ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 26

पञ्चमरागः

पञ्चमरागः Panchama Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । मारवा थाट् गणस्य रागः भवति । ओडव तथा षाडवजात्यासहितः रागः भवति । शृङ्गाररसप्रतिपादकः रागः भवति ।

पतिव्रताः

भरते नारीणां स्थानम् अतिविशिष्टं वर्तते । माता पुत्री सुषा श्वश्रूः इत्याद्याः भूमिकाः नर्वहन्ती कुटुम्बव्यस्थां पोषयति । तत्रापि पत्नी इति पात्रं तु महत्तमं भवति । पतिव्रतापरायणा स्त्रीः सर्वशक्तिसम्पन्ना भवति । पत्युः यशसे कीदृशमपि त्यागं कर्तु ...

पद्यकाव्यम्

इदं महाकाव्यम् उपकाव्यम् इति भेदेन प्रथमं द्विविधम् । अष्टादश संख्याकवर्णनाभिः विभूषितं काव्यं महाकाव्यम् उच्यते । वर्णनानां संख्याविषये मतभेदाः सन्ति। नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् । उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ विप्रलम्भो विवाहश्च कु ...

परजरागः

परजरागः Paraja Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्वी थाट् गणस्य रागः भवति । अयम् उत्तराङ्गप्रधानः रागः भवति । रात्रौ तृतीयप्रहरः प्रशस्तकालः भवति । करुणरसः तथा शान्तरसप्रधानः रागः भवति । चञ्चलप्रकृतिकः रागः भवति । कालिङ्गडर ...

पानीयकषायम्

एतत् कषायं भारते अपि पीयमानं किञ्चित् पेयम् अस्ति । एतत् कषायम् अपि सस्यजन्यः आहारपदार्थः । एतत् कषायं कषायचूर्णेन निर्मीयते । तत् पेयं सर्वदा उष्णम् एव पीयते । कषायचूर्णस्य निर्माणावसरे तत्र कुस्तुम्बरी, जीरिका, मरीचं, खसतिलः एला इत्यादिकं योजित ...

पारसनाथः

अयं पारसनाथपर्वतः जैनानां पवित्रं क्षेत्रम् । पारसनाथः इति पार्श्वनाथस्य अपभ्रंशरूपम् । जैनसम्प्रदायस्य सर्वस्य अपि विभागस्य परमश्रेष्ठं क्षेत्रम् एतत् । एतत् झारखण्डराज्यस्य हजारिबाग्-मण्डले अस्ति । जैनसम्प्रदाये २४ जनाः तीर्थङ्कराः सन्ति । तेषु ...

पुरातत्त्वशास्त्रम्

Shovelbums.org - Archaeological opportunities mailing list. eCulturalResources - Cultural Resource Management Jobs, News, Consultants, and Resources. CHAT - CHAT group for contemporary and historical archaeology and theory. Excavation Sites Archa ...

पूर्विरागः

पूर्विरागः Purvi/Poorvi Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वि थाटस्य जनकरागः भवति । पूर्वाङ्गप्रधानः रागः भवति । अस्य रागस्य वादिस्वरः गान्धारः ग भवति । संवादिस्वरः निषादः नि भवति । सम्पूर्णजात्यासहितः भवति । मध्य ...

प्रतिज्ञायौगन्धरायणम्

इदमेकम् प्रसिद्धनाटकम्। एतस्य कर्ता महाकविः भासः। क्षेमेन्द्रस्य बृहत्कथामञ्जरीं सोमदेवस्य कथासरित्सागरं च आधृत्य विरचितमिदं नाटकम् भासस्य स्वप्नवासवदत्ता नाटकस्य पूर्वार्धविषयमेव निरूपितमस्तु।प्रतिज्ञायौगन्धरायणनाटके तावत् चत्वारः अङ्काः सन्ति। ...

प्रतिमानाटकम्

प्रतिमानाटकम् भासकविना विरचितमिति टि.गणपतिशास्त्रिणः अनेकैः साक्ष्याधारैः प्रत्यपादयत् । केचन दोषज्ञाः शास्त्रिमतं नाङ्गीकुर्वन्ति । किन्तु भासनाटकचक्रे विद्यमानानां त्रयोदश नाटकानां कर्ता भासादपरः कविरपि न सिद्धः । अतः विवादान् पार्श्वे कृत्वा स ...

प्रद्युम्नाभ्युदयम्

संग्रामधीरः इति प्रथितेन रविवर्मकुलशेखरेण विरचितं नाटकं भवति प्रद्युम्नाभ्युदयम् । अस्मिन् पञ्च अङ्काः सन्ति । श्रीपद्मनाभस्य यात्रोत्सवे अवतारयितुं नाटकम् इदं निर्मितम् । श्रीकृष्णस्य पुत्रः प्रद्युम्नः वज्रपुराधीश्वरं वज्रनाभनामकम् असुरं हत्वा ...

प्रपञ्चमिथ्यात्वानुमानखण्डनम्

प्रपञ्चमिथ्यात्वानुमानखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। मायावादखण्डनम्, उपाधिखण्डनम्, प्रपञ्चमिथ्यात्वानुमानखण्डनञ्च खण्डनत्रयम् इति नाम्ना प्रसिद्धानि भवन्ति। वादग्रन्थाः इत्यपि प्रसिद्धिरस्ति। त्रयोऽपि ग्रन्थाः अद्वैतमतस्य विमर्शार्थम ...

प्रशस्तपादः

प्रशस्तपादनामकः आचार्यः वैशेषिकसूत्रेषु उपस्कारभाष्यं रचितवान् । अनेन वैशेषिकत्तत्वानाम् अवबोधाय पदार्थधर्मसंग्रहस्यापि रचना कृता । वर्तमाने वैशेषिकसूत्रार्थं बोधयिंतु प्रशस्तपादभाष्यमेव प्रामाणिकं मन्यते । परमाणुवादः सृष्टिः, प्रलयः, प्रामाणानि, ...

प्रसादः

प्रसिध्दार्थपदवत्त्वं प्रसादः Prasada । यत्र पदानि झटित्यर्थसमर्पकानि भवन्ति तत्र प्रसादो गुणो भवति । वामनस्तु बन्धशैथिल्यं प्रसादः इति स चौजोगुणमिश्रितो भवेदिति च व्याचख्यौ । यथा – प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपति स्स्वयम् । येनास्य लोचने फुल् ...

प्रियदर्शिका

इह खलु सकलविद्याकलापादिपीठेस्मिन्भारते वर्षे निजयश:सुरभीकृतदिगन्तराला: प्रतिभाशालिन: पर:शता: कवीश्वरा भासकालिदासादय: स्वकृत्याभरणेवार्ग्वधूं मण्डयन्ति स्म.

बङ्गालीभैरवरागः

बङ्गालीभैरवरागः Bangalibhairava Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । भैरव थाट् गणस्य रागः भवति । क्रोधरसस्य तथा वीररसस्यच प्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः धैवतः ध भवति। एवं संवादिस्वरः ऋषभः रे भवति । षाडवजात्यासहितः र ...

बडहंसरागः

बडहंसरागः Badahamsa Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । बृन्दावनीसारङ्गरागः इत्यपि अस्यैव रागस्य नामान्तरमपि अस्ति । "काफी थाट्" गणस्य रागः भवति । शृङ्गाररसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’रे’ भवति । संवादिस्वरः ’प’ ...

बदरीफलम्

एतत् बदरीफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् बदरीफलम् अपि सस्यजन्यः आहारपदार्थः । इदं बदरीफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् बदरीफलम् अकृष्टपच्यम् अपि । ‎

बिभासरागः

बिभासरागः Bibhasa Raga हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । भैरव थाट् गणस्य रागः भवति । ओडव जात्यासहितः रागः भवति। प्रातर्गेयः रागः भवति । अस्य रागस्य वादिस्वरः धैवतः ध भवति। गान्धारः ग संवादिस्वरः भवति । ’रे’ तथा ’ध’ स्वरौ कोमलस्वरौ ...

बीभत्सरसः

बीभत्सस्य जुगुप्सा स्थायिभावो भवति । पदार्थेषु दोषदर्शनादिभिर्जायमाना चित्तसङ्कोचात्मिका जुगुप्सा । कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा इति रसगङ्गाधरमतम् । बन्धनार्थक "बध" धातोः पित्तविकारार्थे सन् तथा अच् प्रत्यये कृत ...

बेहुला

चम्पकनगरे चन्द्रधरः नाम कश्चित् धनवान् वैश्यः आसीत् । एषः आशुतोषस्य शिवस्य परमभक्तः आसीत् । किन्तु एषः मनसा देव्याः बहुविरोधं करोति स्म । एतेन विरोधेन दुष्परिणमं जनयति स्म । एतेन विरोधेन मनसादेवी चन्द्रधरस्य षड्पुत्रान् विषसर्पेन दशयित्वा मारयितव ...

ब्याडगि-मरीचिका

ब्याडगि-मरीचिका भारतदेशस्य कर्णाटकराज्ये वर्धमाना मरीचिकाविशेषः । कर्णाटकस्य हावेरीमण्डले विद्यमानायाः ब्याडगिनगर्याः नाम्नि इयं प्रसिद्धा वर्तते । भारतदेशे विभिन्नमरीचिकानां वाणिज्ये अस्याः द्वितीयं स्थानं वर्तते । अस्याः मरीचिकायाः निष्कासितम् ...

ब्रह्मवादिन्यः

भारते स्त्रीणां स्थानं विशिष्टम् अस्ति एव । वेदकाले एव ब्रह्मवादिन्यः पतिपरायणाः स्त्रियः आसन् । काश्चन पतिसेवया एव त्यागेन वा प्रसिद्धिमापन्नाः । अपराः जन्मनः एव ब्रह्मविद्यां प्राप्य मन्त्रदृष्ट्र्याः अन्याः हठयोगेन तपसा परिश्रमेण वा ब्रह्मविद् ...

भट्टिकाव्यम्

भट्टिकाव्यम् इति भट्टिना विरचितं प्रसिद्धं काव्यम्। अस्मिन् काव्ये काण्डचतुष्टयं विद्यते । २२ सर्गाः च । एतस्य मुख्यमुद्देश्यन्तु व्याकरणसूत्राणां सर्वेषामपि उदाहरणप्रदानं वर्तते । अतः एव काठिन्यं तेन सह प्रौढिमा च आधिक्येन दृश्यते । रावणवधमिति अ ...

भयानकरसः

भयानकस्य भयं स्थायिभावो भवति । क्रूराऽऽकारादिदर्शनादिभिः प्राणिनां हृदयेषु जायमानमनर्थाशङ्कनं भयम् । व्याघ्रदर्शनादि जन्मापरमानर्थविषयको वैक्लव्याख्यश्चित्तवृत्तिविशेषो भयमिति रसगङ्गाधरकारः। यद्यपि भयत्रासशब्दौ सामान्यतस्समानार्थकौ प्रयुज्येते तथ ...

भरतस्वामी

भरतस्वामिना स्वकीयभाष्ये यः स्ववंशपरिचयः प्रदत्तः तदनुसारेणायं काश्यपगोत्रे जन्म गृहीतवान् । अस्य पिता नारायणः, माता च यज्ञदादेवी आसीत् । अनेन सामवेदस्य सर्वेषामृचामुपरि व्याख्या लिखिता । भरतस्वामिना ग्रन्थारम्भे स्ववंशपरिचयः प्रदत्तः -- ‘नत्वा न ...

भागवततात्पर्यनिर्णयः

भागवतपुराणं पुराणेषु प्रसिद्धं भवति। अस्य पुराणस्य तात्पर्यं मध्वाचार्यः लिखितवान् अस्ति। श्रीमद्भागवततात्पर्यनिर्णयः प्रतिश्लोकस्य व्याख्यानभूतः ग्रन्थः न। किन्तु सहस्रतात्विकेभ्यः चर्चनीयश्लोकेभ्यः व्याख्यानं कृतवान् अस्ति। एकादशस्कन्दस्य व्याख ...

भारतस्य वित्तकोषाः

भारतस्य वित्तकोषाः भारतस्य अर्थव्यवस्थायाः संरक्षकाः । वित्तकोषाः जनसेवायाः कार्याणि अपि कुर्वन्ति । यथा- ऋणदानं, धनरक्षणम्, अन्तर्जालद्वारा सेवाः इत्यादयः । भारते सक्रियाणां वित्तकोषाणाम् आवलिः अत्र प्राप्यते । अत्र सहकारिवित्तकोषान् विहाय भारतस ...

भारतीवृत्तिः

ईषन्मद्वर्थसन्दर्भा भवति भारती वृत्तिः । हास्यशान्ताद्भुतेष्वियं प्रयोज्या । भारतीवृत्तिर्वाचिकाभिनयप्रधाना स्त्रीपात्रेणाऽप्रयोज्या च भवति । भारती संस्कृतपाठ्यप्रधाना भवति । एषा शब्दवृत्तिः । यथा – औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा काप ...

भासनाटकचक्रम्

भासः इति प्रथितयशाः कश्चन महान् नाटककारः बभूव । तस्य विशेषः एषः अस्ति यत् सः स्वस्यनाम न कुत्रापि लिखितवानस्ति । परन्तु सः अन्यैः कविभिः नाटककारैः च सर्वत्रापि जेगीयते । तस्येति कथितानि एतानि त्रयोदश नाटकानि - रामायणाधारिते नाटके द्वे - प्रतिमाना ...

भीम्पलासरागः

भीम्पलास हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । "काफी थाट्" गणस्य रागः भवति । अस्मिन् रागे भीम तथा पलासी रागौ दृश्येते । किन्तु अद्यत्वे पलासी रागस्य अस्तित्वं नास्ति । ओडवजात्यासहितः रागः भवति । अस्मिन् रागे ग तथा नि स्वरौ को ...

भीष्म साहनी

बलराज माय ब्रदर आत्मकथा हनुष १९७७, माधवी १९८४, कबीरा खड़ा बजार में १९८५, मुआवज़े १९९३ मेरी प्रिय कहानियां, भाग्यरेखा, वांगचू, निशाचर कहानी संग्रह झरोखे, तमस, बसन्ती, मायादास की माडी, कुन्तो नीलू निलीमा निलोफर उपन्यास गुलेल का खेल बालकथा

भूपालिरागः

भूपालिरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः। अस्य रागस्य प्रशस्तकालः सन्ध्याकालः । ६ तः ९ वादनपर्यन्तं कालः भवति । अयं रागः शान्तरसप्रदानः रागः भवति । "वैराग्यप्रतिपादकः" रागः भवति । भजन्, भक्तिगीते, भावगीतादिषु अस्य रागस्य उपय ...

भैरवरागः

भैरवरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य आदिमः रागः भवति । अयं भैरवथाटस्य जनकरागः भवति । उत्तराङ्गप्रधानः रागः तथा सम्पूर्णजात्यासहितः रागः भवति । एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि वीररसः उत्पद्यते । ध्रुपद् शैल्यां एनं रागं अधिकतया उपयोगं ...

मत्स्यः

मत्स्याः - जलचराः । मत्स्यावतारः - भगवतः विष्णोः दशावतारेषु अन्यतमः अस्ति । मत्स्यपुराणम् - वेदव्यासविरचितेषु अष्टादशपुराणेषु अन्यतमम् अस्ति । मत्स्यसाम्राज्यम् - प्राचीनकालस्य किञ्चन साम्राज्यम् अस्ति । मत्स्यासनम् - योगासनस्य एकम् आसनम् अस्ति ।

मदनकेतुचरितम्

रामपाणिवादेन विरचितं प्रहसनं भवति मदनकेतुचरितम् । अस्मिन् द्वौ अङ्कौ स्तः । ११६ श्लोकाः सन्ति । लङ्कायाः राजा भवति मदनकेतुः । सः कलिङ्गराज्यं जित्वा कनिष्ठं मदनवर्माणं तत्र अभिषिञ्चति । लङ्कायां विष्णुमित्रो नाम संन्यासी अनङ्गलेखा इति प्रथितां वे ...

मधुराविजयम्

मधुराविजयमिति गङ्गादेवीविरचितं संस्कृतभाषायाः महाकाव्यम् । वीरकम्परायचरितमिति अन्यत् नाम एतस्य काव्यस्य । गङ्गादेवी चतुर्दशशतककवयित्री । सा विजयनगरराजस्य कम्पनाम्नः पत्न्यासीत् । एतस्य काव्यस्य स्वपत्युरेव चरिताणि वर्णयन्ते ।

महाभारततात्पर्यनिर्णयः

महाभारतं वैदिक संस्कृतेः विश्वरूपदर्शनं कारयति। अस्य उद्भोदककथाभागेन पामराः अपि सारं ज्ञाताः भवन्ति। महाभारतं गात्रदृष्ट्या विषयदृष्ट्या च विशिष्टं स्थानं भजते। ईदृशस्य महाभारतस्य समग्रविषयाणां निरूपणं कृतं भवति अस्मिन ग्रन्थे। ईदृशं कार्यम् अन्य ...

माधुर्यम्

वाक्ये पृथक्पदता माधुर्यम् Madhuryam उच्यते । दीर्घसमासविरहितानां सरसानां पदानां रचना यत्र वर्तते तत्र माधुर्यं भवति । सरसपदत्वं माधुर्यमिति दण्डी व्याचख्यौ । यथा – यशश्श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः । उरोजयो मौक्तिकहारविभ्रमा ...

मायावादखण्डनम्

‎ मायावादखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अद्वैतमतस्य मायावादः इत्यपि नाम अस्ति। विश्वं माया इति प्रतिपादयन्ति अतः मायावादः इति नाम। अस्य मतस्य खण्डनात्मकग्रन्थः भवति मायावादखण्डनम्। मध्वाचार्यः नरसिंहदेवस्य स्तुतिं कुर्वन् ग्रन्थस्यार ...

मालतीमाधवम्

इदं द्शभिरङ्कैर्विरचितमेकं विशालं प्रकरणम् । कविकल्पनाप्रसूतो मालतीमाधवयोः प्रेमाऽतिसुन्दरप्रकारेणात्रावतार्य वर्णितः । यौवने उन्मत्तस्य प्रेम्णोऽत्र प्रगाढं निदर्शनम् । माधवेन मालतीवियोगे क्रियमाणा विलापाः विक्रमोर्वशीयं नाम कालिदासीय रुपकं स्मा ...

मालवीरागः

मालवीरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्विथाट् गणस्य रागः भवति । अस्य रागस्य वादिस्वरः ऋषभः भवति । एवं संवादिस्वरः पञ्चमः भवति। षाडवजात्यासहितः भवति । शृङ्गाररसप्रतिपादकः रागः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति ।

मालिनीछन्दः

प्रतिचरणम् अक्षरसङ्ख्या 15 ननमयययुतेयं मालिनी भोगिलोकै:।- केदारभट्टकृत- वृत्तरत्नाकर:३. ८४ ।।। ।।। ऽऽऽ ।।ऽऽ न म य य। अस्मिन् वृत्ते पञ्चदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण नगणद्वयम्,एकः मगणः यगणद्वयञ्च भवति तदा मालिनीत्युच्यते । यत ...

मुद्राराक्षसम्

मुद्राराक्षसम् विशाखदत्तेन लिखितं संस्कृतनाटकम्। चाणाक्षः चाणक्यः धननन्दस्य निग्रहं कर्तुं चन्द्रगुप्तमौर्यम् उपकरोति। चन्द्रगुप्तः राज्ञा पर्वतकेन सह नन्दराज्यं जयति। ततः युक्त्या विषदग्धः पर्वतकः म्रियते। तस्य पुत्रः मलयकेतुः नन्दमन्त्री राक्षस ...

मुहूर्तः

मुहूर्तः नाम भारतीयकालगणनस्य कश्चित् बिन्दुः । मुहूर्तकालः नाम अधुनिककालगणनस्य उप४८मिनिट्स् भवन्ति । लोके मुहूर्तः नामः कस्यचिदपि मङ्गलकार्यस्य समयः इत्येव प्रथितः । अमृतमुहूर्तः, ब्रह्मी मुहूर्तः च श्रेष्ठौ भवतः । ब्राह्मीमुहूर्तकालः सूर्योदयात् ...

मृच्छकटिकम्

संस्कृतवाङ्मये मृच्छकटिकम् प्राचीननाटकेषु मुख्यतमम् । शूद्रकेण लिखितम् संस्कृतनाटकम् अस्ति। नाटकेषु प्रकरणवर्गे इदंनाटकम् अन्वेति । अस्मिन् दश अङ्काः वर्तन्ते। अस्मिन् नाटके कान्यपि कपोलकल्पितानि कृतकता च न भवतः । स्वभावोक्त्यलङ्कार इव सहजसुन्दरा ...

मेघरागः

मेघरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "काफिथाट्" गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः षड्जः भवति । एवं संवादिस्वरः पञ्चमः भवति । ओडवजात्यासहितः रागः भवति । पक्कड - म प रे स, नि स रे स, नि प आरोहः ...

मैत्रायणीसंहिता

मैत्रायणीसंहिता कृष्णयजुर्वेदस्य अन्यतमा संहिता। इयं संहिता गद्य-पद्यात्मिकाऽस्ति । अस्यां संहितायां चत्वारः काण्डाः सन्ति । प्रथमकाण्डः एकादशप्रपाठकेषु विभक्तोऽस्ति । येषु क्रमशः दर्शपूर्णमास-अध्वर-अाधान-पुनराधान-चातुर्मास्य-वाजपेयप्रभृतीनां यज् ...

मैत्रेयी

महर्षेः याज्ञवल्क्यस्य द्वे पत्नी आस्ताम् । मैत्रेयी, कात्यायिनी च । तयोः मैत्रेयी ब्रह्मवादिनी आसीत् । कात्यायिनी सामान्या स्त्री आसीत् । कदाचित् याज्ञवल्क्यः पत्नीद्वयमपि समीपम् आहूतवान् । सर्वस्वं त्यागं कृतः, महिमान्वितः याज्ञवल्क्यः प्रशान्त ...

यतिप्रणवकल्पः

यतिप्रणवकल्पस्य रचयिता मध्वाचार्यः भवति। सदाचारस्मृतिग्रन्थे गृहस्थादीनां नित्यकर्माणां विषये निरूपितम् आसीत्। किन्तु अस्निन् ग्रन्थे प्रधानतया संन्यासग्रहणविधिं निरूपितवान् अस्ति। प्रणवस्वरूपं तथा भगवद्ध्यानपद्धतिञ्च विशेषतया निरूपितवान् अस्ति। ...