डनपूर्वकं स्वीयवादोपस्थापने महिमभट्टः प्रधानो भवति । सः, सर्वेषां ध्वनिभेदानामनुमानेऽन्तर्भावं प्रदर्शयितुमेव व्यक्तिविवेकग्रन्थं निर्ममे । आनन्दवर्धनः अभिधा – लक्षणा- व्यञ्जना –व्यापारानङ्गीच ...

अनुष्टुप्छन्दः

पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। गुरुषष्टञ्च पादानां चतुर्णां स्यादनुष्टुभि॥ यत्र चतुर्षु अपि पादेषु पञ्चमाक्षरं लघु षष्टाक्षरं गुरु भवति, अपि च द्वितीय-तुरीयपादयोः सप्तमाक्षरं लघु भवति तत्र अनुष्टुभ् इति कथ्यते। अत्र प्रतिपादे अन्तिमाक्ष ...

अप (उपसर्गः)

पान्यथात्वे विश्लेषे ह्रासोद्धाटनवारणे । ईप्साव्यावृक्त्यनुत्कर्षन्यक्कारोत्प्राशमुक्तिषु ॥ प्रतिदानव्याजदोषद्रोहनिह्नवखेलने । चौर्यनिर्देशपूजासु वैकृत्येऽशे विपर्यये ॥

अपादानकारकम्

Bold text ध्रुवमपायेऽपादानम् -१.४.२४ अपायः= विश्लेषः । ध्रुवम् = अवधिभूतम् विश्लेषे साध्ये अवधिभूतं कारकम् अपादानं स्यात् इति सूत्रार्थः । विभागाश्रयः अपादानं भवति इति फलितार्थः । यथा – पर्णं वृक्षात् पतति । पतधातोरर्थः अधोदेशसंयोगरुपं फलं, तदनुक ...

अभिव्यापकसप्तमी

संयोगसमवायमूलकः सकलावयवव्यापितरुपः अभिव्यापकः । यथा –तिलेषु तैलम् अस्ति । अत्र आधारः तिलानि । तिलानां सकलावयवेषु तैलम् अस्ति । सम्बन्धश्च समवायः । अतः अयम् अभिव्यापकः आधारः । एवं सर्वस्मिन् आत्मा अस्ति । दध्नि सर्पिः अस्ति ।

अभिषेकनाटकम्

अभिषेकनाटकस्य कर्ता महाकविः भासः । भासः त्रयोदशनाटकानि रचितवान् । भासस्य देशः न निश्चितः । परं तस्य नाटकानि दृष्ट्वा एषः दक्षिणदेशीयः इति ज्ञायते । अभिषेकनाटके षट् अङ्काः सन्ति । प्रथमाङ्के सुग्रीवसख्यम्, वालिवधा, द्वितीयाङ्के सीतान्वेषणम्, तृतीय ...

अमरुशतकम्

अमरुशतकं प्रस्तुतिकाव्यं विद्यते। अमरुककवेः कृतिरिति ख्याते काव्येऽस्मिन् सन्ति शतानि पद्यानि । अत्र शृङ्गारस्य विविधरूपाणां यथार्थं सजीवञ्च वर्णनं लभ्यते । अस्य चत्वारि संस्करणानि दृश्यन्ते, येषु एकपञ्चाशच्छ्लोका एव साम्यं बिभ्रति।

अयादिसन्धिः

स्थूलाक्षरैः युक्तः भागः सन्धि स्वरसन्धिः १.अयादिः सन्धिः 1. ए + स्वरः=अय् 2. ऐ + स्वरः=आय् 3. ओ + स्वरः=अव् 4. औ + स्वरः=आव् एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति । ने +अनम्= न् + ए + अ ...

अलङ्कारकौस्तुभः

कविकर्णपूरेण अलङ्कारकौस्तुभः Alankarakaustubha इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे १० किरणानि सन्ति । अत्रच काव्यलक्षणं, गुणाः, दोषाः, रसाः अलङ्काराः इत्यादिविचाराः निरूपिताः सन्ति ।

अलङ्कारशेखरः

केशवमित्रेण अलङ्कारशेखरः Alankarashekara इति ग्रन्थः लिखितः । अत्र वृत्तिः उदाहरणम् कारिका इति भागत्रयं विद्यते । एतस्मिन् ग्रन्थे ८ रत्नानि, २२ मरीचयः सन्ति । तत्र काव्यलक्षणं, गुणाः, दोषाः, रसाः अलङ्काराः इत्यादिविचाराः सन्ति ।

अव्ययीभावसमासः

प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावसमासः । कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति। यथा उन्मत्तगङ्गम्, लोहितगङ्गम् इति। अत्र उभयत्रपि" उन्मत्ता गङ्गा यस्मिन् देशे उन्मत्तगङ्गम्” तथैव" लोहिता गङ्गा यस्मिन् देशे लोहितगङ् ...

अष्टाध्यायाम् वृत्तिविचारः

भाषाव्यवहारः सदैव वक्तृजन-श्रोतृजनयोर्मध्ये प्रवर्तते । अतः कस्या अपि भाषाया व्याकरणं द्विधा विरचयितुं शक्यते । एकं व्याकरणं श्रोतृणां कृते, अपरञ्च वक्तृणां कृते । अत्र 1. श्रोतृणां कृते यद् व्याकरणं स्यात् तस्मिन् वाक्याद् आरभ्या-Sर्थप्राप्तिपर् ...

असम्प्रज्ञातसमाधिः

यस्यामवस्थायां सकलवृत्तीनां निरोधः भवति, तस्याः अवस्थायाः असम्प्रज्ञातसमाधिरित्युज्यते अस्यां दशायां न कापि वृत्तिः अवशेषत्वेन तिष्ठति । सम्प्रज्ञातासम्प्रज्ञातयोः अयं विशेषः यत् सम्प्रज्ञाते तावत् प्रकृति-पुरुषयोः भिन्नताख्यातिलक्षणात्मिका विशुद ...

आगमडम्बरम्

आगमडम्बरं षण्मतनाटकमपि निगद्यते । एतस्य रचयिता जयन्तः वर्तते। एतद्द्वारेण जयन्तो जयन्त इव चार्वाकेषु बौद्धेषु जैनेषु मीमांसकेषु शैव-नैयायिकेषु पञ्चरात्रागमेषु हीनतरशैवेषु नीलाम्बरजैनेषु च चञ्चुप्रहारान् कृत्वा तान् निरावरणांश्चकार । अभिनयोचितं सं ...

आनन्दबोधभट्टोपाध्यायः

आनन्दबोधभट्टोपाध्याये न काण्वसंहितायाः चतुर्थदशकस्य ऊपरि स्वभाष्यं रचितम्। वाराणसेयसंस्कृतविश्वविद्यालयतः प्रकाशितायां सारस्वतसुषमापत्रिकायां आनन्दबोधभट्टोपाध्यायस्य काण्वसंहितायाः चतुर्थदशकस्य अर्थात् एकत्रिंशदध्यायादारभ्य चत्वारिंशदध्यायपर्यन्त ...

आर्याछन्दः

यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ।। अर्थात्- यस्याः प्रथमे तृतीये च पादे द्वादशमात्राः भवन्ति, द्वितीये पादे अष्टादश, चतुर्थे पादे च पञ्चदश मात्राः भवन्ति सा आर्या उच्यते।

आर्षेयब्राह्मणम्

ग्रन्थोऽयं त्रिषु प्रपाठकेषु तथा द्व्यशीतितमेषु खण्डेषु विभक्तोऽस्ति । ब्राह्मणमिदं सामवेदायानुक्रमण्याः कार्यं करोति । अस्मिन् ब्राह्मणे सामोद्भावकानामृषीणां नाम तथा सङ्केतो लभते। सामगायनस्य वैज्ञानिकानुशीलननिमित्ताय ब्राह्मणमिदं महदुपादेयमस्ति ...

आवृत्तिदीपकालङ्कारः

त्रिविधं दीपकावृत्तै भवेदावृत्तिदीपकम् वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी । उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः । माद्यन्ति चातकास्तृप्ताः माद्यन्ति च शिखावलाः ॥

आशीर्वादमुद्रा

एका व्यक्तिः यदा नमस्कारं करोति तदा हस्तं शिरसः उपरि स्थापयित्वा आशीर्वादः करणीयः । नमस्कारः कथं करणीयः इत्युक्ते दक्षिणपादे दक्षिणहस्तेन, वामपादे वामहस्तेन स्पृष्ट्वा नमस्कारः करणीयः । एवं क्रियते चेत् नमस्कारः,आशीर्वादः च सफलः भवति । हस्ताभ्यां ...

इन्द्रवंशा

इन्द्रवंशा। प्रतिचरणम् अक्षरसङ्ख्या १२ स्यादिन्द्रवंशा ततजै रसंयुतै:। केदारभट्टकृत- वृत्तरत्नाकर:३.४८ ऽऽ। ऽऽ। ।ऽ। ऽ।ऽ त ज र। यति: पादान्ते। उदाहरणम् - धर्मे यदा ग्लानिरधर्मपोषणमात्मानमस्मिन्समये सृजाम्यहम्। सद्रक्षणायासुरमर्दनाय च धर्मं पुन: स्था ...

उज्ज्वला

उज्ज्वला। प्रतिचरणम् अक्षरसङ्ख्या १२ ननभरसहिताभिहितोज्ज्वला। केदारभट्टकृत- वृत्तरत्नाकर:३. ६३ ।।। ।।। ऽ।। ऽ।ऽ न भ र। यति: पादान्ते। उदाहरणम् - यदि विगलितधर्ममतं भवेद्यदि सबलमधर्ममतं तदा। स्वमहमवसृजामि युगे युगे,सदवनमपि कर्तुमसद्वधम्॥

उन्मादवासवदत्ता (नाटकम्)

शक्तिभद्रः नाटकस्यास्य प्रणेता । एतावत् पर्यन्तं नोपलब्धम् । आश्चर्यचूडामणेः प्रस्तावनायां एवं उल्लिखितम् अस्ति - उन्मादवासवदत्ताप्रभृतीनां काव्यानां कर्तुः कवेश्शक्तिभद्रस्य.। इति ।

उपनिषद्ब्राह्मणम्

मन्त्रब्राह्मण स्य एव अपरं नाम छान्दोग्यब्राह्मणमप्यस्ति । अस्मिन् ब्राह्मणे द्वौ प्रपाठकौ स्तः । प्रतिप्रपाठके अष्टौ खण्डानि सन्ति । ब्राह्मणमिदं गृह्यसंस्कारेषु प्रयुक्तमन्त्राणां सुष्ठु सङ्ग्रहोऽस्ति । इमे एव मन्त्राः खादिरगृह्यसूत्रे तथा गोभि ...

उपपदचतुर्थी

अवहननाय उलूखलम् । तादर्थ्ये चतुर्थी वाच्या वा. तादर्थ्ये उपकार्योपकारकभावसम्बन्धे विवक्षिते उपकार्यात् चतुर्थी भवति । अवहननाय उलूखलम् । अत्र उलूखलम् उपकारकम् अवहननम् उप्कार्यात् चतुर्थी एवं कुण्डलाय हिरण्यम्, यूपाय दारु, रन्धनाय स्थाली इत्यादावपि ...

उपपदपञ्चमी

पञ्चमीविभक्तौ उपपदपञ्चमी अन्यतमा । ‘अन्यारादितरर्तेदिक् शब्दञ्चूत्तरपदाजाहियुक्ते’ पा. सू. – २/३/२९ अन्य, आरात्, इतर, ऋते, दिक शब्द, अञ्चूत्तरपद, आच आदि इत्येतैर्योगे पञ्चमी विभक्तिः भवति । सूत्रे तदा इतरग्रहणं स्पष्टार्थम् इति ज्ञेयम् । बाल्यात् ...

उपपदषष्ठी

चन्द्रस्य चन्द्रेण सदृशं मुखम् । बलरामस्य बलरामेण तुल्यः सदृशः भीमः । तुल्यार्थैररुलोपमाभ्यां तृतीयान्यतरस्याम् पा.सू.२.३.७२ तुल्यार्थैः योगे तृतीया वा स्यात् पक्षे षष्ठी । षष्ठीपक्षे चन्द्रस्य सदृशं मुखम् षष्ठयभावे तृतीया भवति चन्द्रेणा सदृशं मु ...

उपपदसप्तमी

बालेषु अधीयानेषु गतः । गोषु दुह्यमानासु गतः । यस्य च भावेन भावलक्षणम् पा.सू २.३.३७ यस्य क्रियाया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । ज्ञापकक्रियाश्रयात् सप्तमीति फलितार्थः । अत्र द्वे क्रिये भवतः । तयो एकस्याः क्रियायाः कालः निर्ज्ञातः भवति ...

उपमेयोपमालङ्कारः

पर्यायेण द्वयोस्तच्चेतुपमेयोपमा मता । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ द्वयोः धर्मार्थयोर्हि कस्यचित्केनचित् सादृश्ये वर्णिते तस्याप्यनेन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतियसदृशव्यवच्छेदं फलति । पर्यायेणोपमानोपमेयत्वकल्पनं तृतीय ...

उपवर्षः

उपवर्षः एकः मीमांसकः । जैमिनिसूत्राणाम् उपरि प्रथमतया वृत्तिं लिखितवान् एषः । एषः एव बोधायनः इत्यस्मिन् विषये संशयः वर्तते । परन्तु कुत्रापि स्पष्टतया उल्लेखाः न विद्यन्ते । एतस्य कालः समीचीनतया न ज्ञायते । तथापि शबरस्वामिनाम् अपेक्षया प्राकालीनः ...

उपस्थितम्।

उपस्थितम्। प्रतिचरणम् अक्षरसङ्ख्या ११ उपस्थितमिदं ज्सौ ताद् गकारौ। केदारभट्टकृत- वृत्तरत्नाकर:३.४५ ।ऽ। ।।ऽ ऽऽ। ऽऽ ज स त ग ग। यति: पादान्ते। उदाहरणम् - यदा विकलधर्म: स्यादधर्म, सुपुष्टतर आत्मानं तदैव। सृजाम्यहमसाधूनां वधायावनाय सुजनानां सर्वकाले ॥

उमापरिणयम्

हिमालयः स्वकन्यायाः पार्वत्याः परिणयाय चिन्तितः समागताय नारदाय स्वां चिन्तां प्रकटयामास | नारदोऽब्रवीत् - पार्वती पूर्वजन्मनि सती इतिनाम्ना दक्षप्रजापतेः कन्यासीत्, या शिवस्य अपमानम् असहमाना योगाग्नावात्मानं ददाह । इयमस्मिन् जन्मन्यपि तस्यैव पत्न ...

उल्लेखालङ्कारः

यत्र नानाविधधर्मयोग्यमेकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदेन अनेकेन गृहीत्रानेकधा उल्लिख्यते तत्रोल्लेखः । अनेकधोल्लेखने रुच्यर्थित्वभयादिकं यथार्हप्रयोजकम् । रुचिः अभिरतिः । अर्थित्वं लिप्सा । स्त्रीभिः इत्युदाहरणम् । अत्रैक एव राजा सौन्दर्यवितर ...

उव्वटः

उव्वटः काश्मीरिको विद्वानिति बहूनां मतम् । एतस्येदं नाम क्वचित् औबटः क्वचिच्च ‘उवट इत्यपि पठ्यते । एतेन यजुर्वेदसंहितायाम् स्वनाम्ना भाष्यं रचितम्।

ऋषभगजविलसितम्

ऋषभगजविलसितम्। प्रतिचरणम् अक्षरसङ्ख्या 16 भ्रत्रिनगै: स्वरात्खम् ऋषभगज-विलसितम्।- केदारभट्टकृत- वृत्तरत्नाकर:३.८७. ऽ।। ऽ।ऽ ।।। ।।। ।।। ऽ भ र न ग। यति: सप्तभि: । उदाहरणम् - धर्मविनष्ट्यधर्मविकसनमवनितले, वीक्ष्य दधे ऽवतारमपि जनिमृतिरहित:। सज्जनरक्ष ...

ऌट् लकारः - भविष्यत्कालः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा. १.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् । एते दश लकाराः द्विधा विभक्ताः सन्ति । अर्धधातुकाः / ...

एकशेषः

एकशेषः सामान्यतया यदा वयं जनान् पृच्छामः यत् "पितरौ" इत्यत्र कः समासः इति, तदा जनाः एकस्वरेण एकशेषसमासः इत्येव वदन्ति। परन्तु अत्र एकशेषः समासः न अपितु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चसु वृत्तिषु अन्यतमा वृत्तिः एकशेषवृत्तिः वर्तते इति ...

एकावली

एकावली Ekavali इति ग्रन्थः विद्याधरेण लिखितः । अत्र उदाहरणम् कारिकाः वृत्तिः इति भागत्रयं वर्तते । अस्मिन् ग्रन्थे अष्टौ उन्मेषाः सन्ति । अत्र काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः इत्यादयः विचाराः चर्चिताः ।

औपश्लेषिकसप्तमी

एकदेशव्याप्तिरुपः आधारः औपश्लेषिकः । सः च संयोगमूलकः समवायमूलको वा भवति । अयम् आधारः स्वस्य एकदेशव्याप्तिरुपो भवति, न तु सकलावयवव्याप्तिरुपः । यथा –कटे उपविशति । अत्र कटः उपवेशनक्रियायाः आधारः । किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति, न तु कृत्स्न ...

कटलमेकलम्

लटकमेलकं नाम शङ्खधरकृतं प्रहसनं भगवदज्जुकीयात् परस्तात् ख्यातिमातनुते । बहुषु प्रहसनेषु ग्रन्थोल्लेखेन नाममात्रशेषेषु इदमद्यापि विजयते । कविः शङ्खधरो द्वादश्यां शताब्द्द्यां कान्यकुब्जाधीश्वरं गोविन्दचन्द्रमुपाश्रितो रचयामासैतत् । लटका धूर्तास्ते ...

कपालकुण्डला

कपालकुण्डला याः मूललेखको बङ्किमचन्द्रोऽस्ति । विष्णुपदस्य पित्रा कथेयं संस्कृतभाषायामनूदिता। कपालकुण्डलाया अभिनयः संस्कृतसाहित्यपरिषदः ३७ तमे वार्षिकोत्सवे समभवत्।

करणकारकम्

साधकतमं करणम् - १.४.४३ क्रियासिध्दौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् इति सूत्रार्थः । यत् स्वव्यापारसमनन्तरमेव फलोत्पादकं तत्करणमिति फलितोऽर्थः । यथा –रामः बाणेन रावणं हन्ति । हन्धातोर्थः – प्राणवियोगरुपं फलं तदनुकूलक्रिया च । हननक्रिया श्र ...

कर्णसुन्दरी

कर्णसुन्दरी नाटिकया, विक्रमाङ्कदेवचरितमहाकाव्येन च प्रख्यातो बिल्हणः । सुधीषु काव्यप्रतिभानेन समग्रमपि भारतं वर्षं समुद्भासयन्नसौ १०३० ख्रीष्टतः ११०० पर्यन्तं व्यराजत । वितस्ता-परिसरेऽस्य मातृभूमिः" खुनमुह” इतिनामा श्रीनगराद् गव्यूतिप्राय-दूरे हर ...

कर्तृकारकम्

स्वतन्त्रः कर्ता” इति सूत्रेण कर्तृसंज्ञा विधीयते । क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति अस्य सूत्रस्य अर्थः । स्वातन्त्र्यं नाम व्यापाराश्रयत्वम् । एवञ्च व्यापाराश्रयः कर्ता इति फलितोऽर्थः । फलं व्यापारश्च धात्वर्थः । तत्र व ...

कर्मकारकम्

कर्तुरीप्सिततमं कर्म -१.४.४९ कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञं स्यात् इति सूत्रार्थः । कर्ता काञ्चित् क्रियां निर्वर्तयति । तया क्रियया किञ्चित् फलं जायते । तच्च फलं यत्र सम्बद्धं तण्डुुलं भवतु इति इच्छति तत् कर्मसंज्ञां प्राप्नोति ...

कल्याणसौगन्धिकम्

कल्याणसौगन्धिकं नाम व्यायोगो नीलकण्ठेन रचितः । असौ कदा प्रादुरभूदिति न तावन्निश्चप्रचम् । आ नवम्या आ च पञ्चदश्याः शताब्द्द्याः अयं जनुषा भुवं भूषयांबभूवेति संशीतिरेव विवेचकानां दुनोति चेतः । भवतु, डेमहोदयस्तु एनं नवमशताब्दीकं निरधारयत् । व्यायोगश ...

काञ्चनकुञ्चिकम्

काञ्चनकुञ्चिक स्य रचना १९५६ ईसवीयाब्दे समभवत् । सूत्रधारस्य मारिषेण सह वार्तालापे संस्कृतरूपकप्रेक्षकाणामभावस्योपरि कविना महान् खेदोऽभिव्यक्तः । प्रकरणस्यास्याभिनयो वसन्तोत्सवे सम्पन्नः।

कामक्रीडा

कामक्रीडा। प्रतिचरणम् अक्षरसङ्ख्या 15 मा बाणा: स्युर्यस्यां सा कामक्रीडा संज्ञातव्या।- केदारभट्टकृत- वृत्तरत्नाकर:३. ८३ ऽऽऽ म म। यति: पादान्ते । उदाहरणम् - यस्मिन्यस्मिन्काले धर्मग्लानिर्वृद्धिर्वाधर्मे, तस्मिंस्तस्मिन्काले पार्थाहं स्वात्मानं नि ...

कारकचतुर्थी

पिता पुत्राय फलं ददाति। कर्मणा यमभिप्रैति स सम्प्रदानम् दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदान संज्ञः स्यात्। पिता पुत्राय फलं ददाति। अत्र पिता कर्ता। फ्लं कर्म। कर्मणा सम्बन्धुः पुत्रम् अभिप्रैति। अतः पुत्रः सम्प्रदानम्। तस्मात् सम्प्रदानवाचकात ...

कारकपञ्चमी

वृक्षात् पर्णं पतति । ध्रुवमपायेऽपादानम् -१.४.२४ विश्लेषे साध्ये अवधिभूतं कारकम्, अपादानं स्यात् । विभागाश्रयोऽपादानमिति फलितार्थः । वृक्षात् पर्णं पतति । अत्र पतधातोरर्थः अधोदेशसंयोगरुपं फलं, तदनुकूलक्रिया च । पतनक्रियाश्रयः पर्णं कर्तृ । विभागा ...