ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 36

मदनुग्रहाय परमं.

अर्जुन उवाच - मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य प्रथमः१ श्लोकः ।

मनःप्रसादः सौम्यत्वं.

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षोडशः१६ श्लोकः ।

मनुष्याणां सहस्रेषु.

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य तृतीयः३ श्लोकः ।

मन्मना भव मद्भक्तो.

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ३४ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुस्त्रिंशत्तमः३४ श्लोकः ।

मन्यसे यदि तच्छक्यं.

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्थः४ श्लोकः ।

मम योनिर्महद्ब्रह्म.

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य तृतीयः३ श्लोकः ।

ममैवांशो जीवलोके.

ममैवांशो जीवलोके जीवभूतः सनातनः ॥ मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तमः७ श्लोकः ।

मया ततमिदं सर्वं.

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्थः४ श्लोकः ।

मया प्रसन्नेन.

श्रीभगवानुवाच - मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन दृष्टपूर्वम् ॥ ४७ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तचत्वारिंशत्तमः४७ श्लोकः ।

मयाध्यक्षेण प्रकृतिः.

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य दशमः१० श्लोकः ।

मयि चानन्ययोगेन.

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य दशमः१० श्लोकः ।

मयि सर्वाणि कर्माणि.

मयि सर्वाणि कर्माणि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आसक्तेः मुक्त्यै मार्गं प्रदर्शयति । पूर्वस्मिन् श्लोके भगवान् अज्ञानिनः अविचालयितुं ज्ञानिपुरुषाय आज्ञां ददाति । ततः अत्र यस्मात् कारणात् मनुष्यः कर्मसु बद्धः भवति, तस्मात् कर्मणः, कर्मफलस्य ...

मय्यावेश्य मनो ये मां.

श्रीभगवानुवाच - मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य द्वितीयः२ श्लोकः ।

मय्यासक्तमनाः पार्थ.

श्री भगवानुवाच - मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य प्रथमः१ श्लोकः ।

महर्षयः सप्त पूर्वे.

सप्त महर्षयः = सप्त महामुनयः तथा = एवम् पूर्वे = पुरातनाः चत्वारः मनवः = स्वायम्भुवादयः मद्भावाः = मच्चिन्तनपराः मानसाः = मानसिकाः जाताः = उत्पन्नाः येषाम् = महामुनिप्रभृतीनाम् इमाः = एताः प्रजाः = सन्ततयः लोके = भुवने सन्ति ।

महर्षीणां भृगुरहं.

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चविंशतितमः२५ श्लोकः ।

महात्मानस्तु मां पार्थ.

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयोदशः१३ श्लोकः ।

महाभूतान्यहङ्कारो.

महाभूतान्यहकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चमः५ श्लोकः ।

मा ते व्यथा मा च.

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवचत्वारिंशत्तमः४९ श्लोकः ।

मां हि पार्थ व्यपाश्रित्य.

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वात्रिंशत्तमः ३२ श्लोकः ।

मात्रास्पर्शास्तु कौन्तेय.

मात्रास्पर्शास्तु कौन्तेय इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकनिवृत्तेः उपायं वदति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारतायाः नित्यतायाः च उपस्थापनम् अकरोत् । अत्र अनित्यवस्तुत्वात् शोकः भवति, तस्मात् शोकात् निवृत्तिः कथं भवति इति कथयति । ...

मानापमानयोस्तुल्यः.

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥ अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य पञ्चविंशतितमः२५ श्लोकः ।

मापुपेत्य पुनर्जन्म.

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वरतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः१५ श्लोकः ।

मामुपेत्य पुनर्जन्म.

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः १५ श्लोकः ।

मुक्तसङ्गोऽनहंवादी.

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक उच्यते ॥ २६ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्विंशतितमः२६ श्लोकः ।

मूढग्राहेणात्मनो यत्.

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य नवदशः १९ श्लोकः ।

मृत्युः सर्वहरश्चाहम्.

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्स्त्रिंशत्तमः३४ श्लोकः ।

मोघाशा मोघकर्माणो.

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वादशः१२ श्लोकः ।

य इदं परमं गुह्यं.

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टषष्टितमः६८ श्लोकः ।

य एनं वेत्ति हन्तारं.

य एनं वेत्ति हन्तारम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अज्ञानिनां परिभाषां वदति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः अविनाशित्वम् उक्त्वा अत्र ये शरीरिणः अविनाशित्वं न जानन्ति, तान् अज्ञानित्वेन उपस्थापयति । सः कथयति यत्, यः मनुष्यः एनम् अविनाशिन ...

य एवं वेत्ति पुरुषं.

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोविंशतितमः२३ श्लोकः ।

यं यं वापि स्मरन्भावं.

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षष्ठः६ श्लोकः ।

यं लब्ध्वा चापरं लाभं.

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वाविंशतितमः श्लोकः।

यं संन्यासमिति प्राहुः.

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसल्पो योगी भवति कश्चन ॥ २ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वितीयः श्लोकः ।

यं हि न व्यथयन्त्येते.

यं हि न व्यथयन्त्येते इत्यनेन श्लोकेन भगवान् श्रीकृष्णः तितिक्षावर्णनं करोति । पूर्वस्मिन् श्लोके भगवान् मात्रास्पर्शायाः तितिक्षायाः विषयम् उपस्थाप्य अत्र का सा तितिक्षा? इति वर्णयति । सः कथयति यत्, हे पुरुषश्रेष्ठ! सुखदुःखयोः समयुक्तं धीरं मनुष ...

यः शास्त्रविधिमुत्सृज्य.

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य त्रयोविंशतितमः२३ श्लोकः ।

यः सर्वत्रानभिस्नेहः.

यः सर्वत्रानभिस्नेहः इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके स्थितप्रज्ञः कथं वदतीति उक्त्वा अस्मिन् श्लोकेऽपि स्थितप्रज्ञस्य लक्षणं वदति ।

यच्चापि सर्वभूतानां.

यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवत्रिंशत्तमः३९ श्लोकः ।

यच्चावहासार्थम्.

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्विचत्वारिंशत्तमः४२ श्लोकः ।

यज्ज्ञात्वा न पुनर्मोहम्.

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चत्रिंशत्तमः श्लोकः ।

यज्ञदानतपःकर्म.

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चमः५ श्लोकः ।

यज्ञशिष्टामृतभुजो.

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य एकत्रिंशत्तमः श्लोकः ।

यज्ञशिष्टाशिनः सन्तो.

यज्ञशिष्टाशिनः सन्तो इत्यनेन श्लोकेन भगवान् श्रीकृष्णः यज्ञशिष्टान्नेन पापनाशं वदति । पूर्वस्मिन् श्लोके यः अन्येभ्यः अदत्त्वा स्वयमेव भोगं करोति, सः चौरः इति उक्त्वा भगवान् अत्र यज्ञशिष्टान्नेन पापनाशः भवति, तथा च यः यज्ञं न करोति, सः पापं प्राप ...

यज्ञार्थात्कर्मणोऽन्यत्र.

यज्ञार्थात्कर्मणोऽन्यत्र इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणः मुक्तिः कथम् इति वदति । पूर्वस्मिन् श्लोके भगवान् अवदत् यद्, अकर्मणि सति शरीरनिर्वाहः अपि न भवति । एवं सः कर्मणः परमावश्यतां बोधयति । परन्तु कर्मणि कृते एव बन्धनं भवति इति उक्तम् अ ...

यज्ञे तपसि दाने च.

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः२७ श्लोकः ।

यतः प्रवृत्तिर्भूतानां.

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ ४६ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्चत्वारिंशत्तमः४६ श्लोकः ।

यततो ह्यपि कौन्तेय.

यततो ह्यपि कौन्तेय इत्यनेन श्लोकेन भगवान् श्रीकृष्णः रसबुद्धित्वात् का आपत्तिः? इति वर्णयति । पूर्वस्मिन् श्लोके स्वल्पा रसासक्तिः अपि परमात्वतत्त्वस्य दर्शनेन निवृत्ता भवति इति विषयविच्छेदिस्थितप्रज्ञयोः भेदं वर्णयित्वा भगवान् अकथयत् । यदि रसासक ...

यतन्तो योगिनश्चैनं.

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥ अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य एकादशः११ श्लोकः ।

यतेन्द्रियमनोबुद्धिः.

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टाविंशतितमः श्लोकः ।

यतो यतो निश्चरति.

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्विंशतितमः श्लोकः ।