ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 41

2.15 परिणामतापसंस्कारदुःखैर्गुणव्रत्त्तिविरोदाच्च् दुःखमेव सर्वं विवॆकिनः

कथं तदुपपद्यते? सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम् । नानुपहत्य भूतान्युपभोगः सम्भवतीति हिंसाकृतोऽप्यस्ति शारीरः कर ...

2.16 हेयं दुःखमनागतम्

तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते - दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते तस्माद्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयतामापद् ...

2.17 द्रष्टद्रश्ययोः संयोगो हेयहेतुः

तस्माद्यदेव हेयमित्युच्यते, तस्यैव कारणं प्रतिनिर्दिश्यते - द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः । तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः । अनुभवक ...

2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः

तस्माद्यदेव हेयमित्युच्यते, तस्यैव कारणं प्रतिनिर्दिश्यते - द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः । तदेतद्दृश्यमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः । अनुभवक ...

2.18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्

दृश्यस्वरूपमुच्यते - प्रकाशशीलं सत्त्वम् । क्रियाशीलं रजः । स्थितिशीलं तम इति । एते गुणाः परस्परोपरक्तप्रविभागाः संयोगविभागधर्मणीतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः । तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः ...

2.18 प्रकाशक्रियास्थितिशीलं भोतेंद्रियात्मकं बॊगापवगार्थं द्रश्यम् ।

दृश्यस्वरूपमुच्यते - प्रकाशशीलं सत्त्वम् । क्रियाशीलं रजः । स्थितिशीलं तम इति । एते गुणाः परस्परोपरक्तप्रविभागाः संयोगविभागधर्मणीतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः । तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः ...

2.19 विशेषाविशेशलिंगमात्रालिंगानि गुणपर्वाणि

दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते - तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । एकादशं मन ...

2.19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि

दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते - तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । एकादशं मन ...

2.2 समाधिभावनार्थः क्ले़शतनूकरणार्थश्च

स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान्क्लेशान्प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति । तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यताख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष् ...

2.20 द्रषाद्रशिमात्रः शुध्धोपि प्रत्ययानुपश्यः

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते - दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न तावत्सरूपः । कस्मात्? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि ब ...

2.20 द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते - दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न तावत्सरूपः । कस्मात्? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि ब ...

2.22 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥

तत्स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानादस्य नाशः प्राप्तः । न तु विनश्यति । कस्मात्? कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात। कुशलं पुरुषं प्रत ...

2.23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः

संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते - पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्माद्दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रत ...

2.24 तस्य हेतुरविद्या

यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः - विपर्ययज्ञानवासनेत्यर्थः । विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना ...

2.25 स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्

हेयं दुःखम् । हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम् - तस्यादर्शनस्याभावाद्बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्यर्थः । एतद्धानम् । तद्दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ द ...

2.26 विवेकख्यातिरविप्लवा हानोपायः

सत्त्वपुरुषान्व्यताप्रत्ययो विवेकख्यातिः । सा त्वनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं बन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति । सा ...

2.27 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा

तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेत्यशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा - 1 परिज्ञानं हेयं नास्य पुनः परिज्ञेयमस्ति । 2 क्षीणाः हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । 3 ...

2.28 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः

सिद्धा भवति विवेकख्यातिर्हानोपाय इति । न च सिद्धिरन्तरेण साधनमित्येतदारभ्यते - योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥२८॥ योगाङ्गान्यष्टावभिधायिष्यमानानि । तेषामुष्ठानात्पञ्चपर्वणो विपर्यस्याशुद्धिरूपस्य क्षयो नाशः । तत्क्षये सम ...

2.30अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः

तत्र - तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः । उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तं - न खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते, तथा तथा प्रमादकृतेभ्यो ...

2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्

ते तु - तत्राहिंसा जात्यवच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना न चतुर्दश्यां, न पुण्येऽहनि हनिष्यामीति । सैव त्रिभिरुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्याम ...

2.32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः

तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम्, आभ्यन्तरं चित्तमलानामाक्षालनम् । सन्तोषः सन्निहितसाधनादधिकस्यानुपादित्सा । तपो द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सापिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्र ...

2.33 वितर्कबाधने प्रतिपक्षभावनम्

एतेषां यमनियमानां - यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्य्वायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमा ...

2.34 वितर्क हिंसादयः कृतकारितानुमोदिता.

तत्र हिंसा तावत् - कृतकारितानुमोदितेति त्रिधा । एकैका पुनस्त्रिधा - लोभेन मांसचर्मार्थेन, कोर्धेनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति । एवं सप्तत्रिंशतिर्भेदा भवन्ति हिंसायाः । मृदुमध्याधिमात ...

2.39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः

अस्य भवति । कोऽहमासं? कथमहमासं? किं स्विदिदं? कथं स्विदिदं? के वा भविष्यामः? कथं वा भविष्यामः? इत्येवमस्य पूर्वान्तपरान्तमध्येष्वात्मभावजिज्ञासा स्वरूपेणोपावर्तते । एता यम्स्थैर्ये सिद्धयः ॥३९॥

2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्

अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्याल ...

2.4 अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोधाराणाम्

अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः? चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने सम्मुखीभावः । प्रसङ्ख्यानवतो दग्धक्लेशबीजस्य सम्मुखीभूतेऽप्याल ...

2.40 शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥

नियमेषु वक्ष्यामः - स्वाङ्गे जुगुप्सायां शौचमारम्भमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किं च, परिरसंसर्गः कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥४०॥

2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च

किं च, भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिः, ततः सौमनस्यं, तत ऐकाग्र्यम्, तत इन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं, बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥४१॥

2.46 तत्र स्थिरसुखमासनम्

तद्यथा पद्मासनम्, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनमुष्ट्रनिषदनं, समसंस्थानम्, स्थिरसुखं यथासुखं चेत्येवमादीनि ॥४६॥

2.5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या

तत्राविद्यास्वरूपमुच्यते - अनित्ये कार्ये नित्यख्यातिः । तद्यथा, ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाशुचौ परमबीभत्से काये । उक्तं च - स्थानाद्बीजादुपष्ठम्बान्निःस्यन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विद ...

2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः

देशकालसङ्ख्याभिर्बाह्यविषयः परिदृष्ट आक्षिप्तः, तथाभ्यन्तरविषयाक्षः परिदृष्ट आक्षिप्तः, उभयथा दीर्घसूक्ष्मः । तत्पूर्वको भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसङ्ख्याभिः परिदृष्टो द ...

2.52 ततः क्षीयते प्रकाशावरणम्

प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म, यत्तदाचक्षते - "महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्क्ते" इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते । ...

2.54 स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः

स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरेद्रियजयवदुपायान्तरमपेक्षन्ते । यथा मधुकर्राजं मक्षिका उत्पतन्तमनूत्पतन्ति, निविशमानमनुनिविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष प्रत्याहारः ॥५४॥

2.55 ततः परमा वश्यतेन्द्रियाणाम्

शब्दादिष्वव्यसनमिन्द्रियजय इति केचित। सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या । शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित। चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीष ...

2.6 दृग्दर्शनशक्त्येरेकात्मतेवास्मिता

पुरुषो दृक्शक्तिर्बुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरिवास्मिता क्लेश उच्यते । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासङ्कीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति । तथा चोक्तं - बु ...

2.9 स्वरसवाही विदुषोपि तथा रूडोऽभिनिवेशः

सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति, मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते, स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितौ मरणत्रास उच्छेददृष्ट्यात्मक ...

3.1 देशबंधश्चित्तस्य धारणा

उक्तानि पञ्चबहिरङ्गाणि साधनानि । धारणा वक्तव्या - नाभिचक्रे, हृदयपुण्डरीके, मूर्ध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्रे, इत्यादिमादिषु देशेषु, बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥१॥

3.10 तस्य प्रशान्तवाहिता संस्कारात्

निरोधसंस्कारान्निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मः संस्कारोऽभिभूयत इति ॥१०॥

3.11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः

सर्वार्थता चित्तधर्मः । एकाग्रतापि चित्तधर्मः । सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः । एकाग्रताया उदय आविर्भाव इत्यर्थः । तयोर्धर्मित्वेनानुगतं चित्तम् । तदिदं चित्तमपायोपजननयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते, स चित्तस्य समाधिपरिणामः ॥११॥

3.12 ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः

समाहितचित्तस्य पूर्वप्रत्ययः शान्तः उत्तरस्तत्सदृश उदितः । समाहितचित्तमुभयोरनुगतं पुनस्तथैवासमाधिभ्रेषादिति । स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥१२॥

3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः

एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः ...

3.14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी

योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भाव एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मो धर्मानतरेभ्यः शान्तेभ्यश्चाव्यपदेशेभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति, तदा धर्मिस्वरूपमात्रत्वात ...

3.15 क्रमान्यत्वं परिणामान्यत्वे हेतुः

पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात्? पूर्वपरतायां सत्यां समनतरत्वम् । सा तु नास्त्यतीतस्य । तस्माद्द्वयोरेव लक्षण ...

3.16 परिणामत्रयसंयमादतीतानागतज्ञानम्

एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा - चूर्णमृत्, पीण्डमृत्, घटमृत्, कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । अतो योगेन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य ...

3.17 शब्दार्थप्रत्ययानामितरेतराध्यासात्संस्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम्

तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति । वर्णा एकसमयासम्भवित्वात्परस्परनिरन्गुग्रहात्मानः । ते पदमसंस्पृश्यानुपस्थाप्याविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते । वर्ण ...

3.18 संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम्

द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवदपरिद्श्रीआश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षत्क्रियायै समर्थः । न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक ...

3.20 न च तत्सालम्बनं, तस्याविषयीभूतत्वात्

रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति । परप्रत्ययस्य यदालम्बनं तद्योगिचित्तेन नालम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्तस्य आलम्बनीभूतमिति ॥२०॥

3.21 कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम्

कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिबध्नाति । ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानमित्युत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्धानमुक्तं वेदितव्यम् ॥२१॥

3.22 सोपक्रमं निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानम्, अरिष्टेभ्यो वा

आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथार्द्रवस्त्रं वितानितं लघीयसा कालेन शुष्येत्, तथा सोपक्रमम् । यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा चाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तं क्षेपीयसा कालेन दह ...

3.23 मैत्र्यादिषु बलानि

मैत्रीकरुणामुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः । ततो बलान्यबन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास ...