ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 32

लता मङ्गेशकर

लता दीनानाथ मङ्गेशकर जन्मदिनम् - क्रि.श.१९२९तमवर्षस्य सप्टम्बरमासस्य २८ तमदिनाङ्कः भारतस्य सुप्रसिद्धा गायिका । हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । सा भारतीयानां गायकानां मध्ये श्रेष्ठतमा गायिका इति गण्यते। ...

विधानचन्द्र राय

भारतरत्नप्रशस्तिः भारतरत्नप्रशस्त्या भूषितः विधानचन्द्र राय M.R.C.P., F.R.C.S. एषः भारतस्य पश्चिमबङ्गालराज्यस्य द्वितीयः मुख्यमन्त्री अभवत् । अस्मिन् पदे भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन १४वर्षाणि सेवाम् अकरोत् । आमरणम् एषः सङ्घटनस ...

सचिन तेण्डुलकर

सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् ...

सि एन् आर् राव

चिन्तामणि नागेश रामचन्द्ररावः कश्चन प्रसिद्धः भारतीयविज्ञानी । रसायनशास्त्रे सः बहुकृतपरिश्रमः । अद्यत्वे सः भारतस्य प्रधानमन्त्रिणः वैज्ञानिकमार्गदर्शनसमित्याः प्रमुखः । डा राववर्येण ६० विश्वविद्यालयेभ्यः गौरवडाक्टर्रेट्-उपाधिः प्राप्ता अस्ति । ...

अखण्डार्थवादः

श्रीमनन्यायसुधायां जन्माधिकरणे उभयलिङ्गाधिकरणे ब्रह्मणः निर्विशेषत्वं निराकृत्य अनन्त गुणपूर्णत्वं विष्णोः समर्थितम् । प्रकृते श्रीसुधां तत्वोद्योतटीकां च उपजीव्य ब्रह्मणः अखण्डार्थत्वं निराक्रियते । तत्र प्रथमतया अद्वैतविचारक्रमः प्रस्तूयते । वे ...

अद्य धारा निराधारा… निरालम्बा सरस्वती…

{{ Infobox settlement | name = अद्य धारा निराधारा… निरालम्बा सरस्वती… | image_skyline = Sri Sanjeevi Raya Hanuman Temple.jpg | image_caption = अद्य धारा निराधारा… निरालम्बा सरस्वती… अद्य धारा निराधारा निरालम्बा सरस्वती ’ इति इयं पङ्क्ति: प्राय: स ...

अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः

जीवब्रह्मणोरेक्त्वं तु अहं ब्रह्मास्मीत्यादि सकलश्रुतिस्मृतिसिध्दम् । छान्दोग्ये षष्ठेऽध्याये उद्दालकेन श्वेतकेतुमुद्दिश्य सर्वोऽपि आविद्यको जीवसमुदायः बोध्यते तत्तवमसीति । तत् शब्देनात्र तेजोऽबन्नानां सृष्टा सर्वज्ञः मायोपाधिक ईश्वरः वाच्यः । त् ...

अध्ययने अनुसन्धेया विमर्शपद्धतिः

प्राय अस्माभिः बहवो ग्रन्था अभ्यस्यन्ते । तथापि तेषामध्ययने या विमर्शपध्दतिः अनुसन्धेया तत्र मतिर्न स्वरसतः प्रवहति । सूर्यरश्मिसंस्कृतं एक्वं फलमिवाध्ययनमपि विमर्शादिना पक्वं स्वस्य विदुषां च गोदाय भवतीति नातीव प्रतिपादनीयमस्ति । रामायणमहाकाव्यं ...

अर्थशास्त्रप्रकाशनस्य शततमं वर्षम्

कौटिल्येन रचित: अर्थशास्त्रग्रन्थ: शतात् वर्षेभ्य: पूर्वं, तन्नाम 1909 तमे वर्षे, प्रकाशित: अभवत् ऐदम्प्राथम्येन । तावत्पर्यन्तम् अपि अर्थशास्त्रग्रन्थ: केनापि न दृष्ट: आसीत् । तावत्पर्यन्तम् अपि तस्य नामोल्लेखमात्रं भवति स्म, न तु प्रत्यक्षदर्शन ...

असतः साधकत्वविमर्शः

श्लोकार्धेन प्रवक्ष्यामि सारात्सारतरं वचः। ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥ इति शङ्करभगवत्पादीयं वचनं, ज्ञानानन्दादिरुपे निर्गुणे निर्विकारे चैतन्ये परिदृश्यमानविश्वस्य शुक्तौ रजत् इवारोपितत्वं प्रतिपादयति । ‘यथा सोम्येकेन मृत्पिण्डे ...

आनन्दमयाधिकरणचन्द्रिकावैशिष्ट्यम्

आनन्दमयाधिकरणचन्द्रिका यां तत्त्वप्रकाशिकायां अस्पष्टाः अनेके विषयाः स्फुटतया निरुपिताः । अपूर्वाश्च विषयाः असाधारणा च विमर्शप्रणाली समुल्लसति । निदर्शनतया द्वित्रा विषयाः अनूद्यन्ते ।

कातन्त्रव्याकरणम्

कातन्त्रम् नाम संस्कृतव्याकरणेषु विद्यमाना मुख्या काचित् पद्धतिः । कालपकम् अथवा ’कौमारव्याकरणम्’ इत्यपि अस्य नामान्तरम् । भारते बहुत्र पाणिनीयव्याकरणं यद्यपि प्रसिद्धं, कस्मिंश्चित् काले कातन्त्रव्याकरणं न केवलं समग्रे भारते अपि च भारतात् बहिरपि ...

किं संस्कृते ला कारःअस्ति

आम्, उपरि विध्यमानं शीर्षकं सम्यगेव वर्तते. तमि भाषायां केरलभाषायां च प्रसिद्धः कारः संस्कृते अस्ति वा इत्येव प्रश्नः. देवनागरीलिप्यां असन्दिग्धरूपेण अस्य वर्णस्य प्रतिपादनाय किमपि प्रसिद्धं चिन्न्हं नास्ति अध्यावधि इत्यतः इति तमि चिन्हम् उपयुज्य ...

कूटस्थनित्यत्वविचारः

उपोदधातः वेदानां कूटस्यनित्यत्वमभ्युपगतं मध्वनये । तत्र टीकाटिप्पणीक्त आपाततः विरोध इव दृश्यते । सर्वेषां व्याख्यानानाम् आशयविशेष इह निरुपितः । विवक्षाभेदेन विरोधोऽपि परिहृतः

खण्डनत्रयप्रकरणटीकावैशिष्ट्यम्

स्वतः परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञानैकनिबर्हणीय इत्यतोऽस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । तदितिकर्तव्यतारुपा ब्रह्ममीमांसा चेति मन्यन्ते । अद्वैतवाद्यभिमतविषयप्रयोज ...

द्वैतनये मुक्तिः

मुक्तिर्हित्वाऽन्यथारुपं स्वरुपेण व्यवस्थितिः इति । द्वैतनयानुगुण्येन सात्त्विको जीवः ज्ञानानन्दवीर्यादिगुणरुपः । यद्यपि संसारावस्थायां ज्ञानानन्दादयो जीवगुणा नानुभूयन्ते अनाद्यविद्यावृतत्वात् अदृष्टाश्रतवस्तुत्वाच्च । तदुक्तम्- अतः परं यदव्यक्तम ...

द्वैतनये शब्दोपलब्धिक्रमः

शब्दो द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मकः शब्दः वायुगुणः । वस्तुगत्या शब्दस्य वर्णात्मकस्य द्रव्यत्वेनाकाशविशेषगुणत्वं नाभ्युपेयते । गुणत्वेऽपि न समवायः सन्निकर्ष इत्युक्तं तर्कताण्डवे । न च शब्दः गुणः सामान्यवत्वे सति अस्मदादि ...

धर्मसूत्रेषु प्रायश्चित्तविधानविमर्शः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति वचनानुसारं प्राचीनकालादेव भारतीयसंस्कृतेः एतद् मूलोद्देश्यमस्ति अर्थात् सर्वे जनाः प्रसन्नाः भवन्तु । यतो हि प्रसन्नता मानवस्य जन्मसिद्धाधिकारोऽस्ति । वस्तुतः मानवः प्रसन्नतां तदैव प्राप्नोति यदा स अभी ...

न्यायसुधायां प्राभाकरमतविमर्शः

महर्षिणा जैमिनिना प्रणीतानां मीमांसासूत्राणां भगवता शबरेण भाष्यं प्रणीतम् । भाष्याशयप्रकटनाय अनेकेव्याख्यातारः कुमारिलभट्ट-प्रभाकरमिश्र –मुरारिमिश्र-पार्थसारथिमिश्र-शालिकानाथमिश्रप्रभृतयः प्रबन्धं अकार्षुः । तत्र हि प्रभाकरमिश्रप्रणीता बृहती सुप् ...

पद्मनाभतीर्थः

पूर्णप्रज्ञकृतं भाष्यम् आदौ तद्भावपूर्वकं ॥ योव्याकरोन्नमस्तस्मै पद्मनाभाख्य योगिने ॥ श्रीमदानन्दतीर्थभागवत्पादमुखकमलतः भक्तिविरक्तिशुश्रूषादिसम्पदा गुरुं सद्यः स्वानुग्रहोन्मुखं विधाय सद्योपलब्धज्ञानमकरन्दाः श्री पद्मनाभतीर्थ श्रीचरणाः इति श्रूय ...

पारिवारिकसमस्याः संस्कृतञ्च

विश्वस्मिन् विश्वे अध्यात्मपरायणा त्यागमूला समन्वयात्मिका सहिष्णुतासंयुता भारतीयसंस्कृतिः विशिष्टतमा इति । ‘वसुधैव कुटुम्बकम्’ यत्र विश्वं भवत्येकनीडम् ‘मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षे,’ ‘संगच्छध्वं संवदध्वम्-’ "सर्वे भवन्तु सुखिनः" इत्ये ...

पुनरुत्पत्तिः प्रेत्यभावः

पुनरुत्पत्तिः प्रेत्यभावः भाष्यानुसारेण एवं सूत्रार्थॊ विज्ञेयः । या ’पुनरुत्पत्तिः’ मरणानन्तरं जन्म स ’प्रेत्यभावः’ ’प्रेत्य’ मृत्वा ’भावः’ उत्पत्तिरिति सूत्रान्वयः । सूत्राशयस्तु विवृतः जयन्तभट्टेन – पुनरुत्पत्तिः कस्य? आत्मनः शरीरस्य वा? तत्रा ...

पुराणेषु जलनैर्मल्यवायुनैर्मल्यचिन्ता

वायु –जल- नैर्मल्यरक्षणमाद्यकर्तव्यम् । वायु- जलदूषणं शिक्षार्हापराधः । नगरग्रामनैर्मल्यदूषकशिक्षार्थं पृथगेव न्यायालयः स्थाप्यते इति एफ्. एम्. सल्दाना नामधेयस्य उच्चन्यायलयन्यायाधिशस्य उद्धोषणां के प्राज्ञा न जानन्ति । वयमिदानीं नगरवासिनः परिशुध ...

प्रथमसूत्रे पाठभेदः

ब्रह्मसूत्रेषु अथातो ब्रह्मजिज्ञासा इति प्रथमं सूत्रम् । अत्र पाठस्वरुपविषये अस्ति महति विप्रतिपत्तिः । सर्वेषां भाष्यकाराणां मतानुरोधेन् अथातो ब्रह्मजिज्ञासा इत्येव सूत्रपाठः । परन्तु श्रीमन्मध्वाचार्याणां व्याख्यानुरोधेन ओम् अथातो ब्रह्मजिज्ञास ...

ब्रह्मैव जीव-जगत्-ईश्वराः

अद्वैतवेदान्तशास्त्रे ब्रह्मैव एकं पारमार्थिकं सत्यं तत्त्वम् अङ्गीक्रियते । ’ब्रह्म’ इति नामापि एतस्य सत्यस्य केवलं व्यावहारार्थम् अभ्युपगम्यते । परमार्थसत्यस्य प्रपञ्चनावसरे तु एतस्य त्रयस्य उल्लेखस्य आवश्यकत्वं जायते – जीवो यो व्यष्टिरूपः स्वं ...

भारतीयर्शनेषु ख्यातिस्वरूपम्

भारतीयदर्शनेषु खातिस्वरुपविमर्शः इति विधित्सितः । यद्यपि ख्याति शब्दः दर्शनेषु ज्ञानवाचकः, तथापि अन्यथाख्यातिपरतयाऽपि ख्यातिशब्दप्रयोगः अभियुक्तैः कृतः प्रसिध्द एव । यथा हि अख्यातिरित्यत्र न ख्यात्यभावो बोध्यते अपि तु अन्यथाख्यात्यभावः । अत्र च ख ...

भेदपराण्येव खलु ब्रह्मसूत्राणि

भेदपराण्येव खलु ब्रह्मसूत्राणि इति ग्रन्थे अद्वैतभाष्यतट्टिप्पण्यनुरोधेनैव अद्वैतमतस्य असामञ्जस्यं श्रीमच्चरणैः सम्यगुपपादितम् । अत्र निदर्शनतया शास्त्रदृष्ट्या तूपदशा वामदेववत् इत्यत्र श्रीमच्चरणैः विमृष्टः विषयः यथामति उत्तरत्र निरुप्यते । अद्व ...

भेदवाक्यानि नानुवादकानि

सर्वे वेदाः विष्णोः पारम्यं जीवभेदं चावगमयन्तीति । श्रीमदान्दतीर्थभगवत्पादार्चाणां सिद्धन्तः ॥ अत्राहुरद्वॆतवादिनः- नागमाः विष्णोस्सर्वोत्तमत्त्वं प्रतिपादयन्ति। अपि तु जीवेश्वरयोरभेद-बोधनायॆव प्रवृत्ताः । सन्ति चाभेदबोधकाः ’तत्त्वमसि’ ’अहं ब्रह् ...

वर्षा-ऋतुवर्णनम्

।। वर्षा – वर्णनम् ।। 1. जलधरो जलधाराम् वर्षति । कदा वर्षति? निदाघकालस्य शौर्यं प्रद्योतनम् संहृत्य । 2. घनो जनमाह्लादयति दुःखमपि जनयति च । कथम्? शरीरतापम् अपास्य दूरे कृत्वा शीतस्य सुखम् अनुभावयन् घनो जनमाह्लादयति । मार्गे पङ्कम् परिपोष्य पथि पङ ...

वाल्मीकीयरामायणे शिवः

वाल्मीकीयरामायणे शिवः सर्वेषु काण्डेषु, सर्वेषु सर्गेषु उपस्थितः । किञ्च हनुमान् शिवांश एव । एवं यत्र यत्र हनुमतः उल्लेखः भवति, तत्र तत्र शिवस्य अप्रत्यक्षोल्लेखः एव परिगण्यते । तथापि वाल्मीकीयरामायणे बहुत्र शिवस्य नाम प्रत्यक्षं भवति । तेषु स्था ...

विवाहसंस्कारस्य व्यावहारिकः पक्षः

दिल्ली संस्कृत साहित्य अकादमी, दिल्ली-सर्वकार-द्वारा समायोजिष्यमाणे त्रिदिवसीये अखिल-भारतीय-संस्कृत-सम्मेलने प्रस्तोतुं निबद्धः शोधालेखः - विवाहसंस्कारस्य व्यावहारिकः पक्षः. प्रस्तोता – प्रो. कमलेशकुमार छ. चोकसी संस्कृतविभागः, भाषासाहित्यभवनम्, ग ...

वेदान्ते अध्यारोपापवादन्यायस्य सञ्चालनम्

उपनिषत् किमर्थम् अध्यारोप-अपवादन्यायमनुसरति इति अवगमः महत्प्रयोजनाय कल्पते । प्रश्नोपनिषत् मन्त्रः एवं पठ्यते – इति । तत्र भाष्ये श्रीशंकराचार्याः कथयन्ति - इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन् पुरु ...

शासनेषु पुराणप्रभावः

शासनशास्त्रज्ञानां यथा संस्कृतज्ञानमावश्यकं तथा शासनव्याख्याने पुराणाध्ययनमप्यावश्यकम् । शासनशास्त्रविदः यदि पुराणाध्ययनपरा भवेयुस्तर्हि शासनवाक्यव्याख्याने अपूर्वा दृष्टिर्व्याख्यानुशलता च भवेदिति विचिन्त्यात्र द्वित्रा विषया प्रस्तूयन्ते- इति द ...

संस्कृतभाषामहत्त्वम्

"संस्कृतं नाम दैवीवाक् अन्वाख्याता महर्षिभिः" इति कवेः दण्डिनः बहुप्रसिद्धा उक्तिः । कदाचित् संस्कृतस्य विकासाय प्रतिरोधः यथा भवेत् तथा एतस्याः प्रसिद्धिः व्याप्ता खलु इति मे संशयः । न केवलं दैवीवाणी, मानुषी अपि वाणी एषा इति प्रत्यभिज्ञानम् आवश्य ...

संस्कृताध्ययनस्य प्रसक्तिः

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इत्यतः शब्दसमूहः एव भाषा इति लभ्यते । आशयविनिमयार्थं यः उपायः सा भाषा । अङ्ग्यभाषा, भाषितभाषा, लेखनभाषा चेत् त्रिधा अस्ति । भाषाजगति विराजमानासु सर्वासु भाषासु सं ...

आधुनिकसंस्कृतसाहित्येतिहासः

संस्कृतसाहित्यस्य इतिहासे आधुनिककालः व्यापकेऽर्थे वर्तमानसाहित्यसन्दर्भे एव न सीमितः । शब्दोऽयं कालखण्डविशेषस्य वाचकः । अनया दृष्ट्या आधुनिककालः वर्षाणां शतकत्रये प्रसृतः । अस्य कालस्य साहित्यमधिकृत्य न कश्चिदितिहासग्रन्थः संस्कृतभाषया अस्ति । आध ...

विश्वपरम्परास्थानानि

युनेस्कोसंस्था विश्वसंस्थायाः सांस्कृतिकाङ्गम्। युनेस्को संस्था अन्ताराष्ट्रियस्तरे शैक्षणिकक्षेत्रे, सामाजिकक्षेत्रे, सांस्कृतिकक्षेत्रे, आर्थिकक्षेत्रे च कार्यं करोति । विश्वस्य कानिचन विशिष्टस्थानानि विश्वपरम्परास्थानानि इति अनेन उद्घुष्यन्ते ...

हिरोशिमा शान्तिस्मारकम्

हिरोशिमा शान्तिस्मारकम् उत अणुविस्फोटस्तूपः उत गेन्बाकु डोम जपान-देशस्य हिरोशिमा-महानगरे स्थितस्य प्रख्यातशान्तिस्मारकस्य उद्यानभागोऽस्ति । १९९६ तमे वर्षे एतत् स्मारकं युनेस्को-संस्थया विश्वसम्पत्त्वेन घोषितम् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष ...

उसैन् बोल्ट्

उसैन् बोल्ट् बहुसुप्रसिद्धः लघुधावनक्रीडकः वर्तते । एषः वर्तमानकाले अत्युत्तमधावनक्रीडालुः वर्तते । १०० मी तथा २०० मी लघुधावनक्रीडाद्वये उसैन् बोल्ट् जगत्यां प्रथमः स्वर्णपदकविजेता वर्तते । लैट्निङ्ग् बोल्ट् इति अस्य उपनाम भवति ।

उन्नतकूर्दनम्

उन्नतकूर्दनं हाय् जम्प्’ नाम्ना विख्यातस्यास्य उन्नतकूर्दनस्य विकासपरम्परा १८७६ त्मेशवीयवत्सरे अमेरिकावास्तव्येन एच० श्राई० फिकन० नामकेन क्रीडकेन ५ ५" इञ्चमितोच्च्कूर्दनद्वारा राष्ट्रिय-प्रतियोगितायां विजयप्राप्त्या प्रवर्तिता । तत्प्रभावातिशयेन ...

कूर्दनक्रीडा

प्रत्येकं प्राणिनः स्वभावे धावनकूर्दने समानरुपेणैव तिष्ठतः । यो धावति स कूर्दते यश्च कूर्दते स धावति । यथा मानवः प्रारम्भे धावनं कृत्वाऽऽत्मानं रक्षतिस्म तथैव यथावसरं कूर्दनेनाप्यात्मनो रक्षां विधत्ते स्म । इदं कूर्दनं कदाचित् सामान्यं कदाचिच्चास ...

त्रिः कूर्दनम्

प्राकृतिकेन पाथेयेन परिपुष्टाः पशवः पक्षिणश्च मानवायोत्पतनप्रेरणाप्रदातरो मन्यन्ते । प्रत्येकं पशोः पक्षिणो वा गतौ काचन विचित्रा मनोमोहिनो प्लवनपद्धतिः परिदृश्यते । अनुकरणानुरागी मानव आत्मनो हितं साधयितुं कामयमानो यथाकथमपि पुरा कूर्दनं कुरुते स्म ...

दण्डकूर्दनम्

आदिकालिका मानवा वनेषु विचरन्तो यदा कदा सङ्कटापन्ने पथि वर्तमाना आत्मनो रक्षार्थं वंशशाखादीनां साहाय्येन कूर्दित्वा रक्षणं प्राप्नुवन् । मार्गावरोधकान् कण्टकिनो गुल्मान गार्तान् स्वल्पजल-प्रवाहान् पल्वलान् वा वंशादीनां साहाय्यादेव पारयन्तस्ते कूदा ...

प्रलम्बकूर्दनम्

प्रलम्बकूर्दनारम्भो धावनादेव भवति । अयं मार्गः ३०-४० मीटरमितो भवति यश्च परीक्षणचिह्नैर्विभज्यते । प्रथमः परीक्षणबिच्नुस्तत्स्थानं विध्यते यतः कूर्दको धावनमारभते । द्वितीय उच्छलनबिन्दुः १५-२० मीटरपूर्वं भवति । इमे उभे चिह्नकूर्दकस्योत्पतनकर्त्रा प ...

ओलम्पिक् ज्वाला

एप्रिल् मासस्य १७ दिनाङ्के अओलिम्पिकदीपदण्डेन नवदेहली प्राप्ता । राष्ट्रपति भवनतः भारतमुख्यद्वारप्र्यन्तं २.३ कि.मी.द्वरं यावत् अखण्डधावनेन स च दीपदण्डः नीतः । अस्मिन् कार्यक्रमे ७० क्रीडापटवः अन्ये गण्यश्च भागम् अवहन् । इतः पूर्वं बीजिङ्ग्-ओलम्प ...

परम्परितधावनम्

परम्परितधावनस्योल्लेखः प्राचीनेषु विश्वक्रीडायोजनेषु न लभ्यते । आधुनिकस्य विश्वक्रीडोत्सवस्य श्रृङ्खलायाः पञ्चमक्रीडोत्सवे यो हि स्वीडनस्य राजधान्यां स्टाक होल्म नगर्यामायोजितोऽभत् रिले दौड नाम्ना प्रथमवारं विश्वस्तरेण समक्षमायातम् । आधुनिके काले ...

प्रलम्बधावनम्

आधुनिका धावनकलाविदः ८०० तः १५०० मीटरमितं धावनमपि शैलीदृष्ट्या प्रलम्बधावन् एव समन्वयन्ति । ५०० तः १०,००० मीटरमितानि धावनानि सम्प्रति प्रतियोगितासु स्वीक्रीयन्ते । प्राचीनकाले यूनानदेशे ‘डौलीकस’ नामकमेकं धावनमभवत्, यस्यायामः १४० गजमानात् ४८०० गजमि ...

लघुधावनम्

लघुधावनक्रीडा धावनक्रीडायाम् एकः प्रकारः वर्तते । नवीने युगे वैज्ञानिकप्रयत्नवशाद् यत् कार्यम् असम्भवम् अभूत् तदपि सम्भवं विहितम् । लघुधावने धावकाः पूर्वं धावने यावन्तं समयं यापयन्ति स्म ततः न्यूनातिन्यूनेन समयेन धावनावधिं परिसमाप्य साम्प्रतं स्व ...

सबाधधावनम्

पलायमानो जनः पथि समागतानि स्थूलानि लघूनि वा गत्यवरोधकारीणि वस्तूनि समुल्लङ्ध्यात्मनो रक्षार्थं धावत्येव । ईदृशीं स्थितिं विलोक्य मन्ये विचार कैस्तादृशधावनाविषयेऽपि चिन्तितम् । प्रकारा गवेषिताः, नियमा निर्धारितस्तथा प्रशिक्षणविधिः प्रवर्तितः । प्र ...

प्रक्षेपणक्रीडा

"यथा धावनं कूर्दनं च शिक्षणं विनैव पशुपक्षिणामिव मानवः सहजतया प्राप्तवान् तथैव कस्यापि वस्तुनो निकटे दूरे वा, सकामं निष्कामं वा, सप्रयत्नं निष्प्रयत्नं वा प्रक्षेपणस्य प्रवृत्तिरपि तस्मिन् स्वयमेव समागते" ति समामनन्ति सुधियः । केचनैवमपि कथयन्ति य ...