ⓘ मुक्त ज्ञानकोश. क्या आप जानते हैं? पृष्ठ 20

अनुबन्धचतुष्टयम्

सर्वस्य अपि शास्त्रग्रन्थस्य आरम्भः भवति अनुबन्धचतुष्टयेन एव । अस्मिन् चत्वारः अंशाः विद्यन्ते - १ विषयः २ प्रयोजनम् ३ सम्बन्धः ४ अधिकारी चतुर्भिः अंशैः युक्तम् इत्यतः चतुष्टयम् इति निर्दिष्टम् । एतेषाम् अवगमनात् परमेव अनु ग्रन्थः वाचकं पठने बध्न ...

कर्तृत्वाधिकरणम्

तात्पर्यचन्द्रिकोक्तदिशा कर्तृत्वाधिकरणविमर्शः अत्र चिकीर्षितः । प्रथमतः अद्वैतसिध्दान्तानुरोधेन अधिकरणरचनक्रमः प्रदर्श्यते । अद्वैतनयानुरोधेन सप्तसूत्राणि –कर्ता शास्त्रार्थवत्वात् विहारोपदेशात् ३४, उपादानात् ३५, व्यपदेशाच्च क्रियायां न चेन्निर् ...

वेदान्ते स्वप्नः

जीवस्य जाग्रत्स्वप्नसुषुप्तिभेदेन त्रयः अवस्थाः वेदान्तेषु प्रथिताः । तत्र जाग्रत्सुषुप्त्यवस्थयोः नास्ति स्वरुपे काचन विप्रतिपत्तिः । अस्ति च विप्रतिपत्तिः स्वप्नस्वरुपविषये । केचित् स्वप्नस्य सत्यत्वं समर्थयन्ति अपरे पुनः तन्निराकुर्वते । पुनरन ...

काव्यात्मविमर्शः

काव्यात्मविमर्शः अलङ्कारशास्त्रिणामग्रे काव्यस्यात्मा कः? इत्येष प्रश्न उपस्थित आसीत् । एतादृशं किं तत्त्वं वस्तुतः प्रधानमस्ति येन काव्यस्याधानं जायते -- इत्येतस्याः समस्यायाः समाधानार्थमनेके मनीषिणः प्रचक्रमिरे केचनालङ्कारमेव काव्यस्य जीवनं मन् ...

अर्थशास्त्रम् (ग्रन्थः)

अर्थशास्त्रम् इत्येषः प्राचीनकालस्य आर्थिकताविषये लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः विस्तृतरूपेण उक्ताः सन्ति ।

अर्थशास्त्रम् (शास्त्रम्)

अर्थशास्त्रम् अथर्वणवेदस्य "उपवेदः" इति प्रसिद्धम् । अनादिकालात् राजधर्मोपदेशकम् इदं शास्त्रम् । राज्यस्य भूप्रदेशः प्रकृतयश्च अर्थाः इत्युच्यन्ते । एतस्य अर्थस्य योगं लाभम् क्षेमं संरक्षणम् च उपदेशयत् शास्त्रम् अर्थशास्त्रम् । मनुष्याणां वृत्तिः ...

औपनिधिकम्

उपनिधिः ऋणेन व्याख्यातः ।परचक्राटविकाभ्याम् दुर्गराष्र्टविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्ते नाशे वा, ग्राममध्याजग्न्युदकाबाधे वा, किञ्चिदमोक्षयमाणे कुप्यमनीर्हार्यवर्जमेकदेशमुक्तद्रव्ये वा ज्वालावेग्गोपरुद्धे वा, नावि निमग् ...

भारतस्य अर्थव्यवस्था

भारतदेशस्य अर्थव्यवस्था डॉलरविनिमयानुसारेण जगति एकादश स्थाने वर्तते। चाणक्यस्य अर्थशास्त्रानुसारेण भारतदेशस्थाः काश्चन अर्थव्यवस्थाः प्रचलन्त्यः आसन् एवं कथ्यते। अर्थशास्त्रग्रन्थमाध्यमेन सामाजिकी-आर्थिकी-राजकीयव्यवस्थाविषये विष्णुगुप्तः विवरणं क ...

नाटकचक्रम्

नाटकचक्र स्य कर्ता भासः। सः सम्प्रतिविज्ञातनाटककृत्सु प्राचीनतमो मतः । तस्य हि नाटकचक्रे विंशत्यधिकनाटकानि सन्ति । इदं नाटकचक्रं प्रथमतो गणपतिशास्त्रिणा १९६६ मितवैक्रमाब्दे प्रकाशितं प्रमाणितञ्च तेषां भासकर्तृकत्वम् । तत्र त्रयोदशनाटकान्यासन्।

अमरकोशः

अमरकोशः कश्चन प्रसिद्धः शब्दार्थकोशः अस्ति। शब्दार्थकोशाः निघण्टुः इति कथ्यते। नि+घटि + णिच् "कुः" । अर्थान् निघण्ट्यत्यस्मात् निघण्टुः परिकीर्तितः। अत्र शब्दानां सङ्ग्रहः, समानार्थकाः पर्यायशब्दाः, अनेकार्थकाः शब्दाः च अत्र उपलभ्यन्ते । संस्कृते ...

वाचस्पत्यम्

वाचस्पत्यम् इति षटसु संपुटेषु पूर्णो महाशब्दकोषः । यस्य च रचयिता" तर्कवाचस्पति” रिति बिरुदाङ्कितस्तत्रभवान् तारानाथः । अस्य महाकोषस्य पीठिकायामेते ग्रन्थाः वा शास्त्रविषयाः वा मुद्रिताः –पाणिनीयं लिङ्गानुशासनं, व्याकरणीयानां मुख्यानां प्रत्ययानां ...

शब्दकल्पद्रुमः

शब्दकल्पद्रुमो राजराधाकान्तबहाद्दूरकस्य रचना । कल्पद्रुमः स्वर्गेऽस्तीति, स्वच्छायाम् आश्रितानां सर्वेषामप्यभीष्टार्थान् पूरयतीति च प्रसिध्दम् । एवमेव ये स्वाभीष्टशब्दानामर्थान् वा तदभिधानाभिधेयान् विचारान् वा प्राप्तुकामाः सन्त उपसर्पन्ति प्रकृत ...

संस्कृत-विश्वकोशाः

विश्वम्” इति प्रसिध्दस्य शब्दस्य न केवलं जगती अर्थः किं तर्हि ‘समस्तम्’ ‘सकलम्’ इत्यप्यर्थः समस्तीति न तिरोहितं प्रेक्षावताम् ।" विश्वेदेवता” इत्यस्मिन् किल शब्देऽर्थोऽयं कामं प्रतिष्ठितः । एतेन केनापि न भ्रमितव्यं विविधविषयसंकलनपूर्वकं ग्रन्थरचन ...

अम्बिकादत्तव्यासः

अम्बिकादत्तव्यासःAmbikadattavyasa सामवतनाटके स्वपरिचयं प्रस्तुवन्नाह- जातो जयपुरनगरे वाराणस्यां तथा कलितविद्यः। सत्वरकवितासविता गौडः कोऽप्यम्बिकादत्तः॥ जनकोऽस्य दुर्गादत्तः। अयं बिहारप्रदेशे संस्कृताध्यापनं कृतवान्। अस्य स्थितिकलः ई १८५८ तः १९०० ...

आधुनिक-उपन्यासरचयितारः

आधुनिककाले गद्यकाव्यम् उपन्यासेति संज्ञ्या ख्यातिं गतमस्ति । यदाह गद्यकाव्यमीमांसायाम् अम्बिकादत्तव्यासः - गद्यैर्विद्योतितं यत् स्याद् गद्यकाव्यं तदीरितम् । उपन्यासपदेनापि तदेव परिकथ्यते ॥ भट्ट मथुरानाथशास्त्री मेधाव्रताचार्यः उपन्यासकारः शिवदत् ...

भट्ट मथुरानाथशास्त्री

मञ्जुनाथेन रचितस्य उपन्याससाहित्यस्य संख्याविषये विद्वत्सु मतभेदो वर्तते। मञ्जुनाथवाग्वैभवाख्यग्रन्थस्य सम्पादकः डाँ० गङ्गाधरभट्ट एकस्यैव उपन्यासस्य आदर्शरमणीसंज्ञकस्य उल्लेखं कृतवान्। तस्मिन्नेव ग्रन्थे देवर्षि माधुरी शास्त्री असमसाहसाख्यं द्वित ...

आचार्यज्ञानसागरः

आचार्यज्ञानसागरः १८९१ तमे ईशवीयाब्दे राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जनी लेभे । जनकोऽस्य चतुर्भुजो जननी च धृतवारीदेवी । कविरयं १९५९ तमे ई०वर्षे जैनमुनिदीक्षां प्राप्तवान् । ततः पूर्वम् अस्य भूरामलशास्त्रीति नाम आसीत् । अयं ...

आधुनिक-महाकाव्यरचयितारः

आधुनिककाले महाकाव्यं रचितवतां परिचयः तैः रचितानां काव्यानां च परिचयः अत्र प्रस्तुतः अस्ति । सूर्यनारायणशास्त्री श्रीकृष्णभट्टः नित्यानन्दशर्मा मेधाव्रताचार्यः बालकृष्णदीक्षितः श्रीकृष्णरामभट्टः स्वामी हीरादासः भट्ट-जगज्जीवनः चण्डीदासः प्रभुदत्तशा ...

चण्डीदासः

चन्डिदासय Chandi Das जन्म १८०५ तमे ईशवीयाब्दे हरियाणाप्रदेशस्य पुन्डरीग्रामे अभवत् । अस्य पितुर्नाम दुर्गादत्तः इति आसीत् । कविः हृदये सरस्वत्याः प्रेरणामनुभूय जयपुरमागच्छत् । तदुक्त्तं तेन- तदैवान्तरयामिन्य सरस्वत्या हृदिस्थया । प्रेरितः पुत्र ग ...

नित्यानन्दशर्मा

नित्यानन्दशर्मा Nityananda Sharma १९४६ तमे विक्रमसंवत्सरे दाधीचब्राह्माणस्य माधव-कवीन्द्रस्य पुत्रत्वेन जोधपुरनगरे जनीं लेभे । अयं लाहौरनगरे ओरियन्टल-कॉलेजे अधीतवान् । तत्पश्चादनेन काव्यमालायाः सम्पादनकार्यं कृतम् । जोधपुरनरेशस्य प्रेरणया अनेन जो ...

प्रभुदत्तशास्त्री

प्रभुदत्तशास्त्री Prabhudatta Shastri १९४९ तमे विक्रमाब्दे जनीं लब्धवान् । अयम् अलवरसमीपस्थस्य ततारपुरग्रामस्य निवासिनः शालिग्रामस्य पौत्रः । अयं मण्डावरे अधीतवान् ।

बालकृष्णदीक्षितः

बालकृष्णदीक्षितः Balakrishna Dixit जोधपुरनरेशस्य अजितसिंहस्य सभापण्डितः आसीत् । अजितसिंहस्य शासनकालः १७०७ तः १७२४ क्रिस्ताब्दपर्यन्तम् । अतोऽस्य कवेः स्थितिकालः अष्टादशशतकस्य पूर्वार्धभागो निश्चीयते ।

भट्ट-जगज्जीवनः

भट्टजगज्जीवनोऽपि Bhattajagadjeevana जोधपुरनरेशस्य अजितसिंहस्य सभापण्डितः । बालकृष्णदीक्षितस्य समकालिकत्वात् अस्यापि स्थितिकालः अष्टादशशतकस्य पूर्वार्थभागः ।

मेधाव्रताचार्यः

आर्यसमाजस्य अनुयायी मेधाव्रताचार्यः १८९३ तमे ईशीयाब्दे महाराष्ट्रे येवलाग्रमे जनीं लब्धवान् । जनकोऽस्य जगज्जीवनो जननी च सरस्वती । अयमनेकत्र गुरुकुलेषु विद्यादानं कृतवान् । अस्य जीवनस्य सन्ध्याकालः चितौड्दुर्गनगरे आर्यसमाजगुरुकुले व्यतीतः । कविस्त ...

श्रीकृष्णभट्टः

श्रीकृष्णभट्टस्य Srikrishna Bhatta स्थितिकालः - १६७५ क्रिस्ताब्दतः १७६१ क्रिस्ताब्दपर्यन्तं स्वीक्रियते । अयम् आन्ध्रप्रदेशस्य तैलङ्गब्राह्मणपरिवारे जनिं लेभे । अयं जयपुरनरेशस्य द्वितीयजयसिंहस्य तत्पुत्रस्य ईश्वरसिंहस्य च सभापण्डितः आसीत् । तौ १६ ...

श्रीकृष्णरामभट्टः

फलकम्:Infobox settlemet जयपुराजवैद्यस्य कुन्दनस्य ज्येष्ठतनयः श्रीकृष्णरामभट्टः Srikrishnarama Bhatta १९०५ तमे विक्रमाब्दे जयपुरे जनिं लेभे । कविना जयपुरविलासकाव्ये स्वपरिचयः प्रस्तुतः । तद्यथा- येनाशिक्षी स जीवनाथगुरुतः काव्यप्रकाशाशयः छन्दश्चन् ...

सीतारामभट्टः

सितारामभट्टो Sitarama Bhatta जयपुराधिपस्य तृतीयस्य जयसिंहस्य सभारत्नमासीत् । जयसिंहस्य शासनकालः १८१८ तः १८३४ ईशवीयाब्दपर्यन्तम् आसीत् । अतः कवेरपि स एव स्थितिकालः । लक्ष्मण्भट्टोऽस्य जनक आसीत् । अयं कविः महाराष्ट्रियस्य विदुषो माधवभट्टस्य वंशजः ।

स्वामी भगवदाचार्यः

स्वामी भगवदाचार्यः Swami Bhagavadaacharya १८८० तमे ईशवीयाब्दे स्थलकोटनगरे जनि प्राप्तवान् । सम्प्रति इदं नगरं पाकिस्थाने वर्तते । अयं महात्मगान्धेः सिद्धान्तानामनुयायी आसीत् । भारते स्वतन्त्रे जाते अयम् आफ्रीकादेशे गान्धेः सिद्धान्तानां प्रचारं क ...

स्वामी हीरादासः

स्वामी हीरादासो Swami Haridas हरियाणाप्रान्तस्य भिवानीनगरे दादूसम्प्रदायावलम्बिनः । श्रीरामरत्नदासस्य शिष्य आसीत् । अयं १९४६ तमे विक्रमसंवत्सरे श्रीदादूरायमहाकाव्यं प्रणीतवान् । अयं १९६० तमे वैक्रमेऽब्दे दिवङ्तः ।

अप्पय्यदीक्षितः

अप्पयदीक्षितः संस्कृतवैय्याकरणः। मूलतः सः दक्षिणभारतीयः आसीत्। एषः ७२ वर्षाणि जीवितवान् इति शिवलीलार्णवग्रन्थे उल्लेखः वर्तते । संस्कृतव्याकरणस्य नव्य-शाखायाः सः जनकः मन्यते। सरलतया संस्कृतव्याकरणं विद्यार्थिभ्यः दातुं सः कानिचन महत्त्वपूर्णानि प ...

आलङ्कारिकाः

आलङ्कारिकाः काव्यस्य तत्त्वानां विवेचनं कुर्वन्ति। काव्यं कीदृशं भवेत्, तत्र किं किं भवेत्, किं किं न भवेत् इत्यादिकं चिन्तनं कर्तुम् आलङ्कारिकाः विवचनं कुर्वन्ति। भट्टिः, रुद्रभट्टः, भट्टभौतः, प्रतिहारेन्दुराजा, भट्टेन्दुराजा, महिमभट्टः, राजानति ...

उद्भटः

प्रसिद्धः अलङ्कारिकः उद्भटः काश्मीरदेशीयः । काश्मीरस्य राज्ञः जयापीडस्य आस्थाने एषः असीत् इति प्रवादः विद्यते । भामहस्य काव्यालङ्कारस्य उपरि व्याख्यानं लिखितवान् । अतः भामहस्य आनन्तरकालिकः इति स्पष्टं ज्ञायते । प्रायशह एषः ८ शतमाने आसीत् इति ऊहः ...

कविकर्णपूरः

कविकर्णपूरः एकः संस्कृतस्य अलङ्कारिकः वर्तते । एतस्य पितुः नाम शिवानन्दसेनः इति । क्रि श १५२४ तमे वर्षे काञ्चनपळ्ळ्याम् एतस्य जननम् अभूत् । एतेन चैतन्यहरितामृतम् अलङ्कारकौस्तुभः चैतन्यचरितोदयः इत्यादयः ग्रन्थाः रचिताः ।

कुन्तकः

निरन्तररसोद्गारगर्भसन्दर्भनिर्भराः । गिरः कवीनां जीवन्ति न कथामात्रसंश्रिताः ॥ इति कुन्तक नामा आलङ्कारिकः स्वस्य अलङ्कारशास्त्रग्रन्थे ’वक्रोक्तिजीवितम्’ नाम्नि उद्गिरति । कुन्तकः संस्कृतसाहित्ये एकः प्रसिद्धः आल्ङ्कारिकः वर्तते । एषः दशमे शतमाने ...

क्षेमेन्द्रः

क्षेमेन्द्रः - बृह्त्कथामञ्जर्याः रचयिता क्षेमेन्द्रः । गुणाढ्यः नाम कविः भूतभाषया बृहत्कथा नामकं कथाग्रन्थं रचितवान् आसीत् । तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृहीतवान् अस्ति । मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् ...

जगन्नाथः

जगन्नाथः संस्कृत भाषायाम् उत्तण्डकविरासीद् । सः शहजहान्सार्वभौमस्य आस्थाने कविरासीदित्यवगम्यते । पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तैलङ्गदेशावयवमुनागुण्डाभिधग्रामवासी वेजिनतीजातीयो जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम उप ...

दण्डी

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न ...

धनञ्जयः

दशरूपकस्य कारिकाकारः एव धनञ्जयः । धनञ्जयः एकः संस्कृत-कविः वर्तते । एतस्य कालः १० शताब्दः इति कस्मिँश्चित् शासने उल्लेखः विद्यते । एषः वाक्पतिराज्ञः आस्थाने सभापतित्वेन आसीत् । एतेन दशरूपकम् इति ग्रन्थः लिखितः ।

प्रतिहारेन्दुराजा

प्रतिहारेन्दुराजा एकः संस्कृतस्य कविः वर्तते । उद्भटस्य काव्यालङ्कारसारसंग्रहस्य उपरि लघुवृत्तिः इति एकम् व्याख्यानं लिखितवान् । एषः कोङ्कणप्रदेशीयः इति स्वयमेव उक्तवान् । एतस्य गुरुः मुकुलः ।स च सर्वशास्त्रप्रवीणः आसीत् इति ग्रन्थान्ते उल्लिखितव ...

भट्टभौतः

भट्टभौतः एकः संस्कृतकविः वर्तते । अभिनवगुप्तस्य गुरुः असीत् इति स्व्यं अभिनवगुप्तः एव अवदत् । एतेन काव्यकौतुकमिति ग्रन्थः लिखितः । तदुपरि अभिनवगुप्तः विवरणं लिखितवान् । परन्तु अद्य एतस्य कृतिः नोपलभ्यते । एतस्य कालांशः क्रि.शक १० शताब्दस्य उत्तरा ...

भट्टेन्दुराजा

भट्टेन्दुराजा एकः संस्कृतकविः विद्यते । एषः अभिनवगुप्तस्य गुरुः आसीत् । एषः एकः महान् आलङ्कारिकः, प्राज्ञश्च आसीत् इति लोचनग्रन्थे उल्लेखः वर्तते ।भट्टेन्दुराजा एव प्रतिहारेन्दुराजा इत्यपि श्रूयते ।

भरतः (नाट्यशास्त्रप्रणेता)

भरत मुनिः ५०० ई पू काले जीवन् नाट्यशास्त्रम् लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः: समीक्षात्मकमालोचनम् । नाट्यशास्त्रस्य रचनाकारः भरतः अत्र अभिप्रेतः । एते भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अतः तेषां विषये व्यक्तिगतं विवरणं न ...

भानुदत्तः

भानुदत्तः एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य कालः १५ शताब्दः । एतेन कुमारभार्गवीयम् अलङ्कारतिलकः चित्रचन्द्रिका रसतरङ्गिणी गीतगौरीशः रसमञ्जरी इत्यादयः ग्रन्थाः लिखिताः । रसमञ्जरी, रसतरङ्गिणी, अलङ्कारतिलकः एते अलङ्कारग्रन्थाः ।

भामहः

भामहः काव्यालङ्कारः इत्याख्यं ग्रन्थं रचितवान्। भामहस्य विषये अधिकविचाराः न उपलभ्यन्ते । परन्तु सः स्वयं तस्य ग्रन्थे कुत्रचित् अहं रक्रिलगोमिः इत्यस्य पुत्रः इति उल्लिखितवान् । रक्रिलः इति नाम बौद्धानां नाम इव विद्यते इति कारणतः एषः अपि बौद्धः स ...

मम्मटः

परिष्कारयुगस्य आदिमः आलङ्कारिकः मम्मटः । एषः महान् वय्याकरणः अपि आसीत् इति ज्ञायते । यतः तस्य ग्रन्थे बहुत्र महाभाष्यस्य उल्लेखः कृतवान् । मम्मटः काव्यप्राकाशः, शब्दव्यापारविचारः इति ग्रन्थद्वयं लिखितवान् ।काव्यप्रकाशकर्ता राजानकसंज्ञब्राह्मणाकुल ...

महिमभट्टः

महिमभट्टः एकः संस्कृतस्य आलङ्कारिकः विद्यते । एतस्य अन्यदपि नाम राजानकः इति आसीत् । एषः काश्मीरप्रदेशीयः । एतस्य पितुः नाम श्रीधैर्यः इति । एतेन व्यक्तिविवेकः इति ग्रन्थः लिखितः ।

मेधाविरुद्रः

मेधाविरुद्र स्य अपरं नाम मेधावी इति। सः अलङ्कारशास्त्रस्य प्रथमः प्रवक्ता । तस्य ग्रन्थस्तु सुम्प्रति नैवोपलभ्यते किन्तु तस्य अलङ्कारशास्त्रसम्बद्धसिद्धान्ताः यत्र तत्र समुद्धृताः सन्ति। काव्यशास्त्रस्य प्रथमाचार्यो हि भामहः तम् उद्धरति। यथा - ही ...

यज्ञेश्वरदीक्षितः

यज्ञेश्वरदीक्षितः अलङ्कारराघवम् इत्यस्य ग्रन्थस्य लेखकः अस्ति। अस्य पिता कोण्डुभट्टउपाध्यायः आसीत् । यज्ञेश्वरदीक्षितस्य जन्म आन्ध्रप्रदेशे चरकूरिनामके ग्रामे अभवत् । वेङ्कटेश्वरः अस्य पुत्रः प्रसिद्धः महान् कविः आसीत्। यज्ञेश्वरदीक्षितस्य कृतयः- ...

राजशेखरः

राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् । अयं राजशेखरो महाराष्ट्रदेशीय अकालजलदस्य पौत्रः दर्दुकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियकन्यां चौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । ...

रुद्रटः

ऱुद्रटः एकः संस्कृतकविः वर्तते । एतस्य शतानन्दः इत्यपि नामान्तरम् ।एतस्य पितुः नाम वामुकभट्टः इति । एषः सामवेदस्य पाठकः आसीत् । एतस्य मूलं स्थानं काश्मीरः आसीत् इति ऊहः क्रियते नामसाम्येन । रुद्रटः भामह-दण्डिनोरपेक्षया अधिकान् अलङ्कारान् प्रदर्शि ...