ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 31

एतन्मे संशयं कृष्ण.

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवत्रिंशत्तमः३९ श्लोकः ।

एतां दृष्टिमवष्टभ्य.

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य नवमः९ श्लोकः ।

एतां विभूतिं योगं च.

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तमः७ श्लोकः ।

एतान्न हन्तुमिच्छामि.

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चत्रिंशत्तमः श्लोकः ।

एवं ज्ञात्वा कृतं कर्म.

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चदशः श्लोकः ।

एवं परम्पराप्राप्तम्.

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वितीयः श्लोकः ।

एवं प्रवर्तितं चक्रं.

एवं प्रवर्तितं चक्रम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रोल्लङ्खनं ये कुर्वन्ति, तेषआं निन्दां करोति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतायाः विषयं समाप्य अत्र ये सृष्टिचक्रानुगुणम् आचरणं न कुर्वन्ति, तेषां निन् ...

एवं बहुविधा यज्ञा.

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य द्वात्रिंशत्तमः श्लोकः ।

एवं बुद्धेः परं बुद्ध्वा.

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य त्रिचत्वारिंशत्तमः श्लोकः ।

एवं सततयुक्ता ये.

अर्जुन उवाच - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥ अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य प्रथमः१ श्लोकः ।

एवमुक्तो हृषीकेशो.

एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुर्विशतितमः श्लोकः ।

एवमुक्त्वा ततो राजन्.

सञ्जय उवाच - एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवमः९ श्लोकः ।

एवमुक्त्वा हृषीकेशं.

एवमुक्त्वा हृषीकेशम् इत्यनेन श्लोकेन सञ्जयः अर्जुनस्य योद्धोपरामस्य निर्णयं धृतराष्ट्रं श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र अर्जुनस ...

एवमुक्त्वार्जुनः सङ्ख्ये.

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तचत्वारिंशत्तमः श्लोकः ।

एवमेतद्यथात्थ त्वम्.

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य तृतीयः३ श्लोकः ।

एषा तेऽभिहिता साङ्ख्ये.

एषा तेऽभिहिता साङ्ख्ये इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः महिमानं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिमानम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यत्, हे पार्थ! एषा समबुद्धिः सा ...

एषा ब्राह्मी स्थितिः पार्थ.

एषा ब्राह्मी स्थितिः पार्थ इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कामनादिरहितस्य साधकस्य स्थितिः कीदृशी भवेत् इति वर्णयति । पूर्वस्मिन् श्लोके कामनादीनां त्यागे सति शान्तिप्राप्तिः भवति इत्युक्त्वा अत्र कामनादिरहितस्य साधकस्य स्थितिवर्णनं करोति । भगवा ...

ओमित्येकाक्षरं ब्रह्म.

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य त्रयोदशः१३ श्लोकः ।

कच्चिन्नोभयविभ्रष्टः.

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥ अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टात्रिंशत्तमः३८ श्लोकः ।

कट्वम्ललवणात्युष्णा.

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य नवमः९ श्लोकः ।

कथं न ज्ञेयमस्माभिः.

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवत्रिंशत्तमः श्लोकः ।

कथं भीष्ममहं सङ्ख्ये.

कथं भीष्ममहं सङ्ख्ये इत्यनेन श्लोकेन अर्जुनः स्वयं किमर्थं युद्धं कर्तुं नेच्छति इति वदति । पूर्वस्मिन् अध्याये अर्जुनः अनेकाभिः युक्तिभिः स्वस्य युद्धोपरामस्य कारणानि अवदत् । परन्तु पूर्वस्मिन् श्लोके कापुरुषतायाः आरोपणं कृत्वा श्रीकृष्णः अर्जुन ...

कथं विद्यामहं योगिन्.

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तदशः१७ श्लोकः ।

कर्म ब्रह्मोद्भवं विद्धि.

कर्म ब्रह्मोद्भवं विद्धि इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सृष्टिचक्रम् अग्रे वदति । पूर्वस्मिन् श्लोके सृष्टिचक्रस्य कृते कर्तव्यपालनस्य आवश्यकतां वर्णयन् भगवान् सृष्टिचक्रस्य आरम्भम् अकरोत् । अत्र तस्य आरम्भस्यानगुणं सृष्टिचक्रस्य विषये अग्रे व ...

कर्मणैव हि संसिद्धिम्.

कर्मणैव हि संसिद्धिम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अनासक्तानां परिचयं ददाति । पूर्वस्मिन् श्लोके महापुरुषत्वं प्राप्तुं मार्गं प्रदर्श्य भगवान् अत्र जनकादीनां महापुरुषाणाम् उदाहरणत्वेन उल्लेखं करोति । सः कथयति यद्, जनकसदृशाः अनेके महापुरुषाः ...

कर्मणो ह्यपि बोद्धव्यं.

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तदशः श्लोकः ।

कर्मण्यकर्म यः पश्येद्.

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टदशः श्लोकः ।

कर्मण्येवाधिकारस्ते.

कर्मण्येवाधिकारस्ते इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्माज्ञां यच्छति । पूर्वस्मिन् श्लोके भगवान् अर्जुनाय समबुद्धेः आज्ञाम् अयच्छत् । तस्य समबुद्धेः प्राप्त्यै अत्र कर्माधिकारस्य आज्ञां ददाति ।

कर्मेन्द्रियाणि संयम्य.

कर्मेन्द्रियाणि संयम्य इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मेन्द्रियाणां निग्रहिणः मिथ्याचारिणः भवन्ति इति बोधति । पूर्वस्मिन् श्लोके कोऽपि मनुष्यः निष्क्रियः न स्थातुं शक्नोति, इति उक्तं परन्तु कश्चन मनुष्यः बलपूर्वकम् इन्द्रियाणां क्रियायाणां ...

कर्शयन्तः शरीरस्थं.

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥ अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षष्ठः६ श्लोकः ।

कविं पुराणमनुशासितारम्.

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥ अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवमः९ श्लोकः ।

कस्माच्च ते न नमेरन्.

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तत्रिंशत्तमः३७ श्लोकः ।

काङ्क्षन्तः कर्मणां सिद्धिं.

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ादशः श्लोकः ।

काम एष क्रोध एष.

श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥ अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमः श्लोकः ।

कामक्रोधवियुक्तानां.

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षड्विंशतितमः श्लोकः ।

काममाश्रित्य दुष्पूरं.

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद् गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १० ॥ अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य दशमः१० श्लोकः ।

कामात्मानः स्वर्गपरा…

कामात्मानः स्वर्गपरा इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिनः मनुष्यस्य अनन्ताः बुद्धयः कथम् इति वर्णयति । पूर्वस्मिन् श्लोके भगवान् मनुष्यस्य अनन्तबुद्धेः वर्णनम् आरभते, अत्र तस्य श्लोकस्य अन्वयोऽपि भवति । पूर्वस्य, अस्य श्लोकस्य च अन्वयः अ ...

कामैस्तैस्तैर्हृतज्ञानाः.

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥ अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य विंशतितमः२० श्लोकः ।

काम्यानां कर्मणां न्यासं.

श्रीभगवानुवाच - काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः२ श्लोकः ।

कायेन मनसा बुद्ध्या.

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥ अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकादशः श्लोकः ।

कार्पण्यदोषोपहतस्वभावः.

कार्पण्यदोषोपहतस्वभावः इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते । पूर्वस्मिन् श्लोके युद्धोपरामनिर्णयं प्रति सन्देहं प्रदर्श्य अत्र भगवन्तं मार्गदर्शनाय अर्जुनः निवेदयति । सः प्रार्थ ...

कार्यकरणकर्तृत्वे.

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य विंशतितमः२० श्लोकः ।

कार्यमित्येव यत्कर्म.

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ ९ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवमः९ श्लोकः ।

कालोऽस्मि लोकक्षयकृत्.

श्रीभगवानुवाच - कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वात्रिंशत्तमः३२ श्लोकः ।

काश्यश्च परमेष्वासः.

काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥ अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तदशः श्लोकः ।

किं कर्म किमकर्मेति.

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥ अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य षोडशः श्लोकः ।

किं पुनर्ब्राह्मणाः पुण्या.

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥ अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयस्त्रिंशत्तमः३३ श्लोकः ।

किरीटिनं गदिनं.

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥ अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तदशः१७ श्लोकः ।

कुतस्त्वा कश्मलमिदं.

कुतस्त्वा कश्मलमिदम् इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् असमये कापुरुषत्वं कुतः त्वयि उद्भूतम्? इति पृच्छति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् उद्दिश्य श्रीकृष्णार्जुनयोः संवादस्य आरम्भम् अकरोत् । सः वदति यत्, अर्जुनं मधुसूदनः एतानि ...

कृषिगौरक्ष्यवाणिज्यं.

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥ अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुश्चत्वारिंशत्तमः४४ श्लोकः ।